नाज्ञानमन्यधर्मोऽयं ब्रह्माज्ञानैकवादिनः
अज्ञानसंसर्गारोपासंभव:
युक्तिमल्लिका
नाज्ञानमन्यधर्मोऽयं ब्रह्माज्ञानैकवादिनः ।। ५३ ।।
सुरोत्तमटीका
ननु तर्हि प्राक्सिद्धाज्ञानसंसर्गारोपोऽयमस्त्वित्यत आह ।। नाज्ञानमिति ।। अयमज्ञानं धर्मः अज्ञानाख्यो धर्म इति यावत् । अन्यधर्मः ब्रह्मव्यतिरिक्तस्य कस्यचिद्धर्मो नेति योजना । तत्र हेतुगर्भं विशेषणम् ।। ब्रह्माज्ञानैकवादिन इति ।। केवलं ब्रह्माश्रितमेवाज्ञानमिति वादिनः । आश्रयत्व विषयत्वयोगिनी निर्विशेषचितिरेव केवलेत्युक्तेरज्ञानं ब्रह्माश्रितमेव नान्याश्रितमिति भावः ।। ५३ ।।
सत्यप्रमोदटीका
एवं अज्ञानस्वरूपस्यैवारोप इति कल्पं निरस्य, प्राक्सिद्धस्य अज्ञानस्य सम्बन्धमात्रारोपः इति द्वितीयकल्पं प्रतिषेधति नेति । प्रत्यक् चैतन्ये तत्सम्बन्धारोपनिर्वाहायाज्ञानस्य प्राक्सिद्धिमभिलषता तस्या-श्रयान्तरं वक्तव्यम् । निराश्रयस्य तस्यानवस्थानात् । न च तन्मते तदस्ति । चैतन्यातिरिक्तस्य जीवजडात्मकस्य सर्वस्याज्ञानकार्यत्वेन तदुत्तरकालीनत्वाङ्गी-कारात् । चरमभाविनश्च पूर्वसिद्धं प्रत्याश्रयत्वानुपपत्तेः । यथोक्तं विवरणे
‘आश्रयत्वविषयत्वभागिनी निर्विशेषचितिरेव केवला ।।
पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति’ इति ।
तदाह ब्रह्मेति । तथा च प्राक्सिद्धेर्दुर्घटत्वेन नाज्ञानसम्बन्धारोपोऽपि इति भावः ।। ५३ ।।
युक्तिमल्लिका
अतद्वति च तद्वत्त्वज्ञानं चेत्स्यादयं भ्रमः ।
अज्ञानवच्च ते ब्रह्म तद्वत्ताधीः कथं भ्रमः ।। ५४ ।।
सुरोत्तमटीका
अयमज्ञोऽहमित्यनुभवः अतद्वति अज्ञानाभाववति तद्वत्त्वज्ञानमज्ञानवत्त्वज्ञानं चेत् भ्रमस्स्यात् । अज्ञानसंसर्गारोपोऽपि तदा स्यात् यद्यज्ञानानाधारे ब्रह्मणि अज्ञानाधारत्वं प्रतीयेत । न चैवं तव मतमित्याह ।। अज्ञानवच्चेति ।। ते तव मते । तद्वत्ताधीः अज्ञानवत्ताधीः । अज्ञान-संसर्गधीरिति यावत् । संसर्गरहिते संसर्गज्ञानं हि भ्रमः स्यात् । न चेदं ज्ञानं तादृशमिति भावः ।। ५४ ।।
सत्यप्रमोदटीका
किञ्च ब्रह्मणि अज्ञानरूपधर्मिणः सम्बन्धारोपे प्रमाणं वक्तव्यम् । अहमज्ञ इति धीरिति चेत् भ्रान्तोऽसि । इयं धीः सम्बन्धवत्येव ब्रह्मणि सम्बन्धं विषयीकुर्वन्ती प्रमैव । तया च सम्बन्धसत्यत्वमेव सिध्यति न पुनस्तस्यारोपितता । अस्या धियो भ्रमत्वं तदा स्यात् यदि अज्ञान-सम्बन्धरहिते जडे तत्सम्बन्धं सा विषयीकुर्यात् । नैतदस्तीति कुतस्तस्या भ्रमत्वं कुतश्च तद्बलेन अज्ञानसम्बन्धारोपसिद्धिरित्याह अतद्वतीति ।। ५४ ।।
युक्तिमल्लिका
अज्ञानारोपतस्तत्र तद्योगस्याप्यभाववाक् ।
अज्ञानारोपमूलैव स च सर्वत्र दुर्लभः ।। ५५ ।।
सुरोत्तमटीका
नन्वज्ञानमेव तत्रारोपितं अतस्तत्संसर्गधीरपि भ्रम इत्यत आह ।। अज्ञानारोपत इति ।। अज्ञानारोपतः अज्ञानस्य मिथ्यात्वेनारोपि-तत्वात् । तत्र ब्रह्मणि । तद्योगस्याज्ञानसंसर्गस्य अभाववाक् अभाव इति वाक् अज्ञानारोपमूलैव अज्ञानारोपे सिद्धेहि आरोपितस्य तस्य संसर्गोप्यारोपित-स्स्यादिति भावः । स च संसर्गारोपमूलीभूताज्ञानारोपस्सर्वत्र ब्रह्मण्यन्यत्र च दुर्लभः । उक्तरीत्याऽऽज्ञानतादात्म्यारोपस्याज्ञानत्वरूपतद्धर्मारोपस्य च क्वाप्यदर्शनात् । ततश्चाज्ञानस्यानारोपितत्वात् तत्संसर्गस्याप्यारोपितत्वपक्षो न घटते घटादौ जडेऽज्ञानसंसर्गरहिते तत्संसर्गप्रतीतौ संसर्गारोपस्स्यात् । नचैवम् । अतस्संसर्गोऽप्यनारोपित एवेति भावः ।। ५५ ।।
सत्यप्रमोदटीका
विमतः अज्ञानसम्बन्धः आरोपितः आरोपिताज्ञान-प्रतियोगिकत्वात् इति प्रयुज्यत इति चेत् पूर्वोक्तं मा विस्मार्षीरित्याह अज्ञानारोपत इति । स्यादेवं प्रयोगो यदि अज्ञानारोप एव प्राक् सिद्धो भवेत् । स चाधिष्ठानानुपपत्त्या दूषित इत्याह स इति । दुर्लभः दुरुपपादः । सर्वत्र ब्रह्मणि अन्यत्र च । प्रतियोग्यारोपे यत्प्रधानं तदाश्रयत्वेन ब्रह्मणः, अज्ञानोत्तर कालीनत्वेन चान्यस्येति कस्याप्यधिष्ठानत्वानुपपत्तेरिति भावः । तथा च हेतोर्विशेषणासिद्धिरिति हृदयम् ।। ५५ ।।
युक्तिमल्लिका
अन्योन्यधर्माध्यासोऽस्ति तत्राध्यासस्तवापि न ।
अतो नाज्ञानसंसर्गारोपोऽप्ययमभूत्तव ।। ५६ ।।
सुरोत्तमटीका
अहमज्ञ इति ज्ञानस्याज्ञानारोपत्वपक्षेऽपसिद्धान्तश्च स्यादित्याह ।। अन्योन्येति ।। अन्योन्यधर्माध्यासः देहधर्मस्य कृशत्वादेः तव मते आत्मन्यध्यासोऽस्ति । तत्रात्मनि अध्यासः धर्मिण एव । अन्योन्या-त्मकतामित्युक्तया देहतादात्म्यारोपाङ्गीकारेऽपि मयि देह इति देहाधारत्वादि-भ्रमस्तवापि मते न । एवं चाज्ञानतादात्म्यारोपसम्भवेऽप्यज्ञानं मयीति संसर्गारोपः कथं स्यात् । किं त्वज्ञानत्वरूपाज्ञानधर्मस्यैव संसर्गारोपो वाच्यः । देहस्येवाज्ञानस्यैव संसर्गारोपेऽपि कथं नापसिद्धान्त इति भावः । अतः अज्ञानत्वधर्मसंसर्गारोपस्यैव संसर्गारोपत्वात् । अयमज्ञानवानहमित्यनुभवः अज्ञानसंसर्गारोपोऽपि नाभूदित्यन्वयः । अपिपदेनाज्ञानस्वरूपारोपत्वाभावं समुच्चिनोति ।। ५६ ।।
सत्यप्रमोदटीका
अन्योन्यधर्मेति । एतदुपलक्षणम् । अन्योन्य-तादात्म्येत्यपि ग्राह्यम् । तव मते इति शेष । न केवलं स्वभावाज्ञानवादे इत्यपेरर्थः । अतः त्वन्मतविरोधात् । अयं अहं अज्ञः इत्यनुभवः । देहगत-कृशत्वादिधर्मसंसर्गारोपवत् अज्ञानत्वसंसर्गारोप एव त्वया वक्तव्यः । अज्ञान-संसर्गारोपवचने कथं नापसिद्धान्त इति भावः ।। ५६ ।।
युक्तिमल्लिका
तत्रैव सन्निकृष्टस्य सन्निकर्षे कथं भ्रमः ।
घटवद्भूमिघटयोस्संयोगो यदकल्पितः ।। ५७ ।।
सुरोत्तमटीका
उक्तार्थे युक्तिं सूचयन्दृष्टान्तमाह ।। तत्रैवेति ।। तत्रैव धर्मिणि सन्निकृष्टस्य सन्निकर्षवतः । सन्निकर्षे सन्निकर्षविषये । वस्तुगत्या घटवती या भूमिः तस्याः घटस्य च संयोगः यद्यस्मादकाल्पनिकः तस्माद-ज्ञानवति अज्ञानसंसर्गारोपोऽपि न घटत इति भावः ।। ५७ ।।
सत्यप्रमोदटीका
तत्रैव धर्मिण्येव । सन्निकृष्टस्य संसर्गवतः, विद्य-मानस्य इति यावत् । सन्निकर्षे प्रकारतयाऽवभासे । भ्रमः भ्रमत्वम् । न हि विशेष्यवृत्तिधर्मप्रकारकत्वे ज्ञानस्य भ्रमत्वं इत्येतद्दृष्टान्तोक्त्याऽभिनीय दर्शयति घटवदिति ।। ५७ ।।