ज्योतिष्ट्वेन हि चन्द्रस्य स्वरूपज्ञानवान्पुनः
अखण्डार्थवादनिरासः
युक्तिमल्लिका
ज्योतिष्ट्वेन हि चन्द्रस्य स्वरूपज्ञानवान्पुनः ।
चन्द्रत्वेनैव तं ज्ञातुं कश्चन्द्र इति पृच्छति ।। ९७२ ।।
सुरोत्तमटीका
परोदीरिताखण्डार्थवादस्यापि सत्यत्वादिगुणविरोधित्वेन नैर्गुण्यवादान्तःपातित्वात्तमप्यत्रैव दूषयति ।। ज्योतिष्ट्वेनेत्यादिना ।। हि यस्मादस्मिन्ज्योतिर्मण्डले कश्चन्द्र इति प्रश्नं कुर्वन्ज्योतिष्ट्वेन चन्द्रस्य ज्ञान-वानेव । तस्मात्सामान्यतः ज्योतिष्ट्वेनचन्द्रस्वरूपज्ञानवत्त्वात् पुनस्तं चन्द्रत्वेन इतरज्योतिर्विलक्षणचन्द्रत्वेनैव ज्ञातुं कश्चन्द्र इति पृच्छति । न तु ज्योतिष्ट्वेन प्रागेव ज्ञातस्वरूपमात्रज्ञानार्थम् ।। ९७२ ।।
सत्यप्रमोदटीका
इदानीं गुणविरोधित्वादखण्डार्थवादं खण्डयति । तत्र तावत् पदार्थपरं सत्यज्ञानादिवाक्यं अखण्डार्थनिष्ठं स्वरूपमात्रप्रश्नोत्तरत्वात् लक्षणवाक्यत्वाद्वा प्रकृष्टप्रकाशश्चन्द्र इति वाक्यवत् इति परोपन्यस्तानुमानं ‘स्वरूपमात्रस्य सिद्धत्वान्न स्वरूपमात्रे प्रश्नः’ इति तत्वोद्योतवाक्यमनुरुध्य असिद्धिदोषेण दूषयति ज्योतिष्ट्वेनेति । अस्मिन्ज्योतिर्मण्डले कश्चन्द्र इति प्रश्नो न स्वरूपमात्रविषयकः । ज्योतिष्ट्वेन चन्द्रज्ञानस्य प्रागेव विद्यमान-त्वादित्याह ज्योतिष्ट्वेनेति । अन्यथा ज्योतिर्मण्डल इति चन्द्र इति चानुवादा-योगात् । न ह्यविदितं वस्त्वनुवदितुं शक्यते । यदि तर्हि प्रश्नः न स्वरूप-मात्रविषयकः किंविषयः स इत्यत आह चन्द्रत्वेनेति । नक्षत्रादिव्यावृत्त-विशेषणविशिष्टत्वेनेत्यर्थः ।। ९७२ ।।
युक्तिमल्लिका
अतः कश्चन्द्र इत्येष प्रश्रः प्रश्नविदां मते ।
किंलक्षणक इत्येव स्वार्थमर्थातुरो भजेत् ।। ९७३ ।।
सुरोत्तमटीका
अतस्स्वरूपमात्रप्रश्नायोगात् । अर्थातुरः मायावाद्युक्त-स्वरूपमात्रातिरिक्तसजातीयविजातीयव्यावृत्ततया चन्द्रत्वाख्यासाधारणा-कारव्यञ्जक प्रकृष्टप्रकाशरूपार्थान्तरे औत्कण्ठ््यवान् ।। ९७३ ।।
सत्यप्रमोदटीका
अतो लक्षणप्रश्न एवायमित्याह किंलक्षणक इति ।। ९७३ ।।
युक्तिमल्लिका
चन्द्रत्ववान्क इत्येव वाक्यस्यार्थो यतः स्फुटः ।
स्वरूपमात्रप्रश्नत्वं स्वरूपासिद्धमेव ते ।। ९७४ ।।
सुरोत्तमटीका
कश्चन्द्र इति प्रश्नस्यापाततस्स्वरूपमात्रार्थत्वदर्शनेऽपि नत्वदभिलषितसिद्धिरित्याह ।। चन्द्रत्ववानिति ।। चन्द्रासाधारणधर्म-वानित्यर्थः । एवं च कश्चन्द्र इत्यस्य चन्द्रत्ववान्क इत्यर्थलाभेनासाधारण-धर्मप्रश्न एव कथं नाभूदिति भावः । जातिप्रश्नश्च तद्व्यञ्जकप्रश्ननान्तरीयक इति सुप्रसिद्धम् ।। ९७४ ।।
सत्यप्रमोदटीका
प्रश्नवाक्येनैवतावदर्थस्य लाभप्रकारं दर्शयति चन्द्र-त्वेति । चन्द्रवृत्तिलक्षणेत्यर्थः । तथा चासिद्धिरित्याह स्वरूपेति ।।९७४ ।।
युक्तिमल्लिका
एवं लक्षणवाक्यं च लक्षणं वक्ति नापरम् ।
अपृष्टोत्तरमेव स्याद्रूपमात्रनिरूपणे ।। ९७५ ।।
सुरोत्तमटीका
स्वरूपमात्रप्रश्नत्वे दोषान्तरमाह ।। एवमिति ।। एवं स्वरूपमात्रप्रश्नस्य व्यावर्तकधर्मपरत्ववत् ।। ९७५ ।।
सत्यप्रमोदटीका
द्वितीयो हेतुर्विरुद्ध इत्याह एवमिति । लक्षणवाक्यं परिहारवाक्यम् । अपरं अखण्डार्थम् । अपृष्टोत्तरं अपृष्टस्य उत्तरम् । प्रश्नोत्तरयोरसाङ्गत्यमिति यावत् ।। ९७५, ९७६ ।।
युक्तिमल्लिका
अतो लक्षणवाक्यत्वं विरुद्धो हेतुरेव ते ।। ९७६ ।।
सुरोत्तमटीका
अतः लक्षणवाक्ये लक्षणस्य कथनेन प्रश्नोत्तरयोरानु-गुण्याय प्रश्नस्यापि लक्षणविषयत्वावश्यम्भावात् सत्यज्ञानादिवाक्यं ब्रह्मस्वरूप-मात्रपरं लक्षणवाक्यत्वात्प्रकृष्टप्रकाशश्चन्द्र इति वाक्यवदित्यत्र ते हेतुर्विरुद्ध एव ।। ९७६ ।।
युक्तिमल्लिका
सत्यज्ञानादिवाक्यं तद्विशिष्टब्रह्मतत्परम् ।
लक्षणप्रश्नवाक्यत्वाच्चन्द्रलक्षणवाक्यवत् ।। ९७७ ।।
सुरोत्तमटीका
अत एव मदभिलषितप्रत्यनुमानसिद्धिरित्याह ।। सत्य-ज्ञानादीति ।। तत्तस्माल्लक्षणोत्तरप्रश्नस्यापि लक्षणविषयत्वनियमात् ।। ९७७ ।।
सत्यप्रमोदटीका
प्रत्यनुमानमाह सत्येति ।। ९७७ ।।
युक्तिमल्लिका
स्वरूपमात्रज्ञानस्य पदेनैकेन सम्भवात् ।
व्यर्थं पदान्तरं च स्याज्ज्ञातस्य ज्ञापनेन किम् ।। ९७८ ।।
सुरोत्तमटीका
प्रश्नोत्तरयोस्स्वरूपमात्रपरत्वे दूषणान्तरमाह ।। स्वरूप-मात्रेति ।। एकेन पदेन सत्यपदेन । किं फलं न किमपीत्यर्थः।।९७८ ।।
सत्यप्रमोदटीका
प्रतिज्ञादोषमाह व्यर्थमिति ।। ९७८ ।।
युक्तिमल्लिका
यदि सत्यादिपदतो लक्ष्ये ब्रह्मणि केवलम् ।
व्यावृत्तिस्स्यादसत्यादेस्तेन सार्थ(क)क्यमिष्यते ।। ९७९ ।।
सुरोत्तमटीका
असत्यादिव्यावृत्तिसंपादनेन सार्थक्यमाशङ्क्य परिहरति ।। यदीत्यादिना ।। केवलं सत्यत्वादिधर्मप्रतिपादनं विना ।। ९७९ ।।
सत्यप्रमोदटीका
शङ्कते यदिति । केवलं असत्यादेर्व्यावृत्तिः अतः सार्थक्यम् । सत्यत्वादिधर्माणां ब्रह्मण्यनर्पणेन अखण्डार्थत्वाहानिश्च ।।९७९।।
युक्तिमल्लिका
तर्हि गङ्गापदाल्लक्ष्ये तीरेऽपि न्यायसाम्यतः ।
व्यावृत्तिस्स्यादगङ्गायास्तीरे स्यान्मज्जनं सदा ।। ९८० ।।
सुरोत्तमटीका
अगङ्गायाः व्यावृत्तिरिति सम्बन्धः ।। ९८० ।।
सत्यप्रमोदटीका
दूषयति तर्हीति । ‘सत्यत्वादिधर्माप्रतिपादनेऽपीति यावत् । असत्यत्वादिव्यावृत्तिः पदानां प्रयोजनमिति वक्तुं न शक्यते । न हि तीरे नदीत्वमनभिदधतो नदीपदस्यानदीव्यावृत्तिः प्रयोजनं सम्भवति । विरोध्याकारसमर्पणेन हि विरोध्याकारान्तरं व्यावर्तनीयम्’ इति सुधोक्तिं हृदि कृत्वाऽऽह गङ्गेति । अन्येति च ।। ९८०, ९८१ ।।
युक्तिमल्लिका
अन्यव्यावृत्तिरपि हि तदा स्याद्यदि तत्पदम् ।
स्वार्थं समर्पयेत्तर्हि साऽप्यर्थाल्लभ्यते परम् ।। ९८१ ।।
सुरोत्तमटीका
अधुना सत्यत्वादिधर्माप्रतिपादने त्वदभिलषिता व्यावृत्तिरेव दुर्लभेत्याह ।। अन्यव्यावृत्तिरपीति ।। तत्पदं सत्यादिपदम् । स्वार्थं सत्यत्वादिकम् । सापि असत्यादिव्यावृत्तिरपि ।। ९८१ ।।
युक्तिमल्लिका
साक्षादन्यापोह एव न ह्यर्थो भवतो मते ।
अतस्सत्यत्वपूर्वार्थं यदि ब्रह्मणि नार्पयेत् ।
कथं व्यावर्तयेद्ब्रह्म विपक्षे तूक्तमेव हि ।। ९८२ ।।
सुरोत्तमटीका
अतस्साक्षादन्यापोहस्य पदार्थत्वाभावात् । विपक्षे धर्मार्पणाभावेऽपि व्यावृत्त्यङ्गीकारे बाधकमुक्तं तीरे स्यान्मज्जनं सदेत्यादिक-मेवेति योजना ।। ९८२ ।।
सत्यप्रमोदटीका
भवतः इति । सोऽर्थो बौद्धमते एवेति भावः । ‘अन्यापोह एवेति बौद्धाः’ इति पद्धत्युक्तेः । विपक्षे विरोध्याकारान्तर-व्यावर्तकत्वाङ्गीकारे । बाधकं तीरे मज्जनं स्यादित्येवंरूपम् ।। ९८२ ।।
युक्तिमल्लिका
किं च मुख्यार्थबोधे हि लक्षणा तेन सत्यता ।
ज्ञानताऽनन्तता चैव भवेद्ब्रह्मणि बोधिता ।। ९८३ ।।
सुरोत्तमटीका
सत्यादिपदानां ब्रह्मणि लक्षणाङ्गीकारे बाधकान्तरं चाह ।। किञ्चेत्यादिना ।। ९८३ ।।
सत्यप्रमोदटीका
मुख्यार्थबोधे लाक्षणिकेनापि गङ्गापदेन प्रवाहरूप-मुख्यार्थबोधे । हि एव । लक्षणा तत्रानुपपत्तिप्रतिसन्धानेन पश्चात्तीरे लक्षणा । दृष्टेति शेषः । ब्रह्मणि विष्णौ । निर्गुणब्रह्मणोऽद्याप्यसिद्धेः । न च श्रौतेऽर्थेऽनुपपत्तिरस्ति येन लक्षणाश्रयणमिति भावः ।। ९८३ ।।
युक्तिमल्लिका
सत्यत्वरहितं ब्रह्म मिथ्यैव स्याद्धटादिवत् ।
सद्रूपमपि तन्न स्यात्तद्वत्तेनैव हेतुना ।। ९८४ ।।
सुरोत्तमटीका
सत्यत्वरहितमिति हेतुगर्भविशेषणम् । सत्यत्व-रहितत्वादित्यर्थः । ननु सत्यत्वाभावेऽपि सद्रूपत्वेनैव ब्रह्मणो न मिथ्यात्व-मित्यत आह ।। सद्रूपमपीति ।। तद्ब्रह्म । तद्वद्घटवत् । पररीत्याऽयं दृष्टान्तः । तेनैव सत्त्वाभावेनैव ।। ९८४ ।।
सत्यप्रमोदटीका
निर्धर्मकाभिमतेऽपि ब्रह्मणि सत्यत्वानङ्गीकारे तस्या-सत्त्वमेव प्राप्नोतीत्याह सत्यत्वेति । विमतं निर्धर्मकं ब्रह्म, अत्यन्तासत्, सत्यत्वरहितत्वात् शशविषाणवत् इति प्रयोगो ध्येयः । न च वाच्यं सत्यत्वा-भावेऽपि सद्रूपमिति । तेनैव हेतुना सद्रूपत्वाभावस्यापि साधनादित्याह सद्रूपमपीति । यथोक्तं न्यायामृते मिथ्यात्वनिरुक्तिभङ्गे ‘नृशङ्गादावपि सद्रूपाभावादन्यस्यासत्त्वस्याभावेनात्यन्तासत्वापाताच्चे’ति ।। ९८४ ।।
युक्तिमल्लिका
न चेच्छशविषाणं च सद्रूपं ब्रह्मवद्भवेत् ।
केवलान्वयिधर्मत्वात्सत्त्वे सत्त्वं च वर्तते ।। ९८५ ।।
सुरोत्तमटीका
विपक्षे बाधकमाह ।। नचेदिति ।। सत्त्वाभावे सद्रूपत्वा- भावो नचेत् । सत्त्वाभावे सद्रूपत्वाभावस्य सत्तायां व्यभिचारमाशङ्क्य परिहरति ।। केवलान्वयीति ।। ९८५ ।।
सत्यप्रमोदटीका
ननु सत्त्वे व्यभिचारः । आत्माश्रयप्रसङ्गेन तत्र सत्त्वाभावेऽपि तस्य सद्रूपत्वादिति चेन्न । तत्रापि सत्त्वाङ्गीकारेण हेतोरेवा-भावात् । प्रामाणिकत्वान्नात्माश्रयो दोष इत्याह केवलेति । यथोक्तं तत्रैव भङ्गे न्यायामृते ‘मन्मते अबाध्यत्वरूपस्य सत्त्वस्याभिधेयत्वादिवत्स्वाश्रितत्वेन ब्रह्मणि सत्त्वाभावे सद्रूपत्वासिद्धेश्चे’ति ।। ९८५ ।।
युक्तिमल्लिका
अतस्सत्यत्वरहितं मिथ्यैव स्यान्न संशयः ।
शिरसो मुण्डने तस्माच्छिखामुण्डनमप्यभूत् ।। ९८६ ।।
सुरोत्तमटीका
अतस्सत्त्वेऽपि सत्त्वसद्भावात् । तस्मात्सत्त्वाभावकथने सद्रूपत्वाभावस्यावर्जनीयत्वात् । शिरसो मुण्डने शिखामुण्डनवत् सत्त्वाभावे त्वदभिलषितसद्रूपत्वमपि गतमिति भावः ।। ९८६ ।।
सत्यप्रमोदटीका
शिरसः सत्त्वस्य । शिखायाः सद्रूपत्वस्य ।।९८६।।
युक्तिमल्लिका
यदि सत्यपदेनापि ब्रह्म लक्ष्यं भवेत्तव ।
तर्हि तत्पदवाच्यं मे जगत्सत्यं भविष्यति ।। ९८७ ।।
सुरोत्तमटीका
सत्यपदस्य ब्रह्मणि लक्षणाङ्गीकारे पुनरपि बाधकमाह ।। यदीति ।। ब्रह्मणि सत्यपदलक्षणाङ्गीकारे तत्पदवाच्यं किंचिदवश्यं वक्तव्यम् । शब्दस्याभिधायकत्वनियमात् । तच्च परिशेषाज्जगदेव स्यात् । तेन चैतन्यस्य सत्यत्वं न सिद्ध्यतीति भावेनाह ।। तर्हीति ।। तत्पदवाच्यं सत्यपदवाच्यम् । हेतुगर्भविशेषणमेतत् । सत्यपदवाच्यत्वादित्यर्थः । वाचकस्य सत्यपदस्य सत्यत्वरूपप्रवृत्तिनिमित्तपुरस्कारित्वादिति भावः ।। ९८७ ।।
सत्यप्रमोदटीका
ब्रह्मणो लक्ष्यत्वपक्षे तस्यासत्त्वापत्तिरूपदोष उक्तः । न केवलं तावदेव । किन्तु तेनैव मम जगत्सत्यत्वसिद्धिरपीत्याह यदीति । लक्षणार्थमपि वाच्यार्थस्तावदावश्यकः । स च परिशेषात्प्रपञ्च एव भवेत् । तथा च श्रौतत्वेन प्रपञ्चस्य सत्यत्वसिद्धिरिति भावः ।। ९८७ ।।
युक्तिमल्लिका
गङ्गापदेन या वाच्या सैव गङ्गा यतो नृणाम् ।
अतस्त्वल्लक्षणा सर्वजगतो रक्षणाय मे ।। ९८८ ।।
सुरोत्तमटीका
तत्र दृष्टान्तमाह ।। गङ्गेति ।। ९८८ ।।
सत्यप्रमोदटीका
यद्यत्पदवाच्यं तत्तत्पदप्रवृत्तिनिमित्तधर्मवत् इति सामान्ये दृष्टान्तमाह गङ्गेति ।। अतस्त्वत्प्रक्रिया त्वत्प्रतिकूला मदनुकूला चेति देवानां प्रियोऽसीति भावः ।। ९८८ ।।
युक्तिमल्लिका
ब्रह्मैक्यवाक्यमपि ते स्वरूपपरमेव हि ।
एवं चेद्गतमद्वैतममानत्वान्नृशृङ्गवत् ।
भेदश्च श्रुतिमुख्यार्थस्सुस्थिरोऽभूदिति स्थितम् ।। ९८९ ।।
सुरोत्तमटीका
तत्त्वमसीत्यत्र परोदीरिततत्पदार्थनिष्ठसत्यादिपदानाम-खण्डार्थत्वं निराकृत्येदानीं ऐक्यरूपवाक्यार्थपरवाक्यस्याप्यखण्डार्थत्वं निराकरोति ।। ब्रह्मैक्यवाक्यमपीति ।। अमानत्वात् स्वप्रतिपादकप्रमाण-रहितत्वात् ।। ९८९ ।।
सत्यप्रमोदटीका
ऐक्यवाक्यानां तत्वमस्यादीनां वाक्यार्थपरवाक्यत्वेन पराभिमतानां तेन स्वरूपमात्रपरत्वाङ्गीकारोऽप्येवमेव तत्प्रतिकूलो मदनुकूल-श्चेत्याह ब्रह्मैक्येति । एवशब्देनाद्वैतबोधकत्वं व्यवच्छिनत्ति । अन्यथाऽ-खण्डार्थत्वहानेः । गतं असदिति सिद्धम् । सुस्थिरः साधकश्रुतिसद्भावात्, त्वद्रीत्यैवाद्वैतबोधकप्रमाणाभावेन बाधकाभावाच्चेति भावः ।। ९८९ ।।
युक्तिमल्लिका
दुर्जनस्सज्जनस्यार्थमुज्जिहीर्षेच्छनैश्शनैः ।
किं नोचुर्वेदवाच्यस्य स्वपदैरप्यवाच्यताम्
अन्धस्यान्ध्यं हि सन्दध्युरपदे पदसम्पदः ।। ९९० ।।
सुरोत्तमटीका
अखण्डार्थत्वं लोकप्रवाददृष्टान्ततयाऽपि निराकरोति ।। दुर्जन इत्यादिना ।। अर्थं द्रव्यम् । उज्जिहीर्षेत् उत्कृष्टतयाऽपहर्तुमिच्छेत् । तत्र दृष्टान्तमाह ।। किं नोचुरिति ।। अनन्तवेदपदवाच्यस्य स्वपदैस्सत्य-ज्ञानादिपदैः । अन्धस्य भावः आन्ध्यम् । अपदे पदप्रक्षेपणायोग्य-कण्टकादिस्थले ।। ९९० ।।
सत्यप्रमोदटीका
दुर्जनः अत्र मायी सज्जनस्य ब्रह्मणः । अर्थं सर्व-वैदिकशब्दपरममुख्यार्थत्वेन गुणपूर्णत्वरूपमर्थम् । हरेत् अपलपेत् । शनैः शनैः प्रथमं आनन्दमयादिशब्दवाच्यत्वदूषणेन अनन्तरं सत्यज्ञानादिस्वपदैरपि वाच्यत्वनिराकरणेनेत्येवम् । अन्धस्य मायिन इति भावः । आन्ध्यं शास्त्रार्थनिर्णयाक्षमताम् । सन्दध्युः स्थापयेयुः । अपदे समन्वयं प्रतिज्ञाय तदसाधके तद्विरुद्धे लक्षणयाऽखण्डार्थवादे पदसम्पदः सम्पद इत्यपहासः । श्रुतस्य सन्मार्गस्य त्यागः अश्रुते लक्षणापक्षे दुर्मार्गे पादक्षेपः इत्येवं अन्धन्तमोरूपमहागर्तमार्गेण गमनमिति भावः ।। ९९० ।।
युक्तिमल्लिका
अलक्षणं किलार्थोऽर्थो लक्षणोक्तेर्न लक्षणम् ।
स्वयं भूत्वा स्वमातैव वन्ध्येत्यतिखले वदेत् ।
व्यावर्तकोक्तिर्व्यावृत्त्यै न व्यावर्तकवाक्किल ।। ९९१ ।।
सुरोत्तमटीका
अलक्षणं लक्षणव्यतिरिक्तं चन्द्रस्वरूपमात्रम् । स एवार्थः अभिधेयः । लक्षणोक्तेः प्रकृष्टप्रकाश इति लक्षणोक्तेः अर्थः प्रतिपाद्यः । लक्षणं प्रकृष्टप्रकाशत्वरूपासाधारणधर्मः अर्थो न किलेति सम्बन्धः । एवं वदन् घटपदस्य घटोनार्थः । अपितु अघटः पटादिरेवार्थ इति वदन्निव अयं क इति सामान्यप्रश्नस्य स्वरूपमात्रपरतां निश्चित्य तद्बला-ल्लक्षणोक्तिमन्यथीकुर्वन्विस्पष्टलक्षणोक्तिबलात् प्रश्नमेव लक्षणविषयं कुतो न ब्रूते अत एव महामूर्ख इति भावः । या व्यावर्तकोक्तिः लक्षणोक्तिः । व्यावृत्त्यै सजातीयविजायतीयव्यावृत्त्यै न भवति किल । सा व्यावर्तकवाग्भवति किल व्यावर्तकवाग्व्यावृत्तिरूपस्वफलं नोत्पादयति चेत् माता भवति सुतं न सूत इतिवद्व्याहतमिति भावः ।। ९९१ ।।
सत्यप्रमोदटीका
लक्षणोक्तेः प्रकृष्टप्रकाशश्चन्द्र इति लक्षणवाक्यस्य । न लक्षणं अर्थः किं तु अलक्षणं स्वरूपमात्रं अखण्डम् । किलापहासे । व्यावर्तकोक्तिः असाधारणधर्मरूपलक्षणोक्तिः । व्यावृत्त्यै न सजातीय-व्यावृत्त्यैन भवति । अथापि व्यावर्तकवाक् तच्छब्देन व्यवह्नियते किल । व्याहतिमुपपादयति । स्वयं भूत्वा स्वयं तस्याः उत्पन्नः सुतो भूत्वा । अतिखलो जात्युत्तरवादी पदयोरेव परस्परविरोधादिति भावः ।। ९९१ ।।
युक्तिमल्लिका
नासां छित्वाऽपि दुष्टस्स्वामन्यस्याशकुनं चरेत् ।
सत्यादिपदमुख्यार्थस्सत्यादन्यत्किलानृतम् ।। ९९२ ।।
सुरोत्तमटीका
स्वां नासामिति सम्बन्धः । सत्याद्ब्रह्मणः अन्यत् अनृतं जगत्किल । जगतः स्वाभिमतमिथ्यात्वहानिं सोढ्वाऽपि ब्रह्मणः सत्यपद-मुख्यार्थताया निवारणादिति भावः ।। ९९२ ।।
सत्यप्रमोदटीका
नासां जगतो मिथ्यात्वरूपां स्वप्रक्रियामेव । छित्वाऽपि त्यक्त्वाऽपि अन्यस्य सत्यादिपदमुख्यार्थं ब्रह्मेति ब्रुवाणस्य तत्व-वादिनः । अशकुनं सत्यादिपदानामखण्डार्थताप्रतिपादनरूपम् । चरेत् कर्तुं अभिलषेत् । वस्तुतः औतस्य स्वाभिलषितस्यैवासिध्द्या स्वस्यैव तदशकुन-मिति भावः । अन्यत् विश्वम् । अनृतं तथात्वेन स्वाभिमतम् ।। ९९२ ।।
युक्तिमल्लिका
इच्छता वृद्धिमल्पस्य मूलं नष्टं भवेद्ध्रुवम् ।
सत्त्वादिमुण्डने किं न लक्ष्यत्वाद्यैस्सखण्डता ।। ९९३ ।।
सुरोत्तमटीका
अल्पस्याभाग्यस्य वृद्धिमिच्छतः सत्त्वादिमुण्डने सत्यादिपदानां ब्रह्मणि लक्षणाङ्गीकारेण सत्त्वादिधर्मत्यागादखण्डत्वं सिषाध-यिषतो मायावादिनः प्रक्रिययैव लक्ष्यत्वामुख्यार्थसम्बन्धाद्यैस्सखण्डता न किं न भवेत्किम् । भवेदेवेत्यर्थः ।। ९९३ ।।
सत्यप्रमोदटीका
अल्पस्य अविवेकिनः । वृद्धिं सत्यादिपदानां लक्षणां इच्छता आश्रयता मूलं अखण्डत्वम् । नष्टं भवेत् । ध्रुवं निश्चयः । तत्प्रकारं व्यनक्ति । सत्त्वेति । मुण्डने पदानां लक्षणामाश्रित्य निराकरणे । आद्यपदेन मुख्यार्थसम्बन्धादिग्रहः ।। ९९३ ।।
युक्तिमल्लिका
शान्तिकर्मणि वेतालोत्थानं स्यादबुधस्य हि ।
अखण्डत्वाद्यभावे तु सैवायाद्धि सखण्डता ।। ९९४ ।।
सुरोत्तमटीका
या निराकर्तुमभीप्सिता सैव सखण्डता । अखण्डत्वाद्य-भावे अखण्डत्वस्यापि धर्मत्वेन सखण्डत्वभीत्या तस्याप्यभावाङ्गीकारे द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति न्यायेन पुनस्सखण्डतैवायाद्धि अतश्शान्ति-कर्मणि वेतालोत्थानमभूदिति भावः
।। ९९४ ।।
सत्यप्रमोदटीका
वेतालाभिमतं परस्य सखण्डत्वं; तस्य शान्तये परिहारार्थं आरब्धे कर्मणि अखण्डार्थवादे वेतालस्य पुनस्तस्यैव सखण्डत्वस्य उत्थानं सातिशयस्य प्राप्तिः अबुधस्य मायिनः हि निश्चयः । हि यतः अखण्डत्वस्य आदिपदेन बोध्यत्वादेः अभावे तेनैव सधर्मकत्वापत्तिपरिहारार्थं अभावेऽङ्गीक्रियमाणे सति सा सखण्डता यन्निषेधार्थं उपक्रान्तं सा सधर्मता एव सातिशयं द्वौ नञौ इति न्यायात् । आयात् बलात्समापतिता ।। ९९४ ।।
युक्तिमल्लिका
परायुधैः परं छिन्द्याच्छस्त्रशिक्षाविचक्षणः ।
अवाच्यपदलक्ष्यत्वे मुख्यार्थावाच्यताक्षतेः ।। ९९५ ।।
सुरोत्तमटीका
अवाच्यपदलक्ष्यत्वे अवाच्यमिति पदेन लक्ष्यत्वे ब्रह्मणो लक्ष्यत्वाङ्गीकारे लक्षणाया मुख्यार्थबाधमूलत्वेन मुख्यभूतायाः पदाभिलषिता-वाच्यताया एव क्षतेः । शस्त्रशिक्षाविचक्षणः परायुधैः परं छिन्द्यादिति पूर्वेणान्वयः ।। ९९५ ।।
सत्यप्रमोदटीका
परायुधैः परेण ब्रह्मणो वाच्यत्वखण्डनायोपात्तैः पदलक्ष्यत्वाभिधानरूपैः परं अवाच्यत्वं छिन्द्यात् निराकुर्यात् । शस्त्रशिक्षा-विचक्षणः वितण्डाकथानिपुणः । परन्यायैस्तु दूषणमिति प्रकाराभिज्ञः । तत्कथमत आह अवाच्यपदेनापि लक्ष्यत्वे केनापिपदेनावाच्यमिति स्वसिद्धान्त- परिरक्षणाय अङ्गीक्रियमाणे सति मुख्यार्थस्य अवाच्यतायाः क्षतेः परित्यागात् । अन्यथा तत्पदवाच्यत्वापत्तेरवाच्यत्वसिद्धान्तहानिः स्यादिति भयादिति भावः । तथा च वाच्यत्वनिराकरणार्थं प्रयुक्तेन अवाच्यपदेनैव तत्पदलक्षणाश्रयण-निमित्तेन पुनः वाच्यत्वस्यैव प्राप्तिरिति भावः ।। ९९५ ।।