यद्यज्ञानं मनोवृत्तिप्रतिबन्धकमेव न

।। श्रीः ।।

श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ।।

श्रीमद्वादिराजतीर्थश्रीमत्पूज्यचरणविरचिता युक्तिमल्लिका

साक्षात्कारे मनः अङ्गि ध्यानं प्रधानाङ्गम्

फलसौरभम्

युक्तिमल्लिका

यद्यज्ञानं मनोवृत्तिप्रतिबन्धकमेव न ।

मनसा ब्रह्मणस्तर्हि साक्षात्कारस्सदा भवेत् ।। १ ।।

योग्यस्यानापरोक्ष्यं हि प्रतिबन्धनिबन्धनम् ।

योग्यं च मनसो ब्रह्म दृश्यतेऽन्ते कथं न चेत् ।। २ ।।

श्रीमद्वादिराजतीर्थचरणारविन्दचञ्चरीक सुरोत्तमभिक्षुविरचिता युक्तिमल्लिकाटीका फलसौरभम्

सुरोत्तमटीका

इदानीं मोक्षाख्यफलस्यात्यन्तरङ्गसाधनत्वाच्छ्रवणमनननिदिध्यासनापरोक्षज्ञानभक्ति-भगवत्प्रसादाख्य मोक्षसाधनान्युपोद्घात सङ्गत्या फलसौरभस्यादौ निरूप्य ज्ञानस्वभावादेव मोक्ष इति यत्परोदीरितं भगवत्प्रसादाद्यनपेक्षज्ञानस्वभावाख्य मोक्षसाधनं तत्रावरकाज्ञाननिवृत्त्याख्यमोक्षं प्रत्याव्रियमाणः ब्रह्मापरोक्षज्ञानस्यैव हेतुत्वेऽन्योन्याश्रयप्रसङ्गादन्यदेवावरणनिवर्तकं वक्तव्यमिति भावेन तत्तावद्दूषयति ।। यदीत्यादिना ।।

अज्ञानं भावरूपाज्ञानम् । अनापरोक्ष्यं अपरोक्षाभावः । दृश्यते मनोवृत्त्या । अन्ते चरमापरोक्षज्ञानदशायाम् । न चेत् योग्यं न चेत् ।। १,२ ।।

श्री सत्यप्रमोदतीर्थश्रीचरणविरचिता विवृतिः

सत्यप्रमोदटीका

रामं दिग्जयिनं सुनिर्मलतनुं विभ्राजमानं सदा

श्रीसीतायुतमूलरामममलं सद्वंशरामं तथा ।

व्यासं विट्ठलमप्रमेयसुसुखं मध्वं जयीन्द्रं गुरून्

अन्यान्मद्गुरुमानमामि सततं मद्योग्यसौख्याप्तये ।। १ ।।

अथैतेषां कृपालेशमुपजीव्यैव केवलम् ।

बुद्धिशुद्ध्यै यथाबोधं विवृण्वे फलसौरभम् ।। २ ।।

आद्यसौरभाभ्यां ब्रह्मस्वरूपं निर्धार्य अनन्तराभ्यां साधनं समर्थितम् । अथेदानीमवसरप्राप्तं फलं सौत्रयुक्तिभिर्निर्णीयते । तत्रादौ ज्ञानस्यैव प्रसाद-निरपेक्षस्य मोक्षसाधनत्वं परोक्तं पराकृत्य ‘जिज्ञासोत्थज्ञानजात्तत्प्रसादादेव मुच्यते’ इत्यनुव्याख्यानोक्तो अतःशब्दार्थो निर्धार्यते । सौरभभेदस्य प्रायिकत्वात् फलसौरभे साधनचर्चा नासङ्गता । किञ्चैवं प्रसादस्यान्तरङ्ग-साधनत्वं ज्ञापितं भवति । तत्रादौ वृत्तेरेव स्वभावतोऽज्ञाननिवर्तकत्व-मन्योन्याश्रयदोषेण निराह यदीति । मनोवृत्तिः भगवदपरोक्षीकरणयोग्येति तावदवश्यमङ्गीकरणीयम् । ‘मनसैवानुद्रष्टव्यम्’ इति श्रुतेः । न च तावता साक्षात्कारः सदा जायते । अतस्तत्प्रतिबन्धकसद्भाव आवश्यक इत्याह यदीति । उपपादयति योग्यस्येति । अनापरोक्ष्यम् अपरोक्षज्ञानाभावः । प्रतिबन्धेति अज्ञानरूपेत्यर्थः । अन्ते ‘श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञान-विपर्ययौ । संशयं च पराणुद्य लभते ब्रह्मदर्शनमि’त्युक्तचरमापरोक्षकाले ।। १,२ ।।

युक्तिमल्लिका

श्रुतिश्च मनसैवैनं पश्यतीत्याह योग्यताम् ।

रुणद्धि न परोक्षं तत्साक्षात्कारं रुणद्धि च ।। ३ ।।

सुरोत्तमटीका

 तत् प्रतिबन्धकभूतमज्ञानम् ।। ३ ।।

सत्यप्रमोदटीका

 तत् प्रतिबन्धकम् ।। ३ ।।

युक्तिमल्लिका

मनसः प्रतिरोधे हि श्रवणाद्यपि मृग्यते ।

प्रतिबन्धनिरासाय न चेत्स्वार्थं स्पृशेद्बलात् ।। ४ ।।

सुरोत्तमटीका

 प्रतिरोधे अज्ञानेन प्रतिरोधे सति । श्रवणाद्यपि प्रतिबन्धनिरासाय मृग्यत इति सम्बन्धः । न चेत् प्रतिबन्धकं नास्ति चेत् । स्वार्थं ब्रह्म ।। ४ ।।

सत्यप्रमोदटीका

 प्रतिबन्धनिरासाय अज्ञानसंशयविपर्ययनिरासाय ।। ४ ।।

युक्तिमल्लिका

मनसः प्रतिरोधे हि स्यादन्योन्याश्रयो ध्रुवम् ।

मनसोऽप्रतिरोधेऽपि स्यादन्योन्याश्रयो ध्रुवम् ।। ५ ।।

सुरोत्तमटीका

 एवं च परस्योभयतः पाशारज्जुरित्याह ।। मनस इति ।। प्रतिरोधे अज्ञानेन प्रतिरोधे । प्रतिबन्धकाज्ञानापगमे मनोवृत्त्या तत्साक्षा-त्कारः । साक्षात्कारेणैव च प्रतिबन्धकाज्ञाननिवृत्तिरिति परेणाङ्गीकारेऽ-न्योन्याश्रयः । अप्रतिरोधे अज्ञानेन प्रतिरोधाभावे । अन्योन्याश्रयः योग्य-मनसो योग्यब्रह्मणश्चान्योन्यमाश्रयः सम्बन्धः । अज्ञानस्य प्रतिबन्धकत्वे प्रागुक्तान्योन्याश्रयस्स्यात् । अप्रतिबन्धकत्वे सर्वदाप्यपरोक्षीकरणाख्या-न्योन्याश्रयः । एवं च दर्शनस्य श्रवणादिसाध्यत्वबोधकश्रुतिविरोधस्स्यात् । तस्मात् अज्ञानप्रतिबन्धान्न सर्वदा साक्षात्कार इत्येव वक्तव्यम् । तथा च प्रतिबन्धे सति साक्षात्कारायोगात् साक्षात्कारप्रतिबन्धकाज्ञाननिवृत्तिरूप-मोक्षोत्तरकालीनसाक्षात्कारस्य कथमविद्यानिवर्तकत्वापरपर्यायमोक्षसाधनत्वं स्वस्वभावेनैव स्यात् । स्वप्रतिबन्धकनिवृत्तेस्स्वेनैव कर्तुमशक्यत्वात् । न हि राजसाक्षात्कारप्रतिबन्धकराजगृहद्वारपिधानं राजसाक्षात्कारेणैव मोचयितुं शक्यम् । किन्तु प्रसन्नेन राज्ञा राजभटैर्वा प्रतिबन्धककवाटोद्घाटने कृते सत्येव राजसाक्षात्कारः । अतोऽत्रापि स्वसाक्षात्कारप्रतिबन्धकाज्ञानरूपयवनिका-विमोचनाय स एव प्रभुरनुसर्तव्यः । ज्ञानस्वभावादेव मोक्षं तु तत्प्रतिबन्धका-ज्ञानस्वभाव एव निरुणद्धीति भावः ।। ५ ।।

सत्यप्रमोदटीका

 एवं च वृत्त्यैवाज्ञाननिवृत्तिरिति परमतेऽन्योन्याश्रयो वज्रलेप इत्याह मनस इति । ध्रुवमिति अज्ञाननिवृत्तौ साक्षात्कारः । साक्षा-त्कारेणैव चाज्ञाननिवृत्तिरिति । कार्येणैव स्वप्रतिबन्धकनिवृत्तिरित्यभ्युपगमात् । यथाऽऽह ‘श्रुतमयेन ज्ञानेन तत्त्वमभिधाय चिन्तामयीमवस्थामवलम्बमानस्य यदन्तःकरणपरिणामात्मकं वृत्तिरूपं ज्ञानमुपजायते तेन भवेदज्ञाननिवृत्ति-रि’ति । अन्योन्याश्रय इत्युपलक्षणम् । स्वयमज्ञानकार्याया वृत्तेः स्वोपादानाज्ञाननिवर्तकत्वासम्भवश्च दोषो ज्ञातव्यः । तदुक्तं न्यायामृते अविद्यानिवर्तकभङ्गे ‘‘किञ्च तन्निवर्तकत्वे तत्स्थित्यसहिष्णुत्वस्थितिकत्व-रूपविरोधस्य तन्त्रत्वात्कार्यस्य चोपादानेनाविरोधान्न वृत्तिः स्वोपादानाज्ञान-निवर्तिके’’ति ।। ५ ।।

युक्तिमल्लिका

श्रवणं मननं चैव ध्यानं चेति क्रमात्त्त्रयम् ।

प्रधानाङ्गं हि मनसो द्रष्टव्ये परमात्मनि ।। ६ ।।

सुरोत्तमटीका

 परोक्तमोक्षसाधनं निराकृत्य स्वाभिमतमोक्षसाधनानि परं प्रत्युक्तदोषस्य स्वपक्षे यथानवकाशस्तथा दर्शयति ।। श्रवणमित्यादिना ।।६।।

सत्यप्रमोदटीका

 ‘स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवेदि’त्यनु-व्याख्यानमनुरुध्य स्वमते भगवत्प्रसादादेवाज्ञाननिवृत्तिरित्यभ्युपगमेन न कोऽपि दोष इत्याह श्रवणमिति । हिशब्देन भाष्योदाहृतया ‘श्रुत्वाऽऽत्मानं मतिपूर्वं ह्युपास्य इहैव दृष्टिं परमस्य विन्देत्’ इति श्रुत्या प्रसिद्धिमाह ।। ६ ।।

युक्तिमल्लिका

प्रतिबन्धनिरुद्धं हि मनो द्रष्टुं न शक्नुते ।। ७ ।।

सुरोत्तमटीका

 प्रधानाङ्गतामेवोपपादयति ।। प्रतिबन्धेति ।। प्रतिबन्ध-निरुद्धं प्रतिबन्धेन यवनिकासदृशप्रकृत्यंशाख्यप्रतिबन्धेन निरुद्धम् । प्रतिबन्ध-निवृत्तौ श्रवणादीनामङ्गतेति भावः ।। ७ ।।

सत्यप्रमोदटीका

 प्रतिबन्धेति ।। एतच्च ‘ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनादि’ति सूत्रभाष्ये स्पष्टमिति भावः ।। ७ ।।

युक्तिमल्लिका

परोक्षज्ञानरूपात्तु सदा ध्यानात्प्रसन्नधीः ।

अपसार्य निरोधं तं स्वात्मानं दर्शयेत्प्रभुः ।। ८ ।।

सुरोत्तमटीका

 एतदेव दर्शयति ।। परोक्षेति ।। भगवन्महिम-प्रतिपादकोपनिषद्वाक्यानां ब्रह्ममीमांसाप्रदर्शितोपक्रमादिलिङ्गैर्गुरुमुखादर्थ-श्रवणं, तस्यैवार्थस्य ताभिरेव युक्तिभिः पुनः पुनस्स्वयमेव शास्त्राभ्यासेन वा तत्वनिर्णयफलकवादकथाया वा तदङ्गधारणादिकमिति वचनाच्छास्त्रार्थ-धारणावता स्वमनसा वा क्षणे क्षणेऽनुचिन्तनं मननम् । एताभ्यां श्रवण-मननाभ्यां निर्णीतभगवद्गुणानां तैलधारावदविच्छिन्नया भगवतोऽन्यत्रासार-बुद्ध्या ततो निवर्तितया भगवत्येव सस्नेहमनुवृत्तया च मनोवृत्त्या निरन्तरध्यानं निदिध्यासनम् । आवृत्तिरसकृदुपदेशादिति सूत्रादिदं श्रवणं यावन्मनन-शक्त्युदयं पौनःपुन्येन कार्यम् । मननं च यावन्निदिध्यासनशक्त्युदयं कार्यम् । तच्च यावदपरोक्षं कार्यम् । इमानि च क्रमेणोत्तरत्र प्रचुरभगवत्प्रसादसाधनानि तत्परोक्षज्ञानरूपाणि मनसः सहकारिभूतसाधनानि । मनस्तु सर्वत्राङ्गि । करणरूपत्वात् । तच्च सहकारिभिरेतैः क्रमेणान्यत्रोपोद्बलितविरक्तिभगव-त्यभिवृद्धभक्ति च भवति । तत्र निरन्तरभगवद्रुणगणस्मरणरूपतया भगवतोऽतिप्रेमहेतुभूतात्सदाध्यानात्सदाध्यानाख्यनिदिध्यासनात् प्रधानाङ्गात् प्रसन्नधीः मम गुणगणस्मरण एव लालसान्तःकरणस्यान्यत्र विरक्तस्य मय्येव चानुरक्तस्य मद्दर्शनकामुकस्य चास्य मां दर्शयामीति महाप्रसादसंपन्नकरुणा-र्द्रधीः । तं निरोधं स्वापरोक्षप्रतिबन्धकप्रकृत्यंशम् । एवं च निदिध्यासन-पर्यन्तपरोक्षज्ञानपरंपरायास्साक्षात्कारप्रतिबन्धे सत्यपि सम्भवान्नान्योन्याश्रयः । आवृतघटादावपि शब्दादिनाज्ञानदर्शनात् । अपरोक्षज्ञाने च प्रतिबन्धकीभूत-प्रकृत्यंशरूपमायां भगवानेवापसारयति स्वात्मानं दर्शयति च । न तु दर्शन-शक्त्यैव तदपसरणम् । येनान्योन्याश्रयदोषस्स्यात् । अतः प्रतिबन्धक-मपसारयन्नेव भगवान्दोषमपीममस्मन्मताद्बहिरेवापसारयामासेति भावः ।। ८ ।।

सत्यप्रमोदटीका

 परोक्षज्ञानरूपादिति । तेन परमपाटवापन्नाद् ध्यानादतिरिक्तं नापरोक्षज्ञानं नामास्तीति मतं प्रत्युक्तम् । ‘तेषां दर्शनश्रुतय उपचरितार्थाः प्रसज्येरन्’ इति सुधायां तत्पक्षस्य दूषणात् । सदेति । सुधोक्तरीत्या आदरनैरन्तर्याभ्यां विषयवैराग्यतद्भक्तिसहिताद् बहुकालोप-चितादित्यर्थः । ध्यानात् निदिध्यासनापरपर्यायात् । निरोधं स्वगुणा-च्छादिकापरमाच्छादिकारूपप्रतिबन्धकीभूतप्रकृतिद्वयम् । अपसार्य द्वितीया-मिति शेषः । आद्यां हत्वा अकार्यकरीं कृत्वेत्यपि ग्राह्यम् । प्रभुः अचिन्त्य-शक्तिः । तेन स्वयमव्यक्तस्वभावस्यापि स्वात्मनः प्रकाशनं युक्तम् । एवं अनादेर्बन्धस्य विनाशनमपि । तेन स्वमते ज्ञानस्वभावत एव तत्प्रतिबन्धक-निवृत्त्यनङ्गीकारात्प्रसन्नपरमात्मन एव तदङ्गीकारात् परमत इव नान्योन्याश्रय इति ज्ञापितम् । तदुक्तमनुव्याख्याने ‘अज्ञानां ज्ञानदो विष्णुरि’ति ।। ८ ।।

युक्तिमल्लिका

जह्यजामजितेत्याह तस्माद्भागवते श्रुतिः ।। ९ ।।

सुरोत्तमटीका

 उक्तार्थे प्रमाणं चाह ।। जहीति ।। अनेन जय जय जह्यजामजितदोषगृहीतगुणामिति श्रुतिगीतावाक्यं सङ्गृह्णाति । जहिशब्दश्चात्र श्रुतिगीतावाक्यस्थजयशब्दद्वयस्याप्युपलक्षकः । हे अजित परमात्मन् । जय उत्कृष्टो वर्तस्व । त्वमेव अजां ज्ञानप्रतिबन्धप्रकृतिं जहि नाशय । जय अपसारय चेत्याहेति सम्बन्धः । तस्मात् ज्ञानेनैवाज्ञाननिवृत्तावन्योन्याश्रयात् । श्रुतिः भागवते श्रुतिगीतावाक्यम् । श्रुतिप्रतिरूपत्वाच्छ्रुतिरित्युक्तम् । भागवत इत्युपलक्षणम् । ‘‘स्वरूपाच्छादिकां हत्वा परमाच्छादिकां परः । व्याघुट््य मोक्षपदवीं ददाति पुरुषोत्तम’’ इति पुराणान्तरवचनमपि द्रष्टव्यम् ।। ९ ।।

सत्यप्रमोदटीका

 उक्तार्थं प्रमाणयति जहीति । ‘जय जय जह्य-जामजितदोषगृहीतगुणामि’त्यत्र जयेति द्विर्वचनेन अजाया हननम् अपराया अपसरणं विवक्षितम् । तेनोक्तार्थे संवादः ।। ९ ।।

युक्तिमल्लिका

दृष्टश्च भगवानेकं हृद्ग्रन्थिं स्वं भिनत्त्यजः ।

अन्यं चापसृतं कुर्यात्तेनाच्छादयति क्वचित् ।। १० ।।

सुरोत्तमटीका

 एतदेव विशदयति ।। दृष्टश्चेति ।। भिनत्ति दग्धपटायितां करोति । अपसृतं ईषदपसृतम् । सर्वथा नाशोपसरणं च परममुक्तिदशायामेवेति द्रष्टव्यम् ।। १० ।।

सत्यप्रमोदटीका

 भिद्यते हृदयग्रन्थिरिति श्रुतावपि इयमेव गतिरित्याह दृष्ट इति ।। १० ।।

युक्तिमल्लिका

अतः कदाचिद्दृश्योऽसावदृश्योऽपि कदाचन ।

आमुक्तेश्च व्यवस्थेयं जीवन्मुक्तिश्च सा मता ।। ११ ।।

सुरोत्तमटीका

 सा व्यवस्था ।। ११ ।।

सत्यप्रमोदटीका

 तेन ‘मनसः प्रतिरोधे ही’ति प्रागुक्तोभयतः पाशा-रज्जुर्नास्मान्स्पृशतीत्याह अत इति । कदाचन प्रारब्धकर्मणा प्रतिबन्ध-दशायाम् । सा प्रारब्धकर्मावसानपर्यन्ता । मता ‘ॐ ऐहिकमप्रस्तुतप्रतिबन्धे’ इत्यधिकरणे ।। ११ ।।

युक्तिमल्लिका

यदि ज्ञानेनैव कार्यैस्सहाज्ञानं निवर्तते ।

तदा मोक्षविलम्बस्य न किञ्चित्कारणं तव ।। १२ ।।

सुरोत्तमटीका

 ज्ञानस्वभावेनैव मुक्तिरिति पक्षे दोषान्तरं चाह ।। यदीति ।। कार्यैः कामकर्मादिभिः । त्रिक्षणावस्थायिज्ञानस्वभावेनैव मुक्तिरिति मते ज्ञानोत्तरक्षण एव मोक्षस्स्यादिति भावः ।। १२ ।।

सत्यप्रमोदटीका

 यदीति । तदुक्तं सुधायां ‘यदि च ज्ञानमात्राद्बन्ध-बाधः तदा ज्ञाने सति किमपि मुक्तिर्नैवापेक्षते इति सद्य एव साक्षात्कृतब्रह्मणां शरीरादिनिवृत्तिः प्रसज्येत’ इति ।। १२ ।।

युक्तिमल्लिका

स्वतन्त्रश्चेत्प्रभुर्मध्ये स्वेच्छया स निवर्तयेत् ।

स्वतन्त्रश्च नियोगार्हो नेत्याहुर्हि मनीषिणः ।। १३ ।।

सुरोत्तमटीका

 स्वमते तु नायं दोष इत्याह ।। स्वतन्त्र इति ।। चेत् अस्ति चेत् । सः स्वतन्त्रपुरुषः ।। १३ ।।

सत्यप्रमोदटीका

 स्वेच्छयेति । न तु प्रारब्धकर्मप्रतिबद्धत्वात्तदिच्छया इति भावः । ‘अचेतनानां कर्मणां स्वतन्त्रभगवत्प्रतिबन्धकत्वायोगात्’ इति सुधोक्तेः ।। १३ ।।

युक्तिमल्लिका

वरं वरय भद्रं त ऋते कैवल्यमात्मनः ।

एक एवेश्वरस्तस्य भगवान्विष्णुरच्युतः ।

इति भागवते प्रोक्तं तद्धि देवानुशासनम् ।। १४ ।।

सुरोत्तमटीका

 भगवत एव मोक्षदातृत्वे निरवकाशप्रमाणमाह ।। वरमिति ।। आत्मनः स्वस्य । कैवल्यं मोक्षमृत इति सम्बन्धः । तस्य कैवल्यस्य । ईश्वरः दाने समर्थः । सावधारणतया विष्णोरेव कैवल्यदातृत्व-कथनान्निरवकाशमिदं वाक्यम् । केषामिदं वचनमित्यत आह ।। तद्धीति ।। तत् वाक्यम् । देवानुशासनं मुचुकुन्दं प्रति देवानामनुशासनम् । स्वज्ञान-महिम्नैव मोक्षस्य स्वसम्बन्धित्वाभावं सूचयितुं स्वप्रतिपादककैवल्य-प्रतिपादकपादयोर्विसन्धिकरणम् । ‘‘वरं वरयेति भद्रं ते’’ इति च देवै-स्स्वोपकारकमुचुकुन्दं प्रत्याशीर्दानेन स्वोपकारविमोचनेऽप्यसमर्था वयं न कैवल्यदाने समर्था इति सूचयति । अत एव ऋते कैवल्यमित्याहुः । अनेनैवेष्टदायकत्वरूपमिष्टदैवत्वं च न स्वेषामिति सूचयन्ति । एतावतैव स्ववक्तव्यार्थस्य पूर्णत्वेऽपि पुनरुत्तरार्धे व्याप्तत्वात् विशिष्टबलनियमनशीलत्व-समग्रैश्वर्यादिगुणभरितत्वाद्देहादेरपि च्युतिरहितत्वेन नित्यमुक्तत्वाच्च मोक्षदान-समर्थम्, अत एव परमेष्टदैवरूपमनीदृशं स्वभिन्नं च भगवन्तमुपदिशन्तस्स्व-जगद्गुरुतां च सूचयन्ति । साक्षाद्देवैरेवेत्थमनुशासनाच्च विष्णोरन्यदेवानां न कैवल्यदातृत्वमिति भावः।। १४ ।।

सत्यप्रमोदटीका

 देवानां मुचुकुन्दं प्रत्यनुशासनम् । भागवते (द.उ. अध्या.५१, श्लोक २०) एवेति ज्ञानस्वभावस्य व्यावृत्तिः इतरदेवानामपि । अच्युतः चतुर्विधनाशरहितः अत एव ईश्वरः मोक्षदानसमर्थः ।। १४ ।।

युक्तिमल्लिका

मुक्तौ ग्रन्थिद्वयं सम्यङ्मोचयेन्मुक्तचेतनात् ।

बन्धं मनोमानलिङ्गदेहात्मानं च मोचयेत् ।

मुक्तौ स्वरूपनिष्पत्त्या तस्य स्वच्छन्ददर्शनम् ।। १५ ।।

सुरोत्तमटीका

 प्राक् जीवन्मुक्तिदानं वर्णितम् । इदानीं परम-मुक्तिदानप्रकारमपि वर्णयति ।। मुक्ताविति ।। परममुक्तावित्यर्थः । ग्रन्थिद्वयं स्वाच्छादकपरमाच्छादकप्रकृत्यंशाख्यहृद्ग्रन्थिद्वयम् । मनोमानलिङ्गदेहात्मानं बन्धं मानोऽभिमानः । अविद्यानिमित्तकतदतिरिक्तबन्धस्वरूपनिरूपणार्थ-मिदम् । तस्य मुक्तस्य ।। १५ ।।

सत्यप्रमोदटीका

 मानः अस्वरूपे स्वरूपत्वबुद्धिः । लिङ्गदेहात्मा प्राकृतदेहविषयिणी । न तु स्वरूपदेहे जीवभावाभिमानः । तस्य मुक्ता-वप्यनुवृत्तेः । ‘ब्रह्मैव सन् ब्रह्माप्येति’ इति श्रुतेः ब्रह्म प्रधानमुपयान्त्य-गताभिमाना इति स्मृतेश्च । स्वच्छन्देति अनिशमित्यर्थः । ‘‘सकलस्य मुक्तनिकरस्य दृशाम् । वपुरिन्दिरापतिरमन्दरसं ननु सुन्दरं प्रकटयत्य-निशमि’’ति समुध्वविजयोक्तेः ।। १५ ।।

युक्तिमल्लिका

प्रतिबन्धनिवृत्तिश्च प्रतिबध्येन केवलम् ।

यस्यान्योन्याश्रयस्तं त्वां मुक्तं चापि न मुञ्चति ।। १६ ।।

सुरोत्तमटीका

 परस्य तु प्रागुक्तान्योन्याश्रयान् मुक्तिरेव न स्यादिति साहित्यमुद्रयाऽऽह ।। प्रतिबन्धेति ।। प्रतिबन्धेन अपरोक्षज्ञानेन । यस्य मते । बध्येनैव बन्धनिवृत्तेः क्वाप्यदर्शनादसम्भवं स्फोरयितुमेवमुक्तम् । मुक्तं सर्वस्मान्मुक्तोऽहमित्यभिमानवन्तमपि त्वामन्योन्याश्रयो न मुञ्चति । यद्यपि मुक्तस्य पुनर्मोचनाभावो सम्भावित एव । तथाप्ययं दोषो न मुञ्चतीति विनोदोक्त्या महानदीप्रवाहे मज्जत उन्मज्जतश्च द्राविडस्य गलबद्धकंबलवद-परिहार्यत्वात् । वाङ्मात्रेण त्वया त्यक्तोऽप्ययं दोषः तद्दोषान्मुक्त इत्यभिमानिनं त्वां न मुञ्चतीति सूचयति । एवं वदतो मरणेऽप्यन्योन्याश्रयान् मुक्तिर्न भवतीति भावः ।। १६ ।।

सत्यप्रमोदटीका

 मुक्तं चापि तमःप्राप्त्यनन्तरमपि । मायावादिनस्तम एव मुक्तिः । न मुञ्चति अन्यथाज्ञानस्य तत्स्वरूपत्वात्

।। १६ ।।

युक्तिमल्लिका

साक्षात्कारे तु करणं श्रवणं किल केवलम् ।

श्रवणेऽङ्गिन्युत्तराङ्गं मननादीति कश्चन ।। १७ ।।

सुरोत्तमटीका

 परप्रक्रियान्तरं दूषयितुमनुवदति ।। साक्षात्कारे त्विति ।। आदिपदेन निदिध्यासनं गृह्यते । श्रवणमेवाङ्गि तेनैवापरोक्षज्ञानाख्यफलं च भवति । मनननिदिध्यासने तु फलोत्पत्त्यनन्तरं क्रियमाणे असम्भावनाऽ-विपरीतभावनानिवृत्त्याख्यफलान्तरजनके श्रवणाख्यपूर्वाङ्गिन उत्तराङ्गे इति मायावादिनो वदन्तीति भावः ।। १७ ।।

सत्यप्रमोदटीका

 न केवलं ज्ञानस्वभावविषये किं नाम ज्ञानसाधनानां श्रवणमनननिदिध्यासनानां गुणप्रधानभावविषयेऽपि मायावादिनोऽन्यथामतिं दर्शयति साक्षात्कार इत्यादिभिः । कश्चन विवरणकारः । यथाऽऽह ‘‘श्रवणमङ्गि प्रमाणस्य प्रमेयावगमं प्रत्यव्यवधानात् । मनननिदिध्यासने तु चित्तस्य प्रत्यगात्मप्रवणसंस्कारपरिनिष्पन्नतदेकाग्रवृत्तिकार्यद्वारेण ब्रह्मानुभव-हेतुतां प्रतिपद्येते इति फलोपकार्यङ्गे’ इति ।। १७ ।।

युक्तिमल्लिका

श्रुतेर्ब्रह्मणि तात्पर्यावधृतिः श्रवणं मतम् ।

त्रिक्षणस्थायिविज्ञानरूपत्वान्न स्थिरं हि तत् ।। १८ ।।

श्रवणानन्तरं दृष्टिर्यदि ज्ञानाङ्गता गता ।

एकस्मिन्हि फले हेत्वोर्द्वयोरङ्गाङ्गिता मता ।। १९ ।।

सुरोत्तमटीका

 तदभिमतश्रवणस्वरूपं च निरूपयन्ननूदितपरप्रक्रियां दूषयति ।। श्रुतेरित्यादिना ।। अवधृतिरवधारणम् । तत् श्रवणम् । श्रवणस्य स्थिरत्वे मनननिदिध्यासनानन्तरं स्वफलजनकत्वे चादृष्टद्वारा कालान्तरभावि-स्वर्गाख्यफलजनकयज्ञस्योपरिक्रियमाणेष्ठ्यादिवच्छ्रवणोत्तरमनननिदिध्यासनयोरपि फलवत्सन्निधावफलत्वरूपा स्यादप्युत्तराङ्गता । न चैतदस्ति । ज्ञानरूप-तयाऽस्थिरस्य यज्ञवददृष्टादिद्वाररहितस्य स्वोत्पत्त्यनन्तरमेव स्वफलीभूता-परोक्षज्ञानजनकस्य च श्रवणस्य स्वाजन्यफलान्तरजनके उत्तरकालीनतया पूर्वकालीनस्वफलाजनके च मनननिदिध्यासने ओ एव न भवतः फलवतोऽङ्गि नस्सन्निधौ तत्फलेनैव सफलस्य फलान्तररहितस्य च सहकारिणोऽङ्गत्वात् । एतयोश्च त्वद्रीत्यैव तदभावात्कथमङ्गता । उत्तराङ्गता तु दूरापास्तेति अङ्गाङ्गितामतेऽत्यन्तग्रन्थसमुदायस्याभिप्रायः ।। १८,१९ ।।

सत्यप्रमोदटीका

  दूषयितुं तदुदितं श्रवणस्वरूपं अनुवदति श्रुतेरिति । नेति । येन मनननिदिध्यासनयोरनन्तरानुष्ठीयमानयोरपि, अदृष्टद्वारा स्थिरस्य यज्ञस्यानन्तरानुष्ठीयमानेष्ट्यादिवत्, स्वयमफलयोरपि फलवच्छ्रवणसन्निधेः तदङ्गत्वं सम्भाव्येतेति भावः । तेन श्रवणस्य स्वोत्पत्त्यनन्तरमेव ब्रह्मावगम-हेतुताङ्गीकारात् । ‘प्रमाणस्य प्रमेयावगमं प्रत्यव्यवधानादि’ति तद्वचनात् । श्रवणेनैव फलस्य ब्रह्मावगमस्य सिद्धत्वेन मनननिदिध्यासनयोः श्रवणं प्रत्यङ्गत्वस्यैवानुपपत्तेः । दूरे श्रवणस्य तदङ्गित्वमिति भावः ।। तदेव विकल्प-पूर्वकं स्पष्टयति श्रवणेति । अनन्तरम् अव्यवधानेनेति पूरणीयम् । अङ्गता मनननिदिध्यासनयोः श्रवणं प्रति अङ्गता । गता न सम्भवति । श्रवणेन जन्ये फले तयोर्हेतुत्वाभावादेव । अन्यथा अङ्गाङ्गिभावलक्षणव्याघात इत्याह एकस्मिन्निति । फलवत्सन्निधावफलं तदङ्गमिति अङ्गलक्षणात् । अफल-मित्यस्य अङ्गिना जायमाने फले उपकारकत्वमन्तरा फलान्तररहितमित्यर्थः

।। १८,१९ ।।

युक्तिमल्लिका

न जाता चेद्यतस्सा स्यात्तदेव करणं भवेत् ।

श्रवणं मननात्पूर्वं श्रुतं न ध्यानतः परम् ।। २० ।।

सुरोत्तमटीका

 उक्तमिदमेव मायिनां मतम् । सम्भावितपक्षान्तरं चोत्थाप्य दूषयति ।। न जातेति ।। न जाता चेत् श्रवणानन्तरमेव तत्फल-तयाऽभिमतदृष्टिर्न जाता चेदित्यर्थः । यतः यस्मात्करणात् । सा दृष्टिः । श्रवणस्य ज्ञानरूपतया तदैव नष्टत्वेन कालान्तरभाविदृष्टिर्यतो भवति तदेव करणं स्यान्न तु श्रवणमिति भावः । ननु निदिध्यासनानन्तरं पुनःश्रवणान्तर-मङ्गीक्रियत इत्यत आह ।। श्रवणमिति ।। २० ।।

सत्यप्रमोदटीका

 नेति ।। अव्यवधानेन श्रवणमखण्डार्थब्रह्मावगमं नोत्पादयति चेदित्यर्थः तदेव न तु श्रवणम् । तथा च श्रवणस्यैवाङ्गत्वमेव न । दूरेऽङ्गित्वमिति भावः । अथैतद्दोषपरिजिहीर्षया श्रवणस्य ध्यानानान्तर्यं कल्पयामीति चेच्छ्रौतक्रमव्याघात इत्याह पूर्वमिति । श्रुतं श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति श्रुतौ ।। २० ।।

युक्तिमल्लिका

मध्ये कल्पान्तरं कल्प्यं मननादौ न कश्चन ।

तच्चैकवाक्ये पठनात्त्त्रयं क्रमिककारणम् ।। २१ ।।

सुरोत्तमटीका

 मध्ये निदिध्यासनापरोक्षज्ञानयोर्मध्ये । कल्पान्तरं कारणान्तरं कल्प्यं श्रवणान्तरं कल्प्यं स्वकपोलेनैव कल्प्यम् । निदिध्यासितव्य इत्यतः परं श्रोतव्य इति श्रुतेरभावात् श्रवणस्वरूपमपि कल्पनीयम् । तस्य कारणता च कल्पनीया । मननादौ मननस्य आदौ आदिभागे न कश्चन कल्प्य इत्यर्थः । श्रोतव्य इति साक्षाच्छ्रौतपदस्य विद्यमानत्वात् । श्रुतहान्य-श्रुतकल्पनाप्रसङ्गान्नायं पक्षस्साधीयान् । किन्तु प्राथमिकपक्ष एव परेणाङ्गी-कार्यः । स चोक्तरीत्याऽयुक्त एवेति भावः । कस्तर्हि श्रुतेरभिप्राय इत्यत आह ।। तच्चेति ।। तत् त्रयं श्रवणमनननिदिध्यासनाख्यं त्रयम् । क्रमिककारणं साक्षात्साक्षात्कारसाधनं निदिध्यासनम् । तद्द्वारा मननम् । तयोर्द्वारा च श्रवणम् । एवं च त्रयमपि साक्षात्कारं प्रत्येव कारणम् । ‘‘आत्मा वा ओ द्रष्टव्य’’ इति प्रागुक्तदर्शनमुद्दिश्य त्रयाणामप्येकवाक्ये सहैव पठनात् त्रीण्य-प्यङ्गान्येव । कारणत्वसाम्यात् । अङ्गि तु एतत्सहकारेण भगवन्तं साक्षात्कुर्वत् करणरूपं मन एव । अन्यथा ‘‘कर्मणा ज्ञानमातनोती’’ति श्रुतेः श्रवणादपि पूर्वकालीनं कर्मैवाङ्गि स्यात् । अन्तःकरणशुद्धिद्वारा पुण्यद्वारा वा तज्जन्यसाक्षात्कारे श्रवणादित्रितयमप्युत्तराङ्गं स्यात् । अन्तःकरणस्यैव प्राधान्यादङ्गित्वम् । कारणानां तु सर्वेषां सहकारित्वलक्षणमङ्गत्वमेव न्याय्यमिति भावः ।। २१ ।।

सत्यप्रमोदटीका

 किञ्चास्मिन्पक्षेऽश्रुतकल्पनादोष इत्याह मध्ये इति निदिध्यासनसाक्षात्कारयोर्मध्ये इत्यर्थः । कल्पान्तरम् अश्रुतमपि श्रवणा-न्तरम् । कल्प्यं तथा चाश्रुतकल्पनादोषः । मननादौ मननात्पूर्वं, न कश्चन श्रवणरूपकल्पो न । तथा च श्रुतहानिश्च । क्रमिकेति तदुक्तम् ‘अपरोक्ष-दृशिश्चैव श्रवणान्मननादनु । सम्यङ्निश्चिततत्त्वस्य निदिध्यासनया भवेदिती’ति ।। २१ ।।

युक्तिमल्लिका

यदि साक्षात्कारकार्या ज्ञाननाशे सहायता ।

ज्ञानेऽङ्गिन्यङ्गतैव स्याच्छ्रवणेऽङ्गिनि नाङ्गता ।। २२ ।।

सुरोत्तमटीका

 सम्भावितपक्षान्तरमाशङ्क्य दूषयति ।। यदीति ।। साक्षात्कारः श्रवणजन्यब्रह्मसाक्षात्कारः । श्रवणफले ब्रह्मसाक्षात्कारे जातेऽपि साक्षात्कारस्स्वफलभूताविद्यानिवृत्तिमेतत्सहायेनैव करोति । नान्यथा । तर्हि ज्ञानरूपेऽङ्गिन्येवानयोरङ्गता । श्रवणेऽङ्गिन्यङ्गतेति पक्षो गत इत्यर्थः । नन्वस्तु तर्ह्ययमेव ममापि पक्ष इति चेत् । न विवरणोक्तेः श्रवणत्वापातात् । साक्षात्कारस्यापि ज्ञानरूपतया श्रवणपक्षोक्तदूषणेनैव दुष्टत्वाच्च ।। २२ ।।

सत्यप्रमोदटीका

 ननु मास्तु ज्ञानरूपे फले मनननिदिध्यासनयोः श्रवणं प्रति सहायता । ज्ञानफलेऽज्ञाननिवृत्तौ तयोः श्रवणं प्रति सहायताऽत एव श्रवणाङ्गत्वमस्तु इति सम्भावितं पक्षं स्वयमुत्थाप्य निराह यदीति एवं सति फलेऽज्ञाननिवृत्तौ ज्ञानमेवाङ्गि श्रवणादीनां त्रयाणामपि ज्ञानाङ्गत्व-मित्यायातम् । तथा च श्रवणमङ्गि मनननिदिध्यासने तदङ्गे इति त्वत्सिद्धान्तानवक्लृप्तिरेव स्यादित्याह ज्ञान इति । यद्यपि परेण ‘ज्ञानं च तस्मिन्परात्मभावनिवृत्तिरेव’ (बृ.शां.भा.४–४–२०) इति भाषितं तथा तद्भाष्यभावः सिद्धान्तबिन्दुव्याख्यायां ‘तज्ज्ञानं नैव जायते । किन्तु केवलं तदावरकाज्ञाननिरास एव जायते । तन्मूल एव तदानीं जायते इति व्यवहारः’ इति स्पष्टीकृतः । एवं च श्रवणाज्ज्ञानं नैव ज्ञायते केवलमज्ञाननिवृत्तिरेव भवति इति तन्मतमवगम्यते; तथाऽपि सम्भावितत्वादयं पक्षः स्वयमाशङ्क्य दूषित इति ज्ञेयम् । अत्र विस्तरः (भेद. प. ब्र.सू. इति ग्रन्थे) ।। २२ ।।