किं चेदं शबलत्वं ते किं मायाशबलत्वतः ।

मायाशब्दार्थाः
युक्तिमल्लिका

किं चेदं शबलत्वं ते किं मायाशबलत्वतः ।

उत सर्वेश्वरत्वादिसद्गुणांभोधिसम्भ्रमात् ।। ३१८ ।।

सुरोत्तमटीका

 अधुना नारायणस्य शबलब्रह्मतां वदन्तं प्रति किमिदं शबलत्वं नाम दोषरूपमायाशबलत्वं वा अदोषरूपमायाशबलत्वं वा ज्ञानादिशुभगुणशबलत्वं वेति विकल्प्याद्यमनङ्गीकारेण परिहृत्य द्वितीयतृतीयौ दोषानापादकतयाऽङ्गीकरोति ।। किं चेत्यादिना ।। ३१८ ।।

युक्तिमल्लिका

मायादूरत्ववाक्यानि पूर्वं धिक्कुर्वते मतम् ।

नित्यमुक्तत्वसिद्ध्यर्थं प्रागुक्तवचनानि च ।। ३१९ ।।

सुरोत्तमटीका

 मायादूरत्ववाक्यानि मायां व्युदस्य चिच्छक्त्येत्यादि-वाक्यानि । प्रागुक्तवचनानि ‘‘सत्वं रजस्तम इति गुणा जीवस्य नैव म’’ इत्यादिवचनानि ।। ३१९ ।।

युक्तिमल्लिका

अज्ञाने जीवगत्वस्यैवोक्तत्वाच्च न तन्मतम् ।। ३२० ।।

सुरोत्तमटीका

 अज्ञाने जीवगतत्वस्य अज्ञानं जीवाश्रितमित्यस्यार्थ-स्येत्यर्थः । उक्तत्वात् अहमज्ञ इति प्रत्यक्षेण निवर्त्यनिवर्तकयोस्समानदेशत्व-नियमादिति युक्त्या ‘‘अनादिमायया सुप्तो यदा जीवः प्रबुध्यते’’ इत्यादि श्रुत्या च समर्थितत्वात् । तन्मतं हरेर्दोषरूपमायाशबलत्वमतम् ।। ३२० ।।

युक्तिमल्लिका

हरेरिच्छाऽपि मायाख्या मायाख्या प्रकृतिर्जडा ।

भ्रमहेतुश्च मायैका मायेयं त्रिविधा मता ।। ३२१ ।।

सुरोत्तमटीका

 ननु तर्हि सैषा भगवतो मायेत्यादिवाक्यानां का गतिरित्यतो मायां विभज्य दर्शयति ।। हरेरिति ।। येयं पञ्चविधा माया तत्र इच्छाशक्तितेजोरूपदोषानापादकमायामादाय ‘‘इन्द्रो मायाभिः पुरुरूप ईयते’’ इत्यादि वाक्यानि प्रवृत्तानि । अन्यथा मायाभिरिति बहुवचनं व्यर्थं स्यात् । अतश्श्रुत्यापि दोषानापादकमायात्रित्वं सूचितमिति द्रष्टव्यम् ।। ३२१ ।।

युक्तिमल्लिका

हरेश्शक्तिश्च तेजश्च तथा मायापदोदिते ।

महामायेत्यविद्येति नियतिर्मोहिनीति च ।

प्रकृतिर्वासनेत्येवं तवेच्छाऽनन्त कथ्यते ।। ३२२ ।।

इत्थं पुरणवचनं तथा भागवते ध्रुवः ।

मायाख्यया स्वशक्त्येति मायाख्यां शक्तिमाह हि ।। ३२३ ।।

सुरोत्तमटीका

 इच्छाया मायाशब्दवाच्यत्वे प्रमाणमाह ।। महामायेति ।। स्वच्छन्दोपात्तदेहाय तस्येच्छयात्तवपुषः मायामनुज ईश्वरः इत्यादि भागवत वाक्यानामैकार्थ्यलाभायापि मायेछाशब्दौ पर्यायाविति गम्यते । मायाशब्दस्य भगवच्छक्तिवाचकत्वे प्रमाणमाह ।। तथेति ।। मायाख्ययास्वशक्त्येत्यनेन एकस्त्वमेव भगवानिदमात्मशक्त्या मायाख्ययोरुगणया महदाद्यशेषमिति वचनं संगृह्णाति । अत्र मायेत्याख्या नाम यस्यास्तयास्वशक्त्येत्यनेनेश्वरशक्तेर्माया शब्दवाच्यत्वं स्पष्टमुक्तमिति द्रष्टव्यम्

।। ३२२,३२३ ।।

सत्यप्रमोदटीका

 द्वितीये तु तत्सम्बन्धरूपं शबलत्वमनुमन्यत इति वक्तुं तदर्थान्सप्रमाणं वक्ति हरेरित्यादिभिः । इच्छार्थकत्वे प्रमाणमाह महा-मायेति । सम्भवाम्यात्ममायया’ ‘मायामात्रमिदं द्वैतमि’त्यादौ इच्छायां मायाशब्दस्य प्रयोगाच्च ।। भगवच्छक्त्यर्थकत्वे प्रमाणमाह मायाऽऽख्ययेति । अत्राऽऽख्याशब्देन स्पष्टं शक्तिवाचकत्वमवगम्यते ।। ३२३ ।।

युक्तिमल्लिका

अन्तस्स्थस्सर्वभूतानामात्मा योगेश्वरो हरिः ।

स्वमाययाऽऽवृणोद्गर्भं वैराट््याः कुरुतन्तवे ।। ३२४ ।।

यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघं चाप्रतिक्रियम् ।

वैष्णवं तेज आसाद्य समशाम्यद्भृगूद्वह ।। ३२५ ।।

इति भागवते सूतो मायेत्युक्त्वा पुनश्च ताम् ।

वैष्णवं तेज इत्याह स्वमाया किल सा हरेः ।। ३२६ ।।

सुरोत्तमटीका

 मायाशब्दस्य भगवत्तेजोवाचकत्वे प्रमाणमाह ।। अन्तःस्थ इत्यादिना ।। मायेत्युक्त्वा पूर्वपद्ये स्वमाययेति मायापदेनोक्त्वा ‘‘वैष्णवन्तेज आसाद्ये’’ति द्वितीयपद्ये वैष्णवन्तेज इत्याहेति सम्बन्धः । सा तेजोरूपा माया स्वमाया किल । स्वमायया वृणोद्गर्भमित्यत्र स्वमायापदेन कथनात् । स्वरूपभूता हि माया स्वमाया । इच्छादिरूपमायाविवक्षया स्वमाया स्वयोगमायेत्येव प्रायशः प्रयोगः । अन्यमायाविवक्षायां तु मायां व्युदस्य चिच्छक्त्येत्यादौ सामान्यत एव प्रयोगः । अतः प्रयोगवैलक्षण्येनापि मायाद्वैविध्यमूह्यत इति भावः ।। ३२४-३२६ ।।

सत्यप्रमोदटीका

 तेजोवाचकत्वे भागवतसंमतिमाह स्वमाययेति । अत्र मायाशब्दस्य तेजोऽर्थकत्वं उत्तरश्लोके तत्पर्यायतया तेजःपदप्रयोगादिति विशदयति इतीति ।। ३२४-३२६ ।।

युक्तिमल्लिका

इच्छादिरूपा या माया तया मायामयोऽस्त्वयम् ।

स्वच्छन्दवृत्तिता सर्वशक्तता च समर्थता ।। ३२७ ।।

सिद्ध्येन्महात्मनस्तेन मालिन्यं न हि किञ्चन ।

प्राचुर्यार्थो मयद्शब्दो वक्ति तैः पूर्णतां किल ।। ३२८ ।।

सुरोत्तमटीका

 इच्छादिरूपमायामादाय क्वचित्पुराणादौ हरेर्माया-मयत्वोक्तिरपि माहात्म्यसाधिकेत्युपपादयति ।। इच्छादिरूपेति ।। अयं भगवान् तेनेच्छादिरूपमायामयत्वेन मालिन्यं न हि । एतदुपपादयति ।। प्राचुर्यार्थ इति ।। तैरिच्छाशक्तितेजोभिः । पूर्णेच्छावत्त्वपूर्णशक्तित्व-पूर्णतेजस्त्वरूपमहिमापादक एव । मयटो विकारार्थत्वे कथं चिन्मालिन्यं स्यात् । तच्च विकारशब्दान्नेति चेन्न प्राचुर्यादिति सूत्रेण निराकृतम् । प्राचुर्यार्थत्वे उक्तरीत्या महिमैव न मालिन्यमिति भावः।।३२७,३२८ ।।

सत्यप्रमोदटीका

 अत्रोदाहृतप्रमाणेषु आत्ममायया, स्वशक्त्या, स्वमायया इति मायायाः शक्तेश्च स्वशब्देन आत्मशब्देन च विशेषणात्सर्वत्र स्वरूपभूतानि इच्छाशक्तितेजांस्येव ग्राह्याणीति ज्ञायते । इच्छादीत्यत्रादिपदेन शक्तितेजसोर्ग्रहः । अस्तु । तच्छबलत्वे उत्कर्षस्यैव सिद्धेः । तत्कथमित्यतः क्रमानुरोधेनाह स्वच्छन्देत्यादिभिः । सिद्ध्येदिति प्रत्येकमन्वयः । मालिन्यं अपकर्षः । न किञ्चनेति । मायाशब्दस्याज्ञानार्थकत्वे मयटो विकारार्थत्वे वा स्यात्कथञ्चिदपकर्षसम्भावना । तयोरर्थयोः प्रकरणविरुद्धतया तिरस्कारं सदृष्टान्तमाह न हीति । तथा च प्रकरणानुरोधेन मायाशब्दस्येच्छाद्यर्थकत्वे मयटः प्राचुर्यार्थकत्व एव चाश्रयणीये भगवतः सर्वोत्कर्ष एव संसिद्ध्यतीति भावः ।। ३२७-३२९ ।।

युक्तिमल्लिका

अनेकार्थपदस्यार्थो ग्राह्यः प्रकरणोचितः ।

न हि सैन्धवशब्देन वक्त्यश्वं भुक्तिकामुकः ।। ३२९ ।।

सुरोत्तमटीका

 मायामयेति शब्दस्य भगवति प्रयोगे दोषरूपमायाया अपि संग्रहः कुतो नेत्यत आह ।। अनेकार्थ इति ।। प्रकरणोचितः शुभप्रकरणे शुभार्थत्वं अशुभप्रकरणे अशुभार्थत्वमिति प्रकरणोचित इत्यर्थः ।। ३२९ ।।

युक्तिमल्लिका

मायां तु प्रकृतिं विंद्यान्मायिनं तु महेश्वरं ।

इति श्रुतौ तु या मायेत्युक्ता सा प्रकृतिर्जडा ।। ३३० ।।

सुरोत्तमटीका

 दोषरूपमायापि द्विविधा भ्रमकरी प्रकृतिरूपा चेति । तत्राद्यैव भगवत्यन्तानुपपन्ना । द्वितीयन्तु इच्छादिवत्स्वनिष्ठां न करोति । किंतु कुम्भकारो मृदमिव सृष्टिकाले तामुपादानीकृत्य जगत्सृजति । अन्यदातस्या-मप्युदास्त इत्याह ।। मायां तु प्रकृतिं विन्द्यादिति ।। ३३० ।।

सत्यप्रमोदटीका

 प्रकृतिरपि जडा क्वचिन्मायेति भण्यते । सा च जगदुपादानम् । भगवांस्तु तदध्यक्षः । अतो नियामकतया प्रकृतिरूपमाया-सम्बन्धेऽपि हरौ नापकर्षशङ्काऽवकाशमासादयतीत्याह माया त्वित्यादिभिः ।। ३३०, ३३१ ।।

युक्तिमल्लिका

सर्गादौ मायया विश्वं सृजतीति वचोऽपि च ।

मायाख्यां प्रकृतिं प्राह याऽस्योपादानकारणम् ।। ३३१ ।।

सुरोत्तमटीका

 मायाख्यां प्रकृतिं प्राह । नत्वनिर्वचनीयाविद्याख्यां पराभिमतां भ्रमकरीं मायाम् ।। ३३१ ।।

युक्तिमल्लिका

जगतो हेतुभूता तु माया सर्वगता शुभा ।

विकृताऽऽकारतोऽनित्या नित्या मूलस्वरूपतः ।। ३३२ ।।

सुरोत्तमटीका

 विकृताकारतः अनित्येति च्छेदः ।। ३३२ ।।

सत्यप्रमोदटीका

 विकृताकारतः अनित्येति च्छेदः । तुशब्देन पराभिमतानिर्वचनीयाविद्याया हेतुतां व्यवच्छिनत्ति । तस्या लक्षण-प्रमाणासम्भवेन दुर्निरूपत्वात् । तदुक्तं वादावल्यां ‘तस्मान्नाविद्यानिरूपण-गोचरतामाचरतीति कुतस्तत्कार्यमि’ति ।। ३३२ ।।

युक्तिमल्लिका

न सा भ्रान्तिकरी शुद्धा मुक्तामुक्तप्रदेशगा ।

सूक्ष्मरेणुमयी सा च तन्तुवायस्य तन्तुवत् ।। ३३३ ।।

वशगा यस्य देवस्य तया स शबलः कथम् ।

न हि स्वर्णकृतो हस्तस्सौवर्णश्शबलोऽपि वा ।। ३३४ ।।

नापि तन्तुमयी तन्तुवायमूर्तिरतः प्रभुः ।

अप्राकृतमहाकायो यद्रोम्णि प्राकृतं जगत् ।। ३३५ ।।

सुरोत्तमटीका

 सा भ्रान्तिकरी जीवनयनपिधानरूपमायावत् भ्रान्तिकरी न । अत एव शुद्धा । अत एव मुक्तामुक्तप्रदेशगा च । प्रकृतेस्सर्व-व्यापित्वादिति भावः । तस्यास्स्वरूपमाह ।। सूक्ष्मरेणुमयीति ।। तार्किकाभिमतपरमाणुतोऽप्यनन्तगुणितसूक्ष्मरेणुमयी । वशगा न तु तन्निष्ठत्वेन तस्य प्राकृतत्वापादिका । तया तटस्थया प्रकृत्या सः परमात्मा । तत्र दृष्टान्तमाह ।। न हीति ।। अतः प्रकृतेर्भगवन्मूर्त्याकारेणापरिणामात् ।। ३३३-३३५ ।।

सत्यप्रमोदटीका

 शुभत्वमुक्तं विवृणोति नेति । सर्वगत्वं विवृणोति मुक्तेति । भ्रान्तिकरत्वेनाशुद्धत्वे मुक्तप्रदेशगत्वानुपपत्तेरिति भावः । ‘यद्देशतोऽनन्तं तन्नित्यमेव प्रकृत्याद्यन्यदपि’ इति गीताभाष्यात्प्रकृतेः सर्वगतत्वमवगन्तव्यम् । सा वशगेत्युत्तरेणान्वयः । तन्तुवायस्येति । वशगत्वमात्रे दृष्टान्तः । परमात्मन इव तस्य स्वभावनियामकत्वाभावात् । वशगा न तु तद्देहोपादानभूता । शबलः प्राकृतदेहवत्त्वरूपदोषवान् । यथोक्तं भागवते

ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि ।

 तद्विद्यादात्मनो मायामि’ति ।

उपादानकारणं कर्तृशरीरसम्बन्ध्यपि न तदुपादानकारणमित्यत्र दृष्टान्तावाह न हीति । स्वर्णकृत इति षष्ठी । सौवर्णः सुवर्णोपादानकः । शबलः सुवर्णवृत्तिपाकद्रुतत्वादिविकारवान् । तन्तुवायमूर्तिः कुविन्ददेहः । तन्तुमयी तन्तुविकृता । तन्निष्ठच्छेददाहादिविकारवान् वा । अतः प्रकृतिस्वभावनियन्तृ-त्वात् । महाकायः अपरिच्छिन्नाप्राकृताकृतिः । ‘परो मात्रया तन्वा वृघाने’ति श्रुतेः । ‘इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरमि’ति स्मृतेश्च । यद्रोम्णीति । उक्तं च भागवततृतीयतात्पर्ये

एकमण्डं बहुत्वेन प्रत्येकं रोमकूपगम् ।

 ब्रह्माऽपश्यत्तथाऽऽत्मानं हरेस्तेषु पृथक् पृथक्’ इति ।

न हि कायैकदेशरोममात्राधारतया वर्तमाना प्रकृतिः कायोपादानमिति सम्भवतीति भावः । न चैवं प्रकृतेर्देशत आनन्त्यस्य हानिः इति वाच्यम् । तदानन्त्यमभ्युपगम्यैव ततोऽप्यतिशयितानन्त्यस्य परमात्मनि स्वीकारात् । आनन्त्येऽपि तारतम्यसद्भावेन निरवधिकानन्त्यस्य परमात्मन्येव सद्भावात् । अत एव महतो महीयानिति तल्लक्षणस्य न क्वाप्यतिव्याप्तिरिति ।। ३३५ ।।

युक्तिमल्लिका

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।

अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ।। ३३६ ।।

सुरोत्तमटीका

 एतादृशप्रकृतेरेव जगत्कारणत्वे भगवतस्तदमिश्रितत्वे च गीतावाक्यद्वयं प्रमाणीकरोति ।। भूमिराप इति ।। मे मदधीना प्रकृतिः पृथिव्याद्यष्टकार्यरूपेण भिन्ना विभक्ता । तथा चेदं जगत्प्रकृत्युपादानकमेव न तु पराभिप्रेताविद्योपादानकमिति भावः ।। ३३६ ।।

सत्यप्रमोदटीका

 न च प्रकृतेरुपादानत्वे परमात्मनस्तदध्यक्षत्वे च विवदितव्यं कृष्णेनैव स्वयं प्रोक्तत्वादिति तत्प्रतिपादकश्लोकद्वयं पठति भूमि-रित्यादिना । आद्यश्लोकेन प्रकृतिस्वरूपं, ‘मे प्रकृतिः’ इति प्रकृतेस्तदधीनत्वं चोच्यते । द्वितीयेन तस्या जगदुपादानत्वं परमात्मनस्तदध्यक्षत्वरूपं तत्साक्षात्कारपूर्वकतत्प्रेरकत्वं तदाधिपत्यं चोच्यत इति विभावनीयम् । हेतुना उपादानेन निमित्तेन चेति हेतुद्वयेन । एतेन ब्रह्म न केवलं निमित्तकारणं किं तु उपादानं चेति वदन्तो मायिनो निरस्ता ध्येयाः। परं केवलम्

।। ३३६, ३३७ ।।

युक्तिमल्लिका

मयाऽध्यक्षेण प्रकृतिस्सूयते सचराचरम् ।

हेतुनाऽनेन कौन्तेय जगद्विपरिवर्तते ।

इति कृष्णस्स्वयं प्राह प्रकृत्यध्यक्षतां परम् ।। ३३७ ।।

सुरोत्तमटीका

 अध्यक्षेण स्वामिना न तु तच्छबलितेन । अतः प्राक् मे प्रकृतिरित्यपि स्वस्य प्रकृतिस्वामित्वादेवोक्तमिति भावः । सूयते सूत इत्यर्थः । कार्याकारेण स्वस्या एव विकृतत्वात्सूयत इत्युक्तम् । विपरिवर्तते । विशेषेण परिवर्तते अनाद्यनन्तकालेषु चक्रवत्परिभ्रमतीत्यर्थः । परं केवलम् । एवं भगवता स्वस्य प्रकृत्यध्यक्षत्वस्यैवोक्तत्वान्न प्रकृतिरूपमायामादाय मायाशबलितत्वम् ।। ३३७ ।।

युक्तिमल्लिका

निमित्तमात्रं तत्रात्मा निर्गुणः पुरुषर्षभः ।

व्यक्ताव्यक्तमिदं विश्वं यत्र भ्रमति लोहवत् ।

इति वाक्ये निमित्तत्वमात्रोक्तेश्च न तन्मयः ।। ३३८ ।।

सुरोत्तमटीका

 अस्मिन्नर्थे भागवतवाक्यं पठति ।। निमित्तमात्रमिति ।। वाक्यस्य तात्पर्यमाह ।। इति वाक्य इति ।। वाक्ये भागवतवाक्ये । तन्मयः प्रकृतिशबलितः । जगदुपादानत्वे हि तन्मयत्वम् । तदेव न सम्भवति । कूटस्थस्य जगदाकारेण परिणामायोगात् । जगदुपादानभूतमायाशबलितत्वं च न वक्तव्यम् । निमित्तमात्रं न तूपादानमित्युपादानत्वस्य व्यवच्छेदाद्व्यर्थ-स्तच्छबलितत्वाङ्गीकार इति भावः ।। ३३८ ।।

सत्यप्रमोदटीका

 निमित्तमात्रं न तु परोक्तरीत्योपादानमपीत्याशयः । तन्मयः तद्विकारि । वाक्ये भागवतस्थे ।। ३३८ ।।

युक्तिमल्लिका

निर्गुणत्वोक्तितश्चाभूत्सा दूरे त्रिगुणात्मिका ।

आहायस्कान्तदृष्टान्तोऽप्यसक्तस्य नियन्तृताम् ।। ३३९ ।।

सुरोत्तमटीका

 सा प्रकृतिः । निर्गता गुणा यस्मात्स हि निर्गुणः । गुणमय्याः प्रकृतेः निर्गमनाभावे कथं केवलं गुणानामेव निर्गमनम् । नहि पटं विहाय पटरूपमात्रं निर्गच्छति । अतो निर्गुणत्वोक्त्या प्रकृतिदूरतापि सिद्ध्यतीति भावः । भ्राम्यमाणलोहस्योक्तत्वात् स्थलान्तरे ‘‘ग्राव्णे नमस्ते गुणकर्मसाक्षिण’’ इति स्पष्टमुक्तत्वाच्च तन्निमित्तायस्कान्तोऽप्यर्थादुक्त एव । अतः अयस्कान्तदृष्टान्तोऽपीत्युक्तम् । असक्तस्य कांस्यपात्रस्थलोह भ्रमणहेतु-भूतदूरस्थायस्कान्तवत् असक्तस्य प्रकृत्यादिलेपरहितस्य । यद्यप्ययस्कान्तवत् न ब्रह्मणो दूरस्थता व्याप्तत्वात् तथापि तत्कृतलेपाभावात् तत्स्थोऽपि दूरस्थ एवेति भावेनोक्तमसक्तस्येति । तदुक्तं गीतायाम् ।

‘‘मया तत मिददं विश्वं जगदव्यक्तमूर्तिना ।

  मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ।

  न च मत्स्थानि भूतानि पश्य मे योगमैश्वरमि’’ति ।

नियंतृतां व्यक्ताव्यक्तमिदं विश्वमित्यत्र व्यक्तपदोदितमहदादिकार्याणाम-व्यक्तदोदित प्रकृतेश्च नियंतृताम् । अतः केनापि प्रकारेण न भगवतः प्रकृतिशबलत्वमिति भावः ।। ३३९ ।।

सत्यप्रमोदटीका

 सा प्रकृतिः; तन्निमित्तकविकार इति यावत् । दूरे शङ्काय अप्यनर्हः । तत्र हेतुः निर्गुणत्वोक्तितः इति प्रकृत्यात्मकगुणत्रय-निमित्तकविकाराभावोक्तित इत्यर्थः । प्रकृतेः लेपकारणताऽवच्छेदकं रूपं गुणत्रयात्मकत्वम् । तस्यैवाभावे कुतस्तया लेपप्रसक्तिरिति भावः ।। अयस्कान्त दृष्टान्तः ‘यत्र भ्रमति लोहवत्’ इत्यनेनार्थाल्लब्धः ।। ‘ग्राव्णे नमस्ते’ इत्यन्यत्र कण्ठोक्तश्च । असक्तस्य तन्निमित्तकविक्रियाविधुरस्य । नियन्तृतां भ्रामकताम् । चेष्टकत्वमात्रे दृष्टान्तः । ईश्वरस्यान्तःस्थित्वा स्वेच्छया स्वातन्त्र्येण प्रेरकत्वात् । अयस्कान्तस्य तथात्वाभावात् । तदुक्तं

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।

 भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया’ इति ।। ३३९ ।।

युक्तिमल्लिका

तमसः पारगत्वं च श्रुत्या स्मृत्या च कीर्त्यते ।

अतो जगदुपादानमायाशबलता गता ।। ३४० ।।

सुरोत्तमटीका

 श्रुत्यादिकमप्यस्मिन्नर्थे कथयन्नुपसंहरति ।। तमसः पारगत्वमिति ।। श्रुत्या ‘‘वेदाहमेतं पुरुषं महान्तमादि’’त्यवर्णं तमसः परस्तादित्यादिकया । स्मृत्या ‘‘तमस्तदासीद्गहनं गभीरं यस्तस्य पारेऽभि-विराजते विभुरि’’त्यादिकया ।। ३४० ।।

सत्यप्रमोदटीका

 प्रलयकालीनं दुर्गाभिमन्यमानप्रकृत्यात्मकं यत्तमः तस्मादपि परत्वोक्त्या भगवतः प्रकृतिबद्धत्वाभावः सेत्स्यतीत्याह तमस इति । श्रुत्या ‘आदित्यवर्णं तमसः परस्तात्’ ‘तम आसीत्’ । ‘आनीदवातं स्वधया तदेकं’ इत्यादिकया । स्मृत्या ‘तमस्तदासीद्गहनं गभीरं यस्तस्य पारेऽभि-विराजते विभुः’ ‘ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते’ इत्यादिकया । अतः प्रकृत्यभिमानिमहालक्ष्मीनियामकत्वात् ।। ३४० ।।

युक्तिमल्लिका

विदितोऽसि भवान्साक्षात्पुरुषः प्रकृतेः परः ।

केवलानुभवानन्दस्वरूपस्सर्वबुद्धिदृक् ।। ३४१ ।।

इति भागवते कृष्णः प्रकृतेः पर एव सन् ।

केवलानुभवानन्दरूपस्स्पष्टं निरूपितः ।। ३४२ ।।

सुरोत्तमटीका

 इदानीं भागवतश्लोकेन भगवतो देहस्यापि मायाख्य-प्रकृतिशबलत्वं नास्तीत्युपपादयति ।। विदितोऽसीति ।। ३४१,३४२ ।।

सत्यप्रमोदटीका

 जातमात्रस्य कृष्णस्य ज्ञानानन्दतनुं दृष्ट्वाऽऽनक-दुन्दुभिना कृतेन स्तोत्रेण तस्य प्रकृतेः परत्वं निर्णीयत इति तत्स्तुतिरूपं भागवतश्लोकं पठति विदितोऽसीति ।। ३४१-३४३ ।।

युक्तिमल्लिका

स्वदृष्टमद्भुतं रूपं शिशोस्तस्य चतुर्भुजम् ।

इत्थमस्तौत्किल पिता दीप्तश्रीवत्सकौस्तुभम् ।। ३४३ ।।

सुरोत्तमटीका

 स्वदृष्टं स्वेन वसुदेवेन दृष्टम् । इत्थं प्रकृतेः परत्वेन केवलानुभवानन्दस्वरूपत्वेन च ।। ३४३ ।।

युक्तिमल्लिका

अतोऽप्राकृत एवाभूद्दिव्याकारो हरेरसौ ।

जडामिश्रसुखज्ञानात्मकहस्तांघ्रयुरोमुखः ।। ३४४ ।।

सुरोत्तमटीका

 अतः प्रकृतिपरत्वमुक्त्वा चतुर्भुजस्य तस्य केवलानु-भवानन्दस्वरूपत्वेन वर्णितत्वात् । ‘‘केवलानुभवानन्द’’ इत्यत्रोक्तकेवल-पदस्यार्थमाह ।। जडामिश्र इति ।। स्वरूपपदेन हस्तपादाद्याकारशरीर-मेवोच्यते । स्वरूपमात्रपरत्वे दृश्यमानाकारस्य प्राकृतत्वापातेन प्रकृतेः परत्वरूपविशेषणस्यासम्बद्धत्वापातात् । स्वरूपमात्रे प्रकृतिपरत्वस्य जीव-मात्रेऽपि सद्भावात् । अतस्स्वदृष्टभगवन्मूर्तेरेवेयं प्रशंसा ।। ३४४ ।।

सत्यप्रमोदटीका

 मूले केवलेत्यस्यार्थः जडामिश्र इति ।। ३४४ ।।

युक्तिमल्लिका

भ्रमहेतुस्तु या माया जीवे जीवे च सङ्गता ।

सा नैव श्रूयते देवे या जीवेऽपि न मुक्तिगे ।। ३४५ ।।

सुरोत्तमटीका

 एवं च जगदुपादानभूतमायाशबलत्वाभावे भ्रमहेतुभूत-मायाशबलत्वाभावः किमुवाच्य इति भवेनाह ।। भ्रमहेतुरिति ।। सा माया । या भ्रमकरीमाया मुक्तिगे जीवेऽपि न सेति सम्बन्धः ।। ३४५ ।।

सत्यप्रमोदटीका

 भ्रमहेतुरिति ‘अथान्ये प्रकृती दुष्टे नृषु प्रातिस्विकं स्थिते’ इति पूर्वोक्ता द्विविधा । ‘जीवे जीवे’ नृषु प्रातिस्विकम् । देवे जीवेऽपि नैव । नृषु इति विशिष्याधमजीवेष्वेवावस्थित्युक्तेः । देवेषु तन्निषेधलाभात् । न मुक्तिगे एकां हत्वा अपरां व्याधुट््य ‘मोक्षपदवीं ददाति पुरुषोत्तम’ इत्युक्तेः । स्वयं चेतनभूतमायाशब्दितदुष्टपिशाचनिरसनक्षमे नित्यमुक्ते हरौ किं पुनः तदनुपद्रवो वाच्यः । कुतस्तरां जडमायाऽनुपद्रवः । न हि स्वतःप्रकृत्तिरहितमचेतनं चेतनोत्तमं बध्नातुं प्रभवतीति भावः

।। ३४५, ३४६ ।।

युक्तिमल्लिका

किं पुनर्नित्यमुक्तेऽस्मिन्जडमायाऽनुपद्रवः ।। ३४६ ।।

सुरोत्तमटीका

 प्रकारान्तरेण कैमुत्यमाह ।। किं पुनरिति ।। भ्रमकर-तयाऽति क्रूरमायायाः भगवद्बाधनाऽसमर्थत्वे शान्ताया जगदुपादान भूत-मायायास्तद्बाधासामर्थ्यं किं वाच्यमिति भावः । देहादिरूपमायाया भ्रमकर-मायामूलम् । तदभावे अस्या अप्यभावः सुस्थ इत्यपि द्रष्टव्यम् ।। ३४६ ।।

युक्तिमल्लिका

विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया ।

विमोहिता विकत्थन्ते ममाहमिति दुर्धियः ।। ३४७ ।।

सुरोत्तमटीका

 भगवतो मायादूरत्वे स्पष्टानि भागवतवाक्यान्याह ।। विलज्जमानयेत्यादिना ।। अमुया प्राक्प्रस्तुतया मायया लोकदृष्टिविकल्पना लोकानां जीवानां दृष्टिं विकल्पयति भ्रमयतीति लोकदृष्टिविकल्पना

।। ३४७-३५१ ।।

सत्यप्रमोदटीका

 विलज्जमानयेति ‘कटाक्षेणापि वीक्षितुं न क्षमन्ते विमतयः’ इति न्यायसुधोक्तेः । ‘ते वै विदन्त्यतितरन्ति च देवमायां नैषां ममाहमिति धीः श्वसृगालभक्ष्ये’ इति च भागवतोक्तेः ।। ३४७ ।।

युक्तिमल्लिका

नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने ।

न यत्र श्रूयते माया लोकदृष्टिविकल्पना ।। ३४८ ।।

त्वमाद्यः पुरुषस्साक्षादीश्वरः प्रकृतेः परः ।

मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ।। ३४९ ।।

सत्यप्रमोदटीका

 लोकदृष्टिविकल्पना जीवानां यथार्थज्ञानभ्रंशकरी

।। ३४८, ३४९ ।।

युक्तिमल्लिका

स एव जीवलोकस्य मायामोहितचेतसः ।

विधित्सुस्स्वेन वीर्येण श्रेयो धर्मादिलक्षणम् ।। ३५० ।।

इति भागवते प्रोक्तचतुर्मुखमुखोक्तितः ।

कृष्णस्य बन्धकीभूतमायादूरत्वनिर्णयात् ।। ३५१ ।।

सत्यप्रमोदटीका

 जीवलोकस्य मायामोहापनोदनेन श्रेयोविधाने वीर्यवतः कथं स्वयं मायामोह इति भावः ।। ३५०, ३५१ ।।

युक्तिमल्लिका

न यत्र मायेत्याद्युक्त्या यल्लोकोऽपि न मायिकः ।

कथं मायामयाकारस्तल्लोकेशो भवेद्वद ।। ३५२ ।।

सुरोत्तमटीका

 भगवतः अमायिकदेहवत्त्वेयुक्त्यन्तरमाह ।। न यत्रेति ।। ‘‘न यत्र माये’’त्याद्युक्त्या न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिता’’ इत्युक्त्या । यल्लोकः यस्य कृष्णस्य लोकः । तल्लोकेशः अमायिकवैकुण्ठेशः ।। ३५२ ।।

सत्यप्रमोदटीका

 न यत्रेत्यनेन ‘न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः’ इति वैकुण्ठलोकस्य अप्राकृतत्ववर्णनपरं भागवतश्लोकं सङ्गृह्णाति । तल्लोकेशः लक्ष्म्यात्मकलोकाधिपतिः । ‘श्रीरेव लोकरूपेण विष्णोस्तिष्ठति सर्वदा’ इति गीतातात्पर्योक्तेः

।। ३५२ ।।

युक्तिमल्लिका

माया जया कृतिश्शान्तिरिति रूपचतुष्टयम् ।

श्रियोऽस्ति या हरेर्जाया वासुदेवादिरूपिणः ।। ३५३ ।।

सुरोत्तमटीका

 महालक्ष्म्या अपि मायाशब्दवाच्यत्वस्य पुराणादौ प्रसिद्धत्वात् सैव माया न तु त्वदीयानिर्वाच्याविद्येत्याह ।। मायेति ।। माया वासुदेवस्य पत्नी जया संकर्षणस्य, कृतिः प्रद्युम्नस्य, शान्तिरनिरुद्धस्य । तदेव स्पष्टयति ।। वासुदेवादिरूपिण इति ।। ३५३ ।।

सत्यप्रमोदटीका

 ‘स तु वासुदेवनामा बभूव निजमुक्तिप्रदाता । तस्याज्ञयैय नियताऽथ रमाऽपि रूपं बभ्रे द्वितीयमपि यत्प्रवदन्ति मायाम्’ इति भगवत्पादीयोक्तिमनुरुध्याह मायेति । या हरेर्जाया तस्याः श्रियो रूपचतुष्टयमस्ति इति योजना । आदिपदेन क्रमेण सङ्कर्षणप्रद्युम्नानिरुद्धाः जयाकृतिशान्तिपतयो ग्राह्याः ।। ३५३ ।।

युक्तिमल्लिका

नामधेयानि कुर्वंति स्थानानि च नरा भुवि ।

माया नारायणीशाना शारदेत्यम्बिकेति च ।। ३५४ ।।

सुरोत्तमटीका

 नामधेयानीति दशमस्कन्धे महालक्ष्मीं प्रति विष्णो-र्वचनम् । कानि नामधेयानीत्यत आह ।। माया नारायणीत्यादि ।। इति प्रभाष्येति तत्रैव दुर्गारूपमहालक्ष्मीवचनम् । ‘‘स्थानानि च नरा भुवी’’ति देवालयस्याप्युक्तत्वात् दुर्गैवेयं देवी न तु पराभिलषिताविद्या । तथात्वे उत्तरप्रत्युत्तरायोगात् । तयैव लक्ष्मीरूपमाययैव माया लक्ष्मीः अस्य वर्तत इति मायी लक्ष्मीधर इत्यर्थः । तया मायया लक्ष्म्याख्यमायया । अतो मायानिर्मितत्वेऽपि न जगतो मिथ्यात्वम् ।। ३५४-३५६ ।।

सत्यप्रमोदटीका

 दुर्गां प्रति श्रीविष्णोर्वचनं नामधेयानीति । स्थानानि देवालयान् । नारायणी ईशाना इति च्छेदः ।। ३५४ ।।

युक्तिमल्लिका

इति प्रभाष्य तं देवी माया भगवती भुवि ।

बहुनामनिकेतेषु बहुनामा बभूव ह ।

इति भागवतोक्त्या च माया दुर्गात्मिका रमा ।। ३५५ ।।

सत्यप्रमोदटीका

 दुर्गाया विष्णुं प्रति वचनं परामृशति इतीति । श्लोकद्वयेन सिद्धमर्थमाह मायेति ।। ३५५ ।।

युक्तिमल्लिका

या र्कैकर्यकरी तस्य सर्वदा सहचारिणी ।

तयैव मायी स जगन्निर्ममे मायया तया ।। ३५६ ।।

सत्यप्रमोदटीका

 एवकारेण अनिर्वचनीयाविद्याव्यावृत्तिः । एवं सति मायीत्यत्र मतुपा बोधितः सम्बन्धो नित्यसाहचर्यरूपः सम्पत्स्यत इत्याह सदेति । देशकालाभ्यां समव्याप्तेत्यर्थः । निर्ममे इति । ‘मम योनिर्महद्ब्रह्मे’त्याद्युक्तेः ।। ३५६ ।।

युक्तिमल्लिका

यो नः पिता विष्णुरसौ लोकमाता हि सेन्दिरा ।

तस्मात्स्वरूपमायेच्छा बाह्ये श्रीप्रकृती वशे ।। ३५७ ।।

सुरोत्तमटीका

 लक्ष्मीरूपमायाया एव जगत्कारणत्वे युक्त्यन्तरमाह ।। यो न इति ।। ‘‘यो नः पिता जनिता यो विधाते’’त्यादिश्रुत्या नोस्माकं पिता असौ विष्णुरित्यावृत्त्या योजनीयम् । सेन्दिरालोकमाता हि । ‘‘इन्दिरा लोकमातामे’’त्यभिधानप्रसिद्धिं हि शब्देन सूचयति । एवं च विष्णुर्मायया जगन्निर्मम इत्युक्ते विष्णोः पितृत्वेन माया लक्ष्मीरेव भवेत् । पिता हि पत्न््नया पुत्रं जनयति । नत्वन्येन । अतो मायापदेन सृष्टिसमये लक्ष्म्या एव ग्रहणं युक्त्यन्तरमेतत् । उक्तमुपसंहरति ।। तस्मादिति ।। इच्छेत्युपलक्षणम् । शक्तितेजसी अपि ग्राह्ये । बाह्ये विष्णुस्वरूपाद्वाह्ये भिन्ने इत्यर्थः । माये श्रीश्च प्रकृतिश्च श्रीप्रकृती वशे विष्णोर्वशे । अभिमन्यमाना जडमाया अभिमानिनी माया श्रीरिति विवेकः । तत्र श्रियस्सर्वदा हरिणा सहवासेऽपि न काचिदस्माकं हानिः । अन्यस्यास्सृष्टिसमये उपादानतया तत्समीपवासेपि न तस्य तया शबलत्वम् ।। ३५७ ।।

सत्यप्रमोदटीका

 ‘यो नः पिता जनिते’ति श्रुतिः । हिशब्देन ‘इन्दिरा लोकमाता मा’ इत्यभिधानम् । तथा च, स्वरूपभूता माया ज्ञानेच्छा-तेजःशक्त्यात्मिका एका, बाह्ये चिदचित्प्रकृती इति सम्भूय तिस्र एव मायाः इत्याह तस्मादिति ।। ३५७ ।।

युक्तिमल्लिका

चतुर्थां तु चतुर्थार्थी न स्मरेद्भ्रमदां हरौ ।। ३५८ ।।

सुरोत्तमटीका

 चतुर्थीं नयनपिधानभूतां भ्रमदांभ्रमकरीं हरौ न स्मरेन् । हरिनयने वा हरि समीपे वा तिष्ठतीति सृष्टिकाले वाऽन्यदा वा न स्मरेत् । किंतु अनाद्यनंतकालेषु जीवेष्वेव सा तिष्ठति । अतस्स्वरूपेच्छादिरूप-मायात्रयातिरिक्तबाह्यमायात्रयेणापि न विष्णोश्शबलत्वम् । परोदीरितमाया तु सप्तमरसायिता । तया शबलत्ववार्तापि नोचितेति भावः ।। ३५८ ।।

सत्यप्रमोदटीका

 चतुर्थां पराभिमतां अनिर्वचनीयां मायां भ्रमदां भ्रान्तत्वापादिकाम् । तुना तस्याः परैरपि प्रमाणदुर्घटत्वेन सर्वानुपपत्ति-भाजनत्वाङ्गीकारं सूचयति । चतुर्थार्थी चतुर्थपुमर्थरूपमोक्षार्थी । न स्मरेत् दूरे कथायां तदुपन्यासः । ‘किमन्यत्कामहैतुक’ इति तदनुसन्धानस्य तमो-हेतुत्वोक्तेः ।। ३५८ ।।

युक्तिमल्लिका

विज्ञानास्त्रेण यो मायामहरद्बाणमन्त्रिणः ।

अन्यैरहन्यमानां च सा कथं सात्वतर्षभे ।। ३५९ ।।

सुरोत्तमटीका

 लौकिकमायान्तरं वदन् तन्निराकरणसमर्थस्य भगवतो मायान्तरनिराकरणमपि समानन्यायत्वात् सिद्ध्यतीत्याशयेनाह ।। विज्ञाना-स्त्रेणेति ।। सा बाणमन्त्रिणो माया अन्या वा ।। ३५९ ।।

युक्तिमल्लिका

मयमाया हि सा सत्या मिथ्यार्थान्दर्शयेत्परम् ।

त्रिविधा देवमायेयं सत्या सत्यार्थकारिणी ।। ३६० ।।

सुरोत्तमटीका

 मयमाया हि मयेन दैत्यकारुणानिर्मिता मयमाया । सत्या मन्त्रौषधादि रूपत्वात् । मिथ्यार्थान्पर्वतादीन् । त्रिविधा स्वरूपे त्रिविधा बहिश्च त्रिविधा । देवस्य विष्णोस्स्वरूपभूता तदधीना च स्वयं सत्या सत्यार्थकारिणी च । दैत्यमाया भ्रमकरी माया च असत्यार्थदर्शिनीत्यपि द्रष्टव्यम् । सत्यार्थकरणाशक्तः ऐन्द्रजालिकादिर्नरतुरगादिमिथ्यार्थान्दर्शयेत् । शक्तस्तुराजान तथा किं तु सत्यानेव गजतुरगादीन्संपादयति । एवं सप्तमाया अपि सत्या एव जाताः ।। ३६० ।।

सत्यप्रमोदटीका

 सर्वासां दोषरूपाणां कुहकमायानां निरसनमाहात्म्यं भगवत आह । विज्ञानेति । मयो बाणमन्त्री । मिथ्येति । अर्थस्य दर्शितस्य मिथ्यात्वेऽपि दर्शनं भ्रान्तिः सत्यैवेति तस्या अपि सत्यार्थक्रियाकारित्व-मक्षुण्णमेवेति ध्येयम् । त्रिविधा पूर्वोक्ता । सत्यार्थकारिणी सत्यौ अर्थौ, वस्तु ज्ञानं, च तयोः हेतुः ।। ३६० ।।

युक्तिमल्लिका

तव त्वनिर्वाच्यमाया न सुरे नापि चासुरे ।। ३६१ ।।

सुरोत्तमटीका

 मिथ्याभूतमायां तु न कुत्रापि पश्याम इत्याह ।। तव त्विति ।। ३६१ ।।

सत्यप्रमोदटीका

 तुशब्देन ‘न चानिर्वचनीये किञ्चिन्मानमि’ति भगवत्पादोक्तिं सूचयति ।। ३६१ ।।

युक्तिमल्लिका

मदान्धे तु महादैत्ये गुरोरप्यवमन्तरि ।

तवोपमा कथञ्चित्स्यान्मिथ्यात्वं नास्तिता यदि ।। ३६२ ।।

सुरोत्तमटीका

 तव मायावादिन उपमा । कथंचिदित्यनेन तत्रापि मायायाः वस्तुगत्या न नास्तिता । किं तु वाङ्मात्रेणेति सूचयति । नास्तिता असत्त्वम् । नत्वनिर्वाच्यत्वम् ।। ३६२ ।।

सत्यप्रमोदटीका

 मदान्धत्वमेव द्योतयति गुरोरिति । अवमन्तरि ‘न च त्वं न चाहम् ।’ इति तत्स्वरूपापलपितरि । मिथ्येत्यस्यासदर्थत्वाङ्गीकारे गुरोस्तदुपदेशस्य चापलापः प्राप्त एवेति भावः ।। ३६२, ३६३ ।।

युक्तिमल्लिका

गुरुं च गुरुणा दत्तां विद्यामुद्यतधीरसौ ।

यतो धिक्कुरुते वाचा स आचार्यो भवेत्तव ।। ३६३ ।।

सुरोत्तमटीका

 तदेव दर्शयति ।। गुरुं चेति ।। धिक्कुरुते नास्तीति वदति तव स आचार्यः । गुरुदत्तमायाख्यविद्याया नास्तीति वादित्वात्

।। ३६३ ।।

युक्तिमल्लिका

अनिर्वाच्यत्वपक्षस्य त्वनिर्वाच्योऽपरो गुरुः ।

प्रच्छन्नबौद्धराद्धान्तो यत्त्वं सदसतोर्बहिः ।। ३६४ ।।

सुरोत्तमटीका

 अनिर्वाच्यमायापक्षस्य गुरुरनिर्वाच्यः वक्तुमशक्यः । त्रैलोक्येऽपि नास्तीत्यर्थः । तत्र हेतुमाह ।। प्रच्छन्नेति ।। यद्यस्मात् । सदसतोः सतो वैदिकादसतः पाषण्डिनश्च बहिः । प्रच्छन्नः बौद्धराद्धान्तो यस्मिन्स तथोक्तः । केवलं पाषण्डी न तद्राद्धान्तस्याच्छादनात् । वैदिकचिह्नवानपि वैदिकोऽपि न । अन्ततः बौद्धराद्धान्ताश्रयणात् । अतः वैदिकोऽपि न ते गुरुः नापि पाषण्डीति भावः । सदसतोर्बहिरित्यनेन उक्तरीत्या तवैव सदसद्विलक्षणत्वात् त्वन्मतस्य त्वमेव गुरुः । स्वकपोलकल्पितप्रमेयाङ्गीकारीति च सूचयति ।। ३६४ ।।

सत्यप्रमोदटीका

 अपरः सदसद्विलक्षणः । यत् यस्मात् त्वं मायी सदसतो बहिः । ‘न वेदाः । न वर्णाश्रमाचारधर्मा’ इति वेदवैदिकस्वरूप-प्रतिषेधात् सतः बहिः, आपाततः पाषण्डिमतनिराकरणनटनेन असतः बहिरिति उभयेभ्यो बहिष्कृतः ।। ३६४ ।।