तदच्छेद्यं कथं छेद्यं भागे भागे त्वविद्यया

अविद्याया उपाधित्वनिरासः

युक्तिमल्लिका

तदच्छेद्यं कथं छेद्यं भागे भागे त्वविद्यया ।

अच्छेद्योयमदाह्योयमित्युक्तेः का गतिर्वद ।। ४८१ ।।

सुरोत्तमटीका

 इतोऽपि द्वितीयपक्षो न घटत इत्याह ।। तदच्छेद्यमिति ।। अच्छेद्यन्तद्ब्रह्मेति सम्बन्धः । पातालादिसत्यलोकान्तलोकेषु तत्र तत्र जीव भावायच्छेत्तव्यत्वाद्भागे भाग इत्युक्तम् । अच्छेद्यत्वमसिद्धमित्यत आह ।। अच्छेद्य इति ।। उक्तेश्श्रुतेस्स्मृतेश्च ।। ४८१ ।।

सत्यप्रमोदटीका

 इत्युक्तेः गीतावचनस्य । का गतिरिति निरवकाशत्वं द्योत्यते ।। ४८१ ।।

युक्तिमल्लिका

निश्च्छिद्रस्य कथं छिद्रमसाध्यं साध्यते तया ।

अविद्याया न विद्यास्ति यया साध्यं च साध्यते ।। ४८२ ।।

सुरोत्तमटीका

 निश्छिद्रस्य सर्वत्र व्याप्ततया छिद्ररहितस्य । असाध्यं अच्छेद्यत्व श्रुतिबलात्साधयितुमशक्यम् । तयाऽविद्यया । भगवत इव अघटितघटकाविद्या सामर्थ्याद्घटत इत्याशङ्कां परिहरति ।। अविद्याया इति ।। विद्या असाध्यसाधिका विद्या । यया विद्यया । अविद्याविद्ययोः परस्पर विरुद्धत्वाद्विद्यामात्रमप्यविद्यायां वक्तुं न शक्यते । असाध्यसाधकविद्यातु दूरापास्ता । भगवतस्तु सर्वज्ञतया विचित्रविद्यावतः असाध्यसाधकविद्यापि सम्भावितेति भावः ।। ४८२ ।।

सत्यप्रमोदटीका

 निश्च्छिद्रस्य ‘तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः’ इति सर्वत्र व्याप्ततया प्रमितस्य । छिद्रं परिमितत्वम् । कथं साधयेत् प्रमाणविरुद्धस्यार्थस्य साधनाशक्यत्वादेवेति भावः । ईश्वरोऽपि खलु प्रमाण-दृष्टमेव अणुत्वमहत्त्वादिकं अन्यैर्दुर्घटं स्वस्य अचिन्त्यशक्त्या घटयतीत्येव न तु प्रमाणविरुद्धं किमपि । तदुक्तं सुधायां ‘‘नन्वीश्वरशक्तिरपि कथम् । यावत् प्रमाणसिद्धं तावतः सुघटस्य दुर्घटस्य वा घटनायां पटुरिति ब्रूमः’’ इति । योगिनां योगविद्यायामपि सैव गतिः । विद्याविरोधिन्याः अविद्यायास्तु विद्या-सामान्यमेव असम्भवि । दूरे योगविद्या । प्रमाणविरुद्धार्थसाधकत्वं तु असम्भवित्वादशक्यशङ्कमिति हृदयम् ।। ४८२ ।।

युक्तिमल्लिका

या स्वांशगततत्खण्डानुन्नयेच्चाप्यधो नयेत् ।

जनयेन्मारयेन्नानाक्लेशौघं भोजयेत्किल ।। ४८३ ।।

सुरोत्तमटीका

 याऽविद्या । तत्खण्डान् अच्छेद्यव्याप्तब्रह्मखण्डान् । उन्नयेत् स्वर्गं नयेत् । अधो नयेन्नरकं नयेत् । अच्छेद्यस्य च्छिदेवव्याप्ततया निष्क्रियस्य क्रियाप्य सम्भावितेति स्मारयितुं पूर्वोक्तमहिमपरामर्शिततदिति पदमुक्तम् । नित्यस्य कर्माबद्धस्य च जननादिकमप्यसम्भावितमिति सूचयितुं जनयेदित्यादिकमुक्तम् । एकमप्यघटितं कर्तुमशक्ता बहून्येतान्यघटितानि कथं कुर्यादिति भावः ।। ४८३ ।।

सत्यप्रमोदटीका

 बहुजीववादे औतिभिः कल्पिता सर्वाऽपि प्रक्रिया पूर्वोक्तेनैव दूषितेत्याह येति । स्वेति स्वांशाः अविद्यायाः अंशाः । तद्गताः तदवच्छिन्नाः । तत्खण्डाः ब्रह्मणः खण्डाः तान् जीवान् इत्यर्थः । ‘तदेतत्सर्वं प्रमाणविरुद्धं स्वव्याहतं च । तथा हि । अविद्यायाः व्याप्तंशुद्धचिदा-वरकत्वाभ्युपगमेन स्वयमपि व्याप्तत्वेन तस्याः पुनः अंशाभ्युपगमः व्याहतः । ब्रह्मणः असङ्गत्वाभ्युपगमेन अविद्यासङ्गेन तदवच्छिन्नत्वं व्याहतम् । ब्रह्मणः अखण्डत्वेन तत्खण्डा जीवा इति च व्याहतम् । जडभूतायाः स्वतः प्रवृत्ति-शून्यायाः जीवानां उन्नमनादिक्लेशभोजकत्वं च व्याहतं इति सर्वाऽपि प्रक्रियैषाऽपहसनीयेत्याह किलेति ।। ४८३ ।।

युक्तिमल्लिका

न हि जीर्णपटो ब्रह्म माया मुषिकवेषधृक् ।। ४८४ ।।

सुरोत्तमटीका

 अपहसति ।। न हीति ।। हि यस्मात् उक्तद्विरूपता द्वयोरपि न । तस्माज्जीर्णपटे मूषिक इव कथं छिद्रं कुर्यादित्यर्थः ।। ४८४ ।।

सत्यप्रमोदटीका

 ब्रह्मणः अच्छेद्यत्वं मायाया अच्छेदकत्वं चेत्यत्र क्रमेण व्यतिरेकदृष्टान्तौ जीर्णपटः मुषिका चेत्याह न हीति ।। ४८४ ।।

युक्तिमल्लिका

निष्क्रियं शक्तिशून्यं च कृष्यमाणमविद्यया ।

ते ब्रह्म तद्व्रणं सर्वं केनोपायेन पूरयेत् ।। ४८५ ।।

सुरोत्तमटीका

 दोषान्तरं चाह ।। निष्क्रियमिति ।। अस्मद्ब्रह्मण-स्सक्रियत्वाद्विचित्रशक्तिमत्त्वाच्च ते ब्रह्मेत्युक्तम् । तत् संसारदशायां विद्यमानम् । तत्र तत्रैव स्थिरैस्तैस्तैरंशैराकाशे घटाद्यैरिव तन्मात्रनिष्ठदेहाद्युपाधिभिस्तत्रैव कृतच्छिद्रस्य कथंचित्पूरणसम्भवेऽपि क्रियावृद्धिसामर्थ्यविशेषरहितब्रह्म-भागस्यापि सक्रियजीवभावं प्राप्य पुनस्तत्र तत्रैवागत्य पूरकत्वायोगादिति भावः । यदि च छिद्रपूरणाय ब्रह्मणि शक्तिविशेषोऽङ्गीक्रियते तदाऽप-सिद्धान्तस्स्यात् ।। ४८५ ।।

सत्यप्रमोदटीका

 ब्रह्मणि सच्छिद्रत्वमेवासम्भवीत्युक्तम् । इदानीं कथञ्चित्कृतस्य छिद्रस्य पूरणमपि तेनासम्भवीत्याह निष्क्रियमिति । तथा हि किं शुद्धमेव ब्रह्म छिद्रं पूरयति उत छिद्रदेशं आगत्य जीवभावं प्राप्यानन्रम् । नाद्यः इत्याह शक्तिशून्यमिति । न द्वितीयः इत्याह निष्क्रियमिति । आगमनक्रियाशून्यमित्यर्थः । न हि पटः स्वयं छिद्रप्रदेशमागत्य तं पूरयतीति युज्यत इति भावः ।। ४८५ ।।

युक्तिमल्लिका

कारागृहं नयन्तीं तां शक्तं चेत्किं न वारयेत् ।। ४८६ ।।

सुरोत्तमटीका

 दोषान्तरं चाह ।। कारागृहमिति ।। कारागृहं नाना-क्लेशानुभावकमानुषदेहाख्यकारागृहम् । तामविद्याम् । शक्तिविशेषवत्त्वे स्वव्रणकारकमायामेव निवारयेत् । मुक्तजीवेष्वपि सम्भावितमायानिवारणाया समर्थं चेत्स्वचिदंशेकृतच्छिद्रं कथं पूरयेदिति भावः ।। ४८६ ।।

सत्यप्रमोदटीका

 शक्तिशून्यत्वं तर्कमुखेन स्थापयति कारागृहमिति । न च वारयति । अतः शक्तिशून्यं इति विपर्यये पर्यवसातव्यम्।।४८६ ।।

युक्तिमल्लिका

अतस्तत्प्रक्रियां ब्रह्म मत्वा स्वाङ्गस्य विक्रियाम् ।

तद्वक्त्रव्रणशान्त्यर्थं भेदाख्यारण्यकौषधम् ।। ४८७ ।।

चिच्छक्तिरूपकवचमस्पर्शाय पदे पदे ।

स्वयं दृढीकृत्य जीवान्क्षुधितायै समादिशत् ।। ४८८ ।।

सुरोत्तमटीका

 अतः छिद्रपूरणासम्भवात् । विक्रियां विरुद्धा व्रणरूपा क्रिया यस्यास्सकाशात्सा ताम् । तस्या अविद्याया वक्त्रव्रणं वक्त्रात्स्वाङ्गे करिष्यमाणस्वाङ्गच्छिद्राख्यव्रणम् । तस्य शान्तये अनुत्पादाय । भेदाख्य-मारण्यकम् । उपनिषत्प्रतिपाद्यतया तन्निष्ठमौषधम् । अरण्ये विद्यमानमिति ध्वनिः । यथा मसूरिकादिव्याध्यनुत्पादाय पूर्वमेव हस्तादावौषधं बध्नन्ति तथा जीवैक्ये सति हि मायामदङ्गाज्जीवभावाय व्रणं कुर्यात् । जीवादत्यन्तभेदे तु जीवांशानां पृथगेव विद्यमानत्वात्तानेव देहादिदानेन संसारयेत् । मान्तु कारणाभावेन न स्पृशेदिति मन्वानं अत्यन्तभेदमेव स्वाङ्गरक्षकमकरोदिति भावः । रक्षान्तरमाह ।। चिच्छक्तिरूपकवचमिति ।। चितश्शक्तिः अविद्या-निर्हरणसामर्थ्यम् । अस्पर्शाय सर्वथाऽविद्या स्पर्शाभावाय । औषधं सर्पमुख-बन्धनवत् व्रणानुत्पादकारणम् । कवचं तु व्रणकारकस्पर्शस्यैव विघटनहेतुरिति विशेषः । तर्ह्यविद्याया ग्रासाभावाद्वैयर्थ्याख्यमरणं स्यादित्यत आह ।। जीवा-निति ।। क्षुधितायै । ग्रासाभावेन क्षुधितायै अविद्यायै । अणुतयाऽसमर्थतया अत एव मत्तोत्यन्तभिन्नतया च ग्रासयोग्यान्जीवानेव ग्रसित्वा स्वोदर इव स्वनिर्मितदेहाद्युदरे प्रवेश्य वैयर्थ्याख्यमरणं परिहृत्याऽऽमोक्षं जीवेत्याज्ञा-मकरोदिति भावः ।। ४८७,४८८ ।।

सत्यप्रमोदटीका

 प्रक्रियां=ब्रह्मैव जीवभावं प्राप्य संसारभागिति कथनरूपाम् । स्वस्य अङ्गस्य स्वरूपस्य नित्यमुक्तत्वस्य विक्रियां अपलापि-नीम् । तस्याः अविद्यायाः । वक्त्रेण संसर्गेण । सम्भावितस्त व्रणस्य संसारस्य । शान्त्यर्थं अत्यन्ताभावार्थम् । आरण्यकं उपनिषत्प्रतिपाद्यं औषधं=‘द्वा सुपर्णा’ ‘अन्यमीशमस्य महिमानं’ इत्यादि निरवकाशवाक्य-प्रतिपाद्यं नित्यविलक्षणत्वाख्यम् । कवचं ‘मायां व्युदस्य चिच्छक्त्या’ इत्युक्त्या मायासम्बन्धव्युदसनपटुम् । पदे पदे=नित्यदा । क्षुधितायै= आश्रयसापेक्षस्वरूपायै ।। ४८७, ४८८ ।।

युक्तिमल्लिका

ब्रह्मखण्डा न जीवास्तद्ब्रह्मणि क्वाप्यखण्डनात् ।

अखण्डितं च तद्ब्रह्म निश्च्छिद्रत्वाद्विनिश्चितम् ।। ४८९ ।।

सुरोत्तमटीका

 प्रागुपपादितप्रमेयं संकलय्योपसंहरन्युक्त्यन्तरं च दर्शयति ।। ब्रह्मखण्डा इति ।। ब्रह्मखण्डाः ब्रह्मांशाः । तत्तस्मात् पूर्वोक्तहेतोः । तमेव विशदयति ।। ब्रह्मणीति ।। ४८९ ।।

सत्यप्रमोदटीका

 निश्च्छिद्रत्वात्=खण्डानर्हत्वात् । अतो न साध्या-विशिष्टता ।। ४८९ ।।

युक्तिमल्लिका

धर्मखण्डोऽपि ते नास्ति का कथा धर्मिखण्डने ।

अखण्डवादी किं न त्वं सखण्डत्वं हि मन्मतम् ।। ४९० ।।

सुरोत्तमटीका

 धर्मखण्डः धर्मनानात्वम् । धर्मिखण्डने धर्मिनानात्वे ।। ४९० ।।

सत्यप्रमोदटीका

 अखण्डवादी=वेदानां धर्मसंसर्गरहितवस्तुप्रतिपादकत्व वादी ।। ४९० ।।

युक्तिमल्लिका

चित्रशक्तिविशेषश्च यद्यस्ति परमात्मनि ।

कथं दुःखार्णवे मंक्तुमुत्सहेत स बुद्धिमान् ।। ४९१ ।।

सुरोत्तमटीका

 सः परमात्मा । जीवैक्यमते ब्रह्मणि चित्रशक्तिरङ्गीकर्तुं न शक्यत इति भावः ।। ४९१ ।।

सत्यप्रमोदटीका

 दुःखार्णवे इति । तदुक्तं वादावल्यां ‘अंशिनः परमेश्वरस्यैव स्वाभाविकाभेदे सकलजनदुःखानुसन्धानापादनात्’ इति ।।४९१।।

युक्तिमल्लिका

ईशशक्त्यैव सर्वत्र शक्तिर्नोचेन्न कुत्रचित् ।

नर्ते त्वत्क्रियते किं च नेत्याद्या गर्जति श्रुतिः ।। ४९२ ।।

सुरोत्तमटीका

 तर्ह्यविद्यासामर्थ्याद्भविष्यतीत्यत आह ।। ईशशक्त्येति ।। नो चेत् ईशशक्तिर्न चेत् । उक्तार्थे प्रमाणं सूचयति ।। नर्त इति ।। ४९२ ।।

सत्यप्रमोदटीका

 नेति त्वत् ऋते तव प्रेरणां विना दूरे समीपे वा न किञ्चित् क्रियते इति । तदुक्तं भगवत्पादैः, ‘न हि प्रतिबिम्बस्य स्वातन्त्र्येण क्रिया’ इति । मानापातासहिष्णुत्वेन त्वदभ्युपगताविद्या तु शशविषाणायिता । तस्याः शक्तिरेव नास्ति । दूरे ब्रह्मणि खण्डापादनशक्तिरिति भावः ।।४९२।।

युक्तिमल्लिका

स किलाम्बाङ्कगोपालः कुक्षौ महदिदं जगत् ।। ४९३ ।।

सुरोत्तमटीका

 अस्माकं मते तु सर्वेश्वरस्य भगवतो विचित्र शक्तिमत्त्वा- दणिमाद्यष्टैश्वर्यसंपन्नत्वाच्च व्याप्तिर्गमनागमनादिकं च घटत इत्याह ।। स किलेति ।। सः कृष्णरूपी नारायणः । एकदाऽर्भकमादाय स्वांकमारोप्य भामिनी । प्रस्रुतं पाययामास स्तनं स्नेहपरिप्लुता । पीतप्रायस्य जननी सुतस्य रुचिरस्मितम् । मुखं लालयती राजन्जृंभतो ददृशे इदम् ।

खं रोदसीज्योतिरनीकमास्ये सूर्येन्दुवह्निश्वसनाम्बुपांश्च ।

द्वीपान्नगांस्तद्दुहितॄर्वनानि भूतानि यानि स्थिरजङ्गमानि ।।

इति भागवतीं कथां किलेत्यनेन स्मारयति ।। ४९३ ।।

सत्यप्रमोदटीका

 ईश्वरे श्रुतिसिद्धां युगपदणुत्वमहत्त्वादिरूपां विचित्र-शक्तिं यशोदाप्रत्यक्षसंवादोक्त्या द्रढयति स इति ।। ४९३ ।।

युक्तिमल्लिका

विचित्रशक्तियुक्तोऽस्मै सर्वज्ञः सकलेश्वरः ।

स्वतन्त्रोऽखिलकर्ता च सदाऽणीयान्महान्किल ।। ४९४ ।।

सुरोत्तमटीका

अनेन भगवतो विचित्रशक्तिमत्त्वाणुत्वमहत्त्व सर्वेश्वर-त्वादिकं सर्वमपि सिद्धमित्याह ।।विचित्रशक्तियुक्त इत्यादिना।।४९४ ।।

युक्तिमल्लिका

तच्छक्त्या किं न घटते सोऽपि न स्वात्मघातकः ।

स्वरोमापि क्वचिच्चक्री चक्रेण निचकर्त किम् ।। ४९५ ।।

सुरोत्तमटीका

 सोऽपि विचित्रशक्तियुक्तोऽपि । स्वात्मघातकः । नानाजीवाकृत्या नरकयातनाद्यनर्थसार्थेन स्वात्मनो घातकः । न हि कोऽपि प्रेक्षावान्स्वसत्त्वं स्वशिरश्छेदाय प्रयुङ्क्त इति भावः । तदेव विशदयति ।। स्वरोमापीति ।। अतस्स्वचित्रशक्तयाऽणिममहिमाद्यैश्वर्यमेव स्वात्मनि घटयेत् । जननमरणनरकाद्यनेकदुःखसंपादकजीवभावं कदापि न घटयेत् । किं तु दूरापास्तमेव कुर्यात् ।। ४९५ ।।

सत्यप्रमोदटीका

 चक्रेण स्वरोमनिकर्तनं तु अप्रामाणिकं उपपत्तिविरुद्धं च न ईश्वरशक्त्या घटनार्हं इति भावः ।। ४९५ ।।

युक्तिमल्लिका

सत्यसङ्कल्पतो विष्णुः कुरुते क्वचिदद्भुतम् ।

क्वचिच्च न करोतीशो नासाध्यं तस्य विद्यते ।। ४९६ ।।

सुरोत्तमटीका

 तर्हि स्वात्मनीव गगनादेरपि गतागतं कुतो न ददातीत्यत आह ।। सत्यसंकल्पत इति ।। स्वतन्त्रचेतनत्वात्स्वसङ्कल्पानु-सारेणैव कुर्यात् । गगनगमनादिकं च समर्थोऽपि स्वसङ्कल्पविरुद्धत्वान्न करोतीति भावः ।। ४९६ ।।

सत्यप्रमोदटीका

 सत्यसङ्कल्पतः प्रमाणसिद्धघटनासङ्कल्पतः ।। क्वचित् अप्रामाणिकम् ।। ४९६ ।।

युक्तिमल्लिका

यदि ब्रूषे जडं शक्तं जितं साङ्ख्यकुमारकैः ।

जडप्रकृतिकर्तृत्ववादस्याप्यनुपद्रवात् ।। ४९७ ।।

सुरोत्तमटीका

 नन्वेतादृशी शक्तिरविद्याया एव भवतु । सा च शक्ति-रहितं ब्रह्म जीवभावं प्रापयत्विति शङ्कां प्रमाणाभावेन यशोदा प्रत्यक्षविरोधेन च निराकृतामपि युक्त्यन्तरैर्निराकरोति ।। यदीति ।। ईश्वरमनङ्गीकृत्य जड-प्रधानस्यैव सर्वसमर्थत्वं वदन्तस्साङ्ख्याः खलु तव पूर्वपक्षिणः । त्वयापीश्वरं विहाय जडस्यैव सामर्थ्याङ्गीकारे नुम्नुटोः को विशेष इति वदन्तस्त एव जिग्युरिति भावः । पण्डिताः किमु । यद्बालकोऽपि जीयादिति सूचनाय कुमारपदम् । तदेवोपपादयति ।। जडेति ।। अनुपद्रवात् बाधकाभावादित्यर्थः ।। ४९७ ।।

सत्यप्रमोदटीका

 जितमिति ‘ईक्षतेर्नाशब्दमिति’ त्वया कृतं तन्निराकरणं व्याहतं स्यादिति भावः ।। ४९७ ।।

युक्तिमल्लिका

जडस्य न विवेकोऽस्ति छिन्द्यात्तर्हि नभोऽपि तत् ।। ४९८ ।।

सुरोत्तमटीका

 दूषणान्तरं चाह ।। जडस्येति ।। तत् जडम् । ईश्वरस्तु सर्वज्ञचेतनतया विवेकित्वात्प्रमाणानामनुकूलमेव कुर्यात् । अननुकूलं त्यजेत् । जडं त्वविवेकित्वात् अघटितघटकशक्तिदाने सर्वमप्यघटितं कुर्यादेव । न ह्यसिधारा वैरिणमेव निकृन्ततीति नियमोऽस्तीति भावः ।। ४९८ ।।

सत्यप्रमोदटीका

 छिन्द्यादिति । इदं चोपलक्षणम् । ‘स्यादात्माऽपि हि तादृशः’ इति भगवत्पादोक्तातिप्रसङ्गान्तराण्यनुसन्धेयानि ।। ४९८ ।।

युक्तिमल्लिका

चित्खण्डने समर्थस्य सुकरं जडखण्डनम् ।

वृक्षच्छेदिकुठारस्य पत्रच्छेदेन किं बलम् ।। ४९९ ।।

सुरोत्तमटीका

 अविद्याया गगनखण्डने कैमुत्यमाह ।। चित्खण्डन इति ।। तत्र दृष्टान्तमाह ।। वृक्षच्छेदीति ।। ४९९ ।।

सत्यप्रमोदटीका

 ‘यो हि दुष्करं करोति स सुकरं करोत्येव’ इति न्यायमुपेत्याह चिदिति ।। ४९९ ।।

युक्तिमल्लिका

उक्तश्रुतिप्रमाणाच्च पयोम्बुवदिति स्मृतेः ।

मणिमन्त्रौषधादीनां प्रभावेऽपि प्रभोर्वशे ।। ५०० ।।

सुरोत्तमटीका

 कथं तर्हि मणिमन्त्रौषधादीनां जडानामपि सामर्थ्य-दर्शनमिति तटस्थाशङ्कां परिहरति ।। उक्तेति ।। उक्ताश्रुतिः, न ऋते त्वत्क्रियत इति श्रुतिः । पयोऽम्बुवदित्यनेन पयोंबुवच्चेत्तत्रापीति सूत्रं सङ्गृह्णाति । पयः क्षीरं तत्स्वयमेव दधीभवति । अम्बु स्वयमेव चलतीति चेन्न तत्रापि हरिरेव प्रेरक इति सूत्रार्थः ।। ५०० ।।

सत्यप्रमोदटीका

 स्मृतेरिति । तस्याश्च प्रामाण्यं ‘पयोम्बुवच्चेत्तत्रा-पीत्युक्तं साधयितुं पयः दधि कुर्वन्तमनिशं सेवेऽहं दधिवामनं’ इति श्रीसत्य-सन्धोक्तमधुनाऽपि प्रत्यक्षतोऽपि सिद्धम् ।। ५०० ।।

युक्तिमल्लिका

इति व्यासमतं तिक्तो गुडस्ते पित्तदेहिनः ।। ५०१ ।।

सुरोत्तमटीका

 व्यासमतमित्यनेन तत्कृतसूत्रभाष्यकारिणा परेणापीदमेव श्लाघ्यमिति सूचयति । तथापि तन्मतत्यागिनं परमन्यापदेशेन परिहसति ।। तिक्त इति ।। पित्तदेहिनस्त इति सम्बन्धः । यथा पित्तग्रस्तजिह्वायास्स्वादुर्गुड एव तिक्ततयाऽवभाति । तथा दुराग्रहग्रस्तस्त्वमपि श्रुतियुक्त्युपेतं स्वमूल-शास्त्रमेव व्यर्थीकरोषीति भावः ।। ५०१ ।।

सत्यप्रमोदटीका

 इति व्यासमतं=रचनानुपपत्त्यधिकरणेन जडस्य स्वतःप्रवृत्तिं निराकुर्वतो व्यासस्य मतम् । ते अविद्यायाः कर्तृत्वं वदतः । पित्तदेहिनः दुराग्रहदूषितचेतसः । तिक्तः अयथार्थज्ञानविषयः । अनेन गृह्यमाणारोपनिदर्शनेन परस्य व्याहतभाषिण उन्मत्ततरत्वं ध्वनयति ।।५०१।।

युक्तिमल्लिका

निर्विशेषं हि ते ब्रह्म न शक्तं कास्य शक्तता ।

यन्नारका सुखाम्भोधावुन्मज्जति निमज्जति ।। ५०२ ।।

सुरोत्तमटीका

 ननु मयाप्यविद्याया ईश्वरशक्त्यधीनशक्त्यङ्गीकारात्कथं व्यासमतपरित्याग इत्यत आह ।। निर्विशेषमिति ।। निर्विशेषं निर्गत-सकलविशेषम् । ते मते । अत एव न शक्तं शक्तिविदूरम् । अशेषविशेषरहितं ब्रह्मेति वदता शक्तिरूपविशेषस्यापि त्यक्तत्वादिति भावः । प्रकारान्तरेणापि शक्तित्यागमुपपादयति ।। क्वास्येति ।। अस्य ब्रह्मणः । शक्तता शक्तियुक्तता । तत्र हेतुमाह ।। यन्नारकेति ।। यद्ब्रह्म । असुखं दुःखम् । जीवैक्यवादिना त्वया ब्रह्मणस्सकलदुःखानुभवितृत्वकथनात्पुनस्तस्य शक्तत्वकथा न शोभां बिभर्तीति भावः ।। ५०२ ।।

सत्यप्रमोदटीका

 निर्विशेषमिति तदुक्तं तत्त्वोद्योते ‘न च सत्त्वादयः धर्माः परमार्थतो मायावादिनाऽप्यङ्गीक्रियन्ते’ इति । उन्मज्जतीत्यापाततः बहुजीववादे नित्यमेव निमज्जनमेव स्यात् । यथोक्तं तत्त्वनिर्णयटीकायां ‘देवदत्ताभिधोपाध्यपगमेऽपि यज्ञदत्ताद्यभिधानामनन्तोपाधीनां अनपगमेन मुक्त्यभावप्रसङ्गादिति (९२०) ।। ५०२ ।।

युक्तिमल्लिका

चिन्मात्रब्रह्मशक्तिस्ते सिद्धान्तं हन्त कृन्तति ।

जडाविद्याशक्तिपक्षः पूर्वपक्षं विविक्षति ।। ५०३ ।।

सुरोत्तमटीका

 चिन्मात्रब्रह्मशक्तिः चिन्मात्रतयाऽङ्गीकृतब्रह्मशक्तिः । चिन्मात्रत्वं शक्तियुक्तत्वं च विरुद्धम् । अतस्त्वन्मतस्य व्यासमतस्य च महदन्तरमिति भावः । जडाविद्याशक्तिपक्षः जडाविद्याया एव शक्तिपक्षः । पूर्वपक्षं साङ्ख्यमतम् ।।५०३ ।।

सत्यप्रमोदटीका

 किञ्च शक्तिः चिन्मात्रस्य उत अविद्याया अथवा विशिष्टस्य । नाद्य इत्याह चिदिति । सिद्धान्तं निर्विशेषवादम् । न द्वितीय इत्याह पूर्वपक्षमिति त्वया निराकृतं प्रधानवादम् ।। ५०३ ।।

युक्तिमल्लिका

यद्यज्ञानविशिष्टस्य शक्तत्वं तर्हि तत्क्षिपेत् ।

उत्क्षिपेच्च ततो दुःखामयदात्तत्त्वमात्मनः ।। ५०४ ।।

सुरोत्तमटीका

 ननु निर्विशेषचिन्मात्रे शक्त्यनङ्गीकारेऽप्यविद्याविशिष्टे तस्मिन्शक्तिरङ्गीक्रियते । अतो न कोऽपि दोष इत्यत आह ।। यदीति ।। शक्तत्वं अघटितघटकशक्तियुक्तत्वम् । तत् अज्ञानम् । क्षिपेत् स्वस्वरूपा-द्बहिर्निष्कासयेत् । उत्क्षिपेत् ऊर्ध्वं यापयेत् । ततः अज्ञानात् । दुःखामयदा-दित्युत्क्षेपणहेतुसूचनार्थमुदितम् । आत्मनस्स्वस्य । तत्वं स्वरूपम् । स्वत-श्शक्तिशून्यं ब्रह्म अज्ञानसम्बन्धादघटितघटकशक्तिसहितं भवति चेत्तर्हि अज्ञान सम्बन्धपर्यन्तं सुप्तपुरुषवत्तूष्णीं स्थितं ब्रह्म अज्ञानसम्बन्धानन्तरं प्रबुद्धसमर्थपुरुषवज्जीवभावसंपादनेन स्वस्य महादुःखकरं त् अज्ञानमेव स्वस्वरूपाद्बहिर्निस्सारयेत् । स्वयं वा तामधः कृत्वोर्ध्वङ्गच्छेत् । समर्थपुरुषस्य स्वदुःखोपेक्षकत्वादर्शनात् । तदनन्तरं च पुनस्सुप्तवत्तूष्णीं न तिष्ठेत् । मायावच्छेदाधीनो जीवभावस्तस्य कदापि न भवेदिति भावः ।। ५०४ ।।

सत्यप्रमोदटीका

 न तृतीयोऽपीत्याह क्षिपेदित्यादिना । असङ्गाभि-मतस्य चिन्मात्रस्य अविद्यासङ्गेन विशिष्टभावस्यैव दुर्घटत्वादिति हृदयम् ।।

युक्तिमल्लिका

अतः शक्त्या परीहारः प्रहारोऽभूत्त्रिधाऽपि ते ।

प्रागुक्तानुपपत्तिस्तद्विपत्तिरभवद्ध्रुवम् ।। ५०५ ।।

सुरोत्तमटीका

 परीहारः ब्रह्मणो जीवभावोक्तौ प्राप्तदोषपरिहारः । त्रिधा चिन्मात्रशक्तिपक्षे मायाविशिष्टशक्तिपक्षे, केवलमायाशक्तिपक्षे चेत्यर्थः । ते तव प्रहारोऽभूत् । शस्त्रप्रहार इवानिष्टहेतुरभूदिति भावः । तत्तस्मात् । प्रागुक्तानुपपत्तिः प्रागुक्तपक्षद्वयदूषणम् । विपत्तिः विरुद्धतया पद्यतेऽनया पुरुष इति विपत्करीत्यर्थः । अनिष्टरूपा वा ।। ५०५ ।।

सत्यप्रमोदटीका

 तद्विपत्तिः तस्याः शक्तेः अभावः ।। ५०५ ।।

युक्तिमल्लिका

अखण्डिते च यस्मिन्ये सञ्चरन्ति ततस्ततः ।

न ते खण्डाः पृथग्द्रव्यं तद्भागास्सुतरां न हि ।। ५०६ ।।

सुरोत्तमटीका

 तस्मात्तृतीयपक्ष एव युक्तियुक्त इत्याह ।। अखण्डिते चेति ।। अखण्डिते अच्छिद्रिते । यस्मिन्ब्रह्मणि । ये जीवाः ते जीवाः खण्डा एकदेशाः । पृथग्द्रव्यं परमाणुवत्प्रत्येकमेव द्रव्यम् । क्वचित्पुराणादौ ब्रह्मांशत्व- कथनं तदधीनत्वादेव न तु मत्स्यादिवत्तदेकदेशत्वात् । तथा सति सार्वज्ञादि-गुणपूर्णत्वप्रसङ्गादिति भावः । तद्भागाः ब्रह्मभागाः । खण्डत्वस्यैवाभावे ब्रह्मखण्डत्वं दूरापास्तमिति भावेनोक्तं सुतरामिति ।। ५०६ ।।

सत्यप्रमोदटीका

 परिशेषसिद्धं जीवब्रह्मभेदं व्यवस्थापयति अखण्डिते चेति । तदुक्तमनुव्याख्याने अविकारः सदा शुद्धो नित्य आत्मा सदाहरि-रि’ति । न ते खण्डाः स्वरूपांशाः । भेदेनोपलभ्यमानत्वात् । उभयोः चेतनयोः विकारविकारिभावसम्भवेन सुतरामित्युक्तम् ।। ५०६ ।।

युक्तिमल्लिका

ब्रह्मणो जीवभावोक्तिरतोऽयुक्ततराविदाम् ।

यतः प्रागक्रिया व्याप्ता चिदेका सक्रियास्त्वमी ।। ५०७ ।।

सुरोत्तमटीका

 अतः कारणात् । अयुक्ततरेति पदच्छेदः । प्राक्पराभि-लषितजीवभावात्प्राक् । चित् ब्रह्मचित् । ते प्रसिद्धाः । अमी जीवाः । अनादितोऽपि सक्रियाः अत एव सञ्चरन्ति । तत्तस्मात्कारणात् । पृथक् ब्रह्मणः पृथक् । ब्रह्मणोऽनादितोऽपि निष्क्रियत्वात् व्याप्तत्वादेकत्वाच्च, जीवानां चानादितोऽपि सक्रियत्वादणुत्वादनन्तत्वाच्चात्यन्तभेद एवेति भावः ।। ५०७ ।।

सत्यप्रमोदटीका

 अयुक्ततरा ‘सर्वज्ञाद्ब्रह्मणोऽन्यत्वं जगतो ह्यनुभूयते’ इति अनुव्याख्यानोक्तरीत्याऽनुवादेन । वस्तुतः सर्वदेति विभावनीयम् । अक्रिया पराधीनक्रियारहिता । तुनाऽणुत्वसमुच्चयः ।। ५०७ ।।

युक्तिमल्लिका

अनादितोऽपि जीवास्ते सञ्चरन्ति पृथक्च तत् ।

अतो मोक्षेऽपि नैवैक्यं न हि कन्थापरः पुमान् ।। ५०८ ।।

सुरोत्तमटीका

 अतः उक्तविधया पराङ्गीकारेण चानादितोपि ब्रह्म-भिन्नत्वात् । भिन्नयोर्घटपटयोस्तमः प्रकाशयोश्च कदाप्यैक्यादर्शनादिति भावः । युक्त्यन्तरं चाह ।। न हीति ।। कन्था बहुगुणित पटखण्डमयी । यथा पटे पटखण्डान्तरयोगे सति कंथात्वम् । तथा व्याप्तब्रह्मचैतन्ये चैतन्यान्तरयोगे सति घनीभावप्रसङ्ग इति भावः ।। ५०८ ।।

सत्यप्रमोदटीका

 न हि कन्थेति ‘भिन्नानां समुदायस्य नाम ब्रह्मेति तद्भवेदि’त्यनुव्याख्यानोक्तदिशा इति भावः ।। ५०८ ।।

युक्तिमल्लिका

जीवाणुत्वं श्रुतिप्रोक्तमावयोर्मतमेव हि ।

परम्ब्रह्म परिस्पन्दक्रिया दूरतरं च ते ।। ५०९ ।।

सुरोत्तमटीका

 सक्रियाणां जीवानां देहाद्युपाध्युपगमरूपमुक्तावपि नैक्यं वक्तुं युक्तम् । घटोपाध्यपगमेऽपि निष्क्रियघटाकाशस्यैव क्रियाऽयोग्यगगनैक्य-दर्शनात् । सक्रियस्य घटस्थजलस्य तददर्शनाच्चेति भावेन परमते जीवानां सक्रियत्वं ब्रह्मणो निष्क्रियत्वनियमं च दृढीकरोति ।। जीवाणुत्वमिति ।। ते मते ।। ५०९ ।।

सत्यप्रमोदटीका

 आवयोरिति । यद्यपि मायी विभुत्वं वदति तथाऽपि तद्भाष्ये ‘उत्क्रान्तिगत्यगतीनामि’त्यादिदशभिः सूत्रैः अणुत्वस्यैव सोपपत्तिकं समर्थितत्वेन उत्तरत्र तद्गुणसारत्वादित्यादितिप्रभृतिचतुर्भिः सूत्रैस्तन्निराकरणस्य स्वव्याहतत्वेन निर्मूलत्वेन चैवमुक्तिरिति ध्येयम् । विस्तरस्त्वत्र ‘भेदपराण्येव खलु ब्रह्मसूत्राणि’ इति ग्रन्थे । ते इति निष्क्रियत्वाभ्युपगन्तुः ।। ५०९ ।।

युक्तिमल्लिका

किमु व्योमकुठारेण च्छित्वा तत्खण्डमन्यतः ।

नयेन्मयोग्रा माया वा त्वन्माया वा कदाचन ।। ५१० ।।

सुरोत्तमटीका

 निष्क्रियब्रह्मभागत्वे जीवानां च निष्क्रियत्वमेवोचित-मित्यत्र दृष्टान्तमुपपादयति ।। किम्विति ।। तत्खण्डं व्योमखण्डम् । त्वन्माया अनिर्वचनीयाविद्या मायाशक्त्या घटत इत्येतदप्यनेनैव दूषितम् ।। ५१० ।।

सत्यप्रमोदटीका

 माया कर्तृ । व्योम कर्म । किम्वाक्षेपे प्रमाणविरुद्धस्य केनापि अकरणादेवेति भावः ।। ५१० ।।

युक्तिमल्लिका

हरेरनेकताणुत्वं महत्वं चेति मन्मतम् ।

अतो गतागताद्यं च युक्तं शक्त्या मम प्रभोः ।। ५११ ।।

सुरोत्तमटीका

 अस्माकं मते विशेषोऽस्तीत्याह ।। हरेरिति ।। चशब्देनैकत्वं च समुच्चिनोति । अतो द्विस्वभावत्वात् । गतागताद्यं, अवतारेषु गमनागमनादिक्रियासहितत्वम् । आद्यपदेनानेकत्वं च गृह्यते । शक्त्या अघटितघटकशक्त्या । कृष्णाद्यवतारेष्वप्यणुत्वमहत्त्वदर्शनेन मूलरूपावतार-रूपयोरप्यघटितघटक शक्त्या द्विस्वभावत्वादैक्यं च घटते । जीवानां चाणुत्वैकस्वभावत्वेन केवलं सक्रियत्वेन च भगवतोऽत्यन्तविलक्षणत्वादत्यन्त- भेदश्चेति सर्वमवदातम् ।। ५११ ।।

सत्यप्रमोदटीका

 प्रभोरिति हेतुगर्भं विशेषणम् । शक्त्या अचिन्त्यया तदधीनविशेषेण च । तदुक्तं अत्तृत्वनयेऽनुव्याख्याने ‘स विशेषोऽपि क्रिया-शक्त्यात्मनास्थिरः’ इत्यादि ।। ५११ ।।

युक्तिमल्लिका

तव त्वनेकताणुत्वे नैव स्तो महदेव तत् ।

शक्तिश्च नास्ति तेनोक्तं समस्तं कस्तदुत्तरेत् ।। ५१२ ।।

सुरोत्तमटीका

 परस्य तु नेयं प्रक्रियेत्याह ।। तव त्विति ।। तद्ब्रह्म । शक्तिः अघटितघटकशक्तिः । तत् दूषणम् ।। ५१२ ।।

सत्यप्रमोदटीका

 तव निर्विशेषवादिनः । तत् दूषणजातम् ।। ५१२ ।।

युक्तिमल्लिका

मायावच्छिन्नरूपेषु तेष्वेवं सन्तरत्स्वपि ।

चैतन्यमपरिच्छिन्नं यदन्यद्ब्रह्म तद्धि न ।। ५१३ ।।

सुरोत्तमटीका

 तेषु जीवेषु । अन्यत्सञ्चरज्जीवचैतन्याद्व्यतिरिक्तम् । अपरिच्छिन्नं यच्चैतन्यं मायाक्लेशादिदोषरहितम् । तत् । नः मते ब्रह्म ।।५१३।।

सत्यप्रमोदटीका

 माया स्वभावाज्ञानम् । अन्यत् नित्यातादृशम् ।। ५१३ ।।

युक्तिमल्लिका

यत्तद्ब्रह्मपरं व्यासं श्रुत्या स्मृत्या च कीर्त्यते ।

स एव भगवान्विष्णुर्वैष्णवा यमुपासते ।। ५१४ ।।

सुरोत्तमटीका

 श्रुत्या, ब्रह्मैवाधस्ताद्ब्रह्मैवोपरिष्टादित्यादिश्रुत्या । सः व्याप्तब्रह्मतयोच्यमानः भगवान्विष्णुरेव । न तु विष्णोरन्यद्ब्रह्मचैतन्य मङ्गीकर्तु-मुचितमित्येवशब्दार्थः ।। ५१४ ।।

सत्यप्रमोदटीका

 स एवेति । यो भागो न विकारी स्यात् स एवास्माकमीश्वरः इत्यनुव्याख्यानोक्तेः ।। ५१४ ।।

युक्तिमल्लिका

अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ।

इतिश्रुतेर्न चेद्व्याप्तचैतन्यद्वयमापतेत् ।। ५१५ ।।

सुरोत्तमटीका

 नारायणस्य व्याप्तत्वे प्रमाणमाह ।। अन्तर्बहिश्चेति ।। न चेद्विष्णुरेव व्याप्तब्रह्मचैतन्यं न चेत्, विष्णोरन्यद्ब्रह्मचैतन्यमङ्गीक्रियते चेदित्यर्थः । विष्णुब्रह्मणोरुभयोरपि व्याप्तत्वस्योक्तश्रुतिद्वयसिद्धत्वात् तयोश्च द्वित्वे व्याप्तचैतन्यद्वयमापतेत् । तच्चाप्रामाणिकम् । अतो व्याप्तचैतन्य-तयोच्यमानं ब्रह्म विष्णुरेवेति भावः ।। ५१५ ।।

सत्यप्रमोदटीका

 एवकारेण व्यवच्छेद्यं पराभिमतं मायाशबलमित्याह अन्तरिति । द्वयं ब्रह्मद्वयम् ।। ५१५ ।।

युक्तिमल्लिका

जीवाभेदेऽपि यस्याशा ब्रह्म कस्माद्भिनत्यसौ ।

कल्पनागौरवं यत्स्याद्विद्याया लाघवं च यत् ।। ५१६ ।।

सुरोत्तमटीका

 व्याप्तचैतन्यद्वयकल्पनं परस्य स्वप्रक्रियाविरुद्धं चेत्याह ।। जीवाभेद इति ।। ब्रह्म व्याप्तचैतन्यं भिनत्ति द्वयं करोति । यद्यस्मात् । लाघवम् अल्पता । तस्मात्कस्माद्भिनत्तीति पूर्वेणान्वयः ।। ५१६ ।।

सत्यप्रमोदटीका

 आशा आशामात्रं न तु सिद्धिः । भिनत्ति

सदैव गुणवत्त्वेऽस्य भिन्नं स्यान्निर्गुणं सदा ।

 न च मिथ्यागुणत्वं स्यादनिर्वाच्यस्य दूषणात्’

इति अनुव्याख्यानोक्तेरिति भावः । कल्पनागौरवमिति पराभिमत-ब्रह्मद्वयस्याप्यप्रामाणिकत्वेन अप्रामाणिकानेककल्पनापत्तेः ।। ५१६ ।।

युक्तिमल्लिका

जीवान्जग्रास या माया व्याप्ते ब्रह्मणि किं तया ।

कविर्मनीषीपरिभूर्यथार्थान्सोसृजत्किल ।। ५१७ ।।

सुरोत्तमटीका

 विष्णोर्मायावच्छिन्नत्वात्कथं ब्रह्मेत्यत आह ।। जीवा-निति ।। तया मायया किं न किमपि प्रयोजनमित्यर्थः । जीवेषु दुःखात्मक संसारसम्पादनाय मायाया अवश्यमङ्गीकार्यत्वेन तावतैव चरितार्थत्वात् निर्दुःखे व्याप्ते च विष्णौ मायावृतत्वाङ्गीकारो व्यर्थोऽसाध्यश्चेति भावः । सृष्ट्युप-योगितया विष्णौ मायाङ्गीकार इति शङ्कां निराकरोति ।। कविरिति ।।५१७।।

सत्यप्रमोदटीका

 जग्रास तदाश्रयेति यावत् । तदुक्तं ‘स्वभावाज्ञान-वादस्य निर्दोषत्वादि’ति । व्याप्तस्य त्रिविधव्याप्तिमतः सर्वज्ञस्य । किमित्या-क्षेपे । ‘अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चन’ इत्युक्तेः । कविः सर्वज्ञः । ‘याथार्थ्यतोऽर्थान् व्यदधात्’ इति श्रुतेरर्थतोऽनुवादः यथार्थानित्यादि ।।५१७।।

युक्तिमल्लिका

अतः सत्यजगत्सृष्टौ मिथ्यऽज्ञानं तव प्रियम् ।

कुत्रोपयुज्यते तस्मात्स्वजायां न परेर्पय ।। ५१८ ।।

सुरोत्तमटीका

 मिथ्याऽज्ञानं मिथ्याभूतमज्ञानम् । सर्वज्ञस्य भगवत-स्सत्यजगत्सृष्टौ मिथ्याभूताज्ञानस्योपयोगाभावात् । प्रत्युत विरुद्धत्वादिति भावः । स्वजायां स्वस्य जीवस्य जायां जायावदनादिकालमारभ्य विद्यमानाम् । परे परमात्मनि ।। ५१८ ।।

सत्यप्रमोदटीका

 अतः असृजदिति सृष्ट्युक्त्यैव जगत्सत्यत्वसिद्धेः । तदुक्तं मायिनैव, ‘सतो ह्युत्पत्तिर्विनाशो वा दृष्टो घटादेः नासतः शश-विषाणादेरि’ति । तव प्रियमिति जगतः अज्ञानकार्यत्वेन मिथ्यात्वसिद्धि-मभिलषत इति भावः । किन्तु तन्मिथ्यात्वं कफोणिगुडायितम् । ‘अनव-स्थितिस्तथा च स्यादन्योन्याश्रयताऽथवा’ इति दूषणादिति भावः । स्वजायां जीवाश्रितां परे नारोपय । ‘निर्विशेषे स्वयं भाते किमज्ञानावृतं भवेदि’ति तन्निराकृतेः ।। ५१८ ।।

युक्तिमल्लिका

अतो घटमठाकाशाद्युपमा विषमोपमा ।। ५१९ ।।

सुरोत्तमटीका

 प्रागुपपादितं प्रमेयं बुद्धावारोहाय स्मारयन्नुपसंहरति ।। अत इति ।। अतः उक्तयुक्तिसमूहात् ।। ५१९ ।।

सत्यप्रमोदटीका

 अतः उपाधिसम्बन्धासम्भवात् ।। ५१९ ।।

युक्तिमल्लिका

घटे घटप्रमाणोऽसौ मठमात्रो मठेऽपि च ।

घटे गच्छति नो गच्छेदागच्छति न चाव्रजेत् ।। ५२० ।।

सुरोत्तमटीका

 वैषम्यमेवोपपादयति ।। घट इति ।। ५२० ।।

सत्यप्रमोदटीका

 स्वगतभेदविवर्जितस्याव्याकृताकाशस्योपमा ब्रह्मण-स्तत्स्वरूपांशानां मत्स्यादीनामेव घटते इत्याह घटे इत्यादिना द्वाभ्याम् ।।

युक्तिमल्लिका

महाकाशस्य खण्डोऽसौ महाकाशस्वभाववान् ।

तस्य तद्रूपताऽप्यस्तु मत्स्यादीनां हरित्ववत् ।। ५२१ ।।

सुरोत्तमटीका

 महाकाशस्वभाववान् महाकाशवन्निष्क्रियत्वनिराकार-त्वादि स्वभाववान् । तस्य खण्डाकाशस्य । तद्रूपता महाकाशरूपता । उभयोरप्येकस्वभावत्वादिति भावः । तत्र दृष्टान्तमाह ।। मत्स्यादीनामिति ।। खण्डाकाशमहाकाशदृष्टान्तो भगवदवताराणां भगवतश्च दातुमुचितो न जीवानामिति भावः ।। ५२१ ।।

युक्तिमल्लिका

जीवास्त्वाकाशमध्यस्थ त्रसरेणुगणोपमाः ।

तस्माद्ब्रह्मैक्यमेतेषां नाभूदस्तिभविष्यति ।

अणूनां गगनेनेव मणीनामिव सूत्रतः ।। ५२२ ।।

सुरोत्तमटीका

 जीवयोग्यदृष्टान्तमाह ।। जीवास्त्विति ।। गमनागम-नादि क्रियानिर्वाहायानादिभेदनिर्वाहाय चायमेव दृष्टान्तो न्याय्य इति भावः । तस्माद्विजातीयस्वभावत्वात् । अणूनां परमाणूनां यथा गगनविजातीयानां रेणूनां न गगनैक्यम् तथा जीवानामपि ब्रह्मैक्यं कदापि न भवेदिति भावः  ।। ५२२ ।।

सत्यप्रमोदटीका

 तदुक्तं यावान्वा अयमाकाशस्तावानेषः अन्तर्हृदय आकाशः भिन्नांशानां जीवानां ब्रह्मणश्चाधाराधेयभावे दृष्टान्तावाह अणूनां मणीनामिति च । ‘मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव’ इति स्मृतिः । ‘नित्यं सर्वगते ब्रह्मणि आश्रितस्तिष्ठति स्वयं अणुश्च जीवः ।’ नित्यं सर्वगतस्थाणुरिति तत्रैव गीतायाम् ।। ५२२ ।।

युक्तिमल्लिका

अनादिब्रह्म किल ते जीवास्सर्वेऽप्यनादयः ।

तद्भेदस्याप्यनादित्वेऽभेदो भूद्ब्रह्मणः कदा ।। ५२३ ।।

अनादित्वं च भेदादेः षडस्माकमनादयः ।

इति त्वद्ग्रन्थ एवोक्तमतो युक्तिविचारणे ।

नाखण्डब्रह्मचित्खण्डो जीवराशिरभूदयम् ।। ५२४ ।।

सुरोत्तमटीका

 इदानीं पररीत्यैव भेदस्य सदातनत्वमुपपादयति ।। अनादीति ।। तद्भेदस्य जीवब्रह्मभेदस्य ।। भेदानादित्वं न मयाऽङ्गीक्रियत इत्यत आह ।। अनादित्वं चेति ।। षडस्माकमनादय इत्यनेन जीवो ब्रह्मविशुद्धाचित्तेषां भेदः परस्परम् । अविद्या तच्चितोर्योगष्षडस्माकमनादय इति परकीयमूलग्रन्थस्थ वाक्यं सङ्गृह्णाति । जीवो देहान्तःकरणाद्युपाध्य-वच्छिन्न चैतन्यम् । लिङ्गशरीरस्यानादित्वात्सोऽप्यनादिरिति भावः । अविद्यावच्छिन्नं जगदुपादानभूतंचैतन्यं ब्रह्म । परिच्छिन्नजगदुपादान-चैतन्यादन्यत्रापि विद्यमानं अपरिच्छिन्नं चैतन्यं विशुद्धाचित् । अन्यत्स्पष्टम् । अतोऽनादिकालमारभ्य जीवानां पृथगेव विद्यमानत्वात् ।। ५२३, ५२४ ।।

सत्यप्रमोदटीका

 ते इत्यनेन उत्तरश्लोकोक्तां तत्संमतिं निरूपयति । तथा हि तत्सिद्धान्तोक्तिः

जीव ईशो विशुद्धा चित् भेदस्तस्यास्तयोर्द्वयोः ।

 अविद्या तच्चितोर्योगः षडस्माकमनादयः’ इति ।। ५२३,५२४ ।।

युक्तिमल्लिका

इदानीं तु भिदास्त्येव न भविष्यति सा कदा ।

अज्ञाननाशेऽप्यज्ञानाकार्यानादेरनाशनात् ।। ५२५ ।।

सुरोत्तमटीका

 इदानीमित्युपलक्षणम् । अनादिकालमारभ्येति ग्राह्यम् । भिदा जीवब्रह्मभिदा । सा भिदा कदा न भविष्यति । मुक्तावपि भविष्यत्येवेति भावः । तदुपपादयति ।। अज्ञाननाश इति ।। अज्ञानाकार्यस्य अज्ञाना-नुपादानकस्येत्यर्थः । तत्र हेतुरनादेरिति । भेदस्यानाशनात् । नाशे कारणा-भावादित्यर्थः । ज्ञानमज्ञानस्यैव नाशकमिति नियमाङ्गीकारेण साक्षाज्ज्ञानस्यैव

भेदनाशकत्वासम्मतेः । उपादानभूताज्ञाननाशप्रनाड्या नाशस्य च त्वद्रीत्यै-वानादितया ब्रह्मवदज्ञानानुपादाने भेदेऽसम्भवात् । अकस्माद्विनाशस्य च ज्ञाननिवर्त्यत्वान्यथानुपपत्त्या मिथ्यात्वं वदता परेणानङ्गीकारात् । अनादौ भेदेऽसम्भावितत्वाच्चेति भावः । अत एवैक्यप्राप्त्या भेदनिवृत्तिरित्यपि निरस्तम् । साक्षात्परम्परया वा ज्ञानेनैव सर्वनिवृत्त्यङ्गीकारात् । अन्यथा मिथ्यात्वासिद्धेः । अनादौ नाशरहिते च भेदे जागरूके तद्विरुद्धैक्यप्राप्तेरेवायोगाच्च ।। ५२५ ।।

सत्यप्रमोदटीका

 

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।

 न चैव न भविष्यामः सर्वे वयमतः परम्’

इति गीतोक्तिमनुरुध्याह इदानीमिति । तथा च प्रयोगः भेदः न मिथ्याज्ञानानिवर्त्यत्वात् । न चासिद्धिः अज्ञानाकार्यत्वात् । तत्रापि हेतुः अनादित्वात् इति । न चाप्रयोजकता । अनादेर्निवृत्तौ ब्रह्मणोऽपि निवृत्तिः स्यादिति विपक्षे बाधकसद्भावात् । न च निवर्तकाभाव उपाधिः । उक्तहेतुना पक्षेऽपि तत्साधनेन साधनाव्यापकत्वात् । अज्ञाननाशेऽपीति । अपिना अभ्युपगमवादं आह । अज्ञानस्याप्यनादित्वेन ब्रह्मसमानयोगक्षेमतया निवृत्त्यनुपपत्तिरेव । तदुक्तं वादावल्यां ‘अनादिभावरूपस्य विज्ञानविलापना-सम्भवाच्च ब्रह्मवदि’ति । न चाकस्माद्विनिवृत्तिः ब्रह्मणोऽपि तथाभावापत्तेरिति दिक् ।। ५२५ ।।

युक्तिमल्लिका

तदनुद्धृतखण्डानां तत्रैक्यं च न युक्तिमत् ।

घटाकाशे महाकाशस्यैक्यं स्यान्न घनावलेः ।। ५२६ ।।

सुरोत्तमटीका

 युक्त्यन्तरं चाह ।। तदनुद्धृतखण्डानामिति ।। तत्र व्यतिरेकदृष्टान्तमन्वयदृष्टान्तं चाह । घटाकाश इति ।। महाकाशस्यैक्यम् महाकाशेनैक्यमित्यर्थः । यथा महाकाशखण्डतयोद्धृतस्य घटाकाशस्य घटनाशे महाकाशस्यैक्यम् तथा ब्रह्मचैतन्योद्धृतचैतन्यखण्डानामेव ब्रह्मणैक्यं स्यात् । ननु तदनुद्धृतखण्डानामनादिकालमारभ्य भिन्नतया परिवर्तमानानां जीव-खण्डानाम् । गगनखण्डतयाऽनुद्धृत घनखण्डानां गगनभिन्नतया परिवर्तमानानां गगनैक्यादर्शनादिति भावः ।। ५२६ ।।

सत्यप्रमोदटीका

 अनुद्धृतखण्डानां = स्वरूपांशभावानापन्नानाम् । न युक्तिमत् = नान्यदन्यात्मतां याति इति युक्तिविरुद्धम् ।। ५२६ ।।

युक्तिमल्लिका

मुक्तास्तु धौतमणिवत्पङ्कार्द्रमणिवत्सृतौ ।। ५२७ ।।

सुरोत्तमटीका

 ऐक्यप्राप्त्यभावे मुक्तिः केत्यत आह ।। मुक्तास्त्विति ।। मणेः पङ्कादुद्धारवत्संसारादुद्धार एव जीवचैतन्यस्य मोक्षो भवेत् । ब्रह्म-चैतन्याभेदस्य तु न कोऽप्युपयोग इति भावः ।। ५२७ ।।

सत्यप्रमोदटीका

 ‘मुक्तिर्हित्वाऽन्यथाभावं स्वरूपेण व्यवस्थितिरि’ति भागवतवचनमनुरुध्य मुक्तिस्वरूपं सदृष्टान्तमाह मुक्ता इति । तुना तदाऽप्य-भेदं व्यावर्तयति ।। ५२७ ।।

युक्तिमल्लिका

सर्वतोऽप्यपरिच्छिन्नचैतन्यब्रह्मणि स्थिरे ।

इतस्ततश्चरच्छिन्नचैतन्यं ह्यन्यदेव हि ।। ५२८ ।।

मुग्धस्त्रीमूर्धमालावदब्धिस्थजलजन्तुवत् ।

व्योमस्थपक्षिश्रेणीवद्भूमिस्थजनजालवत् ।। ५२९ ।।

सुरोत्तमटीका

 ब्रह्मैव सन्ब्रह्माप्येतीति श्रुतेस्संसारेऽपि जीवैक्यसद्भावा-न्मुक्तौ कथं तदभाव इति शङ्कां पूर्वोक्तयुक्त्यैव दूषयन्नुपसंहरति ।। सर्वत इति ।। छिन्नचैतन्यं परिच्छिन्नचैतन्यम् । हीत्यनेन सक्रियघनखण्डानां निष्क्रियगगनैक्याभावप्रसिद्धिं निष्क्रियगगनाभिन्नानां घटाकाशादीनां तत्तदुपाधिनिमित्तमिथ्याभूतक्रियाया अप्यदर्शनप्रसिद्धिं च सूचयति । संसारेऽपि सक्रियजीवानां निष्क्रियब्रह्मैक्यं युक्तिबाधितत्वान्न श्रुतिशतेनापि बोधयितुं शक्यमिति भावः । तर्हि श्रुतेः का गतिरित्यतस्सप्तसु प्रथमेत्यनुशासनात् ब्रह्मैवेति प्रथमायास्सप्तम्यर्थत्वमेव गतिः । नो चेद्ब्रह्माप्येतीत्युत्तरखण्डविरोध इति भावेन जीवानां ब्रह्माश्रितत्वे दृष्टान्तानाह ।। मुग्धस्त्रीमूर्धमाला-वदित्यादिना ।। ५२८,५२९ ।।

सत्यप्रमोदटीका

 सर्वतः देशतः कालतः गुणतश्च । छिन्नेति प्रकार-त्रयेणापि परिच्छिन्नेत्यर्थः । ‘ब्रह्मैव सन् ब्रह्माप्येति’ इति श्रुतिस्तु जीवभाव-मपरित्यज्य ब्रह्मण्येव स्थितिमाहेति भावः ।। मुग्धेत्यादिकं आधाराधेयभावमात्रे दृष्टान्तः । ब्रह्म तु नित्यातादृशचिच्चैत्यनियन्तृ इति विशेषः ।। ५२८,५२९ ।।