अतत्वावेदकत्वोक्तिरतो वेदे न शोभते

कार्यतावादनिराकरणम्

युक्तिमल्लिका

अतत्वावेदकत्वोक्तिरतो वेदे न शोभते ।

अतत्वावेदकस्तस्य गुरुरेवेति मे मतिः ।। ५१३ ।।

सुरोत्तमटीका

 अत उक्तरीत्या सकलवेदवाक्येषु प्रामाण्यस्यावश्यकत्वात् । अतत्वावेदकत्वोक्तिरप्रामाण्यापरपर्यायातत्वावेदकत्वकथनम् । तर्ह्यतत्वावेदकं किं स्यादित्यतस्सोपहासमुत्तरमाह ।। अतत्वावेदक इति ।। तस्य मायिनो गुरुरेवातत्वावेदकः अतत्वस्य बाधितस्य प्रमेयस्यावेदको बोधक इति मे मतिरिति सम्बन्धः ।। ५१३ ।।

सत्यप्रमोदटीका

 तर्ह्यद्वैतभाष्येऽपि सुबहुलमुपलभ्यमानोऽन्योन्य-विरोधोऽपि किमेवमर्थान्तरकल्पनेन परिहरणीयो, नेत्याह अतत्त्वावेदक इति । एवेति सदागमव्यवच्छेदः । अतत्त्वावेदक एवेति वा योजना । न तु तद्धाक्येऽविरुद्धार्थान्तरकल्पना । तदुक्तं ‘इतराणि विरुद्धानि प्रलम्भभ्रम-जान्यपि’ इति । विप्रलम्भादिमूलत्वेनाप्रामाण्यमेव तद्वाक्यानामिति भावः ।। ५१३ ।।

युक्तिमल्लिका

अकामः काम्यविधिना कुतो वा न प्रवर्तते ।

लिङ्लोट्तव्यप्रत्ययान्तपदोपेतविधेर्बलात् ।। ५१४ ।।

सुरोत्तमटीका

 द्वासुपर्णेत्यादिसिद्धार्थबोधकश्रुतिप्रामाण्यस्थैर्याय कार्यता-वादिन एव मुखेन सिद्धार्थबोधकत्वेनैव मानत्वं वाचयितुमाह ।। अकाम इत्यादिना ।। ५१४, ५१५ ।।

सत्यप्रमोदटीका

 द्वासुमर्णेत्यादिवाक्यानां भेदपरत्वं यदुक्तं तन्नो-पपद्यते । वाक्यसामान्यस्य कार्यपरत्वात् वेदानां सिद्धार्थपरत्वायोगात् । विधिप्रत्ययाभावे कार्यबोधासम्भवात् तदभावे प्रवृत्त्याद्यनुपपत्तेः नैराकाङ्क्ष्य-लक्षणवाक्यपर्यवसानस्यैवानुपपत्तेरिति प्राभाकरमतानुसारेणाशङ्क्य परिहरति चतुर्भिः अकाम इत्यादिना । इष्टसाधनताज्ञानाभावेऽपि विधिपदबोधित-पराभिमतकार्यताज्ञानेनैव प्रवृत्तिर्यदीत्यादौ उपस्कर्तव्यम् । अकामः वृष्टिकाम-रहितः स्वर्गकामनावान् । काम्यविधिना कारीर्या यजेत स्वर्गकाम इत्येवं-रूपेण । कुतो वेति । न तावत्त्वदभिमतस्य कार्यताबोधकस्य विधेर्विरहात् । यजेतेति लिङ्प्रत्ययान्तपदोक्तविधेरविकलत्वात् । तदाह लिङिति ।। ५१४ ।।

युक्तिमल्लिका

यदीष्टसाधनं तस्य तन्नेत्येवाप्रवर्तकम् ।

तर्ह्यावश्यकमिष्टस्य हेतुत्वं बोधयेद्धि यत् ।

तदेव वाक्यं मानं स्याल्लोटायुक्तं लटाऽपि वा ।। ५१५ ।।

सत्यप्रमोदटीका

 अथ स्वर्गस्य तदिष्टत्वेऽपि कारीर्यास्तदसाधनत्वान्न प्रवृत्तिरिति मन्यसे तर्हि इष्टसाधनताज्ञानस्यावश्यकत्वं त्वयैवाभ्युपगतमिति तद्बोधकमेव वाक्यं मानमिति नियमसिद्धिर्निष्प्रत्यूहेत्याह तदेवेति । तदुक्तं भगवत्पादैः ‘ज्ञात्वैव हीष्टसाधनतां प्रवर्तते निवर्तते च विपर्ययेणे’ति ।।५१५।।

युक्तिमल्लिका

यागे विधिः कृतो वेदे क्रियान्तरविधिं विना ।। ५१६ ।।

सुरोत्तमटीका

 क्रियान्तरविधिं कारीर्या स्वर्गकामो यजेतेत्यादिविधिम् ।। ५१६-५१८ ।।

सत्यप्रमोदटीका

 उक्तं नियमं विपक्षे बाधकप्रदर्शनेन द्रढयति याग इति । यागे दर्शपूर्णमासादौ । क्रियान्तरविधिं स्वर्गसाधनतारहितकारीर्यादि-क्रियान्तरविधिम् ।। ५१६ ।।

युक्तिमल्लिका

यद्यस्ति स्वर्गहेतुत्वं याग एवेति मन्यसे ।

तर्हि सिद्धविधेः पृष्टलम्बी तव विधिर्ह्यभूत् ।। ५१७ ।।

सत्यप्रमोदटीका

 याग एव दर्शपूर्णमासादौ । एवकारेण कारीर्यादि-व्यवच्छेदः । पृष्ठलम्बी सिद्धस्य स्वर्गस्येष्टत्वमुपजीव्य तत्साधनताबोधकत्वेनैव प्रवर्तकः ।। ५१७ ।।

युक्तिमल्लिका

अतस्तेनैव विधिना वाक्सर्वा मानतां व्रजेत् ।

अस्त्यायुरिति वाक्यं च नोचेन्मानं भवेन्न ते ।। ५१८ ।।

सत्यप्रमोदटीका

 तेनैव इष्टसाधनताऽवबोधकेनैव । मानतां नैराकाङ्क्ष्यलक्षणं पर्यवसानम् । ‘वाक्यार्थज्ञानमात्रेण क्वचिदिष्टं भवेदपि’ इत्यनुव्याख्यानमनुरुध्याह अस्त्यायुरिति । पुत्रस्ते जातः, पिता ते राजा वर्तते इत्यादिसुधोक्तं चानुसन्धेयम् । ते इत्यनेन इदं ध्वनयति । अस्य वाक्यस्य प्रामाण्यं वैयात्येन नाङ्गीकरोषि चेत्तव सद्योमृतिरापद्यत इति ।।५१८।।

युक्तिमल्लिका

तस्मादाचार्यतरणिसरणिश्शोभतेतराम् ।

यस्स्वान्वितिमिरान्कुर्वन्सदा हृद्व्योमि्न जृम्भते ।। ५१९ ।।

सुरोत्तमटीका

 अवैदिकाचार्यस्मरणदोषपरिहाराय स्वाचार्यं सूर्यतया वर्णयन्नुक्तमर्थमुपसंहरति ।। तस्मादिति ।। चार्वाकाद्युदितमार्गस्य सर्वस्या-प्रामाणिकत्वात् । आचार्यतरणिसरणिः मध्वाचार्याख्यतरणे स्सूर्यस्य मार्ग इत्यर्थः । तस्य सूर्यत्वमुपपादयति ।। य इत्यादिना ।। य आचार्यसूर्यः स्वान्स्वभक्तजनान्वितिमिरान्विगताज्ञानाख्यांधकारान्कुर्वन्हृद्व्योमि्न तदीय हृदयाख्याकाशे सदाजृम्भते । तस्याचार्यतरणेरिति पूर्वेणार्थतस्सम्बन्धः ।। ५१९ ।।

सत्यप्रमोदटीका

 दुर्वादानुवादप्रसक्तपापापनोदाय तत्पाटनपटुं श्रीमदा-चार्यं स्मरति तस्मादिति । यः तरणिः । मरणिः मार्गः । तरामित्यनेन सूचितं सूर्यादप्यतिशयं व्यनक्ति ।। स्वान् भक्तवर्गानेव । सूर्यस्य तु नायं विवेकः । सदा नक्तं दिवम् । सूर्यस्तु दिवैव । वितिमिरान् । आन्तरतमोरहितान् । सूर्यस्तु बाह्यतमोमात्रनिरासकः । हृद्व्योमि्न हृदयाकाशे । सूर्यस्तु बाह्याकाशमात्रगः । जृम्भते त्रिलोक्या बहिरपीति शेषः ।। ५१९ ।।