असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्
सत्यत्वे गीताभारतवाक्यानि
युक्तिमल्लिका
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसंभूतं किमन्यत्कामहैतुकम् ।। ५४ ।।
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ।। ५५ ।।
इति गीतासु हरिणा जगन्मिथ्यात्ववादिनाम् ।
जगतः क्षयकृत्ता च जगतोऽहितता तथा ।। ५६ ।।
उक्ता सोऽपि जगत्कर्ता हर्ता चोत्पथवर्तिनाम् ।
अतोऽतिभीतो यातोऽहं मतं सत्यत्ववेदिनाम् ।।
वेदानुमोदिनां वैरिभेदिनां तत्ववादिनाम् ।। ५७ ।।
सुरोत्तमटीका
कृष्णावतारकथयापि जगत्सत्यतां स प्रमाणीकरोति ।। असत्यमिति ।। सोऽपि कृष्णोऽपि । अतः जगन्मिथ्यात्वस्य कृष्णानभि-प्रेतत्वात् । अतिभीतस्स्वविनिन्द्रितमतपरिग्रहे मामपि हनिष्यतीति भयवान् ।। ५४५७ ।।
सत्यप्रमोदटीका
मिथ्यात्ववादस्य निरवकाशस्मृतिविरोधमाह असत्य-मिति । न चात्र असत्यशब्दः अत्यन्तासत्वपरः । अत्यन्तासत्वाभ्युपगन्तु-र्वादिन एवाभावात् आहुरित्यस्यायोगात् । शून्यवादिभिरपि सांवृतसत्यत्वाङ्गी-कारात् ।। ‘आसुरीं पार्थ मे श्रुणु’ इत्युपक्रमात् ‘ततो यान्त्यधमां गतिं’ इत्युपसंहारात् च अत्र मिथ्यात्वमतनिन्दा ज्ञायते । यद्वा ‘न निरोधो न चोत्पत्तिरिति गौडपादकारिकाव्याख्याने परेणैव ‘सतो हि घटादेरुत्पत्तिर्विनाशो वा दृष्टः । नासतः शशविषाणादेः’ इति जगतः शशविषाणदृष्टान्तोक्तिपूर्वकं अत्यन्तासत्त्वस्य भाषितत्वादियं निन्दा मायावादिविषयैवेति निर्धार्यते । अतिभीत इति । परतत्वप्रद्वेषपरत्वेन अस्य वादस्य महातमोहेतुत्वेन महा-तमोऽधिकरणे निर्णीतत्वात् ।। ५४५७ ।।
युक्तिमल्लिका
भवतीति हि भूरेषा तदभावः कथं वद ।। ५८ ।।
देहाभावे कथं वाक्ते तस्य सत्त्वेऽपि सा कथम् ।
निमित्तं कालकर्मादिकर्ता नारायणः प्रभुः ।। ५९ ।।
उपादानं तु सैवैका प्रकृतिस्त्रिगुणात्मिका ।
इति श्रुतिपुराणाद्यैर्जगतस्सृष्टिरीर्यते ।। ६० ।।
मायाख्या प्रकृतेरस्ति तेन मायामयाभिधा ।
प्राकृताख्या च जगतः प्रोच्यते तत्र तत्र हि ।। ६१ ।।
सुरोत्तमटीका
तस्य देहस्य सा देहमिथ्यात्ववाक् ।। ५८–६१ ।।
सत्यप्रमोदटीका
भूशब्दस्यैव विद्यमानार्थकत्वात् भुवः अभावः अविद्यमानतेति शब्दत एव व्याहतमित्याह भवतीति ।। वाक् उच्चारणक्रिया । कथं कारकाभावात् । देहेन्द्रियादेरेव तत्कारकत्वात् । सा सर्वं मिथ्येति वाक् । देहादावेव प्रामाण्यस्य भग्नत्वात् । सृष्ट्युक्त्याऽपि जगतः सत्यत्वं सिद्ध्यति इत्याह निमित्तमित्यादिना । सृष्टेरुपादानगोचरचिकीर्षीकृतिपूर्वकत्वनियमादिति भावः । त्रिगुणात्मिका गुणत्रयोपादानम् । ‘सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः’ इत्युक्तेः ।। माया इति आख्या । ‘मायेति प्रकृतिं विद्यात्’ इति श्रुतेः । एवं प्रकृतेः भगवदिच्छायाः । ‘प्रकृतिर्वासनेत्येव तवेच्छाऽनन्त कथ्यते’ इति प्रकृतिनये भाष्योक्तेः । तेन जडप्रकृत्युपादानकत्वेन भगव-दिच्छानिमित्तकत्वेन च । तत्र तत्र हि ‘मायामये वासनया शयानः’ इति भागवतादौ ।। ५८–६१ ।।
युक्तिमल्लिका
ब्रह्मज्ञाननिवर्त्यत्वमेषां न श्रूयते क्वचित् ।
अतो मिथ्यात्वमप्येषामाग्रहादेव केवलम् ।। ६२ ।।
सुरोत्तमटीका
एषां महदादीनाम् ।। ६२ ।।
सत्यप्रमोदटीका
एषां गुणत्रयस्य, भगवतः ज्ञानेच्छादिगुणानां, काल-कर्मादीनां च ।। ६२ ।।
युक्तिमल्लिका
मयाध्यक्षेण प्रकृतिस्सूयते सचराचरम् ।
इति प्रकृतिकार्यत्वं गीतोक्तमनुसंस्मर ।। ६३ ।।
सुरोत्तमटीका
अज्ञानविवर्तत्वाभावे केवलं प्रकृतिकार्यत्वे च प्रमाणं स्मारयति ।। मयेति ।। ६३ ।।
सत्यप्रमोदटीका
सत्यत्वे गीतां प्रमाणयति मयेति । अनेन वाक्येन सत्यत्वसिद्धिः श्रीसत्यध्यानतीर्थविरचिते सभासारसंग्रहे (भाग ५) द्रष्टव्या
।। ६३ ।।
युक्तिमल्लिका
अज्ञानोपादानकत्वाभावात्तन्न मृषा जगत् ।
अनाद्यनन्तकालेषु नैवास्योपरमः किल ।
कथं मिथ्यात्वमस्य स्याद्भ्रान्तिसिद्धत्वमेव वा ।। ६४ ।।
एवमेतदनाद्यं तं भूतसङ्घातकारकम् ।
अनादिनिधनं लोके चक्रं संपरिवर्तते ।। ६५ ।।
इति भारतवाक्येन ह्यनाद्यन्तत्वमुच्यते ।
अनन्तत्वादबाध्यं च जगद्ब्रह्मवदेव हि ।। ६६ ।।
सुरोत्तमटीका
तद्गीतावाक्यबलात् ।। ६४–६६ ।।
सत्यप्रमोदटीका
तत् सत्यकारणजन्यत्वात् । उपरमः स्वरूपेण निषेधः । अस्य प्रमाणसिद्धस्य ।। अनन्तत्वादित्युपलक्षणं अनादित्वादित्यपि ग्राह्यम् । तदुक्तं वादावल्यां ‘अनादिभावरूपस्य विज्ञानविलापनासम्भवाच्च ब्रह्मवदि’ति ।। ६४–६६ ।।