निरङ्कुशः कामभोगः फलं किल भवन्मते
चार्वाकमते विषयप्रयोजननिरासः
युक्तिमल्लिका
निरङ्कुशः कामभोगः फलं किल भवन्मते ।
तच्च तक्षकमौलिस्थरत्नाहरणयत्नवत् ।। २११ ।।
सुरोत्तमटीका
अधुना चार्वाकशास्त्रस्य प्रयोजनं निराकरोति ।। निरङ्कुश इति ।। निरंकुशः निरोधरहितः कार्याकार्यविभागरहित इत्यर्थः । कामभोगः स्त्रीचन्दनादिविषयभोगः । तच्च फलं तक्षकमौलिस्थरत्नाहरणयत्नवत् असाध्य-मेवेति भावः ।। २११ ।।
सत्यप्रमोदटीका
‘वक्तृश्रोत्रोरभिमतमनन्यसाध्यं फलमधिकृत्य तद्धेतुभूतं प्रमाणान्तराप्राप्तं अर्थं प्रतिपादयतां वाक्यानां समूहो हि शास्त्रमित्युच्यते’ इति तत्त्वनिर्णयटीकोक्तिं हृदि कृत्वा, प्रयोजनाद्यभावेनापि चार्वाकशास्त्रस्य शास्त्रत्व- मपाकरोति निरङ्कुश इत्यादिना । तथा हि । त्वदभिमतनिरङ्कुशकामोपभोगस्य शास्त्रफलत्वं न सम्भवति । तस्य लब्धुमेवाशक्यत्वादित्याह तक्षकेति ।। २११ ।।
युक्तिमल्लिका
धर्माङ्कुशस्य छेदेऽपि धनाभावाङ्कुशस्य न ।
तस्य निर्मूलनायास्ति धर्मः कोपि न ते मते ।। २१२ ।।
सुरोत्तमटीका
इदं च फलं दरिद्राणां शिष्याणां वा धनिनां वेति विकल्पं मनसि निधायाद्ये तदुपपादयति ।। धर्मेति ।। धर्माङ्कुशस्य धर्माख्याङ्कुशस्य । यथा गजमङ्कुशो निरुणद्धि एवमगम्यागमनादौ प्रवर्तमानं प्रति अयमधर्म इति निरोधक धर्मवादस्येति यावत् । धनाभावाङ्कुशस्य च्छेदकं नेति सम्बन्धः । सति धने निरङ्कुश कामोपभोगस्स्यात् । तदर्थं धनाभाव एव कथं परिहरणीय इति भावः । ननु धर्माभावबोधनेनास्माकमयमुपकारीति बुद्ध्या धनं लोका दद्युरित्यत आह ।। तस्येति ।। तस्य गुरुनिष्ठधनाभावाङ्कुशस्य । भवेदेतत् यद्युपकर्तुरनुपकारेऽधर्म उपकारे धर्म इति लोकानां बुद्धिस्स्यात् । साच त्वयैव त्याजिता । अतो गुरोर्धनाभावाङ्कुशच्छेदे नायमुपायः । किञ्च सति धने शिष्या धनं दद्युः । तेषामेव धनाभावाङ्कुशस्य छेदाय क उपायः । नतावत्प्राचीनं पुण्यं नाप्याधुनिकमुत्कटं पुण्यम् । उभयोरपि धर्माभाववादिना त्वयैव त्याजितत्वादित्याह ।। तस्येति ।। शिष्यनिष्ठधनाभावस्येत्यर्थः ।। २१२ ।।
सत्यप्रमोदटीका
किञ्चेदं फलं गुरोर्वा शिष्याणां वा, तत्रापि प्रेक्षावतामज्ञानां वा, तेष्वपि धनिनां निर्धनानां वा इति विकल्पान् खण्डयति धर्मेत्यादिना । कामोपभोगा न शास्त्रलभ्याः किन्तु धनलभ्या इत्यविवादम् । धनप्राप्तिश्च चौर्येण वा धनिपरिचर्यया वा स्यात् । तदुभयमपि गुरोः शिष्याणां च दुःखार्णवे निपतनपर्यवसायि कथं फलं स्यादित्याह त्रिभिः धर्मेत्यादिभिः ।। २१२-२१५ ।।
युक्तिमल्लिका
धनिनां परिचर्या वा चौर्यं वा कार्यते त्वया ।। २१३ ।।
सुरोत्तमटीका
तस्माद्गुरोः शिष्यस्य च धनाभावाङ्कुशच्छेदायायमेवोपाय इत्याह ।। धनिनामिति ।। धनार्थं धनिनां परिचर्या वा कार्यते त्वया च क्रियते ।। २१३ ।।
युक्तिमल्लिका
तच्च बन्धादिनिर्बन्धैर्मृतिभीतिगतागतैः ।
तेषां दुःखार्णवे मङ्तुमभूद्रन्तुं न कर्हिचित् ।। २१४ ।।
सुरोत्तमटीका
ततः किमित्यत आह ।। तच्चेति ।। तच्च धनिपरिचर्या-दिकं बन्धादिनिर्बन्धैः निगलबन्धादिनिर्बन्धैः अतिचौर्ये अत्यपराधेच मृत्या अनिष्टं भविष्यतीति भीत्या अतिदूरगतागतैश्च तेषां लोकानां तव च दुःखार्णवे मङ्तुं मज्जनं कर्तुमभूत् स्यात् । कर्हिचित् कदापि रन्तुं नाभूदिति सम्बन्धः ।। २१४ ।।
युक्तिमल्लिका
अतस्ते नैव मज्जेरन्भवच्छास्त्रमहोदधौ ।। २१५ ।।
सुरोत्तमटीका
अतस्त्वदुक्तनिरंकुशकामोपभोगाख्यफलासम्भवात्ते लोकाः भवच्छास्त्रमहोदधौ नैव मज्जेरन्।न श्लाघ्यं कुर्युरिति भावः।।२१५ ।।
युक्तिमल्लिका
धनिनस्तु मदेनान्धा प्रवर्तन्ते न ते मते ।
तेषां च न फलायालं तव शास्त्रप्रचोदना ।। २१६ ।।
सुरोत्तमटीका
ननु धनिनां भोगाय मद्बोधनं स्यादित्यत आह ।। धनिन इति ।। मदेन धनमदेनांधाः ते तव मते शास्त्रे न प्रवर्तन्ते । प्रवर्तन्तां वा यथाकथञ्चित् । तेषां प्रवर्तमानानां धनिनां च तव शास्त्रस्य प्रचोदना फलायाभिमतफलाय नालमिति सम्बन्धः ।। २१६ ।।
सत्यप्रमोदटीका
उन्मत्ताः प्रागेव रागेण भोगेषु लम्पटा धनिनो न त्वदुपदेशं प्रतीक्षन्त इत्याह धनिनस्त्विति ।। २१६ ।।
युक्तिमल्लिका
बहुभुक्तावजीर्तिस्स्याद्बहुपाने महोदरम् ।
बहुस्त्रीभोगतो रोगा यद्दृश्यन्ते पदे पदे ।। २१७ ।।
सुरोत्तमटीका
तदुपपादयति ।। बहुभुक्ताविति ।। त्वया धर्माभावे बोधिते दशपञ्चवारं योग्यायोग्यभक्ष्यभोज्यादीनां भोजनं कुर्युः । तथा च बहुभुक्त्याऽ-जीर्तिः स्यात् । तथा बहुपाने महोदराख्यव्याधिस्स्यात् । तथा बहुस्त्रीभोगतो रोगा शिश्नोपद्रवाद्याः । यद्यस्मात्पदेपदेक्षणे क्षणे दृश्यन्ते अतस्त्वच्छास्त्रप्रचोदना फलाय नालमिति पूर्वेणान्वयः ।। २१७ ।।
सत्यप्रमोदटीका
कथञ्चिल्लभ्योऽपि भोगो रोगमरणाद्यनर्थप्रापकत्वान्नैव प्रार्थनीयः इत्याह बहुभुक्ताविति ।। २१७-२२१ ।।
युक्तिमल्लिका
किं न भाराय महते बहुदारपरिग्रहः ।
परस्परविरोधाद्यैः पत्युर्मृत्युप्रदा हि ते ।। २१८ ।।
सुरोत्तमटीका
बहुस्त्रीसंग्रहलभ्यं दुःखान्तरं चाह ।। किं नेति ।। महते भाराय पोषणादिना धनबलहानिलक्षणमहाभारायेत्यर्थः । ते बहुदाराः
।। २१८ ।।
युक्तिमल्लिका
परस्त्रीभोगतः किं न शिरश्छेदादिकं भयम् ।। २१९ ।।
सुरोत्तमटीका
पापाभावबोधने परस्त्रीभोगोऽप्यवर्जनीय एव । तत-श्शिरश्छेदादिकं भयं न किमिति सम्बन्धः ।। २१९ ।।
युक्तिमल्लिका
दुःखोज्ज्ञितं सुखं प्रार्थ्यं न तु दुःखान्वितं सुखम् ।
दुःखोदर्कसुखेऽत्यल्पे को नून्मत्तः प्रवर्तते ।। २२० ।।
सुरोत्तमटीका
ननु दुःखसंकुलमपि किञ्चिद्वा सुखं मच्छास्त्राद्भवतीत्यत आह ।। दुःखेति ।। दुःखोज्खितं दुःखरहितम् । दुःखोदर्कसुखे दुःखोत्तर-फलके दुःखबहुलसुखे ।। २२० ।।
युक्तिमल्लिका
तस्मान्महानर्थसार्थसङ्कुलास्सुखविप्लुषः ।
न पे्रक्षावत्प्रवृत्त्यै स्युर्निवृत्त्यै स्युः परं विदाम् ।। २२१ ।।
सुरोत्तमटीका
महानर्थाः पूर्वोक्ताः तेषां सार्थाः समूहाः तैस्संकुलाः सुखविप्लुषः प्रेक्षावत्प्रवृत्त्यै न स्युः । तदुद्दिश्य प्रेक्षावन्तो न प्रवर्तन्त इति यावत् । विदां ज्ञानिनां परं निवृत्त्यै स्युः ।। २२१ ।।
युक्तिमल्लिका
अज्ञास्तु रागतो भोगे प्रवृत्ताः पूर्वमेव हि ।
न ते शास्त्रमपेक्षन्ते नापि धर्माङ्कुशाद्भयम् ।
रागोद्रेकाख्यदुष्प्रेक्षरूक्षहर्यक्षरक्षिणाम् ।। २२२ ।।
सुरोत्तमटीका
ननु पे्रक्षावतामनुपयोगित्वेप्यज्ञजनोपयोगित्वात् मच्छास्त्रं ग्राह्यमित्यत आह ।। अज्ञा इति ।। पूर्वमेव शास्त्रप्रवृत्तेरिति शेषः । ते अज्ञाः । नापि धर्माद्भयं तेषामित्यत्र हेतू रागेति ।। रागोद्रेकाख्यः दुष्प्रेक्ष्यश्च रूक्षश्चासौ हर्यक्षस्सिंहस्तद्रक्षिणामित्यनेन रागोद्रेकादेव धर्मांकुशाद्भयं नास्तीति सूचितम् ।। २२२ ।।
सत्यप्रमोदटीका
अज्ञानां प्रवृत्तिः न शास्त्रापेक्षेत्याह अज्ञास्तु इति ।। २२२ ।।
युक्तिमल्लिका
अतो निष्फलमेवाभूच्छास्त्रं ते क्लीबशस्त्रवत् ।। २२३ ।।
सुरोत्तमटीका
प्रयोजनाभावसाधनमुपसंहरति ।। अत इति ।। अतः पूर्वोक्तप्रकारात् क्लीबशस्त्रवत् नपुंसकशस्त्रवत् । यथा तस्मात्परघातादिप्रयोजनं नास्ति प्रत्युत स्वस्यैव करकंपादिना शस्त्रस्य पतने अनर्थश्चास्ति तथा-त्वच्छास्त्रान्न किञ्चित्फलं अनर्थस्तु महानिति भावः ।। २२३ ।।
सत्यप्रमोदटीका
तथा च निरङ्कुशभोगस्य फलत्वस्यैव अभावात्, लब्धुमशक्यत्वात्, अनन्यलभ्यत्वाभावात्, वक्तृश्रोत्रोरनभिमतत्वाच्च न प्रयोजनत्वमित्युपसंहरति अत इति ।। २२३ ।।
युक्तिमल्लिका
कस्तेऽधिकारी स्वस्थात्मा मत्तस्याप्यस्ति मृत्युभीः ।
विषयस्य विचारश्च युक्तितस्स्यान्न शक्तितः ।। २२४ ।।
सुरोत्तमटीका
अत एव नाधिकार्यपीत्याह ।। कस्त इति ।। स्वस्थात्मा स्वस्थचित्तः प्रेक्षावानिति यावत् । ते शास्त्रे कोऽधिकारी पूर्वोक्तानर्थशङ्कया न कोऽपि प्रेक्षावान्प्रवर्तत इति भावः । ननु मत्त एवास्मच्छास्त्रे अधिकारीत्यत आह ।। मत्तस्येति ।। मत्तोऽपि स्वशिरश्छेदादिना बिभेतीति भावः । इदानीं विषयं निराकरोति ।। विषयस्येति ।। प्रत्यक्षसिद्धेऽर्थे शास्त्रस्य वैयर्थ्यात् युक्त्या विचारयितुं योग्योऽर्थो विषयो भवति । युक्तिमनङ्गीकुर्वतः को वा शास्त्रस्य विषयो भवेदिति भावः ।। २२४ ।।
सत्यप्रमोदटीका
प्रयोजनाभावादेव तद्धेतुभूतविषयजिज्ञासोरधिकारि-णोऽप्यभाव इत्याह कस्ते इति । विषयोऽपि धर्भाभावो वा धर्मे प्रमाणाभावो वा । तदुभयमपि प्रत्यक्षेणैव सिद्ध्यतीति मतं उत तदितरप्रमाणाभ्यां इति विकल्प्य दूषयति विषयस्येत्यादिना ।। २२४ ।।
युक्तिमल्लिका
अक्षं स्यात्तवलीलायै न पक्षान्तरशिक्षणे ।
तच्च युक्त्याख्यशस्त्रेण नान्येनेति मतिर्मम ।। २२५ ।।
सुरोत्तमटीका
ननु अक्षादेव शास्त्रस्य विषयसिद्धिरित्यत आह ।। अक्षमिति ।। तव लीलायै कामिन्यादिभोगार्थं चतुरङ्गादिक्रीडायैवा अक्षं प्रत्यक्षं गजदन्तरचितलीलासाधनखण्डद्वयं वा उपयुक्तं स्यात् । न पक्षान्तर-शिक्षणे अयमेव विषयो नान्य इति पक्षान्तरनिराकरणे अक्षमुपयुक्तं न स्यादिति पूर्वेण सम्बन्धः । तत् पक्षान्तरशिक्षणम् । युक्तेश्च प्रामाण्यं नाङ्गीकृतमिति भावः ।। २२५ ।।
युक्तिमल्लिका
अक्षानुकूलस्स्यादर्थस्तद्विरुद्धस्तु नेत्यपि ।। २२६ ।।
सुरोत्तमटीका
ननु प्रत्यक्षानुकूलो विषयः तद्विरुद्धस्तु न विषय इत्या-शङ्क्य परिहरति ।। अक्षानुकूल इति ।। २२६ ।।
युक्तिमल्लिका
तथा सर्वत्र दृष्टत्वादिति युक्त्यैव सिद्ध्यति ।
युक्तेरमानता यस्य तस्य निर्विषयं मतम् ।। २२७ ।।
सुरोत्तमटीका
तथा अक्षानुकूलो विषयः तद्विरुद्धस्तु विषयो नेति सर्वत्र दृष्टत्वादिति युक्त्यैव सिद्ध्यतीत्यर्थः । युक्तेरमानता यस्य तस्य शास्त्रं निर्विषयं विषयशून्यम् ।। २२७ ।।
युक्तिमल्लिका
किञ्च दृष्टं समस्तं च दृष्ट्या सिद्ध्येन्न शास्त्रतः ।
अदृष्टं नास्ति चेत्तर्हि विषयस्ते विषं पपौ ।। २२८ ।।
सुरोत्तमटीका
प्रकारान्तरेण विषयं निराकरोति ।। किञ्चेति ।। त्वच्छास्त्रस्य दृष्टं वा विषयः अदृष्टं वा । नाद्यमित्याह ।। दृष्टमिति ।। नद्वितीयमित्याह।। अदृष्टमिति ।। नास्ति चेत् अनङ्गीकारान्नास्ति चेत् ते विषयः त्वच्छास्त्रस्य विषय इति यावत्।।२२८ ।।
युक्तिमल्लिका
धर्माभावोऽपि तत्वं चेत्प्रत्यक्षेणैव सिद्ध्यति ।
अतत्वं यदि तर्ह्यासीद्धर्मो निष्कण्टको मम ।। २२९ ।।
सुरोत्तमटीका
ननु धर्माभावश्शास्त्रैण बोध्य इत्यत आह ।। धर्मा-भावोऽपीति ।। तत्वस्य प्रत्यक्षैकवेद्यत्वाङ्गीकारात् । धर्माभावो यद्यतत्वं तर्हि तद्विरुद्धस्य धर्मस्य तत्वता स्यादिति मम धर्मो निष्कण्टको भवेत् । धर्मकण्टकस्य तवैव रीत्या मद्धर्मसिद्धेरिति भावः । उपलक्षणं चैतत् । धर्माभावस्यातत्वतायां नशृङ्गवत् विषयताच नेति ग्राह्यम् ।। २२९ ।।
युक्तिमल्लिका
नापि धर्मे प्रमाणस्याभावश्शास्त्रेण बोध्यते ।। २३० ।।
सुरोत्तमटीका
ननु धर्मे प्रमाणाभावश्शास्त्रेण बोध्यत इत्यत आह ।। नापीति ।। २३० ।।
युक्तिमल्लिका
सोऽपि तत्वं यदि तदा प्रत्यक्षेणैव सिद्ध्यति ।
अतत्वं चेद्धर्मशास्त्रमकण्टकमभून्मम ।। २३१ ।।
सुरोत्तमटीका
सोऽपि धर्मे प्रमाणाभावोऽपि । धर्मे प्रमाणाभावस्या-तत्वतायां तद्विरुद्धधर्मशास्त्रप्रामाण्यस्य बलादापातात् धर्मशास्त्रमकण्टक-मभून्ममेति भावः ।। २३१ ।।
सत्यप्रमोदटीका
प्रमाणान्तराप्राप्त एव खलु विषयः । स च प्रत्यक्षेण प्राप्तत्वे न सम्भवति । प्रमाणान्तरं तु तत्त्वावेदकं नास्त्येव । धर्माभावोऽतत्वं चेद्धर्मस्य तत्वरूपता त्वयैवाङ्गीकृता स्यादित्युपसंहरति सोऽपि तत्वमिति ।। तथा च साधूक्तं तत्वनिर्णये ‘‘समयप्रयोजनाभावात् नासौ समयी’’ति
।। २२५-२३१ ।।।। इति चार्वाकवादः ।।