एकाज्ञानेऽपि सर्वोऽज्ञस्स्यादैक्यबलतो न चेत्
ऐक्यनिराकृतिः
युक्तिमल्लिका
एकाज्ञानेऽपि सर्वोऽज्ञस्स्यादैक्यबलतो न चेत् ।
एकदुःखेऽपि दुःख्यन्यस्स्यादैक्यस्य समाश्रयात् ।
एकानुभूतिस्सर्वस्येत्यागतो जातिसङ्करः ।। ८९ ।।
सुरोत्तमटीका
एक्याज्जीवप्रत्यक्षमेव ब्रह्मप्रत्यक्षमित्यङ्गीकारे सर्व-व्यवहारोच्छेदस्स्यादित्याह ।। एकाज्ञान इति ।। न चेत् व्यावहारिकभेदेन व्यवस्था न चेत् । एकस्य पुरुषस्याज्ञानेऽप्यैक्यबलतस्सर्वोऽप्यज्ञस्स्यात् । एकदुःखे एकस्य दुःखे ऐक्यबलादन्योऽपि दुःखी स्यात् । एकानुभूतिः एकस्य चण्डालादेः अनुभूतिः स्वस्त्र्याद्यनुभवः सर्वस्य ब्राह्मणादेश्चैक्य-बलतस्स्यात् ।। ८९ ।।
सत्यप्रमोदटीका
लोके खल्वन्योन्यसुखाद्यनुसन्धानभावाभावरूपा व्यवस्था तावदस्ति । सा च भेदाङ्गीकारेणैवोपपादनीया । ऐक्ये तदनुपपत्तेः । पारमार्थिकभेदस्तु तव नेष्टः । अपसिद्धान्तापातात् । ततो व्यावहारिक एव आस्थेयः । सोऽपि चेन्नाङ्गीक्रियते सर्वव्यवस्थाविलोप आपद्यते । तत्कथ-मित्यत आह न चेदिति । व्यावहारिकभेदो व्यवस्थोपपादक इति नाङ्गीक्रियते चेदित्यर्थः । अतिप्रसङ्गाः स्युरिति शेषः । तानेवाह एकेत्यादिभिः । ऐक्य-बलतः यत्रैक्यं तत्रान्योन्यानुसन्धानं इति व्याप्तिबलतः । सर्वोऽज्ञः स्यादिति न चेष्टापत्तिः । शास्त्राध्ययनवैयर्थ्यप्रसङ्गात् । अयं भावः । एकस्य शास्त्रा-ध्ययनसमये तदैव सर्वेऽपि तथा विदधति न वा । नाद्यः अननुभवात् । द्वितीये त्विदमुपतिष्ठते । एकेति एकस्याध्ययनेन तदज्ञाननिवृत्तावपि अनध्ये-तृणामज्ञानानां अनपगमेन तेषामज्ञानेनैवास्याप्यज्ञानित्वस्यापाताद्व्यर्थः एवास्य अध्ययनक्लेश इति । इदमुपलक्षणम् । अस्याध्ययनेन तेषामप्यज्ञाननिवृत्त्या तदर्थं तेषामपि तत्प्रयासो मोघः स्यादित्यप्यतिप्रसङ्गो ध्येयः । अन्यः सर्व इति शेषः। तथा च मुक्तस्यापि दुःखित्वप्रसङ्गो दुर्वार इति बद्धमुक्तव्यवस्था-प्रविलयः । एकानुभूतिः एकस्य चण्डालस्य अनुभूतिः चण्डालस्त्रीभोगाद्यनुभवः सर्वस्य ब्राह्मणादेः । न चेष्टापत्तिरित्याह जातीति । इदं चानिष्टमेव ‘सङ्करो नरकायैव कुलघ्नानां कुलस्य चे’ति स्मृतेः ।। ८९ ।।
युक्तिमल्लिका
व्यावहारिकभेदेन समाधाने त्विदं गतम् ।
एकं सन्धित्सतः पुच्छमपरं च्यवते तव ।। ९० ।।
सुरोत्तमटीका
इदं जीवाज्ञानप्रत्यक्षेण ब्रह्मण्यज्ञानकल्पनम् । तथा चेदमाभाणकमापतितं त्वयीत्याह ।। एकमिति ।। तव दीर्घकौपीनरहितस्य एकं पुच्छं कौपीनपुच्छं अपरं पुच्छान्तरम् ।। ९० ।।
सत्यप्रमोदटीका
ननु नैष दोषः । जीवानां परस्परं व्यावहारिक-भेदोपगमादिति चेदत्र विचारणीयं जीवब्रह्मणोरपि स उररीक्रियते न वा । जीवब्रह्मभेदपराणां द्वासुपर्णेत्यादिश्रुतीनां व्यावहारिकभेदानुवादपरत्वोपगम-विरोधापत्त्या न द्वितीयपक्ष आश्रयितुं युक्तः । आद्ये आह इदमिति । जीवा-ज्ञानस्य ब्रह्मण्यानयनं इत्यर्थः । तथा च ह्नस्वकौपीनपुच्छन्याय इत्याह एकमिति ।। ९० ।।
युक्तिमल्लिका
अतोऽनुभवमाश्रित्य जीवाज्ञाने मतं गतम् ।
ऐक्येन तमतिक्रम्य ब्रह्माज्ञाने मतं गतम् ।। ९१ ।।
सुरोत्तमटीका
एतदेव दार्ष्टान्तिके दर्शयति ।। अत इति ।। अनुभव-मज्ञोऽहमित्यनुभवं मतं ब्रह्माज्ञानमतम् । ऐक्येन तं जीवाज्ञानपक्षम् । मतं व्यावहारिकभेदमङ्गीकृत्य तद्व्यवस्थासंपादनं मतम् ।। ९१ ।।
सत्यप्रमोदटीका
‘न चानुभवविरोधे आगमप्रामाण्यं’ इति भगवा-त्पदोक्तिमनुरुध्याह अत इति । मतं ऐक्यं । ऐक्येन अनुभवापेक्षया त्वदभिमतैक्यागमस्यैव प्राबल्यसमाश्रयणेन । ब्रह्माज्ञाने त्वयाऽङ्गीक्रियमाण इति शेषः । मतं त्वदभिमतं ज्ञान्यज्ञानिदुःख्यदुःखिब्राह्मणचण्डालादि-व्यवस्थासम्पादनम् ।। ९१ ।।
युक्तिमल्लिका
जीवोऽज्ञो न जगत्कर्ता यः कर्ता तस्य नाज्ञता ।
अतोऽज्ञानभ्रमायोगाद्भान्तिश्शास्त्रकृतस्तव ।
कथञ्चिद्भ्रमयोगेऽपि भ्रान्तिश्शास्त्रकृतस्तव ।। ९२ ।।
सुरोत्तमटीका
मतहानिप्रकारमेव लेशतो दर्शयति ।। जीव इति ।। अज्ञः अज्ञानवान् । सः जगत्कर्ता न । यः परमेश्वरः । । तस्य परमेश्वर-स्याज्ञता अज्ञानवत्ता । अतो जगतोऽज्ञानकल्पितत्वकथा व्यर्थेति भावः । अतः उक्तन्यायात् । अज्ञानभ्रमायोगात् अज्ञानारोपायोगात् । शास्त्रकृतः अज्ञानारोपितत्वशास्त्रकृतः भ्रान्तिः असम्भवदारोपे आरोपितत्वभ्रान्तिः । कथंचिदविचारितरमणीयतया भ्रमयोगेऽज्ञानारोपयोगेशास्त्रकृतः ब्रह्मण्यज्ञानमिति शास्त्रकृतस्तवैव भ्रान्तिः । अज्ञोऽहमिति त्वदभिलषितारोपादपि जीव एवाज्ञानसिद्धेरिति भावः ।। ९२ ।।
सत्यप्रमोदटीका
अज्ञत्वजगत्कर्तृत्वयोः परस्परविरहव्याप्ययोरेकत्राव-स्थानमसम्भवीत्याह जीव इति न जगत्कर्तेति । उपदानादिगोचरापरोक्ष-ज्ञानवत एव कर्तृत्वादित्याशयः । अतः ‘वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि’ इत्यादिस्मृत्या ‘तुरीयं तत्सर्वदृक् सदा’ इत्यादिश्रुत्या च ब्रह्मणो स्वस्मिन्सार्वज्ञस्यापरोक्षीकरणावगमात् तथा ‘न त्वं वेत्थ परन्तप’ ‘न तु पिप्पलाद’ इत्यादिस्मृत्या जीवेऽज्ञानस्य च तेन साक्षा-त्क्रियमाणत्वावगमात् अधिष्ठानाभिमतस्य स्वस्य याथात्म्यापरोक्षदृश इति यावत् । अज्ञानभ्रमायोगात् ‘अपरोक्षदृशो मिथ्यादर्शनं न क्वचिद्भवेदि’त्युक्ते-रिति भावः । ब्रह्मणो भ्रान्तिर्न सम्भवतीति पूरणीयम् । कस्य तर्हि सेत्यतो भ्रमप्रमादिसर्वार्थान्विपरीताञ्जानतः गीतोक्तदिशा तामसबुद्धिमतस्त्वद्भाष्य-कारस्यैवेत्याह भ्रान्तिरिति । नन्वेवं अज्ञोऽहमिति प्रतीतेः का गतिरित्यत एषा प्रमैव न भ्रान्तिरित्यवेहि । बाधाभावात् । एवमपि तस्य भ्रान्तित्वाङ्गी-कारेणाज्ञानारोपाङ्गीकारेऽपि तव नेष्टसिद्धिरित्याह कथञ्चिदिति । अय-माशयः । एषा खलु प्रतीतिः त्वद्रीत्याप्यज्ञानस्याहमर्थ आरोपं गोचरयति । अहमर्थश्च ‘अहमित्येव यो वेद्यः स जीव इति कीर्तितः’ इत्यादिमानैर्जीव एवेत्युपपादितं प्राक् । अतः सिध्यन्ती अपि भ्रान्तिर्जीवभूते त्वदीयभाष्य-कर्तर्येव न त्वेव ब्रह्मणीति निष्टङ्कितम् ।। ९२ ।।
युक्तिमल्लिका
जीवानुभूतमज्ञानं सर्वज्ञे केन नीयते ।
हा(बस्त)वत्सगलरज्ज्वैव दिग्गजं बद्धुमिच्छसि ।। ९३ ।।
सुरोत्तमटीका
उक्तप्रमेयं सर्वस्यापि बुद्ध्यारोहाय साहित्यमुद्रया दर्शयन्बाधकान्तरं चाह ।। जीवेति ।। अनुभूतमज्ञोऽहमिति प्रत्यक्षसिद्धम् । सर्वज्ञे ब्रह्मणि । सर्वज्ञ इत्यनेनाज्ञानासम्मवं सूचयति । केन प्रमाणेन प्रत्यक्षस्य जीव एवाज्ञानसाधकत्वात्सर्वज्ञेऽज्ञानस्य व्याहतत्वाच्च । असम्भावितमिदं प्रमेयमित्यत्र दृष्टान्तमाह ।। हा वत्सेति ।। वत्सगलरज्ज्वा वत्सगलबन्धन सूक्ष्मरज्ज्वा । हा कष्टम् । एवमेवाल्पके जीवे बन्धकमज्ञानं नित्यमुक्ते सर्वेश्वरे त्वमपि नयसि । अतो सम्भावनापराहतमिति भावः ।।९३।।
सत्यप्रमोदटीका
अज्ञानं संसारबन्धं ‘सा संसार उदाहृत’ इति त्वदुक्तेः। सर्वज्ञे बन्धायोग्ये किमाक्षेपे । साहित्यमुद्रयाऽर्थान्तरं न्यस्यति वत्सेति । अन्यत्र वत्सः जीवः गलः तत्स्वरूपं रज्जुः अज्ञाननिमित्तको बन्धः । दिग्गजः स्वतन्त्रः नित्यमुक्तः परमात्मा । हा कष्टं तमःपातफलकस्ते दुरभिलाष इति भावः । प्रबलतररज्ज्वा दिग्गजोऽपि बध्येत । नत्वेव नित्यमुक्तः पर इति हृदयम्।। ९३ ।।
युक्तिमल्लिका
जीवसर्वस्वमज्ञानं त्वं राज्ञे दातुमिच्छसि ।
नतद्दरिद्रवित्तं स महाराजो दिदृक्षति ।। ९४ ।।
सुरोत्तमटीका
प्रकारान्तरेणाऽप्यसम्भावनां दर्शयति ।। जीवेति ।। दरिद्रवित्तं दरिद्रस्य जीवस्य वित्तं तदज्ञानम् । दिदृक्षति द्रष्टुमिच्छति । दिदृक्षतीत्यनेन विलज्जमानया यस्य स्थातुमीक्षापथेमुयेति स्मृतिं सूचयति । इदमेकं बाधकम् ।। ९४ ।।
सत्यप्रमोदटीका
सर्वस्वं स्वरूपभूतं अज्ञानं उपलक्षणम् । बन्धादिदोषम् । राज्ञे नित्यनिरस्तदोषे पूर्णशक्तये परात्मने दातुं सम्बध्नातुम् । इच्छसि केवलमिति शेषः । न तु पुनस्तत्र शक्तः । कृष्णं बद्धुं समीहमानस्य दुर्योधनस्येव विपरीतफलं ते समीहितमिति ध्वनिः । दरिद्रवित्तं अल्पपशक्ति-जीवधर्मं दोषं महाराजः तज्जिहासावत्त्वे सति तत्र स्वतन्त्रः ईश्वरः न दिदृक्षति अतिदूरादेव तज्जहाति । ‘सर्वधर्मोपपत्तेश्च’ इति सूत्रोक्तन्यायेनेति भावः ।। ९४ ।।
युक्तिमल्लिका
अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।
इति श्रुतिसती साध्वी त्वामध्वनि रुणद्धि च ।। ९५ ।।
सुरोत्तमटीका
साहित्यमुद्रयैव बाधकान्तरं चाह ।। अनादिमाययेति ।। इति श्रुतिसती जीवेऽज्ञानसाधकत्वेन जीवपक्षपातिनी श्रुतिनारी । त्वां जीवाज्ञानं ब्रह्मणो दातुं नयन्तम् । अध्वनि मार्गे । ब्रह्मणि स्थापनात्पूर्व-मेवेत्यर्थः । यथा दरिद्रगृहात् वित्तापहारं कृत्वा गच्छन्तं तद्गृहस्थनारी रुणद्धि तथेति भावः । जीवाज्ञानसाधकश्रुतेरतिस्पष्टत्वात् अजमनिद्रमिति वेद्ये ब्रह्मणि निद्रापदोदिताज्ञानस्य च स्पष्टं निषेधाच्चाध्वनीत्युक्तम् । जीवाश्रितमज्ञान-मित्येवानुक्त्वा स्पष्टं ब्रह्मणि नेत्यपि निषेधाच्छतेश्च मत्कारः राजमार्ग इव सर्वैर्दृश्यत इति भावः ।। ९५ ।।
सत्यप्रमोदटीका
तत्त्वमसीति वाक्ये तत्त्वम्पदयोर्भागत्यागलक्षणया खलु ऐक्यं परेण सिषाधयिषितम् । लक्षणा च मुख्यार्थानुपपत्त्यनुसन्धान-मपेक्षते । न च तत्प्रकृते सम्भवति । मुख्यार्थयोः सर्वज्ञत्वाज्ञत्वयोः प्रतिपादनपरायाः सुस्पष्टश्रुतेरेव सद्भावादिति वक्तुं पूर्वोत्तरार्धयोरेकस्मिन्नेव श्लोके विरुद्धधर्मप्रतिपादिकां श्रुतिमुदाहरति अनादीति । मायया अज्ञानेन । अनादित्वविशेषणेन ब्रह्मवत्तत्सत्यत्वमवगम्यते । पूर्वार्धः त्वम्पदार्थजीवपरः । जीवश्रुतेरेव । अजमनिद्रमस्वप्नमित्याद्युत्तरार्धोऽपि तत्पदार्थब्रह्मपरोऽनुसन्धेयः । तत्र च ब्रह्मणोऽज्ञानाद्यभावः स्फुटः । एवं च विरुद्धधर्मानेव स्थापयन्ती श्रुतिस्त्वदभिमतां लक्षणां न सहत इत्याह श्रुतिसतीति सतीति निर्दोषता, साध्वीति च निरवकाशता तस्या गम्यते । अध्वनि मुख्यार्थपरित्यागरूपे लक्षणाश्रयमार्गे रुणद्धि मुख्यार्थस्यैव समर्थनेन लक्षणाश्रयणोद्यतं त्वां निवारयति ।। ९५ ।।