अनयैव गुणादीनामभेदोक्त्याऽस्त्वभिन्नता
विशेषसमर्थनम्
युक्तिमल्लिका
अनयैव गुणादीनामभेदोक्त्याऽस्त्वभिन्नता ।
गुणत्वोक्तिशतैश्चोक्तैर्गुणताऽप्यस्तु का (क्ष)हतिः ।। ९३२ ।।
सुरोत्तमटीका
अभिन्नत्वे गुणता न स्यादित्यत आह ।। अनयेति ।। अनया नेहनानेति श्रुत्या अभिन्नता अस्त्विति सम्बन्धः । उक्तैस्सर्वधर्मे-त्यादिनोक्तैः ।। ९३२ ।।
सत्यप्रमोदटीका
गुण्यभेदः कुतः सिद्ध इत्यत आह अनयैवेति । नेहनानेति श्रुत्यैव । तर्हि स्वरूपत्वे गुणत्वं कथमित्यतः तथात्वप्रतिपादक-श्रुतिशतैरेवेहेत्याह गुणताऽपीति ।। ९३२ ।।
युक्तिमल्लिका
निर्गुणोक्तिश्च भिन्नानां गुणानामस्तु बाधिका ।। ९३३ ।।
सुरोत्तमटीका
अभिन्नभगवद्गुणसिद्ध्या लब्धं निर्गुणोक्तेरर्थान्तरमाह ।। निर्गुणोक्तिश्चेति ।। ९३३ ।।
सत्यप्रमोदटीका
निर्गुणश्रुतिर्भिन्नानशुभान्गुणानेव निषेधत्वित्याह निर्गुणोक्तिरिति ।। ९३३ ।।
युक्तिमल्लिका
भेदाभेदप्रमाणाभ्यां भेदाभेदौ यथा तव ।
घटादौ गुणकर्मादेस्तथात्र स्तां गुणैकते ।
नामुख्या तत्र गुणता यथाऽत्रापि तथैव न ।। ९३४ ।।
सुरोत्तमटीका
गुणत्वाभेदयोर्मध्ये एकमुपचरितमस्त्वित्याशङ्कां दृष्टान्त-मुखेन परिहरति ।। भेदाभेदेति ।। तथा गुणैकते भगवद्धर्माणां गुणता एकता चेति गुणैकते स्तामिति लोटि प्रथमपुरुषद्विवचनम् । तत्र घटादौ रूपादीना-मभेदेऽपि गुणता यथाऽमुख्या न तथाऽत्रापि भगवद्धर्मेष्वपि गुणताऽमुख्या-नेत्यावृत्त्या योजनीयम् ।। ९३४ ।।
सत्यप्रमोदटीका
विरुद्धयोर्गुणत्वैकत्वयोः कथं समावेश इति चेद्द्रव्याणां गुणकर्मभिस्त्वदभ्युपगतो विरुद्धयोरपि भेदाभेदयोः कथं समावेशः । प्रामाणिकत्वेन समाधिरत्रापि सम इत्याह भेदाभेदेति ।। ९३४ ।।
युक्तिमल्लिका
नेहनानेतिभेदस्य साक्षादत्र निषेधनात् ।
गुणत्वघटकं चान्यत्कल्प्यमङ्कुरकर्तृवत् ।। ९३५ ।।
सुरोत्तमटीका
ननु घटरूपादौ गुणत्वघटको भेदोऽप्यस्ति भगवद्गुणेषु किं घटकमित्यत आह ।। नेहेति ।। अत्र भगवद्धर्मेषु । अन्यत् भेदादन्यत् । घटरूपादौ प्रमाणसिद्धगुणगुणिभावान्यथानुपपत्त्या कल्प्यो भेदः न तु घटपट-योरिव स्वरससुन्दरः । इहतु भेदस्य श्रुतिनिषिद्धत्वात् तत्प्रतिनिधिरन्यः कल्पनीयः नतु कल्पकादर्शनात् प्रमाणसिद्धव्यवहारापलाप इति भावः ।। ९३५ ।।
सत्यप्रमोदटीका
तत्र भेदकार्यव्यवहारनिर्वाहको भेदोऽस्तीति चेदत्रापि कार्यबलादेवाङ्कुरस्याप्रसिद्धोऽपि कर्तेव भेदप्रतिनिधिस्तत्कार्यकारी कश्चन विशेषोऽङ्गीकार्य इत्याह गुणत्वेति ।। ९३५ ।।
युक्तिमल्लिका
न ह्यबाधितकार्यस्य दृष्टहेतोरभावतः ।
अभावं म(न्व)न्यते लो(काः)कः किन्त्वन्यमनुम(न्व)न्यते ।। ९३६ ।।
सुरोत्तमटीका
उक्तमेवोपपदयति ।। नहीति ।। अबाधितकार्यस्य सस्यादेः दृष्टहेतोः प्रत्यक्षसिद्धकर्तुः अन्यमलौकिकं कर्तारम् ।। ९३६ ।।
सत्यप्रमोदटीका
अस्माभिः निमित्तस्याज्ञातत्वमात्रेण न नैमित्तिका-पलापो युक्त इत्याह न हीति । तदुक्तं वादावल्यां ‘नैमित्तिकदर्शनादेव निमित्तकल्पनासौलभ्यादि’ति । वक्ष्यति च ग्रन्थकारः स्वयमेवाग्रे ‘न चेदीश-प्लुतं त्याज्यं नारिकेलफलं जलमि’ति ।। ९३६ ।।
युक्तिमल्लिका
न शक्यन्तेऽनुसङ्ख्यातुमनन्तत्वान्मयाऽपि हि ।
इतीरयन्गुणादीनामानन्त्यं स्वगुणादिषु ।
गुणादित्वं च किं तत्वमुत्सिसृक्षति स प्रभुः ।। ९३७ ।।
सुरोत्तमटीका
भगवतोऽनुपचरितसार्वज्ञादिगुणान् अनुपचरितं गुणा-नन्त्यं च सयुक्तिकं प्रसाधयद्भागवतस्थभगवद्वचनमुदाहृत्य तदुपात्तयुक्तिं च द्रढयति ।। नशक्यं त इत्यादिना ।। तत्वम् उत्सिसृक्षति किमिति सम्बन्धः ।। ९३७ ।।
सत्यप्रमोदटीका
‘जन्मकर्माभिधानानि सन्ति मेऽङ्ग सहस्रशः’ । इत्यादेर्मुचुकुन्दं प्रति श्रीकृष्णवचनस्य भागवतस्यार्थतः सङ्ग्रहः नेत्यादि । विमता गुणा न सङ्ख्यावत्त्वेन भगवन्निरूपणार्हाः अनन्तत्वात् सङ्ख्यारहित-त्वात् अनन्तजीवसंस्थभगवद्रूपवत् । यत् यद्रहितं न तत्तद्वत्त्वेन प्रेक्षावत्कर्तृक-निरूपणार्हं यथा शशो विषाणित्वेनेति प्रयोगोऽभिप्रेतः । तदनिरूपणे भगवतः सार्वज्ञहानिरितित्वतीवमन्दम् । विद्यमानसर्वार्थविषयकज्ञानवत्त्वस्यैव सार्वज्ञ-त्वात् । जीवानां पापजातमप्यनन्तत्वादेव रमयाऽप्यगणेयमित्यभियुक्तोक्तिरप्यत एव सङ्गतेत्यवधेयम् । अत्र गुणानामभावे आश्रयासिद्धिरित्याह पक्षासिद्धि-रिति । सिद्धान्ते तददोषत्वेऽपि प्रतिज्ञायाः प्रमाणविरोधोक्तौ तात्पर्यम् । अनन्तत्वानङ्गीकारे स्वरूपासिद्धिः । विपक्षे बाध्यशुक्तिकारजतद्रष्टृवदीश्वरस्य भ्रान्तत्वप्रसङ्गः । तथा च ‘न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते’ इति श्रुति-व्याकोपः । आगमिकत्वादेव गुणानन्त्यस्य नौपचारिकत्वशङ्काऽपीति न कश्चित्क्षुद्रोपद्रवः । ईश्वरशक्त्यैव च सर्वनिर्वाह इत्याह नोपचारादित इति ।। ९३७-९४० ।।
युक्तिमल्लिका
पक्षीकृत्य गुणान्हेतूकृत्यानन्तत्वमञ्जसा ।
अनन्तजीवसंस्थात्मतनुवत्सङ्ख्ययोज्झितिम् ।। ९३८ ।।
सुरोत्तमटीका
कुत इत्यत आह ।। पक्षीकृतेति ।। गुणान्पक्षीकृत्य अनन्तत्वं हेतूकृत्येति सम्बन्धः । अत्रास्मदुक्तदृष्टान्तो मय्यनन्तगुणेऽनन्त इति तदुक्तग्रन्थसूचित एवेति द्रष्टव्यम् । तस्माद्धेतूकरणात् पक्षीकरणाच्च ।। ९३८,९३९ ।।
युक्तिमल्लिका
प्रसाधयन्प्रभुः पक्षासिद्धिं हेतोरसिद्धताम् ।
यतो न सहते तस्मादनन्तत्वं गुणाश्च ते ।। ९३९ ।।
नोपचारादितस्सिद्धास्तत्सर्वं च स सर्वदा ।
आत्मशक्तिविशेषेण सर्वथा निर्वहेत्परम् ।। ९४० ।।
सुरोत्तमटीका
नोपचारित इत्यत्रादिपदेन भ्रान्तिर्ग्राह्या । उपचारादि-सिद्धस्यापि हेतूकरणे सिंहत्वेन देवदत्तस्यापि पशुत्वसाधनं बाष्पारोपितधूमेन वह्निमत्त्वसाधनं च प्रसज्येतेति भावः । प्राक्सामान्येनोक्तं घटकं विशिष्याह ।। तत्सर्वमिति ।। तत्सर्वं श्रौतं गुणगुण्यैक्यं गुणगुणिभावं गुणानन्त्यं च । आत्मशक्तिविशेषेणेति शक्तिविशेष एव भेदप्रतिनिधिर्विशेषः । स एव भेदाभावस्थले भेदकार्यनिर्वाहक इत्युक्तं भवति ।। ९४० ।।
युक्तिमल्लिका
यतस्सूत्रकृदप्याह विचित्रां शक्तिमात्मनि ।
धनी वक्ति धनानन्त्यमनुवक्त्यनुयाय्यपि ।। ९४१ ।।
प्रतिवक्ति कथं यस्तौ न शृृणोति न पश्यति ।
अतो विष्णोर्गुणानन्त्यमभूत्सर्वमनोरमम् ।। ९४२ ।।
सुरोत्तमटीका
सूत्रसम्मत्याऽप्ययं विशेषोऽप्यङ्गीकार्य इत्याह ।। यत इति ।। विचित्रां शक्तिमात्मनीत्यनेनात्मनि चैवं विचित्राश्चहीति सूत्रमभिप्रैति । ततः विशेषस्य प्रामाणिकत्वात् शक्तिविशेषेण निर्वहेदिति पूर्वेणान्वयः । उक्तविधया हरिणा स्वगुणानन्त्ये कथिते गुणपारादर्शिना शेषेण च गुणानंत्येऽङ्गीकृते कोऽन्यो नरस्तदभावं भावयेदित्यत्रलौकिकदृष्टान्तमाह ।। धनी वक्तीति ।। उक्तमुपसंहरति ।। अत इति ।। अतः श्रुतियुक्तिसद्भावात् ।। ९४१,९४२ ।।
सत्यप्रमोदटीका
तादृशशक्तौ सूत्रं प्रमाणयति यत इति । अनेन ‘आत्मनि चैवं विचित्राश्च हि’ ‘सर्वोपेता च तद्दर्शनादि’ति सूत्रद्वयं सङ्गृह्णाति ।। एतेन भगवत एकत्वेन, गुणानामानन्त्येन, तेषां भगवताऽभेदे, भगवतोऽप्यानन्त्यं वा गुणानामेकत्वं वा स्यादिति अपास्तम् । विचित्रशक्त्यैव विरोधोपशमनात् । एतेनैव शक्तिर्नाम पदार्थ एव नास्तीति मन्यमाना-स्तार्किकाः अपि निरस्ता । शक्तौ प्रमाणोदाहरणात् । धर्मी अनन्तकल्याण-गुणैश्वर्यवान् कृष्णः । अनुयायी ब्रह्मा । अनुवक्ति ‘नतोऽस्म्यनन्ताय दुरन्त-शक्तये’ इति । एवं रुद्रः ‘अनन्तायाव्यक्ताय नमः’ इति एवमन्येऽपि । एते नित्यं श्रवणरताः अपरोक्षिणश्च । मायावादी तूभयहीनः । ब्रह्मण; अवाच्यत्व मदृश्यत्वं ब्रुवाणः । कथं प्रतिवक्ति ।। ९४१, ९४२ ।।