अभावाधारतात्माऽयमर्धनारीश्वरो यतः

ब्रह्मणः सगुणत्वेऽनुमानानि

युक्तिमल्लिका

अभावाधारतात्माऽयमर्धनारीश्वरो यतः ।

तत्स्वाधारे स्थले मूर्धभूषां योषां न किं दिशेत् ।। ७६६ ।।

सुरोत्तमटीका

 प्रकारान्तरेणाप्यसिद्धिमनैकान्त्यं च परिहरति ।। अभावाधारतात्मेति ।। यतः अर्धनारीश्वरः अर्धनारीनरात्मकपरमेश्वर-वद्वर्तमानः । पूर्वभागस्याभावरूपतया रौद्रत्वात् । आधारताख्यकोमलभाव-रूपस्यान्ते वर्तमानत्वात् । इयांस्तु विशेषः । तस्य नारीशरीरार्धे । अस्य तु शिरसि । तत्तस्मान्मूर्धभूषां आधारताख्याम् । अभावद्वैतवादाद्वा पञ्चम-प्रकाराविद्यानिवृत्तिवद्वा अस्याप्यभावस्य मुक्तेऽपि परमात्मनि अस्तित्व-सम्भवान्नासिद्धिः । आधारत्वाख्यभावधर्मसत्त्वस्यापि हेतुमत्वावश्यकत्वान्ना-नैकान्त्यं चेति भावः ।। ७६६ ।।

सत्यप्रमोदटीका

 अर्धनारीनरेश्वरः पार्वतीपतिः गङ्गाधरः । अभावस्य अभावद्वैतवादे अभावधर्मसमुदायस्य, अविद्यानिवृत्तेर्वा आधारता आत्मा यस्य सोऽयं मुक्तत्वहेतुः । अत्र अभावस्थानीयो रुद्रः । आधारतास्थानीया पार्वती गङ्गा वा । स्वाधारे स्थले परमात्मनि । अतो नासिद्धिशङ्का । मूर्धभूषां उत्तरभागस्थां आधारतां भावधर्मवत्वरूपं साध्यम् । स्वाधारे स्थले हेत्वधिकरणे सर्वत्र । न किं दिशेत् स्थापयत्येव । अतो न व्यभिचारशङ्का । यत्र रुद्रस्तत्रार्धाङ्ग्याः पार्वत्याः मूर्धभूषाया गङ्गायाः वा स्थितिर्यथा तथा मुक्तत्वहेतुमति भावधर्मवत्त्वं साध्यं नियतमित्याशयः ।। ७६६ ।।

युक्तिमल्लिका

नित्यत्वं धर्मशून्यत्वं सरूपत्वमबाध्यताम् ।

ब्रह्मण्यानन्दरूपत्वमनानन्दविरोधिताम् ।

ज्ञानरूपत्वमज्ञानशून्यतां नित्यशुद्धताम् ।। ७६७ ।।

धर्मानेतान्विमुक्तानामप्यवश्यमपेक्षितान् ।

को वा निवारयेद्वादी शून्यत्वस्य निवारकान् ।। ७६८ ।।

सुरोत्तमटीका

 अधुना साध्यानङ्गीकारे बाधकान्याह ।। नित्यत्व-मित्यादिना ।। अत्र सर्वधर्मशून्यत्वं परस्य । अस्माकं तु पुण्यलक्षणधर्म-शून्यत्वम् । शून्यत्वस्य निवारकानित्यनेन उक्तधर्मानङ्गीकारे शून्यत्वं स्यादिति सूचयति ।। ७३७, ७३८ ।।

सत्यप्रमोदटीका

 मुक्तेः पुरुषार्थतासम्पत्तये तत्स्वरूपान्तर्गतानां नित्यत्वज्ञानानन्दादिधर्माणामनङ्गीकारे ब्रह्मणो मुक्तत्वव्याघात एवेत्याह नित्यत्वेत्यादिना । विमुक्तानामपि सर्वेषां सामान्यतः । अपेक्षितान् अन्यथा मोक्षस्य पुरुषार्थत्वहानिः । अपिशब्देन किमुत नित्यमुक्तपरमात्मनस्तद्धर्म-वत्वमिति ध्वनयति । वादीति । उक्तरूपमुक्त्यनङ्गीकारे समयप्रयोजना-भावाद्वादित्वमेव न स्यात् । न केवलं मुक्तत्वस्य किं तु वस्तुत्वस्यैव व्याघात इत्याह शून्यत्वनिवारकानिति ।। ७६७, ७६८ ।।

युक्तिमल्लिका

व्यावहारिकमस्तीति व्याहतेर्मूलभूरियम् ।

त्रिकालनास्तिता सेति ह्यस्तिता नास्तिताऽप्यभूत् ।। ७६९ ।।

सुरोत्तमटीका

 मुक्तपक्षीकरणात् तद्गतधर्माणां मुक्त्यवस्थायामप्यवश्य-मपेक्षितानां व्यावहारिकत्वशङ्कैव नोदेतीति तत्वम् । वैयात्याद्वदन्तं प्रति द्वेधा व्याहतिमाह ।। व्यावहारिकमिति ।। सा व्यावहारिकता ।। ७६९ ।।

सत्यप्रमोदटीका

 अथापि स्यात् । किं पारमार्थिकभावधर्मवत्त्वं साध्यते । उत व्यावहारिकतद्धर्मवत्त्वम् । नाद्यः अप्रसिद्धविशेषणत्वात् । दृष्टान्तः साध्य-विकलश्च । मया कुत्रापि भावधर्माणां पारमार्थिकत्वानङ्गीकारात् । न द्वितीयः । सिद्धसाधनात् । ब्रह्मणि व्यावहारिकभावधर्माङ्गीकारादिति । मैवम् । व्यावहारिकेति कोऽर्थः । सदिति उतासदिति । आद्ये फलितमस्मन्मनोरथद्रुमेण । द्वितीये व्याघात इत्याह व्यावहारिकमिति । सा व्यावहारिकता । इति त्वयाङ्गीकारात् । अभूत् धर्माणामिति शेषः । तथा च व्याहतिः स्फुटा ।।७६९।।

युक्तिमल्लिका

मुक्तत्वव्याहतिश्च स्याद्व्यावहारिकसङ्गमे ।

मुक्तादिस्स्यान्मुक्ततादिर्नेति च व्याहतेर्गृहम् ।। ७७० ।।

सुरोत्तमटीका

 मुक्तो भवति मुक्तत्वं नास्ति । नित्यो भवति नित्यत्वं नास्तीत्यादि प्रलपतोऽपि व्याहतिरेवेत्याह ।। मुक्तादिरिति ।।७७० ।।

सत्यप्रमोदटीका

 किं च व्यावहारिकत्वं नाम अविद्याकार्यत्वं परस्याभिमतम् । मुक्तिश्चाविद्यास्तमय इति च । तथा चाविद्यास्तमयेऽविद्येति प्राप्त्याऽपरा व्याहतिः । तदाह व्यावहारिकसङ्गमे इति । मुक्तशब्दस्य तत्र प्रवृत्तिमङ्गीकृत्य तन्निमित्तं मुक्तत्वधर्ममनङ्गीकुर्वतोऽन्या व्याहतिः इत्याह व्याहतेरिति ।। ७७० ।।

युक्तिमल्लिका

किं व्याहतिपुरन्ध्रीणां पाणिग्रहणमस्ति ते ।। ७७१ ।।

सुरोत्तमटीका

 बहुव्याहतभाषिणं प्रति वादिनमुपहसति ।। किं व्याहति पुरंध्रीणामिति ।। स्त्रीलिङ्गत्वाद्व्याहतीनां स्त्रीत्वम् ।। ७७१ ।।

सत्यप्रमोदटीका

 अपहसति किमिति ।। ७७१ ।।

युक्तिमल्लिका

विप्रस्स्याद्विप्रता नैव गोमान्स्याद्गौर्न काचन ।

धनी नैव धनं चेति को नून्मत्तो वदेद्वद ।। ७७२ ।।

सुरोत्तमटीका

 पूर्वोक्तव्याहतिदार्ढ्याय लौकिकोदाहरणान्याह ।। विप्रस्स्यादिति ।। ७७२ ।।

सत्यप्रमोदटीका

 सत्ताऽभावेऽपि सद्रूपं ब्रह्मेति परप्रक्रियां उन्मत्तोऽपि नाद्रियत इति अनेकदृष्टान्तैः कथयति विप्र इति ।। ७७२ ।।

युक्तिमल्लिका

तस्मान्निर्गुणतावाणी व्याहतिस्वैरिणीगृहम् ।

इदं नैव विशेत्साध्वी त्वत्सङ्गात्प्रविशेद्यदि ।। ७७३ ।।

स्वैरिणीसङ्गदोषेण स्वयं च व्याहता भवेत् ।

यत्स्वोक्तनिर्गुणत्वाख्यगुणेनैव व्यरुध्यत ।। ७७४ ।।

सुरोत्तमटीका

 निर्गुणश्रुतिबलाद्व्याहतमङ्गीक्रियत इति वदन्तं प्रत्याह ।। तस्मादिति ।। तस्माद्व्याहतभाषित्वात् । इदं मायिमतम् । साध्वी पतिव्रता अव्याहतार्थप्रतिपादननियमवतीत्यर्थः । त्वमेवोन्मत्तो व्याहतं वदसि न श्रुतिरेवं वक्तुमर्हसि । किं त्वनुकूलं कमप्यर्थव्याहतमेव वदेदिति भावः । त्वत्सङ्गात् तव बलाद्ग्रहणरूपसङ्गात् । स्वैरिणी सङ्गदोषेण स्वैरिणीनां व्याहतीनां संसर्गदोषेण । स्वपतिवदेकस्य प्रामाणिकधर्मस्य जारवत्तद्विरुद्धाप्रामाणिक-धर्मस्य चाङ्गीकाराद्व्याहतीनां स्वैरिणीत्वं द्रष्टव्यम् । निर्गुणश्रुतेः परोदीरितार्थ-कथने स्वव्याहतिमुपपादयति ।। यदिति ।। यद्यस्मात्सर्वधर्मशून्यत्वरूप-सकलगुणाभावं वक्तुमागता अन्ततस्स्वार्थभूतं निर्गुणत्वाख्यगुणमपि वदतीति व्याहत्याख्यविरोधमगमदित्यर्थः ।। ७७३, ७७४ ।।

सत्यप्रमोदटीका

 तर्कमाह यदीति । प्रविशेत् सर्वथा गुणाभावं प्रतिपादयेत्, इति आपादकम् । व्याहता भवेत् इति आपाद्यम् । तस्मान् नैव विशेत् । व्याहतिप्राप्तेः सर्वथा नैर्गुण्यं न प्रतिपादयति इति विपर्यय-पर्यवसानम् । यदिति आपाद्यापादकयोर्ञ्याप्तिप्रदर्शनम् ।। अनेन पूर्वोक्तानु-मानानां निर्गुणश्रुतेश्चानुग्रहः कृतो ध्येयः । तदुक्तं पद्धतौ ‘सोऽयं क्वचित्प्रमाणानामनुग्राहकोऽपि भवती’ति । भाष्ये च ‘कोऽत्रार्थोऽभिमतो भवेत् । इत्याद्यमूहनं तर्कः’ इति ।। ७७३, ७७४ ।।

युक्तिमल्लिका

यदि ब्रह्मणि नैर्गुण्यं धर्मं स्वार्थं समर्पयेत् ।

अनुमाऽनुग्राहकं सा मानं तर्हि भविष्यति ।

न स्थापयेच्च नैव स्यात्साधिका बाधिका मम ।। ७७५ ।।

सुरोत्तमटीका

 किं च निर्गुणश्रुतिः स्वार्थं निर्गुणत्वं ब्रह्मणि समर्पयति नवेति विकल्प्य प्रकारान्तरेण दूषयति ।। यदि ब्रह्मणीति ।। अनुमानग्राहकं अस्मदुक्तानुमानस्यानुग्राहकं सहायभूतमिति भावः । तथापि ब्रह्मणि गुणा-भावाधिकरणत्वरूपनिर्गुणत्वाख्यभावगुणस्य निरूपणादित्याद्यपक्षदूषणम् । द्वितीयपक्षं दूषयति ।। न स्थापयेच्चेदिति ।। ममानुकूलप्रतिकूलसगुणत्वनिर्गुण- त्वयोरुभयोरप्यप्रतिपादनात् साधिका बाधिका च नेति सम्बन्धः ।। ७७५ ।।

सत्यप्रमोदटीका

 ननु निर्गुणपदं निर्गुणत्वाख्यं धर्मं न ब्रह्मण्यर्पयति । येन व्याहतिः । किं नाम सगुणव्यावृत्तिमात्रं इत्याशङ्क्याह न स्थापयेच्चे-दिति ।। ‘न व्यावृत्त्या प्रयोजनम् । व्यावृत्तस्याविशेषत्वे’ । इत्यनु-व्याख्यानोक्तदिशा दूषयति नैव स्यात् साधिका बाधिका ममेति । व्यावृत्तिरपि व्यावर्तकधर्मार्पणेनैव सम्पाद्या । नेतरथा । तथा च व्यावर्तकधर्म-समर्पणेऽस्मदिष्टसिद्धिरेवेत्याह अनुमाऽनुग्राहकमिति । न चेद्व्यावृत्तिरूप-प्रयोजनस्यासिद्धिरित्याह न हीति । अच्छत्रिव्यावर्तको धर्मो ह्यातपनिवारकं छत्रम् । तच्चेच्छत्रिपदेन भृत्ये न बोध्यते नैव तस्याछत्रिव्यावृत्तिसिद्धिरिति भावः ।। ७७५, ७७६ ।।

युक्तिमल्लिका

न हि च्छत्रिपदं राजभृत्येच्छत्रमनादधत् ।

धर्मं निर्मूलयेत्तस्य च्छत्रच्छायाविरोधिनम् ।। ७७६ ।।

सुरोत्तमटीका

 तत्र लौकिकदृष्टान्तमाह ।। नहीति ।। छत्रिपदं राजभृत्ये स्वार्थभूतं छत्रमनादधत् छत्रच्छायामकुर्वदित्यर्थः । तस्य राजभृत्यस्य छत्रच्छायाविरोधिनं धर्मं नहि निर्मूलयेदिति सम्बन्धः । एवं लक्षणया प्रयुक्तानिर्गुणश्रुतिरपि निर्धर्मकतयाऽङ्गीकृते बह्मणि निर्गुणत्वरूपं धर्मम-समर्पयन्ती स्वार्थविरोध्यपि सगुणत्वं न बाधेतेति भावः ।। ७७६ ।।

युक्तिमल्लिका

न हीयं पूतना वाणी या शब्देनैव भीषयेत् ।। ७७७ ।।

सुरोत्तमटीका

 सगुणत्वविरोधिभूतनिर्गुणत्वाप्रतिपादने तु निर्गुण इति शब्दमात्रात् नमम भीरित्याह ।। न हीयं पूतनेति ।। याशब्देनैव मृति-कालीनार्तस्वरेणैव भीषयेत् सा पूतनेयं वाणी नहीति ।। ७७७ ।।

सत्यप्रमोदटीका

 इयं वाणी निर्गुण इति वाक् । शब्देनैव ध्यन्या-त्मकेन आक्रन्दनस्वरेण । एवकारेण पदवाक्यात्मकागमत्वं व्यवच्छिनत्ति । एतेन, न वयं अभेदं साधयामः किन्तु भेदं व्यासेधाम इत्यादि परप्रक्रिया निरस्ता । तद्विरोधिबोधनमन्तरेण तद्दूषणस्याशाब्दत्वादिति ।। ७७७ ।।

युक्तिमल्लिका

अतो निष्कारणं ब्रह्मधर्मानेतान्मनोरमान् ।

निषेधतो गतिस्सा स्याद्या धर्मैर्नैव साध्यते ।। ७७८ ।।

सुरोत्तमटीका

 अतो निर्गुणत्वश्रुतेस्स्वार्थानाधायकत्वात् । सा अन्धन्त-मोरूपा । धर्मैःपुण्यैः ।। ७७८ ।।

सत्यप्रमोदटीका

 निष्कारणं परतत्वे प्रद्वेषमन्तरा अन्यकारणं विना । स्यादेवेति योजना ।। ७७८ ।।

युक्तिमल्लिका

सुखरूपमितीयं वाक्सुखरूपत्ववादिनी ।

तद्योगादूपमप्याह न सा हि स्वाग्रहानुगा ।। ७७९ ।।

सुरोत्तमटीका

 अधुना भावरूपधर्मधर्मित्वलक्षणसाध्याभावे मुक्तत्व-रूपहेतूच्छित्तिमेव बाधकं वक्तुमुपक्रमते ।। सुखरूपमिति ।। तद्योगात्सुख-रूपत्वाख्य धर्मयोगात् रूपम् । सुखरूपव्यक्तिम् ।। ७७९ ।।

सत्यप्रमोदटीका

 सुखरूपब्रह्मभाव एव मुक्तिः । न तु सुखरूपत्व-रूपधर्मसम्पत्तिः । अतो ब्रह्मणो धर्मानङ्गीकारेऽपि न मुक्तत्वरूपहेतू-च्छित्तिरिति मन्दाशङ्कां पुनः परिहरति सुखस्पमित्यादिभिश्चतुर्भिः । इयं वाक् ‘आनन्दरूपममृतं यद्विभाति’ ‘ज्ञानरूपादृते हरेः’ इत्यादिश्रुति-स्मृतिरूपा रूपप्रतिपादिका वाक् । सुखरूपत्वेति सुखाख्यरूपवत्त्वेत्यर्थः । तद्योगात् मुक्तौ ब्रह्मणि उपसङ्क्रमणाख्यसम्बन्धात् । रूपं जीवस्यापि सुखरूपेणाभिव्यक्तिम् । स्वाग्रहानुगा मुख्यार्थानुपपत्तिं विनाऽपि स्वरूपमात्र-लक्षणां ब्रुवतः स्वस्य प्रतिवादिनो मायिनो, दुराग्रहमनुसृत्यार्थप्रतिपादनपरा ।। ७७९ ।।

युक्तिमल्लिका

विप्ररूपत्वशून्यो हि न शूद्रो विप्ररूपकः ।

सुखरूपत्वशून्यं यत्सुखरूपं च नैव तत् ।। ७८० ।।

सुरोत्तमटीका

 उक्तेऽर्थे दृष्टान्तमाह ।। विप्ररूपत्वेति ।। दार्ष्टान्तिकं योजयति ।। सुखरूपत्वेति ।। तत्तस्मात् अस्यार्थस्य लोके दृष्टत्वात् ।।७८०।।

सत्यप्रमोदटीका

 तद्वृत्त्यसाधारणधर्मं विना न तत्स्वरूपत्वमित्ये-तद्दृष्टान्तेनोपपादयति विप्रेति ।। ७८० ।।

युक्तिमल्लिका

सुखरूपार्थसद्भावे कथं तच्छब्दलक्षणा ।

जलप्रवाहरूपेऽर्थे किं गङ्गापदलक्ष्यता ।। ७८१ ।।

सुरोत्तमटीका

 सुखरूपत्वाभावे सुखरूपमपि नेत्यत्र ज्ञापकमाह ।। सुखरूपार्थेति ।। तत्र दृष्टान्तमाह ।। जलेति ।। ७८१ ।।

सत्यप्रमोदटीका

 मुख्यार्थस्यैव सद्भावे न लक्षणाऽवकाश इत्यत्र निदर्शनमाह जलेति ।। ७८१ ।।

युक्तिमल्लिका

अतो मुक्तिरमुक्तिस्स्यादियं तार्किकमुक्तिवत् ।

मुक्तत्वहेतोरुच्छित्तिस्साध्याभावे ततो ध्रुवा ।। ७८२ ।।

सुरोत्तमटीका

 अस्तु सुखरूपत्वाभावे सुखरूपस्याभावः प्रकृते किमित्यत आह ।। अत इति ।। अतः मोक्षे सुखरूपवस्त्वनङ्गीकारात् । ततस्सुखरूपत्वसुखरूपयोरविनाभावात् साध्याभावे भावधर्मधर्मित्वरूप-साध्याभावे सुखरूपत्व रूपधर्मस्याभावप्रसङ्गेन तदविनाभूतसुखरूपमपि ब्रह्म न स्यादिति मुक्तत्वहेतोरुच्छित्तिस्स्यात् । त्वदभिलषिता मुक्तिरेव नाभूदिति भावः ।। ७८२ ।।

सत्यप्रमोदटीका

 अतः सुखविषयकानुभववत्त्वरूपधर्मानङ्गीकारात् । तार्किकेति । तेनापि सुखरूपगुणानङ्गीकारेण तावन्मात्रेण त्वन्भुक्तिसाम्यम् । फलितमाह मुक्तत्वेति ।। ७८२ ।।

युक्तिमल्लिका

एवं च निर्गुणं ब्रह्म निर्गुणादिश्रुतेरपि ।

उक्तरीत्या बहिर्भूतमश्रौतभवद्ध्रुवम् ।। ७८३ ।।

सुरोत्तमटीका

 परमप्रकृतमुपसंहरति ।। एवं चेति ।। नञा परशुना शैवं ब्राह्मं वैष्णवं चेत्याद्युक्तरीत्या च ।। ७८३ ।।

सत्यप्रमोदटीका

 अश्रौतम् । श्रुत्यविषयः श्रुतिबाधितं च ।। ७८३ ।।

युक्तिमल्लिका

श्रुतिस्त्रीसङ्गशून्यं तद्ब्रह्म भिक्षुरभूत्तव ।। ७८४ ।।

सुरोत्तमटीका

 तत्तस्माद्विवाहवत् स्वाभाविकसम्बन्धरूपमुख्यवृत्त्या प्रतिपादकश्रुत्यभावात् सर्वथाऽवाच्यस्य लक्षणायामप्ययोग्यतयाऽमुख्यवृत्त्या प्रातिपादकश्रुत्यभावाच्च श्रुतिस्त्रीसङ्गशून्यं श्रुतिस्त्रीसम्बन्धमात्ररहितं तव ब्रह्म भिक्षुरभूत् स्वस्वरूपसिद्ध्यै प्रमाणान्तरगवेषणाख्यभिक्षाटनपरोऽभूत् ।।७८४।।

सत्यप्रमोदटीका

 भिक्षुः रावण इव तद्वेषधरः ।। ७८४ ।।

युक्तिमल्लिका

अन्यापोहेन तत्सङ्गे छद्मस्त्रीसङ्गदोषतः ।

भ्रष्टस्वधर्ममित्यार्यैस्त्यक्तं बाह्यानुपाश्रयत् ।। ७८५ ।।

सुरोत्तमटीका

 ननु स्वरूपमात्रलक्षणयाऽतद्व्यावृत्त्या वा ब्रह्मणोऽपि श्रुतिबोध्यत्वाङ्गीकारात्कथं प्रागुक्तभिक्षुत्वमित्यत आह ।। अन्यापोहेनेति ।। अन्यस्याः सर्वथामुख्यवृत्तेः त्रिगुणराहित्यरूपसम्भवन्मुख्यवृत्तेः अन्यस्य प्रतिपाद्यार्थादन्यस्यासत्यत्वादेश्चापोहेन त्यागेन । अन्यस्य मुख्यभर्तुरपोहेनेति ध्वनिः । तत्सङ्गे श्रुतिस्त्रीसङ्गे व्यभिचारवत् अयोग्यसम्बन्धेन सङ्ग इति यावत् । छद्मस्त्रीसङ्गदोषतः छद्मना स्वघटकमुख्यवृत्तिच्छादनेन सम्भवन्मुख्यवृत्ति-च्छादनेन भावतया लघुभूतसार्वजनीनसत्यत्वादिधर्मच्छादनेन च स्त्रीसङ्गा-च्छत्याख्य स्त्रीसङ्गात्प्राप्तदोषतः आवश्यकमुख्यवृत्तित्यागाख्यदोषात् सम्भवन् मुख्यवृत्तित्यागाख्यदोषात् बाह्यमतप्रवेशाख्यदोषाच्च । भिक्षोऽस्तु वेषान्तरेण स्त्रीसङ्गजातानृताब्रह्मचर्यदोषत इति ध्वनिः । भ्रष्टस्वधर्मं अपगतसत्यत्वादि स्वापेक्षितधर्मम् । अयोग्यसम्बन्धेन च ब्रह्मणः श्रुतिस्त्रीसङ्गो भिक्षोर्गार्हस्थ्यवत् न सभायोग्यो नापि भिक्षुत्वापादकः । स्वरूपमात्रलक्षणायामतद्व्यावृत्तौ च सत्यत्वादि ब्रह्मधर्माणां तव ब्रह्मणोऽपेक्षितनिर्गुणत्वैक्यादिधर्माणां च अलाभात् त्वयैव त्यागेन मानान्तरेणापि साधनायोगात् । इयांस्तु विशेषः । प्राग्भिक्षुरेव । इदानीमयोग्यसम्बन्धेन त्वद्दुष्प्रक्रियाख्यदूत्या पुनस्स्त्रीसङ्गाद्दुर्भिक्षुरिति । आर्यै श्शब्दार्थकुशलैर्विवेकिभिस्त्यक्तम् । अप्रामाणिकत्वादुपेक्षितम् । स्वोक्त-निर्गुणत्वैक्यसत्यत्वादिधर्माणामप्यपलापिनामुन्मत्तानामेव योग्यं सत् बाह्यात् शून्यवादिनः सर्वधर्मरहित शून्येन जीवैक्यवादिनः उपाश्रयदित्यर्थः । शशशृृङ्गं वा शून्यं वा ते ब्रह्म स्यात् न श्रौतमतयोग्यमिति भावः । दुर्भिक्षुरपि आर्यैस्त्यक्तः कापालिकादीनुपाश्रयत इति ध्वनिः ।। ७८५ ।।

सत्यप्रमोदटीका

 अन्यापोहेन प्रमाणसिद्धधर्मत्यागेन लक्षणाश्रयणेन । भ्रष्टस्वधर्मं अनुपपत्त्यभावेऽपि मुख्यार्थं परित्यज्य प्रमाणविरुद्धार्थे लक्षणाश्रयणेन त्यक्तवैदिकमर्यादम् ।। ७८५ ।।

युक्तिमल्लिका

अस्मद्ब्रह्माप्रतिद्वन्द्वं सर्वमानमनोरमम् ।

अनन्तसुगुणस्तोममुखेन परितो दिशम् ।

अपारोपनिषन्नारीमुखान्याचुम्ब्य जृम्भते ।। ७८६ ।।

सुरोत्तमटीका

 अनुमानफलमाह ।। अस्मद्ब्रह्मेति ।। निर्गुण-निराकरणादप्रतिद्वन्द्वम् । महत्त्वे सत्यलौकिकदिव्यरूपवत्त्वात् अव्यभिचरित-स्वातन्त्र्यादिलिङ्गवत्त्वात् सकलशब्दप्रवृत्तिनिमित्तवत्त्वाच्च सर्वमानमनोरमम् । लक्ष्म्याः वेदाभिमानित्वात् शृृङ्गारमुद्रया वर्णयति ।। अपारेति ।। वेदस्य वेदाभिमानिन्याश्रियो वेद्यस्य हरेश्च व्याप्तत्वात्परितो दिशमित्युक्तम् । वैदिक-पदानामनन्तत्वात् अपाराणि उपनिषन्नारीमुखानीत्युक्तम् । प्रतिपादक-तन्मुखयोग्यमुखानि प्रतिपाद्यगुणा एवेत्याशयेनोक्तम् अनन्तेति । अनेन श्रीश्रीशयोरपि विश्वरूपतया विश्वतोमुखत्वं च ध्वनितम् ।। ७८६ ।।

सत्यप्रमोदटीका

 अस्मद्ब्रह्म जिज्ञास्यं विष्ण्वाख्यं ब्रह्म । अप्रतिद्वन्द्वं चतुर्विधविरोधरहितम् । सर्वमानमनोरमं ज्ञानिप्रत्यक्षसद्युक्तिसदागमलक्षण-सर्वप्रमाणविषयः । अपारोपनिषन्नारीमुखानि अनन्तापर्याययौगिकपदानि । आचुम्ब्य परममुख्यवृत्त्या समन्वितं सत् । जृम्भते अनन्तगुणपरिपूर्णत्व-लक्षणब्रह्मशब्दप्रवृत्तिनिमित्तोपेततया प्रकाशते ।। ७८६ ।।

युक्तिमल्लिका

अतोऽनुकूलतर्काख्यमन्त्रिणा सर्वतो दिशम् ।

पालिता मेऽनुमानाख्यराजाज्ञा राजतेतराम् ।। ७८७ ।।

सुरोत्तमटीका

 अनुमानकथनमुपसंहरति ।। अत इति ।। अतः असिध्द्यव्याप्त्याख्यदोषरहितत्वात् । प्रागुक्ता व्याहतिरेवानुकूलतर्कः । वेदमन्त्रानुकूलत्वात् स एव मन्त्री । सकलमनोनुरञ्जकत्वादनुमैव राजा । तस्याज्ञा भगवतो भावधर्मधर्मित्वरूपा ।। ७८७ ।।

सत्यप्रमोदटीका

 अतः व्याप्तिपक्षधर्मताऽऽख्यसामर्थ्यद्वयोपेतत्वात् । पालिता अप्रयोजकत्वरूपशत्रुबाधो यथा न भवेत्तथेति भावः । राजाज्ञा सुदृढतया उल्लङ्घनायोग्या ।। ७८७ ।।