नेह नानेति वाक्यं च नानाभूतं न किञ्चन
नेहनानेति श्रुत्यर्थः
युक्तिमल्लिका
नेह नानेति वाक्यं च नानाभूतं न किञ्चन ।
ब्रह्मणीत्याह तेनैक्यं सर्वस्य जगतो भवेत् ।। ८९८ ।।
सुरोत्तमटीका
नेहनानेति वाक्यं नेहनानास्ति किञ्चनेति वाक्यम् । तेन ब्रह्मणि सर्वस्य नानाभावनिषेधेन । सविशेषणे विधिनिषेधौ विशेषणमुप-संक्रामत इति न्यायात् सर्वस्य जगतः ऐक्यं भवेदिति योजना ।। ८९८ ।।
सत्यप्रमोदटीका
नेहनानेति वाक्यस्य सिद्धान्तार्थं प्रतिपिपादयिषुः तत्परिशुद्धये पराभिमतं अनूद्य दूषयति नेहेति । किञ्चनशब्दस्य जगदित्यर्थः पराभिप्रेतः । तत्र नाना नास्तीति ब्रह्मणा जगत ऐक्यमुच्यते उत नास्तीति स्वरूपतो मिथ्यात्वम् । नाद्यः तथा सति सर्वस्य चेतनाचेतनस्य ऐक्यं बोधितं भवेत् तच्च चिन्मात्रैक्यवादिनस्तवापि नेत्याह अनृतेति असङ्कुचितस्य किञ्चनेति पदस्य चिन्मात्रमर्थो नैवेत्याह कथञ्चनेति ।। ८९८,८९९ ।।
युक्तिमल्लिका
अनृतस्य जडस्यास्य सर्वस्यैक्यं तवापि न ।
किञ्चनेति पदस्यार्थश्चिन्मात्रं न कथञ्चन ।। ८९९ ।।
सुरोत्तमटीका
अस्य जगतः । किञ्चन किमपीति सर्वग्राहि । किञ्चन-पदमहिम्ना चिन्मात्रमस्मिन्वाक्ये गृहीतुं न शक्यमिति भावः
।। ८९९ ।।
युक्तिमल्लिका
अतो नैक्यश्रुतिरियं नापि मिथ्यात्ववादिनी ।
नानापदेन चेहेति पदेन च विरोधतः ।। ९०० ।।
सुरोत्तमटीका
अतस्सर्वैक्यायोगात् । चिन्मात्रैक्यस्य उक्तरीत्याऽत्रा-लाभाच्च ।। ९०० ।।
सत्यप्रमोदटीका
मिथ्यात्वमपि नैतच्छत्यर्थः सम्भवतीत्याह नापीति । तथात्वे किञ्चन नास्तीत्येतावता पूर्तेर्नानापदस्य इहपदस्य च वैयर्थ्यापाता-दित्याह नानेति ।। ९०० ।।
युक्तिमल्लिका
अभिन्नसत्त्वमन्यत्र सत्त्वं वा यत्तयोर्मतम् ।
अतस्स्वगतधर्मेषु स्वावतारेषु किञ्चन ।
नानाभूतं नेति हरेस्तैरैक्यं वक्ति वागियम् ।। ९०१ ।।
सुरोत्तमटीका
यद्यस्मात्तयोः पदयोः । नानाभूतं नास्तीत्युक्तेऽभिन्न-मस्तीत्यर्थस्य पर्यवसानात् इह नास्तीत्युक्तेऽन्यत्रास्तीत्यर्थस्य च पर्यवसानात् मिथ्यात्वमप्यस्मिन्वाक्ये वक्तुं न शक्यमिति भावः । अतः पराभिलषित-जीवैक्यजगन्मिथ्यात्वार्थयोरसम्भवात् । किञ्चनशब्दस्यार्थं वासयितुं स्वगतधर्मेषु स्वावतारेष्वित्युक्तम् । अनन्तगुणेष्वनन्तावतारेषु च किञ्चन किमपि नानाभूतं नास्तीति सर्वैक्यकथनाय सार्थक्यादिति भावः । एवं सति पराभिलषितसङ्कोचः कुतो नेति चेन्न । अस्मिन्ग्रामे किञ्चनेत्युक्ते तद्ग्रामस्थसर्वलाभवत् । इह किञ्च-नेत्युक्ते ब्रह्मगतसर्वलाभस्यैव न्याय्यत्वात् । तैर्धर्मैरवतारैश्च ।। ९०१ ।।
सत्यप्रमोदटीका
न केवलं वैयर्थ्यं विरोधश्चेत्याह अभिन्नेति । विशिष्टनिषेधः सति विशेष्ये बाधे विशेषणमुपसङ्क्रामतीति न्यायेन ‘न जीर्णमलवद्वासाः स्नातकः स्यात्’ इत्यत्रेव नाना नास्तीत्युक्ते अभिन्नसत्त्वस्य इह नास्तीत्युक्तेऽन्यत्र सत्त्वस्य च प्राप्तेरित्याह मतमिति । अतः किञ्चनशब्दः प्रकृतधर्मादिपर एव सर्वनामत्वात् । तदुक्तं न्यायामृते वाक्यशेषस्थधर्माख्य-विशेषे पर्यवस्यति । किञ्चनेति हि शब्दोऽयमक्ताशब्दो घृते यथेति । तैरैक्यं = धर्मैरवतारान्तर्याम्यादिरूपैरैक्यम् ।। ९०१ ।।
युक्तिमल्लिका
घटेन जलमित्युक्तिर्यथा तद्गं जलं क्षिपेत् ।
नेहनानेति वाक्तद्वत्स्वगतं भेदमाक्षिपेत् ।। ९०२ ।।
सुरोत्तमटीका
श्रुतेरर्थान्तरं वक्तुं दृष्टान्तमाह ।। घट इति ।। तद्गं घटगतम् । क्षिपेत् निषेधति । स्वगतं ब्रह्मगतम् ।। ९०२ ।।
सत्यप्रमोदटीका
यद्वाऽत्रनानाशब्दो हि नानात्वार्थः । भावप्रधान-त्वात् । ‘लोके च नानाशब्दस्य पृथग्भाववाचित्वादिति कैयटोक्तेश्च । तथा चेहपदसमभिव्याहारेण घटेन जलमित्यत्रेव स्वगतभेद एव निषिध्यत इत्याह घट इति ।। ९०२ ।।
युक्तिमल्लिका
अतः काचन नानेह नेत्यर्थो वा भवेच्छतेः ।। ९०३ ।।
सुरोत्तमटीका
अतस्स्वनिष्ठभेदस्यैव निषेधसम्भवात् । किञ्चनपद-स्यैवार्थः काचनेति । इह ब्रह्मणि नानाभूतं किञ्चन धर्मादिकं नास्तीति वा श्रुतेरर्थः सम्भवति । काचन नाना भिदा नेति वा श्रुतेरर्थस्सम्भवति उभयत्रा-पीहपदमहिम्ना घटे भेदो नेत्युक्ते स्वावयवयोरेव मिथो भेदनिषेधवत्स्वगत-स्वगुणभेदस्यैव निषेध इति भावः ।। ९०३ ।।
सत्यप्रमोदटीका
नाना भिदा । काचनशब्दस्तु गुणगुण्यवयवावय-व्यादिप्रयुक्तानेकनानात्वाभिप्राया ।। ९०३ ।।
युक्तिमल्लिका
अथवा नेहनानेति प्रतिषिध्य भिदां हरौ ।
भेदव्यवहृतेरस्ति किञ्चनालम्बनं त्विति ।
श्रुतिर्विशेषमाचष्ट पदस्वारस्यसम्पदा ।। ९०४ ।।
सुरोत्तमटीका
भेदप्रतिनिधिं चैतच्छत्यैव श्रौतं कर्तुमर्थान्तरमाह ।। अथवेति ।। पदस्वारस्यसंपदा यथास्थितपदसम्पदा । इह नाना भेदो नास्तीति पूर्ववाक्यखण्डस्यापि यथास्थितपदैरेकार्थमुक्त्वा तर्हि भेदव्यवहारस्य किमा-लम्बनमिति शङ्कायां अस्ति किञ्चनेति वाक्यशेषेण विशिष्य वक्तुमशक्यं विशेषाख्यालम्बनं किञ्चनेति सामान्यपदेनोक्त्वाऽस्तीति विधानात् अयमप्यर्थ-स्साधीयानिति भावेनोक्तं पदस्वारस्यसंपदेति ।। ९०४ ।।
सत्यप्रमोदटीका
अत्र वाक्यद्वयम् । ‘नेहनाना’ इति भागः स्वगत-भेदंनिषेधति । ‘किञ्चन अस्ति’ इति च भेदव्यवहारनिर्वाहकं विशेषाख्यं पदार्थसामर्थ्यमस्तीति विधत्ते इत्याह श्रुतिरिति ।। ९०४ ।।
युक्तिमल्लिका
नेहनानेतिवाक्याच्च यदि नास्त्येव ते जगत् ।
असत्यात्पारमार्थ्येन नास्तीति तु पदान्तरम् ।। ९०५ ।।
कुतोऽध्याह्रियते तर्हि भ्रान्त्येति पदमाहर ।
एवं सर्वस्य जगतोरक्षयाभैक्षवान्भव ।। ९०६ ।।
सुरोत्तमटीका
परार्थे दूषणान्तरं चाह ।। नेहेति ।। तर्ह्यसत्स्यात् अत्यन्तासत्स्यात् । त्रिकालनास्तिताया एव नञर्थतया त्वयाङ्गीकारादिति भावः । आहर अध्याहर । तथा च किमपि भ्रान्त्या नास्तीत्युक्तेऽभ्रान्त्यैव सर्वस्य सत्त्वं सिद्ध्यतीति भावः । भैक्षवान्भवेति वदता परार्थेऽन्नस्यापि मिथ्यात्वाद्भिक्षापि न लभ्यत इति सूचितम् । इदमप्युपलक्षणम् । पारमार्थ्येन नास्तीत्युक्तेऽपारमार्थ्येनास्तीत्यर्थो लभ्यते । तच्च व्याहतम् । अतो न भिक्षाभावमात्रं किं तु व्याहतभाषिणस्तव कपोले ताडनमपि स्यादिति द्रष्टव्यम् ।। ९०५,९०६ ।।
सत्यप्रमोदटीका
किञ्चानेन वाक्येन किं जगतः स्वरूपेण निषेधः । उत पारमार्थिकत्वाकारेण । नाद्यः अपसिद्धान्तादित्याह असदिति । न द्वितीयः । अध्याहारदोषात् इत्याह कुत इति । उक्तं हि परेणैव ‘न हि अक्षरबाह्यो वाक्यार्थ’ इति । अध्याहारोऽपि पूर्वोत्तरानुगुण्येनैव भवेत् । तथा च ‘भ्रान्त्या’ इति पदाध्याहारः एव युक्त इत्याह तर्हीति । एवं अन्नादेः सत्त्वेन कपटभिक्षोस्तव भिक्षाऽपि वा लभ्येतेत्याह एवमिति वस्तुतस्तु पारमार्थिकं नास्तीत्युक्तौ व्यावहारिकमस्तीति लभ्यते । तच्च व्याहतम् । व्यावहारिकत्वं नाम कालत्रयेऽप्यसत्त्वरूपबाध्यत्वमेवेति त्वयोररीकारेण पुनः अस्तीत्युक्तौ भिक्षोस्तव कापट््यमाविष्कृतं भवेत् । तेन च शिक्षार्हत्वमेव नत्वेव भिक्षाऽर्हत्वमिति ध्येयम् ।। ९०५,९०६ ।।
युक्तिमल्लिका
यदेवेह तदेवामुत्रेत्याद्यं वाक्यमीशितुः ।
अवतीर्णस्य वैकुण्ठवासिनश्चाभिदां जगौ ।। ९०७ ।।
सुरोत्तमटीका
किं चोपक्रमानुसारित्वाच्चास्मदुक्त एव वाक्यार्थो न त्वदुक्त इति वक्तुमुपक्रमवाक्यं पठति ।। यदेवेहेति ।। अनेन ‘यदेवेह तदमुत्र यदमुत्र तदनु इह मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यतीति वाक्यं सङ्गृह्णाति । आद्यं वाक्यमुपक्रमवाक्यमित्यर्थः’ । अवतीर्णस्येशितुरिति सम्बन्धः ।। ९०७ ।।
सत्यप्रमोदटीका
स्वमते उपक्रमानुगुण्यं त्रिभिराह यदेवेति अत्र पूर्ववाक्ये इहेति भूलोकस्य अमुत्रेति परलोकस्य च सत्त्वमुक्त्वा तद्गतरूपयोरेव भेदनिषेधः । लोकयोरेव निषेधाभिप्राये इदं च अदश्चन इति वाक्यविन्यासः स्यात् ।। ९०७ ।।
युक्तिमल्लिका
तद्भेददर्शनस्यानर्थोक्त्या सैव न्यवारयत् ।
भेदाभेदनिवृत्त्यर्थं भिदां तस्य परात्मनः ।। ९०८ ।।
सुरोत्तमटीका
तद्भेददर्शनस्य मूलरूपावताररूपभेददर्शनस्य । सा उपनिषत् । तस्य परमात्मनः भिदां न्यवारयदिति सम्बन्धः । अभेदस्य प्राग्विहितत्वात् भेदाभेदनिषेधोऽपि भेदनिषेध एव पर्यवस्यतीति भावः ।।९०८।।
सत्यप्रमोदटीका
सैव वाक् ‘मृत्योः स मृत्युमाप्रोति’ इति वाक्यशेषः । भिदां न्यवारयत् इत्यन्वयः ।। ९०८ ।।
युक्तिमल्लिका
तत्रापि कारणं वक्तुं नेहनानेति वाक्पुनः ।
तद्भेदमाक्षिपच्चेति युक्तं प्रक्रमविक्रमात् ।। ९०९ ।।
सुरोत्तमटीका
तत्रापि भेददर्शननिन्दायामपि । प्रक्रमविक्रमात् उपक्रमसामर्थ्यात् ।। ९०९ ।।
सत्यप्रमोदटीका
कुतो ‘भेददर्शनमनर्थकरमित्यतः भेदस्यासत्त्वादेवेति कारणोक्तिपरं नेहनानेति वाक्यं इति सङ्गतिं विशदयति तत्रापीति
।। ९०९ ।।
युक्तिमल्लिका
अतो भेदस्य मिथ्यात्वादेव धर्मेषु भेददृक् ।
विनिन्दिता यतो नास्तीत्यादौ सैव तमच्छिनत् ।। ९१० ।।
सुरोत्तमटीका
अतः पूर्वं मिथ्यादृष्टित्वेनैव भेददर्शननिन्दनात् । धर्मेष्वपि मिथ्यादृष्टित्वादेव भेददर्शनस्य निन्दनम् । अन्यथा प्रायपाठविरोधा-दिति भावः। ननु भेदनिषेधकवाक्यबलात्तत्रैव भेदो नाङ्गीक्रियते । न त्वन्यत्रेति चेत् । तत्राह ।। यत इति ।। सैव(स्वका)सकारण निन्दित भेदा या सा इह नाना नेति सामान्यतो निषेधी नेह नानास्ति किञ्चनेति वागेव । तं धर्मभेदम् । उभयोर्वाक्ययोर्मध्यगता सा वाग्देहलीदीपन्यायेन धर्मभेदमपि निषेधतीति भावः । इह भूलोके यदेव रूपं भगवद्रूपेष्वेवावतीर्णं तत्तदेवामुत्रामुष्मिन्वैकुण्ठलोके अस्ति । यत् अमुत्र वैकुण्ठलोके तत्तदेव अनु किंचित्कार्यमनुसृत्य इह भूलोकेऽवतीर्णं भवतीत्युभयविधप्रत्यभिज्ञया परमात्मनो मूलरूपस्यावतार-रूपस्य चात्यन्ताभेदं समर्थ्य पुनर्भेदाभेदवादिनो मतं निषेद्धुं मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यतीति वाक्ये यः इह रूपद्वये नानेव पश्यति । भेदेऽस्वरसं सूचयितुमिवशब्दः । सः मृत्यो र्मारकसंसारादप्यतिशयेन मृत्यु-श्शस्त्रताडनादिना मारकमंधन्तमःप्राप्नोतीति भगवद्रूपेषु भेददर्शिनो निन्दा कृता । अभेदं समर्थ्य तत्र पुनर्भेदस्य निन्दायामत्यन्ताभेदस्यैव लाभात् । भेददर्शन-निन्दा तु न नग्नस्त्रीदर्शननिन्दावन्निमित्तान्तरेण । किं तु मिथ्यादृष्टित्वादेवेति प्रदर्शनाय नास्ति किञ्चनेति वाक्येन प्रागुक्तं तद्गतभेदमेव निषेधतीत्युपक्रमोप-संहारानुगुण्येनार्थो लभ्यते । एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावतीत्युत्तर-वाक्येन चैवमिति पूर्वोक्त भगवद्रूपभेददर्शनं दृष्टान्तीकृत्य भगवद्धर्मभेद-दर्शिनोऽपि तानेवानुविधावतीति रूपभेददर्शन फलतयोक्तान्मृत्यूनेवानु-विधावतीति समानफलत्वमुच्यते । अतो नेहनानेति श्रुतिः तस्यापि भेद-दर्शनस्यामिथ्या दृष्टित्वेनैव निन्दनमिति दर्शयितुं तमपि भेदमुपोद्घातप्रक्रियया निषेधति । अत एवेहेत्युभयोरपि धर्मिभूतब्रह्मण एव सामान्यतो निर्देशः । एवं च ब्रह्मणि स्वरूपधर्मभेदाख्यस्वगतभेदद्वयस्याप्युपक्रमोपसंहारानुगुण्येन निषेधो लभ्यते । यथोदकमित्योक्तयथेतिपदमहिम्नैव तथेति पदलाभात् मध्यस्थित-वाक्यस्योभय विधभेदप्रतिषेधकत्वलाभायैकवाक्यतया व्याख्याने, एवं धर्मी-वद्धर्मान्पृथक्पश्यंस्तथा ताननुविधावतीत्यर्थलाभेन एवंपदस्य यथाविन्यासमेव व्याख्यानाख्यगुणाच्च बह्वर्थकवेदवाक्यस्येयमप्येका योजना । जीवेश्वरभेद-निषेधस्य तु वार्ताप्यत्र न शोभते । यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति । तं देवास्सर्वे अर्पितास्तदु नात्येति कश्चनेति वाक्ये अस्यामेवोपनिषदि सूर्यादि-देवानां च स्वव्यापारेषु भगवदधीनत्वश्रवणेन तदुनात्येति कश्चनेति सर्वस्यापि तदधीनत्वश्रवणेन च सतात्पर्यं जीवेश्वरभेदस्थापनेन पुनस्तस्यैव निषेधायोगात् । देवास्सर्वे तमनुसृत्य स्वस्वस्थानेष्वर्पिताः । तत्र निदर्शनतया सूर्यस्योदाहरणम् । एवं च त्रेधा भेदस्याभ्यासात् कथं न महातात्पर्यम् ।। ९१० ।।
सत्यप्रमोदटीका
अतो भेदस्यासत्त्वेन तद्दर्शनस्य मिथ्याज्ञानत्वादेव अनर्थकरत्वम् । न तु पुनः यथा ‘न नग्नां स्त्रियमीक्षेत’ इत्यत्र दर्शनमात्रस्य अनर्थकरत्वं न तु स्त्रियः स्वरूपेण निषेधः, न तथात्र किन्तु स्वगतभेदस्यैव स्वरूपेण निषेधः इत्याह सेति नेहनानेति श्रुतिरेव तं भेदम् । एवमेव ‘एवं’ धर्मान् पृथक्पश्यन् तानेवानुविधावती’त्यपि धर्मभेदस्यैव स्वरूपेण निषेधो न तु दर्शनमात्रस्य निन्देति अवतारभेदमिव धर्मभेदमपि निषेधता नेहनानेति श्रुत्यैव ज्ञायते ।। ९१० ।।
युक्तिमल्लिका
ईशानो भूतभव्यस्येत्युपसंहार वा क्व ते ।
अनीशजगदद्वैतं भिनत्तीति मतिर्मम ।
तत्रैव तादृगेवेति यत्फलोक्तिश्च भेदवाक् ।। ९११ ।।
सुरोत्तमटीका
जीवेश्वर भेदनिषेधकथने बाधकान्तराणि चाह– ईशान इत्यादिना ।। तत्र तस्यामुपनिषदि ।। तादृगेवेत्यनेन यथोदकं शुद्धे शुद्ध-मासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतमेति श्रुति-मुपादत्ते । इयं हि श्रुतिः शुद्धजले शुद्धजलान्तरस्य लोडनेऽप्युभयोस्सादृश्य-मेव स्यात् । न त्वैक्यमिति पराभिलषितदृष्टान्तमपि विघटयन्ती आत्म-पदोदितजीवस्वरूपस्य ब्रह्मणि प्रवेशाख्यसायुज्येऽपि एवं भवतीति उभयो-स्सादृश्यमेव स्यात् । न त्वैक्यमिति परमममोक्षेऽपि भेदमाह । अतो जीवेश्वर-भेदे श्रुतेर्महातात्पर्यवत्त्वान्न क्वापि तन्निषेधो घटते । किं तु निरवकाशै-तच्छ्रुत्यनुसारेणैव सर्वाश्श्रुतयो व्याख्येया इति भावः ।। ९११ ।।
सत्यप्रमोदटीका
अनीशेति विरुद्धधर्मस्फोरणाय । भिनत्ति बाधते । तादृगेव तत्सदृशमेव । सादृश्यं च भेदव्याप्तमिति मोक्षेऽपि भेदः तत्पार-मार्थिकत्वं च सिध्यति । तथा च न क्वापि श्रुतेरभेदोऽर्थः ।। ९११ ।।
युक्तिमल्लिका
किं च नास्तीत्यभावस्य वर्तमानत्वमात्रता ।
कीर्त्यतेऽतस्त्रिकालस्थाभाववार्तापि नात्र ते ।। ९१२ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि श्रुतेर्मिथ्यात्वपरतां निराकरोति ।। किं चेति ।। अतः घटो वर्तमानाभावमात्रपरत्वात् । अत्र श्रुतौ ।। ९१२ ।।
सत्यप्रमोदटीका
वार्तेति कालत्रयवृत्त्यभावबोधकपदाभावादेवेति भावः ।। ९१२ ।।
युक्तिमल्लिका
मिथ्यात्र परता तस्मादस्मिन्वाक्ये न शोभते ।। ९१३ ।।
सुरोत्तमटीका
तस्मात् त्रैकालिकाभावबोधकपदाभावात् । अस्माकं तु प्रागेवेति पदमहिम्ना रूपेष्वत्यन्ताभेदस्योक्तत्वेन वाक्यद्वये भेददर्शनस्य निन्दितत्वेन च रूपभेदादेश्श्रुत्यनभिप्रेततया अर्थादत्यन्ताभावस्यैव सिद्धेः । (अभेदेनास्तिते) भेदेन नास्तितामात्रेणापि वाक्ययोजनात् (नात्रोद्यतानां) मिथ्यात्वे भराभावाच्च ।। ९१३ ।।
युक्तिमल्लिका
यदस्ति तत्कथं नास्ति ततो ब्रह्मणि यच्छ्रुतम् ।
जडं जगदभेदानर्हं च गर्ह्यात्र तत्कथा ।। ९१४ ।।
सुरोत्तमटीका
किं च ‘यस्मिन्निदं सं च विचैधि सर्वं यस्मिन्देवा अधिविश्वे निषेदु’रिति श्रुतौ ब्रह्मण्येव श्रुतं जगत्पुनरनया श्रुत्या कथं तत्रैव नास्तीत्युच्यते । श्रुत्योः परस्परविरोधप्रसङ्गात् । अतोऽप्यस्मदुक्त एव वाक्यार्थ इत्याह ।। यदस्तीति ।। जगच्चेतनं जडं जडत्वादेवाभेदानर्हम् । यस्मिन्देवा अधिविश्वेनिषेदुरिति श्रुतौ महाचेतनानामपि देवानां ब्रह्मण्याश्रयाश्रयि-भावश्रवणात् जगदप्यभेदानर्हम् । अत्र वाक्ये । तत्कथा जगत्कथा । गर्ह्या । स्वरूपनिषेधमुखेन भेदनिषेधमुखेन वा उक्तरीत्या जगतोऽत्र वक्तुमशक्य-त्वादिति भावः ।। ९१४ ।।
सत्यप्रमोदटीका
‘यस्मिन्निदं सं च विचैधि सर्वं’ इति सर्वस्य जगतो ब्रह्मणि अस्तित्वं श्रूयते । एवं ‘यस्मिन्देवा अधिविश्वे निषेदुरि’ति देवानां ब्रह्मण्याश्रितत्वं च । अतो नेहनानेति श्रुतिः तद्विरोधेन ब्रह्मणि जगतो नास्तित्वं कथं ब्रूयात् । अत्र उच्यमानाभावप्रतियोगी स्वगतभेद न तु जगतद्भेदो वा इत्याह जडमिति ।। ९१४ ।।
युक्तिमल्लिका
अस्तित्वस्यानृतत्वेन नास्तित्वघटना यदि ।
तर्ह्यन्योन्याश्रयो दोषो हन्यादन्यायवादिनम् ।। ९१५ ।।
सुरोत्तमटीका
अस्तित्वस्यानृतत्वान्न विरोध इत्यत आह ।। अस्ति-त्वस्येति ।। ९१५ ।।
सत्यप्रमोदटीका
ननु पूर्वोत्तरवाक्योक्तं अस्तित्वं अनृतं अतो न ताव-द्विरोधो नास्तित्वबोधकस्येति चेदन्योन्याश्रयः स्यादित्याह तर्हीति । अन्याय-वादिनं मायिनं तदुदितं मिथ्यात्वबोधकशब्दं वा । हन्यात् दूषयेत् अन्यार्थतया व्यवस्थापयेद्वा ।। ९१५ ।।
युक्तिमल्लिका
अस्तित्वस्यानृतत्वे स्यान्नास्तित्वघटना तव ।
नास्तित्वघटनायां स्यादस्तित्वस्यानृतात्मता ।। ९१६ ।।
सुरोत्तमटीका
अन्योन्याश्रयमेवोपपादयति ।। अस्तित्वस्येति ।।९१६।।
सत्यप्रमोदटीका
अन्योन्याश्रयमुपपादयति अस्तित्वस्येति । न चैवं वैपरीत्यं शङ्क्यम् । पूर्वोत्तरवाक्यानां सुबहुत्वेन निरवकाशत्वेन प्रमाणान्तर-संवादित्वेन च प्रबलत्वात् । न हि पञ्चाननः शशशावकाभावमपेक्ष्य वनमव-गाहत इति भावः ।। ९१६ ।।
युक्तिमल्लिका
अतस्सारूपभेदस्य धर्मभेदस्य वा हरौ ।
निषेधाय प्रवृत्तेति प्राञ्चोर्थं चोदयन्ति नः ।। ९१७ ।।
सुरोत्तमटीका
अतः अन्यार्थासम्भवात् । सा नेहनानेति श्रुतिः ।।९१७।।
सत्यप्रमोदटीका
रूपभेदस्य अवतारादिरूपभेदस्य ।। ९१७ ।।
युक्तिमल्लिका
इहेत्येतत्पदं नोचेन्नेह स्यादिति मे मतिः ।
नानापदं चान्यथा स्यान्नानानर्थप्रदं तव ।। ९१८ ।।
सुरोत्तमटीका
नोचेत् ब्रह्मणि स्वगतभेदपरत्वं नोचेत् । इह श्रुतौ । मिथ्यात्वपरत्वे किञ्चन नास्तीत्येतावता पूर्तेः इहपदस्य नानापदस्य च वैयर्थ्यात् । अन्यत्र सत्त्वप्रापकतया प्रकारान्तरेण सत्त्वप्रापकतया च विरुद्धत्वा-च्चेति भावः ।। ९१८ ।।
युक्तिमल्लिका
अथाऽपि जगदर्थत्वे यदि तेऽस्ति महान्भरः ।
तर्हि किञ्चन नेहास्ति किन्तु सर्वं च नः प्रभौ ।
सर्वाधारे हरावस्तीत्यर्थोस्त्वतिमनोहरः ।। ९१९ ।।
सुरोत्तमटीका
श्रुतेर्जगद्विषयतायामप्यनुकूलमर्थमाह ।। अथापीति ।। नानाभूतं जगत् इह ब्रह्मणि किं च न किं चिन्नास्ति । किं तु सर्वं चास्ती-त्यर्थस्य पदस्वारस्येनैव लब्धेस्सर्वश्रुत्यविरुद्धत्वाच्चातिमनोहर इत्युक्तम् ।।९१९।।
सत्यप्रमोदटीका
जगदर्थत्वे किञ्चनशब्दस्येति उपस्कर्तव्यम् । इह पृथिव्यादौ । सर्वाधारे ‘पृथ्वी त्वया धृता लोका देवि त्वं विष्णुना धृता । इमाः प्रजाः सदायतनाः सत्प्रतिष्ठाः’ इत्यादिवचनात् मूलतः आधारे । विशिष्य निषेधः शेषविध्यनुज्ञापक इति न्यायादेवेति भावः ।। ९१९ ।।