यज्ञेन यज्ञमयजन्तेति वेदवचस्यपि

मुक्तानां बहुत्वे साकारत्वे तारतम्ये श्रुतयः

युक्तिमल्लिका

यज्ञेन यज्ञमयजन्तेति वेदवचस्यपि ।

उक्तोऽयमर्थो विस्पष्टं ततो मुक्ताः सहस्रशः ।

सन्ति नैकत्वमेतेषां यतोऽत्रानेकतोच्यते ।। २३६ ।।

तेषु पूर्वे पूर्वमुक्ताः पश्चान्मुक्तास्तथापरे ।

ज्ञातयोऽज्ञातयश्चेति ते मुक्ताः क्वचिदीरिताः ।। २३७ ।।

सुरोत्तमटीका

 इदानीं मुक्तानां बहुत्वे साकारत्वे तारतम्ये च श्रुतीराह ।। यज्ञेनेत्यादिना ।। यत्र नाकपदोदितमोक्षे पूर्वे साध्यादेवास्सन्ति । तत्र ते यज्ञनामकभगवत्पूजका देवाश्च सचन्तेत्युक्त्या मुक्तौ पूर्वापरत्वाक्रान्त-बहुदेवतासिद्धिरिति भावः ।। क्वचित्परंज्योतिरुपसम्पद्येति श्रुतौ । सहमुक्ता ज्ञातयः । अन्ये मुक्ता अज्ञातयः ।। २३६,२३७ ।।

सत्यप्रमोदटीका

 ‘यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमा-न्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ।’ इति वाक्येन मुक्तबहुत्वसिद्धिः, बद्धमुक्तव्यवस्था इत्यादिकं सिध्यतीत्याह तत इति । नाकशब्दस्य दुःखराहित्यविशिष्टसुखवाचित्वं च ‘अप्रियं वृजिनं दुःखमकं तोद इतीरितमि’त्यनुव्याख्यानेन बोध्यम् । ‘ज्ञातिभिर्वाऽज्ञातिभिर्वा’ इति श्रुत्या मुक्तेष्वेव विभेद उक्त इत्याह ज्ञातय इति । सहमुक्ता इत्यर्थः ।। पूर्वं मुक्ता अज्ञातयः ।। २३६,२३७ ।।

युक्तिमल्लिका

सखायः किल ते सर्वे मुक्तावपि मनोजवे ।

असमाः स्वच्छरूपत्वाद् ह्रदा इव मनोहराः ।। २३८ ।।

सुरोत्तमटीका

 अक्षण्वन्तःकर्णवन्तस्सखायो मनोजवेष्वसमा बभूवुः ।। आदघ्नास उपकक्षास उत्वे ह्रदा इव स्नात्वा उत्वे ददृश्र इति श्रुतेरभिप्रायमाह ।। सखाय इत्यादिना ।। ते मुक्ताः त्वे केचिन्मुक्तास्स्नात्वा स्नानयोग्या हृदा इव मनोहराः उ एव ददृश्रे ददृशिर इति श्रुतिखण्डार्थसूचनम् । हृदा इव मनोहरा इति दर्शनस्य स्वाभिन्नतां सूचयितुं श्रुतौ संश्लिष्टोच्चारणम् । उपलक्षणं चैतत् । केचिन्मुक्ताः उपसमीपे कक्षं वनं येषां ते उपकक्षास्त एवोपकक्षा-सश्श्वेतद्वीपस्थोपवनादौ विहरन्तः उ एव ददृशिरे । त्वे केचिन्मुक्ताः आदघ्नासः आ कण्ठपर्यन्तं कटिपर्यन्तं वा दघ्नं प्रमाणं यस्य । श्वेतद्वीपं परितो विद्यमानस्य क्षीरसमुद्रस्य । अर्शवानर्श इतिवत्तद्वन्त आदघ्नासः । क्षीर-समुद्रजले यथासुखं विहरन्त उ एव ददृशिर इति पदद्वयस्याप्यर्थो द्रष्टव्यः ।

एवं चादघ्नास इति विशेषणेन लोकसमीपस्थानां सामीप्यमुक्तानामुदा-हरणम् । उपकक्षास इत्यनेन लोकान्तस्थितसालोक्यमुक्तानामुदाहरणम् । हृदा इवेति तृतीयविशेषणेनातिगभीराणामपि पवित्राणामत्यन्तमनोहराणां च भगवतः करचरणाद्यङ्गाश्रितदेवादीनां सायुज्यमुक्तानामुदाहरणमिति विभागः । अनेनैव प्रकारेण वैकुण्ठलोकसमीपस्थसान्तानिकादिलोकेषु अनन्तासनलोक-समीपस्थघनोदके च रममाणास्सामीप्यमुक्ता लोके लोकस्थभगवदङ्गेषु च रममाणास्सालोक्यमुक्तास्सायुज्यमुक्ताश्च द्रष्टव्याः ।

सारूप्यन्तु यद्यपि सर्वेषां च मुक्तानामस्ति । निर्दुःखत्वनित्यज्ञानत्व-मुक्तत्वादिभगवद्धर्मसमानधर्मवत्त्वरूपसारूप्यस्याभावे समीपस्थत्वादिमात्रस्य सुखप्राप्तिदुःखनिवृत्त्योरन्यतरत्वस्याप्यभावेन सामीप्यादिभाजां त्रयाणामपि मुक्तत्वायोगात् । तथापि स्वर्गादिसमीपस्थप्रदेशेषु रममाणा मुक्तास्तस्या-सङ्कीर्णोदाहरणम् । तच्चान्यत्रोक्तरीत्या द्रष्टव्यम् ।। २३८ ।।

सत्यप्रमोदटीका

 ‘अक्षण्वतः कर्णवन्तः सखायः मनोजवेष्वसमा बभूवुः । आदघ्नास उपकक्षास उत्वे ह्रदा इव स्नात्वा उत्वे ददृश्रे । इत्यादीनि च वाक्यानि तारतम्यं विमुक्तिगम् । व्यक्तं वदन्ति तत्केन साम्यं मुक्तेषु गम्यते’ । (३-४-१६) इत्यनुव्याख्यानदिशा श्रुतिं व्याख्याति सखाय इति । ‘श्रुत्वा विष्णुं कर्णफलं प्राप्तत्वात्कर्णसंयुताः । अक्षण्वन्तो दर्शनाच्च विष्णो-र्मुक्ताश्च ये गणाः । तारतम्यं च तेषां च श्रुतावुदितमञ्जसा । क्षीरसागरदघ्नास्तु केचित्तिष्ठन्ति मुक्तिगाः । उपस्थिता ब्रह्मवनं केचिदश्वत्थमण्डलम् । ऐरे ह्रदे केचिदपि देवा एव सदा हरिम् । नागभोगशयं मुक्ता ददृश्रेऽधिकमोदिनः । सागरादिस्थिता विष्णुं पश्यन्ति क्वचिदेव हि’ इति ऐतरेयभाष्योक्तस्मृत्याऽस्य मन्त्रस्यार्थो ज्ञेयः । ‘क्षीरसागरदघ्नाः’ इति सामीप्यमुक्तिः । ‘उपस्थिता’ इति सालोक्यम् । ‘ऐरे ह्रदे’ इति सायुज्यम् । इत्येवं तारतम्योक्तिः ।। २३८ ।।

युक्तिमल्लिका

मनोज्ञकर्णवन्तश्च मनोज्ञाक्ष्यादिसुन्दराः ।

प्रत्ययो यत्प्रकृत्यर्थप्राशस्त्यं च वदेत्किल ।। २३९ ।।

प्रशस्तता च कर्णादेर्ज्ञानानन्दात्मतैव हि ।

अतो निराकारतैषां नैव वाच्या कदाचन ।

श्रोत्रनेत्रफलस्याप्तेरपि ते तत्पदोदिताः ।। २४० ।।

स्पष्टैतद्वाक्यबलतो यत्र त्वस्येति वागपि ।

उक्तरीत्या तर्कमुद्रामाश्रित्यैवेति गम्यते ।। २४१ ।।

सुरोत्तमटीका

 अक्षण्वन्तःकर्णवन्त इत्येतत्पदद्वयमङ्गान्तरस्याप्युप-लक्षणमिति भावेन तदर्थमाह ।। मनोज्ञेति ।। आदिपदेन करचरणादि-सर्वावयवा गृह्यन्ते । कर्णनेत्रसौन्दर्यस्य सर्वावयवसाचिव्ये सत्येव सम्भवादिति भावः । प्रत्ययो मतुप्प्रत्ययः । एषां मुक्तानाम् ।। २३९–२४१ ।।

सत्यप्रमोदटीका

 प्रत्यय इति ‘भूमनिन्दाप्रशंसासु भवन्ति मुतबादयः’ इत्युक्तमतुप्प्रत्ययः ।। तर्केति ‘यदि भेदो न स्याद् भोग एव न स्यादि’त्यादि तर्केत्यर्थः ।। २३९–२४१ ।।

युक्तिमल्लिका

मुक्तिकाले यतस्तेषां महिमान इति श्रुतौ ।

महिमोक्तः शून्यभावो मुक्तानामुचितो न तत् ।। २४२ ।।

सुरोत्तमटीका

 महिमान इति श्रुतौ ‘‘तेह नाकं महिमान’’ इति श्रुतौ । तत्तस्मात् ।। २४२ ।।

सत्यप्रमोदटीका

 न चेष्टापत्तिः ‘महिमानः सचन्त’ इति भोगादि-रूपमहिम्नः प्रमितत्वात् इत्याह महिमान इति ।। २४२ ।।

युक्तिमल्लिका

नन्दन्ति किल ते सर्वे क्लेशलेशश्च तेषु न ।

अतो मुक्तकथैवेयं तत्पूर्वा वाक्च मौक्तवाक् ।। २४३ ।।

सुरोत्तमटीका

 नन्वस्य प्रकरणस्य मुक्तपरत्वं कुत इति चेत्सर्वे नन्दन्तीत्युत्तरवाक्यबलादित्याह ।। नन्दन्तीति ।। न हि मुक्तेरन्यत्र सर्वे नन्दन्तीति घटते । उपलक्षणं चैतत् । सखाय इति पदेनोक्तसर्वसख्यस्य ‘‘ऋचां त्व’’ इति श्रुत्युक्तब्रह्मबाहुल्यस्य च मुक्तेरन्यत्रायोगात्तदपि ग्राह्यम् । अतो मुक्तकथैवेयमिति भावः । तत्तस्मात् । पूर्वा वाक् अक्षण्वन्त इति वाक्

।। २४३ ।।

सत्यप्रमोदटीका

 नन्दन्तीत्युत्तरश्रुतिबलान्मुक्तत्वनिश्चय इत्याह अत इति । पूर्ववाक् ‘अक्षण्वन्त’ इति वाक् मौक्ता मुक्तसम्बन्धिनी ।। २४३ ।।

युक्तिमल्लिका

परञ्ज्योतिरुपप्राप्य निष्पन्ननिजरूपवान् ।

पर्येति मुक्तिस्थानेषु स्त्रीभिर्यानैश्च संयुतः ।। २४४ ।।

रममाणो हसन् क्रीडन् ज्ञात्यज्ञातिजनैः सह ।

इति मुक्तस्य सौभाग्यं श्रुतिराह पदे पदे ।। २४५ ।।

अतो द्वितीयशून्यत्वमद्रष्टृत्वमवक्तृताम् ।

अश्रोतृत्वं श्रुतिप्रोक्तचित्रभोगेष्वभोक्तृताम् ।। २४६ ।।

सुरोत्तमटीका

 परञ्ज्योतिरिति श्रुत्यापि मुक्तसौभाग्यं प्रदर्शयन् स्पष्ट-दृष्टबहुतरनिरवकाशमेकं वाक्यं न पराभिप्रेतं बाधितमर्थं ब्रूत इत्याह ।। परञ्जोतिरित्यादिना ।। २४४–२४६ ।।

सत्यप्रमोदटीका

 ‘परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते । जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाऽज्ञातिभिर्वा’ इति श्रुति-र्मुक्तिमहिमानं वर्णयन्ती ‘यत्र त्वस्येति’ श्रुतेः परोक्तं निर्विशेषभावपरत्वं पराचष्टे इत्याह परमिति । न चेयं अपरममुक्तिविषया । शङ्कराचार्यैरपि परममुक्तिविषयतापरतया व्याख्यातत्वात् । विस्तरो भे.प.ब्र.सूत्राणि इति ग्रन्थे ।। भोगेषु विषयसप्तमी ।। २४४–२४६ ।।

युक्तिमल्लिका

शून्यवाद्युक्तमोक्षाभां मुक्तिं को नाम वैदिकः ।

ब्रूयाच्छ्रुतिं बाधितार्थां स्पष्टश्रुतिसमाख्यया ।

योग्यार्थे प्रणयेन्नो चेन्मीमांसा किं निबन्धना ।। २४७ ।।

अतश्छन्दसि मर्यादामेवमेवेति शाब्दिकः ।

नैवाह शब्दव्यत्यासं विभक्तिव्यत्ययादि च ।

अबाधितार्थलाभार्थमेव प्राह पदे पदे ।। २४८ ।।

सुरोत्तमटीका

 श्रुतिं यत्रत्वस्येति श्रुतिम् ।। २४७,२४८ ।।

सत्यप्रमोदटीका

 बाधितार्थां समाख्यया बाधितः परोक्तोऽर्थः यस्याः सा ताम् ।। शब्दव्यत्यासं नैवाह । विभक्तिव्यत्ययादि च अबाधितार्थ-लाभार्थमेवाहेति योजना । पदे पदे ‘व्यत्ययो बहुलं छन्दसि’ इत्यादौ ।। २४७,२४८ ।।

युक्तिमल्लिका

तस्मात्क्वाचित्कैक्यवाक्यमुपादाय बहुश्रुतीः ।

नोपेक्षयेत्तादृगर्थं तस्यैकस्य परं वदेत् ।। २४९ ।।

सुरोत्तमटीका

 तादृगर्थं बहुश्रुत्यनुकूलार्थम् ।। २४९ ।।

सत्यप्रमोदटीका

 उपेक्षयेत् स्वार्थान्न प्रच्यावयेत् । तादृगर्थं बहुश्रुत्यनु-गुणम् ।। २४९ ।।

युक्तिमल्लिका

व्यत्यासेन व्यत्ययेन वृत्त्या वा लोकसिद्धया ।

कथं मीमांसकस्यार्थः सर्वानुभवबाधितः ।। २५० ।।

सुरोत्तमटीका

 अर्थो मुक्तौ तस्करस्येव श्रोत्रनयनघ्राणहस्तपादादि-राहित्यरूपः ।। २५० ।।

सत्यप्रमोदटीका

 सर्वानुभवबाधित इति । ‘न हि भोगाभावः विज्ञातारमरे केन विजानीयादिति विज्ञातुर्विज्ञानं चापेक्षितमि’ति तत्त्व-निर्णयोक्तेरिति भावः ।। २५० ।।

युक्तिमल्लिका

यतः साधनवैचित्र्यं देवर्ष्यादिषु दृश्यते ।

अतः फलेऽपि वैचित्र्यं ततो मुक्ताः परावराः ।। २५१ ।।

सुरोत्तमटीका

 अधुना ‘‘सैषानन्दस्य मीमांसा भवती’’ति श्रुतौ मानुषानारभ्य विरिञ्चपर्यन्तं मुक्तावपि स्वरूपानन्दस्यैव तारतम्यकथनात् मुक्तानां तारतम्ये युक्तिमप्याह ।। यत इति ।। ततस्साधनवैचित्र्ये सति साध्यवैचित्र्यस्याप्यावश्यकत्वाच्च ।। २५१ ।।

सत्यप्रमोदटीका

 सैषाऽऽनन्दस्य मीमांसा भवति इति ब्रह्मवल्लीश्रुत्या सिद्धे आनन्दतारतम्ये युक्तिमप्याह यतः इति । तदुक्तमनुव्याख्याने ‘युक्तं च साधनाधिक्यात्साध्याधिक्यं सुरादिषु । नाधिक्यं यदि साध्ये स्यात्प्रयत्नः साधने कुतः । यतश्च दृश्यते तेषां महानेव महात्मनाम् ।। यत्र साधनबाहुल्यं साध्यबाहुल्यमत्र च । दृष्टं नियमतो नो चेन्न यत्नं कुर्युरञ्जसा’ इति ।।२५१।।

युक्तिमल्लिका

न चेन्मुक्तौ तारतम्यं कृतहान्यकृतागमौ ।

भवेतां हि महादोषौ भ्रान्ताश्च स्युर्महोद्यमाः ।। २५२ ।।

सुरोत्तमटीका

 विपक्षे बाधकमाह ।। न चेदिति ।। २५२ ।।

सत्यप्रमोदटीका

 कृतहानिः उत्तमाधिकारिणाम् । अकृताभ्यागमः मन्दाधिकारिणाम् ।। २५२ ।।

युक्तिमल्लिका

स्वरूपानन्दवैचित्र्यमीमांसां कुर्वती श्रुतिः ।

मुक्तानां तारतम्यस्यानङ्गीकारे प्रकुप्यति ।। २५३ ।।

सुरोत्तमटीका

 मुक्तानां तारतम्यं मिथो भेदः अनवच्छिन्नानन्दतयाऽन्ते कथितात्परमात्मनश्च भेदोऽपि सिद्ध इत्याह ।। स्वरूपेति ।। २५३ ।।

सत्यप्रमोदटीका

 श्रुतिः ‘अथात आनन्दस्य मीमांसा भवति’ इत्यादिका । मुक्तानां, ‘ते ये शतं’ इति निर्दिष्टानाम् । एवं ‘यतो वाचो निवर्तन्ते’ इति निर्दिष्टस्य ब्रह्मणश्च ।। २५३,२५४ ।।

युक्तिमल्लिका

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।

आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन ।। २५४ ।।

इत्यन्तोक्तपरब्रह्मस्वरूपानन्दपङ्क्तिगा ।

सर्वाप्यानन्दमीमांसा सा स्वरूपानन्दगोचरा ।। २५५ ।।

भवेद्धि सर्वथा नो चेत्प्रायपाठस्य का गतिः ।

प्रायपाठविरोधो हि महान् दोषो विदां मते ।। २५६ ।।

सुरोत्तमटीका

 अव्यवहितोत्तरोपसंहारवाक्ये प्रतिपादितब्रह्मस्वरूपा-नन्दप्रायपठितत्वात्सर्वाप्यानन्दमीमांसा स्वरूपानन्दमीमांसैवेत्याह ।। यत इति

।। २५४–२५६ ।।

सत्यप्रमोदटीका

 अत्र परब्रह्मानन्दस्तावत्स्वरूपानन्द एवेति सिद्धम् । तस्य नित्यमुक्तस्य प्राकृतानन्दाप्रसक्तेरेव । तत्प्रायपाठेन पूर्वोक्ता मनुष्योत्त-मादयोऽपि मुक्ता एवेति सिध्यतीत्याह इतीति ।। २५५,२५६ ।।

युक्तिमल्लिका

सत्यज्ञानानन्दपदैरानन्दमयचर्चया ।

उपक्रमेऽपि यद्ब्रह्मस्वरूपानन्द ईरितः ।। २५७ ।।

सुरोत्तमटीका

 उपक्रमेऽपि स्वरूपानन्दस्यैवोपक्रान्तत्वात् मध्येऽपि स्वरूपानन्दमीमांसैव भवेत् । उपक्रमोपसंहारानुगुण्येनैव मध्यप्रकरणस्यापि योजनीयत्वादित्याह ।। सत्येति ।। सत्यं ज्ञान (मानन्द)मनन्तं ब्रह्मेत्यप्यु-पक्रमवाक्यस्य शाखान्तरे सत्त्वादिति भावः ।। २५७ ।।

सत्यप्रमोदटीका

 न केवलमुपसंहारस्य किन्तूपक्रमस्य बलेनापि स्वरूपानन्दाध्यवसाय इत्याह सत्येति अनन्तपदोक्तस्यानन्दमयस्य स्वरूपानन्दपूर्णत्वस्यैवोक्तेः । ‘स्वरूपे च युज्यते प्रचुरप्रकाशो रविरिति-वदि’ति भाष्यवचनात् ।। २५७ ।।

युक्तिमल्लिका

अतो मध्ये कृता चिन्ता स्वरूपानन्दगोचरा ।

भवेदवश्यं संसारमात्रगोष्ठी कथं श्रुतेः ।। २५८ ।।

सुरोत्तमटीका

 युक्त्यन्तरं चाह ।। संसारेति ।। सांसारिकसुखे वैराग्यमुत्पाद्य मोक्षसुख एव रतिं जनयित्वा जनान् मोक्षमार्ग एव प्रवर्तयन्ती श्रुतिः कथं सांसारिकसुखमेव वर्णयेदिति भावः ।। २५८ ।।

सत्यप्रमोदटीका

 गोष्ठीति ।। तेन संसारिमात्रपरतया व्याकुर्वाणं रामानुजीयं भाष्यं प्रलापमात्रमिति ध्वनयति ।। २५८ ।।

युक्तिमल्लिका

तद्दृष्टान्ततया संसार्यानन्दोऽपि विचार्यते ।। २५९ ।।

सुरोत्तमटीका

 ननु भवन्मतेऽपि ‘‘श्रोत्रियस्य चाकामहतस्ये’’ति मौक्तसुखस्य सर्वत्र पृथगुच्यमानत्वात् स एको मनुष्यगन्धर्वाणामानन्द इत्यादिनोक्ततत्तदानन्दोऽपि मौक्तानन्द इति चेत्सत्यम् । संसारेऽपि तत्त-त्स्वरूपानन्दस्य तादृशत्वाभावे नियमेन क्रमाच्छतोत्तरो बाह्यानन्दोऽपि न स्यात् । तस्माच्छतोत्तरबाह्यानन्दक्रमनिदर्शनेन स्वरूपानन्दमेव सर्वानुभवारूढं कर्तुं बाह्यानन्दस्यापि कथनमित्याह ।। तद्दृष्टान्ततयेति ।। तेषां स्वरूपानन्दानां दृष्टान्ततया । यथा गृहाद्बहिर्निस्सरद्धूपधूमबाहुल्यतारतम्यनिदर्शनेन गृहान्त-रेऽपि तत्तारतम्यमनुभावयन्ति तथेति भावः ।। २५९ ।।

सत्यप्रमोदटीका

 संसार्यानन्दे तारतम्यस्येहैव दर्शनात्संप्रतिपत्ते-र्दृष्टान्ततयोक्तिरित्याह तदिति ।। २५९ ।।

युक्तिमल्लिका

तत्तद्रूपस्य तादृक्त्वाभावे बहिरयं क्रमः ।

कथं स्यान्नियमेनैव यो वेदेन प्रमीयते ।। २६० ।।

सुरोत्तमटीका

 तदेव दर्शयति ।। तत्तदिति ।। यः क्रमः स्वरूपा-नन्दरहितकल्पादिदैत्येषु बाह्यानन्दक्रमस्याप्यश्रवणाददर्शनाच्च स्वरूपवैचित्र्य-निमित्तमेवेदं बाह्यवैचित्र्यमिति भावः ।। २६० ।।

सत्यप्रमोदटीका

 तत्रापि विवादे बाधकमाह तत्तदिति । तदुक्तं भाष्ये यथा बालस्य सदेव पुंस्त्वं यौवनेऽभिव्यज्यते एवं सतामेवानन्दादीनां व्यक्त्य-पेक्षया तदुक्तिः । ‘बलमानन्द ओजश्च सहो ज्ञानमनाकुलम् । स्वरूपाण्येव जीवस्य व्यज्यन्ते परमाद्विभोरि’ति ।। २६० ।।

युक्तिमल्लिका

उक्तो हि मानुषानन्दो न सदा विद्यते नृणाम् ।

संसारिणां क्वचिद्दुःखमपि सम्भावितं यतः ।। २६१ ।।

अतस्तादृङ्मौक्तसुखं नियतं हि श्रुतेर्मतम् ।

न चेद्ब्रह्मादिजीवानां रूपस्यानन्दरूपता ।

केन सिद्ध्येद्यदि स्पष्टा श्रुतिरेषा बहिर्गता ।। २६२ ।।

सुरोत्तमटीका

 श्रुत्युक्तमानुषानन्दस्य नियमेन मनुष्येष्वदर्शनाच्च स्वरूपभूततदानन्द एव श्रुतेस्तात्पर्यमित्याह ।। उक्त इति ।।

नियतं नियमेन विद्यमानं तादृङ्मौक्तसुखं वित्तपूर्णसकलपृथिवीपरिपालन-दशायां चक्रवर्तिनो यत्सुखं तादृशं यन्मौक्तसुखं मुक्तिदशायामनुभूयमानसुखं श्रुतेर्मतमभिमतमिति सम्बन्धः । एवं च बाह्यानन्दस्य पूर्वस्माच्छतगुण-त्वेनोत्तरपदस्थस्वरूपानन्दस्यापि शतगुणत्वे सिद्धे स्वरूपस्यानपाया-च्छ्रोत्रियस्य श्रवणफलं प्राप्तस्याकामहतस्यावाप्तस्वयोग्यसकलकामस्य मुक्त-स्याप्यानन्द एव तादृश इति सर्वत्रापि वाक्यशेषस्य योजना द्रष्टव्या । न चेदेषा श्रुतिस्स्वरूपानन्दपरा न चेत् । रूपस्य स्वरूपस्य केन प्रमाणेन

।। २६१,२६२ ।।

सत्यप्रमोदटीका

 नियतत्वान्मौक्तानन्दस्येदं श्रुतौ तात्पर्यकथनं तत्रैव मुख्यमित्याह उक्त इति । केनेति । मुक्तेः तत्रानन्दस्य तत्तारतम्यस्य च श्रुत्येकगम्यत्वादिति भावः ।। २६१,२६२ ।।

युक्तिमल्लिका

कथं ब्रह्मसुखं तेषामवाङ्मनसगोचरम् ।

न हि तक्षकचूडास्थं रत्नमन्येन लभ्यते ।

अतस्तार्किकजीवाः स्युः सर्वे जीवास्तवापि हि ।। २६३ ।।

सुरोत्तमटीका

 ननु ‘‘यतो वाच’’ इति श्रुत्युक्तब्रह्मस्वरूपभूतानन्देनैव जीवानामानन्दरूपता सिद्ध्यतीत्यत आह ।। कथमिति ।। ब्रह्मादिजीवैर्मनसा स्मर्तुं वाचा वक्तुं चाशक्यमिति श्रुत्यैव प्रतिपादितं ब्रह्मसुखं कथं जीवानां स्यादिति भावः । तार्किकजीवाः आनन्दरूपत्वरहिततया तार्किकोक्तजीवाः ।।

सत्यप्रमोदटीका

 ‘यतो वाचो निवर्तन्ते’ इत्यत्रोक्त आनन्दो विष्णोरेव न मुक्तजीवानाम् । न च स साधनसहस्रेणापि प्राप्यः । ‘लक्षणं परमानन्दो विष्णोरेव न संशयः । अव्यक्तादितृणान्तास्तु विप्लुडानन्दभागिनः’ इत्युक्तेः । तत्र दृष्टान्तः तक्षकेति । तदाहरणप्रयत्नोऽनर्थफलक एव यथा तथाऽत्रापीति भावः । अतः मोक्षसुखे प्रमाणान्तराप्रसक्तेः तदसिद्धेरेवेत्यर्थः । अपी-त्यभ्युपगमः । वस्तुतो निर्विशेषत्ववादिनस्तन्मतेऽपि आनन्दविषयकानु-भवानभ्युपगमात् ।। २६३ ।।

युक्तिमल्लिका

जीवस्वरूपानन्दस्य तादृक्त्वे किं गतं तव ।

ऐक्यायोगाद्यदि भयं भेदोऽस्तु सततं सताम् ।

अपौरुषेये निर्बन्धो न स्वस्वमतसिद्धये ।। २६४ ।।

सुरोत्तमटीका

 ऐक्यायोगाज्जीवानां परस्परमैक्यायोगात् । अपौरुषेये वेदे ।। २६४ ।।

सत्यप्रमोदटीका

 तादृक्त्वे श्रुत्युक्तिबलेन परिच्छिन्नत्वे । तथा सति न ऐक्यसिद्धिरिति चेन्माऽस्तु । तथा सति अपौरुषेयत्वेन निर्दोषश्रुतेरानर्थक्यं स्यादिति चेन्न । भेदार्थकत्वेनैव तत्सार्थक्योपपत्तेः । तदुक्तं न्यायामृते ‘निर्दोषताऽन्यथासिद्धेरि’ति ।। २६४ ।।

युक्तिमल्लिका

अकामहतता कस्मान्मुक्तलिङ्गमपोद्यते ।

कथमवृजिनत्वं च मुक्तादन्यस्य शोभते ।। २६५ ।।

सुरोत्तमटीका

 ‘‘श्रोत्रियस्य चाकामहतस्ये’’त्यत्रोक्ताऽकामहतता । बृहदारण्यकस्थानन्दमीमांसायामवृजिनोऽसहश्चेत्यत्रोक्तमवृजिनत्वमपापत्वं च

।। २६५ ।।

सत्यप्रमोदटीका

 अकामहतता तैत्तिरीयोक्ता । अवृजिनत्वं बृहदारण्योक्तम् । अन्यस्येति ‘अपापत्वं च नैवास्ति यावत्संसारमस्य हि’ इत्यनुव्याख्यानोक्तेः ।। २६५ ।।

युक्तिमल्लिका

ब्राह्मणस्य हि देहोऽयं नोपभोगाय कल्पते ।

इह क्लेशाय महते प्रेत्यानन्तसुखाय च ।। २६६ ।।

सुरोत्तमटीका

 यथा मनुष्यगन्धर्वादिपदस्थानामुत्तरोत्तरं शतशताधिका-नन्दाः तथा तेषु तेषु पदेषु कामरहिततयाऽकामहतानां श्रोत्रियाणां ब्राह्मणादीनां च तत्तत्पदस्थदेवानन्दसदृशानन्द इति परकीयव्याख्यानं दूषयति ।। ब्राह्मणस्येति ।। २६६ ।।

सत्यप्रमोदटीका

 ‘अतःपदस्थसुखवत्पदाकामे सुखं कुत’ इति वक्ष्यमाणोपपादनाय परोक्तप्रक्रियाव्यभिचारप्रदर्शनपरं श्लोकमुदाहरति ब्राह्मणस्येति । अत्र रामानुजमतमनूद्य अनुभवविरोधो दोषोऽभिहितोऽनु-व्याख्याने ‘कुत्रचित्कामिनः पुंसः कामाभावात् क्वचित् क्वचित् । इन्द्रादि-सुखभोगोऽस्तीत्यनुभूतिर्हि कुप्यति ।’ इति तत्र सुधा ‘कुत्रचिदिन्द्रादि-पदव्यतिरिक्ते कामिनः पुंसः क्वचित् क्वचिदिन्द्रादिपदे कामाभावादिन्द्रादिपद-समानसुखानुभवोऽस्तीति व्याख्यानेऽनुभवविरोधः स्यादि’ति । स्मृति-विरोधोऽप्यत्रोदाह्रियते इहेति । इहामुत्रार्थभोगविरागपुरःसरं साधनपरस्य । स्वाध्यायप्रवचनरूपतपसः साधनस्य कर्मापेक्षयाऽतिक्लेशसाध्यत्वात् । तदुक्तं क्लेशायेति । उक्तं च सुधायां ज्ञानापेक्षया कर्मणः लघूपायत्वं ‘अभ्युदयस्य धर्मादिलघूपायसाध्यस्ये’ति । कर्मणा ज्ञानमातनोतीत्यागमेन ज्ञानस्य लघूपायान्तरसाध्यताऽध्यवसायादि’ति । अनन्तसुखाय मोक्षाय । ज्ञानस्य मोक्षहेतुत्वादिति भावः ।। २६६ ।।

युक्तिमल्लिका

इत्युक्त्या नेह सुखिनो विरागा अपि योगिनः ।

अतः पदस्थसुखवत्पदाकामे सुखं कुतः ।। २६७ ।।

सुरोत्तमटीका

 इत्युक्त्येति । भारतोक्त्या ।। २६७ ।।

सत्यप्रमोदटीका

 योगिनः ब्राह्मणाद्याः । अतः रामानुजोक्तस्यार्थस्य भारतादिप्रमाणविरोधात् अनुभवविरोधाच्च । पदाकामे परोक्ते अकामहत-शब्दार्थे संसारिणि ।। २६७ ।।

युक्तिमल्लिका

स भुङ्क्ते विषयान्सर्वान्प्रशास्ति च जगत्रयम् ।

अयं पञ्चाग्निमध्यस्थः तपस्तपति सर्वदा ।

सुखलेशोऽपि नास्यास्ति सुखं तादृक्कथं वद ।। २६८ ।।

सुरोत्तमटीका

 स पदस्थः । अयं ब्राह्मणादिः ।। २६८ ।।

सत्यप्रमोदटीका

 सः इन्द्रादिपदप्राप्तिमान् । अयं तत्पदाकामः पदान्तरप्रेप्सावान् तपोनिरतः साधकः । अस्य कायक्लेशेन तप्यमानस्य । तादृक् पदाधिष्ठात्राऽनुभूयमानसुखसदृशम् ।। २६८ ।।

युक्तिमल्लिका

तदिह क्लेशभाग्योगी सुखं तस्यास्ति मुक्तिगम् ।

तस्मान्मुक्तसुखेष्वेव तारतम्यं तवाप्यभूत् ।। २६९ ।।

सुरोत्तमटीका

 तस्मादुक्तरीत्या योगिनामपि मुक्तिकालीनसुखैक-भोक्तृत्वात् ।। २६९ ।।

सत्यप्रमोदटीका

 तत् अकामहतशब्दस्य संसारिषु साधकेषु विरक्तेष्वपि मुख्यतोऽसम्भवात् । तस्मात् मुक्तेष्वेव सम्भवेन श्रौततत्पदस्य मुक्तपरत्व-सिद्धेः । तारतम्यम् उभयश्रुत्युक्तम् ।। २६९ ।।

युक्तिमल्लिका

अतः कामार्थसंपत्त्या ह्यकामहततास्त्वियम् ।

अकामस्य वृथा कामहततावाङ्न चेत्तव ।। २७० ।।

सुरोत्तमटीका

 किञ्च कामितार्थालाभे हि कामेन हतता । तल्लाभे चाकामहतता । तच्च सङ्कल्पादेव च श्रुतेरिति सूत्रान्मुक्तानामेव घटते । अमुक्तास्तु विरक्ता अकामा एव । काम्यार्थप्राप्त्या याऽकामहतता सा कथम-मुक्तेषु स्यादतोऽपीयं मुक्तवार्तैवेत्याह ।। अत इति ।। अतो मुक्तावेव सकलकाम्यावाप्तिसम्भवात् । अस्तु मुक्तावेवास्तु । इयं श्रुत्युक्ता । अकामस्य संसारे वैराग्यवशाद्विषयकामनामेवाकुर्वतः । वृथा सांसारिकविरक्तस्वरूप-निरूपणस्याकाम इत्येतावता पूर्तेर्हतपदं व्यर्थमित्यर्थः । न चेत् मुक्तपरं न चेत् ।। २७० ।।

सत्यप्रमोदटीका

 ‘कामाहतिः कुतोऽन्यत्र प्राप्तकामस्य सा भवेत्’ इत्यनुव्याख्यानोक्तमाह अत इति । पदान्तरे कामनावतः सतः तत्पदा-कामत्वमात्रेण अकामहतत्वस्य अपेक्षितपदान्तरस्य अप्रयत्नेन प्राप्तिमन्तराऽ-योगादिति भावः । तदुक्तमनुव्याख्याने ‘अप्रयत्नेन कामानामवाप्तिः सा यदा भवेत् । तदैवाकामहतता कुत एवान्यथा भवेदि’ति । एतच्च मुक्तावेव सम्भवति नान्यत्रेति भावः ।। २७० ।।

युक्तिमल्लिका

विरक्ताः सर्वसंपत्तौ विरक्ताः स्युर्न कुत्रचित् ।

तत्तत्पदेष्वकामास्ते वि(भ)रक्ताः क्व व्यवस्थया ।। २७१ ।।

तव नीचपदाकामात्सुखं शतगुणोत्तरम् ।

भवेदुच्चपदाकामे कथं स्युस्तादृशर्षयः ।। २७२ ।।

यदि सर्वपदाकामाः सर्वे तर्हि सुखे समाः ।

भवेयुस्तारतम्येन सुखिता तेषु किंकृता ।। २७३ ।।

सुरोत्तमटीका

 किञ्च मनुष्यगन्धर्वपदाकामात् देवगन्धर्वपदाकामस्य शतगुणानन्दः एवमुत्तरत्रापीति वदता तत्तत्पदाकामास्तदन्यपदेषु सकामाश्च तत्र तत्रोक्ता अकामहतास्त्वया वक्तव्याः । पदान्तरेष्वप्यकामत्वे आनन्द-तारतम्यायोगात् । एतादृशाकामाश्च न क्वापि सन्तीत्याह ।। विरक्ता इति ।। कुत्रचित्कुत्रचिदेव । व्यवस्थया विभक्त इति सम्बन्धः

।। २७१–२७३ ।।

सत्यप्रमोदटीका

 सर्वसंपत्ताविति इहामुत्रार्थफलभोगविरागः इति मुमुक्षोरधिकारिणः सर्वपदारागस्यैव विधानादिति भावः । न हि त्वदभिमतस्य देवादिपदेषु रागिणोऽपि तदुच्चेन्द्रादिपदेषु विरागमात्रेण सर्वसंपत्तौ विरक्त इति वाचोयुक्तिः सम्भावनाऽर्हेत्याह विरक्ता इति । कुत्रचित् कुत्रचिदेव । विरक्ताश्चेत्सर्वत्रैव विरक्ता भवेयुः । न तु त्वदुक्तदिशा व्यवस्थया । कथमिति । एवमीदृशानां कतिचित्पदकामिनां लम्पटा इत्येव वक्तुं युक्तं न तु ऋषयो विरक्ता इतीति भावः ।। किंकृतेति । तारतम्यहेतुतया त्वदभिमतस्य व्यवस्थया वैराग्याभिमतस्य दूषितत्वादिति भावः।।२७१–२७३ ।।

युक्तिमल्लिका

अतस्तत्तत्पदाकामः सकामोऽन्यपदेषु च ।

भवेदसौ महायोगी का गीस्तं बाधितं वदेत् ।। २७४ ।।

सुरोत्तमटीका

 महायोगीति विन्यासः ।। २७४ ।।

सत्यप्रमोदटीका

 महायोगीति विपरीतलक्षणया । कामलंपट एवेति भावः । गीः अवृजिनः अकामहतः इति श्रौतनिर्देशः ।। २७४ ।।

युक्तिमल्लिका

भोग्यार्थतारतम्ये स्यात्तारतम्यं सुखस्य च ।

तत्त्यागेऽपि सुखस्योच्चनीचतेत्यद्भुतं वचः ।। २७५ ।।

सुरोत्तमटीका

 भोग्यार्थतारतम्ये भोग्यार्थश्शर्कराखण्डादिः । सुखस्य तदनुभवजनितसुखस्य ।। २७५ ।।

सत्यप्रमोदटीका

 भोग्यार्थेति । ‘मुन्नाम विषयोत्थं यत् प्रकृष्टविषयात् प्रमुत्’ इति बृहद्भाष्योक्तदिशेति भावः ।। २७५ ।।

युक्तिमल्लिका

किं कूपस्थजलाकामात्सुखं शतगुणोत्तरम् ।

तटाकस्थजलाकामे पिपासारहिते वद ।। २७६ ।।

सूक्ष्मभाण्डोदनाकामात्सुखं शतगुणोत्तरम् ।

स्थूलभाण्डोदनाकामे बुभुक्षारहितेऽस्ति किम् ।। २७७ ।।

सुरोत्तमटीका

 एतदेव निदर्शनमुखेन दर्शयति ।। किं कूपस्थेति । सूक्ष्मभाण्डेति च ।। २७६,२७७ ।।

सत्यप्रमोदटीका

 ‘देवपदाकामादिन्द्रपदाकामस्यानन्दविशेषादर्शना-दि’ति सुधोक्तं लोकनिदर्शनाभ्यां संवादयति कूपस्थेति सूक्ष्मेति च

।। २७६,२७७ ।।

युक्तिमल्लिका

कथञ्चित्कामशून्यो यः सोऽकामहत उच्यताम् ।

पदं न पदलभ्यं ते ततोऽप्येतदलौकिकम् ।

श्रुत्युक्तावृजिनत्वं तु घटते न कथञ्चन ।। २७८ ।।

सुरोत्तमटीका

 किं चास्तु वाऽकामेऽपि यथाकथञ्चिदकामहतपदम् । त्वया त्वकामहतपदेन तत्पदाकामहतोऽत्र वक्तव्यः । तच्च न श्रौतमित्याह ।। कथञ्चिदिति ।। कामशून्यो यस्स कथंचिदकामहत उच्यतामिति सम्बन्धः । पूर्वोक्तहतपदवैयर्थ्यसूचनाय कथञ्चिदित्युक्तम् । पदं तत्पदमिति पदम् । एतत्तवार्थकथनम् । इदन्तु सुतरां न घटत इत्याह ।। श्रुत्युक्त्येति ।। पाप-रहितत्वस्य मुक्तेष्वेव सम्भवादिति भावः ।। २७८ ।।

सत्यप्रमोदटीका

 ‘तस्मात्तस्मादकामत्वमिति चाश्रुतकल्पना । अकामहत इत्युक्तेः श्रुतहानिरपि स्फुटा’ इत्यनुव्याख्यानोक्तदोषेण दूषयति । कथञ्चिदिति अनेन श्रुतहानिर्दोष उक्तः । तदुक्तं सुधायां ‘श्रुतावकामहत इत्युक्तेः परेण चाकाम इति व्याख्यातत्वाच्छ्रुतस्य हतशब्दस्य हानिरपि स्फुटाऽऽपद्यते’ इति । पदं इति ‘तस्मात्तस्मात्पूर्वनिर्दिष्टादतिशयेनोत्तरोत्तर-स्याकामत्वम् श्रोत्रियत्वादिकं चेति व्याख्याने त्वश्रुतकल्पनं स्यात् । तस्मादित्यतिशयेनेति चाश्रुतस्य कल्पनीयत्वादि’ति सुधोक्तेरिति भावः । अवृजिनत्वमित्युपलक्षणम् । सुधोक्तं श्रोत्रियत्वं च ग्राह्यम् । एतच्च विवृतं अधस्तात् ‘अक्षण्वन्तः कर्णवन्तः प्राप्तसमस्तेन्द्रियफलाः’ इति सुधोक्तस्य श्रोत्रियत्वस्य संसारिष्वसम्भवादिति च ध्येयम् ।। २७८ ।।

युक्तिमल्लिका

तत्तच्छ्रुत्यर्थकथनं न श्रुत्यै रोचते सताम् ।

भारतीहृदयं त्वेको भारतो वेत्ति नापरः ।। २७९ ।।

अनुसन्धीयतां चर्चा महती मूलशास्त्रगा ।

बुद्धावारोहसिद्ध्यर्थं ततः किञ्चिदिहोद्धृतम् ।। २८० ।।

सुरोत्तमटीका

 भारतो वायुः ।। २७९,२८० ।।

सत्यप्रमोदटीका

 तत् तस्मात् । तच्छ्रुत्यर्थकथनम् । तैः रामानुजीयैः तच्छ्रुतेः आनन्दवल्ल्याः । अर्थकथनं केवलं संसारिपरतया व्याख्यानम् । श्रुत्यै श्रवणेन्द्रियाय । भारतः वायुः ।। मूलशास्त्रं भाष्यानुभाष्यतट्टीकाः । उद्धृतम् । तच्चास्माभिस्तत्र तत्र विवृतौ सङ्क्षिप्य दर्शितम् ।। २७९,२८० ।।

युक्तिमल्लिका

अतो मिथो जीवभेदो जीवब्रह्मविभिन्नता ।

तत्तदानन्दवैचित्र्यात्सिद्धा सिद्धान्तवेदिनाम् ।। २८१ ।।

तस्माच्छ्रौतञ्च यौक्तञ्च मध्वस्य मतमाफलात् ।

हृद्यञ्च निरवद्यञ्च तत्सर्वमतिमङ्गलम् ।। २८२ ।।

सुरोत्तमटीका

 अत इत्येतदेव विशदयति ।। तत्तदिति ।।२८१,२८२।।

सत्यप्रमोदटीका

 वैचित्र्यात् संसारे मुक्तौ च ।। आफलात् । आङ् अभिविधौ । मुक्तावपीत्यर्थः ।। २८१,२८२ ।।

युक्तिमल्लिका

ते प्रसादो हरे सेवानुरूप इति सप्तमे ।

प्रह्लादो यत्स्फुटं मुक्तौ फलं सेवानुगं जगौ ।। २८३ ।।

सुरोत्तमटीका

 ‘‘संसेवया सुरतरोरिव ते प्रसादस्सेवानुरूप उदयेन परावरत्वादि’’ति भागवतस्थप्रह्लादवाक्येनापि मुक्तौ तारतम्यं सिद्ध्यतीत्याह ।। ते प्रसाद इति ।। परावरत्वात्सेवां विना संपदादिभिरुच्चत्वनीचत्वात् । न प्रसादो नेति भागवतवाक्यशेषस्यार्थः ।। २८३ ।।

सत्यप्रमोदटीका

 ‘नैषा परावरमतिर्भवतो ननु स्याज्जन्तोर्यथाऽऽत्म-सुहृदो जगतस्तथाऽपि । संसेवया सुरतरोरिव ते प्रसादः सेवाऽनुरूप उदयो न परावरत्वम्’ इति प्रह्लादवचनं मौक्ततारतम्ये प्रमाणयति ते इति । सेवाऽनुरूप इति ‘यावत्सेवा परे तत्त्वे तावत्सुखविशेषता’ इति भगवत्पादोक्तेः । परा-वरत्त्वं वैषम्यम् । उदयः मुक्तौ सुखानुभवः ।। २८३ ।।

युक्तिमल्लिका

तत्रैव मुक्तौ फलसंपद उच्चावचा इति ।

दातैव यत्फलासाम्यं प्राह भागवते स्फुटम् ।

युक्तिश्रुतिस्मृतिभ्यस्तत्सिद्धा मुक्तोच्चनीचता ।। २८४ ।।

सुरोत्तमटीका

 ‘‘नाहं तु सख्यो भजतोऽपि जन्तून् भजाम्यमीषा-मनुवृत्तयो यथा । तथैव मत्तः फलसंपदस्स्युरुच्चावचाः कल्पतरोरि-वार्थिनामि’’ति दशमस्कन्धे कृष्णवाक्येनापि मुक्तौ तारतम्यमस्तीत्याह ।। तत्रैवेति ।। ‘‘हरिस्तु निर्गुणस्साक्षात्पुरुषः प्रकृतेः परः । स सर्वदृगुपद्रष्टा तं भजन्निर्गुणो भवेदि’’ति स्मृतेर्हरिभजनस्य गुणत्रयात्मकसम्पत्सम्पादकत्वा-योगात्फलसम्पदः फलरूपाः मुक्तिकालीनास्संपदस्स्युरिति भागवतवाक्य-स्यार्थः । अतो वाक्यद्वयमपि मुक्तावेव तारतम्यं साधयतीति भावः । तत्र भागवत एवेति सम्बन्धः । तत्तस्मात् । साधनतारतम्ये साध्यतारतम्यं स्यादिति युक्तिः । श्रुतिरानन्दमीमांसारूपा । स्मृतिरुक्तभागवतवाक्यद्वयरूपा ।।२८४।।

सत्यप्रमोदटीका

 ॐ फलमत उपपत्तेरिति सामान्यतः सर्वफलदातृत्वेन ‘ज्ञानिनां मोक्षदश्च सः’ इति विशिष्य मोक्षदातृत्वेन च प्रमितस्य कृष्णस्य वचनेनैव मुक्तौ तारतम्यं सिध्यतीत्याह तत्रेति । ‘नाहं तु सख्यो भजतोऽपि जन्तून् भजाम्यमीषामनुवृत्तयो यथा । तथैव मत्तः फलसंपदः स्युरुच्चावचाः कल्पतरोरिवार्थिनाम्’ इति भागवतं तात्पर्यतः सङ्गृह्णाति दातैवेति । फलसंपदः संसारे तथा मुक्तौ च ।। २८४ ।।

युक्तिमल्लिका

मनोजवेष्वसमता यत्सख्यं चोदितं श्रुतौ ।

तन्मत्साराद्यभावश्च तत्र तेषां प्रसिद्ध्यति ।। २८५ ।।

सुरोत्तमटीका

 ननु मुक्तौ तारतम्ये नीचस्योच्चे मात्सर्यमुच्चस्य नीचेऽ-वज्ञा स्यादिति शङ्कां श्रौतयुक्त्यैव परिहरति ।। मनोजवेष्विति ।। यद्यस्मात् । तत्तस्मात् असमत्वेऽपि सख्यकथनात् । तत्र मुक्तौ । तेषां मुक्तानाम् ।।२८५।।

सत्यप्रमोदटीका

 मनोजवेषु ‘मनोजवः प्रज्ञाऽतिशयः बहुवचनमाद्यर्थे ज्ञानादिगुणेषु असमास्तारतम्योपेता बभूवुः’ इति सुधोक्तोऽर्थो ध्येयः । परस्परं सखायः । तत्र मुक्तौ तरतमभावसद्भावेऽपि । अत्र यदुक्तं परकालयतिना ‘अत्र आनन्दातिरिक्ततारतम्यमेवोच्यते’ इति । तत्तुच्छम् । अशाब्दत्वात् । अंशेन साम्यम् अंशान्तरेण वैषम्यमित्युक्तौ स्वरूप एव भेदप्रसक्तेः । संसारिभिरेव समत्वाभाव उच्यते इत्यप्यसारम् । निर्मूलत्वात्कल्पनायाः । मुक्तानामेव पूर्वं प्रकृतत्वात् । मिथस्तारतम्यस्यैव प्रतीतिसिद्धत्वात् । अत्र विस्तरोऽस्मत्कृते विजयीन्द्रविजयवैभवे ।। २८५ ।।

युक्तिमल्लिका

हरिसाम्योक्तिवत्क्वापि साम्योक्तिर्दुःखवर्जनात् ।

उक्ता निरवकाशास्ता यच्छ्रुतिस्मृतियुक्तयः ।

तत्सिद्धतारतम्यं तन्मुकुन्दोऽपि न मोचयेत् ।। २८६ ।।

सुरोत्तमटीका

 क्वापि कुत्रचिद्वने । साम्योक्तिर्मुक्तानां परस्परं साम्योक्तिः। साम्योक्तिमात्रेण मुक्तानां परस्परं साम्याङ्गीकारे ‘मम साधर्म्यमागता’ इति वचनेन मुक्तानां, भगवता च सर्वसाम्यं स्यादिति बाधक-सूचनाय हरिसाम्योक्तिवदित्युक्तम् । यद्यस्मात् । तत्सिद्धतारतम्यं ताभिश्श्रुति-स्मृतियुक्तिभिस्सिद्धं मुक्तानां तारतम्यम् । तत्तस्मादुक्तप्रमाणानां निरवकाश-त्वात् ।। २८६ ।।

सत्यप्रमोदटीका

 क्वापि श्वेतद्वीपगतवनक्रीडारता उपकक्षास इत्यादि श्रुतावुक्तम् । हरिसाम्योक्तिवत् परमं साम्यमुपैतीत्यत्रेव । न च तत्रापि विवदितव्यम् । ‘दुःखाभावः परानन्दो लिङ्गभेदः समा मता’ इति गीता-भाष्योदाहृतप्रमाणेन प्रमितत्वात् । ‘सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च’ इत्यादिनिरवकाशप्रमाणसिद्धत्वादित्याह उक्ता इति । मुकुन्दोऽपि अनादि-संसारबन्धान्मोचकोऽपि । नेति ‘स्वतन्त्रेच्छोऽपि भगवान्मानेऽसौ मानवान् किल’ इति पूर्वमुक्तेः । उक्तं च सुधायां ‘यावत्प्रमाणसिद्धं तावतः सुघटस्य दुर्घटस्य वा घटनायां पटुरिति ब्रूम’ इति । अनादेर्बन्धस्य मोचकत्वं प्रमितं नैवम् अनादेस्तारतम्यस्य मोचकत्वमिति हृदयम् ।। २८६ ।।