नित्यशुद्धं तु यद्ब्रह्म परब्रह्म तदेव हि

मुकुन्दस्यमायाशबलत्वनिराकरणेनमुख्यब्रह्मत्वसमर्थनम्

युक्तिमल्लिका

नित्यशुद्धं तु यद्ब्रह्म परब्रह्म तदेव हि ।

नित्यशुद्धश्च भगवान्नित्यमुक्तो मम प्रभुः ।

बन्धमूलो यतो दोषो बन्धाभावे न कश्चन ।। २५१ ।।

सुरोत्तमटीका

 इदानीं विष्ण्वाख्यपरब्रह्मणः परोदीरितं यच्छबल-त्वाख्यापरब्रह्मत्वं तदपि युक्त्या निराकरोति ।। नित्यशुद्धमिति ।। यद्ब्रह्म नित्यशुद्धम् अज्ञानसंसारादिदोषाशबलितं तदेव परब्रह्म । हीत्यनेन श्रुत्यादिप्रसिद्धिं सूचयति । मम प्रभुर्भगवान्नित्यमुक्त इति कृत्वा नित्यशुद्धश्च नित्यमुक्तत्वान्नित्यशुद्धत्वं व्यतिरेकेण देवदत्तवत् । नित्यशुद्धत्वाच्च व्यतिरेकेण तद्वदेव परब्रह्मत्वं चेति यावत् । नित्यमुक्तत्वं च सर्वदा संसाररहितचेतन-त्वम् । नित्यशुद्धत्वं चाज्ञानभ्रमादिदोषरहितचेतनत्वमिति न कश्चित्क्षुद्रोपद्रवः । मुक्तस्याज्ञानादिदोषशून्यत्वं सर्ववादिसंप्रतिपन्नमिति नाप्रयोजकत्वशङ्का च । तदेव स्पष्टयति ।। बन्धमूल इति ।। २५१ ।।

सत्यप्रमोदटीका

 विष्णोरपरब्रह्मत्वं निराकर्तृमुत्तरः सौरभांशः । अत्राह । द्वे ब्रह्मणी । गुणपूर्णं जगज्जन्मादिकर्तृ विष्ण्वाख्यं अपरं ब्रह्म । नित्यशुद्धबुद्धमुक्तस्वभावम् । अज्ञानाश्रयत्वविषयत्वभाजनं निर्विशेषं तु परं ब्रह्म । एतच्च निष्कलं निष्क्रियं पारमार्थिकं रूपमिति । तदेतदयुक्तम् । ‘अतोऽशेषगुणोन्नद्धं निर्दोषं यावदेव हि । तावदेवेश्वरो नाम तत्र भेदोऽस्ति न क्वचित्’ इत्युक्तलक्षणानुरोधेन ‘निर्दोषं हि समं ब्रह्म’ ‘निरनिष्टो निरवद्य’ इति प्रभृतिप्रमाणैर्नित्यशुद्धतयाऽवगतः विष्णुरेक एव ब्रह्म । स एव परमात्मे-त्युदाहृतः । न ब्रह्मणि परापरविभागोऽस्ति । येन विष्णोरपरब्रह्मत्वोक्ते-रवकाश इत्याह नित्यशुद्धमिति । तुना अज्ञानस्फोरकं पराभिमतं व्यवच्छिनत्ति । यद्बह्य तदेव हि परब्रह्म इत्यनेन न तत्र परापरविभागोऽस्ति इति ज्ञापितम् । हिशब्दः ‘ब्रह्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते’ इत्यादिप्रमाणप्रसिद्धिमाह । अतादृशस्तु जीव एवेति भावः । विष्णुः परं ब्रह्म, नित्यशुद्धत्वात् व्यतिरेकेण जीववत् । परमिति उपरञ्जकं विशेषणम् । न चासिद्धिः । विष्णुः नित्यशुद्धः नित्यमुक्तत्वादिति तत्सिद्धेः । पूर्ववद्-दृष्टान्तः । न चात्राप्यसिद्धिः । ‘नित्यतीर्णाशनायादिरेक एव हरिः स्वयमि’ति मानतस्तत्सिद्धेः । नाप्यप्रयोजकता । यतः मुक्तत्वं बन्धाभावः । शुद्धत्वं दोषाभावः । बन्धश्च जरामरणादिदोषहेतुः । कारणाभावे च कार्याभावो नियतः । न चोभयत्र श्रीतत्त्वे व्यभिचारः । स्वतो नित्यशुद्धत्वमुक्तत्वयो-र्हेतुत्वेन विवक्षणात् । प्रभुरित्यनेन स्वधाम्ना दोषनिरसनसामर्थ्यमाह ।।२५१।।

युक्तिमल्लिका

तव ब्रह्म त्वविद्याऽऽख्यदोषेण कलिलं सदा ।

अनादिकालमारभ्य देहे देहे च संसरत् ।। २५२ ।।

सुरोत्तमटीका

 स्वाभिमतब्रह्मणः परब्रह्मतां प्रसाध्य पराभिमतब्रह्मण-स्तदभावं परप्रक्रिययैवोपपादयति ।। तव ब्रह्मत्विति ।। बहुजीववादिपक्ष-मभिप्रेत्य सदेत्युक्तम् । एकस्याज्ञाननिवृत्त्याख्यमुक्तावप्यपरस्मिन्नज्ञानानु-वर्तनादिति भावः । अत एव भवपंकेन मलिनम् । ननु संसारस्य परिच्छिन्न-त्वेनापरिच्छिन्नस्य ब्रह्मणः क्वचिदंशे शुद्धताऽप्यस्तीति चेत् । किमनेन । न हि पादे वेदनवानन्यत्र तदभाववान्पुरुषो वेदनान्मुक्त इत्युच्यते । अन्यथा तार्किकमते व्याप्तत्वेनाभिमतजीवानां क्वचिद्देहवत्त्वमात्रेण कथं बद्धता । तत् ब्रह्मत्वेन पराभिप्रेतं चैतन्यम् ।। २५२,२५३ ।।

सत्यप्रमोदटीका

 तव त्वदभिमतम् । अविद्याऽऽख्यदोषेणेति । अविद्याया दोषत्वं ‘अविद्याक्षेत्रत्वमुत्तरेषामि’ति सूत्रसिद्धमिति भावः । सदा कलिलम् । अविद्या तच्चितोर्योगः षडस्माकमनादयः’ इति त्वदङ्गीकारात् अनादिभावस्याज्ञानस्य ब्रह्मवदनिवर्त्यत्वेन सदातनत्वं कलिलत्वस्य सेत्स्यतीति भावः । यद्वा एकजीववादे उपदेशकस्य गुरोरभावेनाज्ञानस्यानिवर्त्यत्वम् । तदुक्तं तत्त्वोद्योते ‘तस्य च तत्रैवाग्रहान्न कदाचिदपि भेदनिवृत्तिर्भवति’ इति । बहुजीववादेऽपि दोषः समान इत्याह देहे देहे इति । प्रतिदेहमित्यर्थः । अयं भावः । औतमते हि न केवलं मुक्तानां किं तु संसारिणामपि जीवानां ब्रह्मणैक्यं स्वीकृतम् । तथा च कतिपयेषां जीवानां मुक्तत्वेऽपि संसारिणां सदा विद्यमानत्वेन तदैक्ये ब्रह्मणः सदा संसारकलिलत्वमेव । न कदाऽपि मुक्तत्वम् । बन्धसामान्याभावो हि मुक्तत्वं नाम । न च तद्यत्किञ्चि-द्बन्धविशेषसद्भावेऽपि जाघटीतीति भावः ।। २५२ ।।

युक्तिमल्लिका

भवपङ्केन मलिनं कथं शुद्धं भवेद्वद ।

ब्रह्मत्वमाग्रहादेव जीवचैतन्यमेव तत् ।। २५३ ।।

सत्यप्रमोदटीका

 तथा च त्वद्ब्रह्मणः न कदाऽपि मुक्तत्वप्रत्याशेत्याह भवेति । कथं तर्हि तस्मिन् ब्रह्मत्वव्यवहार इत्यतः तव दुराग्रहमात्रा-देवेत्यवेहीत्याह ब्रह्मत्वेति । वस्तुतस्तज्जीवचैतन्यमेवेत्याह जीवेति ।। २५३ ।।

युक्तिमल्लिका

बन्धस्यावास्तवत्वेन बद्धं शुद्धं तदेव चेत् ।

तवाशेयं श्रुतिस्त्वाह सखायौ सयुजौ सदा ।। १५४ ।।

सुरोत्तमटीका

 शङ्कते ।। बन्धस्येति ।। बद्धं मिथ्याभूतबन्धाश्रयत्वात् बद्धम् । वस्तुस्थितिमपेक्ष्य शुद्धं चेत्यर्थः । तदेव संसारिचैतन्यमेव । उत्तरमाह ।। तवेति ।।  इयं एकस्यैव बद्धत्वशुद्धत्वसंपादनरूपा तवाशा । आशेत्यनेनाशा-मात्रमिदम् । वस्तुगत्या बन्धस्यात्यन्ताभावप्रतियोगित्वरूपमिथ्यात्वेन रजतत्वेन भ्रान्तिविषयशुक्तेः शुक्तित्ववत् शुद्धत्वमेव स्यात् । न तु शुद्धत्वबद्धत्वरूप-विरुद्धाकारद्वयम् । न हि शुक्तिः शुक्ती रजतं चेति केनापि व्यवह्रियत इति सूचयति । श्रुतिस्त्वाहेतितु स्पष्टोत्तरमिति ज्ञातव्यम् । द्वासुपर्णेत्यादिरूपा श्रुतिरिति सम्बन्धः । सयुजौ समानदेशे सम्बन्ध्य स्थितौ । सदेत्यनेन मुक्तावपीयमेव श्रुतिर्जीवब्रह्मणोर्भेदं बोधयतीति सूचयति । सायुज्यस्य सख्यस्य च तत्रैव सम्भवात् । मुक्तावपि मुक्तानां लीलाविग्रहग्रहणसद्भावात् समानं वृक्षमित्यपि घटते । ज्ञानोत्तरकालीननिवृत्तिकर्मणां मुक्तावानन्दाभिवृद्धिहेतुत्वस्य न हास्य कर्मक्षीयते । अस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजत इत्यादिना श्रुतत्वात् पिप्पलं स्वाद्वत्तीत्यपि घटते । केवलं सुखरूपत्वात्स्वाद्वित्यपि तत्रैव घटते । संसारे तु अस्वादु एव दुःखमिश्रसुखस्याभिमानिकमेव हि स्वादुत्वं वक्तव्यम् । सुपर्णपदोक्तपूर्णत्वं च तत्रैवोभयोर्जीवपरयोर्मुख्यं सम्भवति । ततश्च व्यावहारिकभेदपरताऽस्याश्श्रुतेर्दूरापास्तेति भावः । सा द्वाविति बद्धमुक्त-योर्द्वित्वप्रतिपादिका ।। २५४,२५५ ।।

सत्यप्रमोदटीका

 यदुक्तं मदभिमतब्रह्मणः सदाऽविद्याख्यदोषसद्भावान्न शुद्धत्वमिति न तद्युक्तम् । अविद्यायास्तत्कार्यबन्धस्य चावास्तवत्वात् । शुद्ध-त्वस्य पारमार्थिकत्वात् । न ह्यवास्तवेन बन्धेन पारमार्थिकं शुद्धत्वं व्याहन्यते इति शङ्कते बन्धस्येति । स्यादप्येवं यदि बन्धस्यावास्तवत्वमेव स्यात् । न च तदस्तीत्याह तवेति आशेति । विना प्रमाणेन प्रमेयसिद्धिदुराशेत्यर्थः । न केवलमेतावत् । श्रुतिपराहतश्च तव मनोरथ इत्याह श्रुतिरिति । इयं हि श्रुतिः संसारे मुक्तौ च भेदं जीवपरयोर्व्याचक्षाणा न बन्धमिथ्यात्वं सहते । द्वि-वचनेन सखित्वसायुज्यादिकथनेन च स्फुटं भेदावगमात् । पूर्णत्वलक्षण-सुपर्णत्वस्य स्वादुमात्रभोक्तृत्वस्य मत्यैक्यस्थानैक्ययोश्च मुक्तजीवे एव मुख्यतः सम्भवात् ।। २५४ ।।

युक्तिमल्लिका

खगावश्नदनश्नन्तौ देहे देहे कृतास्पदौ ।

द्वा सुपर्णेत्यादिरूपा सा तवाशालतां दहेत् ।। २५५ ।।

सत्यप्रमोदटीका

 अश्नदनश्नन्तौ । दुःखानत्तृत्वात्, विषयान्विनाऽपि पूर्णत्वात्, स्ववशेनादनात्, अनश्नन् हरिः, अतादृशः अश्नन् जीवः इति द्वौ । सा उक्तप्रकारेण बद्धमुक्तयोर्भेदमभिदधाना । आशालतां तयोरैक्यं साधयेय-मित्येवंरूपाम् ।। २५५ ।।

युक्तिमल्लिका

बन्धमिथ्यात्वतो मुक्तमस्तु बद्धं कथं भवेत् ।

शुक्तौ रूप्यत्वमिथ्यात्वे शुक्तितैव न रूप्यता ।। २५६ ।।

सुरोत्तमटीका

 अधुना प्रागाशेत्यनेन सूचितमर्थं स्पष्टमाह ।। बन्ध-मिथ्यात्वत इति ।। अस्यार्थस्तु प्रागुक्त एव ।। २५६ ।।

सत्यप्रमोदटीका

 सामानाधिकरण्यं खलूभयोराधेयाभिमतयोस्सत्त्व एव । न तु पुनरन्यतरस्य मिथ्यात्वे । बद्धत्वस्य मिथ्यात्वे मुक्तत्वमेव भवेत् । न तु तस्यैव बद्धत्वमपि इत्याह मिथ्यात्वत इति । तत्र निदर्शनं शुक्ताविति

।। २५६ ।।

युक्तिमल्लिका

व्यावहारिकता या ते राजखड्गक्षतिर्हि सा ।

मरणे न विशेषोऽस्ति बद्धत्वं गतमेव ते ।। २५७ ।।

सुरोत्तमटीका

 ननु बन्धस्य मिथ्यात्वेऽपि व्यावहारिकत्वाद्बद्धत्व-व्यवस्थापकत्वं भविष्यतीत्यत आह ।। व्यावहारिकतेति ।। राजखड्गक्षतिः राजकरधृतखड्गाज्जातव्रणमित्यर्थः । ब्रह्मज्ञानाद्वाधोहि व्यावहारिकता नाम । तस्माद्राजखड्गक्षतिरित्युक्तम् । मरणे नासीदस्तिभविष्यतीत्युक्तबाधरूपमरणे । ते बन्धमिथ्यात्ववादिनः ।। २५७ ।।

सत्यप्रमोदटीका

 बन्धस्य व्यावहारिकसत्त्वाङ्गीकारेऽपि नोक्तदोष-निस्तारः । त्रैकालिकनिषेधप्रतियोगित्वरूपबाधतादवस्थ्यात् । ब्रह्मज्ञानेन बाध इति तु वैषम्यमात्रम् । तत्र दृष्टान्तोक्तिः राजेति । क्षतिः केनापि वा भवतु मरणं समानमेवेति भावः । अत्र अभावमात्रे निदर्शनम् । न तु ध्वंसविवक्षेति ज्ञेयम् । गतमेव त्रैकालिकनिषेधप्रतियोगीत्यर्थः । तदुक्तं सुधायां ‘बाध-विलम्बस्त्वप्रयोजकः । अर्थतादवस्थ्यानिवृत्तेः’ इति ।। २५७ ।।

युक्तिमल्लिका

अतो वद्धोऽपरस्तस्मान्नित्यमुक्तोऽपि चापरः ।

इत्येव सर्वथा वाच्यमित्थं सृत्रकृदाह हि ।। २५८ ।।

सुरोत्तमटीका

 अतः उक्तरीत्या एकस्यैव पराभिमतबद्धत्वमुक्तत्वा-योगात् । अपरः जीवः । मुक्तोऽपि चापर इत्यत्रापरः परमात्मा।।२५८ ।।

सत्यप्रमोदटीका

 अतः बद्धमुक्तव्यवस्थानिर्वाहाय भेदस्यावश्यकत्वात् । नित्येति प्रकृतेश्वरापेक्षया । स्वोक्तस्य सूत्रारूढतामाचष्टे इत्थमिति । आह ॐस्थित्यदनाभ्यामिति सूत्रे इति शेषः ।। २५८ ।।

युक्तिमल्लिका

आवयोश्च मतौ द्वौ स्थित्यदनाभ्यामितीरितौ ।। २५९ ।।

सुरोत्तमटीका

 स्थित्यदनाभ्यामिति सूत्रेणोदितौ द्वौ जीवपरमौ । आवयोः तव च मम च । तत्सूत्रव्याख्यानावसरे उभाभ्यामेवं वक्तव्यत्वादिति भावः ।। २५९ ।।

सत्यप्रमोदटीका

 द्वौ ईशजीवौ । यथोक्तं श्रीभाष्ये ‘ईशजीवयोः स्थित्यदनोक्तेरि’ति ।। २५९ ।।

युक्तिमल्लिका

गुहां प्रविष्टावात्मानौ हि तद्दर्शनतस्त्विति ।

सूत्रं व्याकुर्वतो जीवपरौ द्वौ हृदि ते मते ।। २६० ।।

सुरोत्तमटीका

सूत्रान्तरं चाह ।। गुहामिति ।। अनेन गुहां प्रविष्टा-वात्मानौ हि तद्दर्शनादिति सूत्रं सङ्गृह्णाति । सूत्रमुक्तसूत्रम् । ते मायावादिनः । जीवपरौ द्वौ हृदि बुद्धिजीवाविति साङ्ख्यपक्षं निराकृत्य जीवपरमात्मानाविति सिद्धान्तीकरणाद्धृदीत्युक्तम् ।। २६० ।।

सत्यप्रमोदटीका

जीवेशपरत्वेन उभयसम्प्रतिपन्नं सूत्रमुक्त्वा पराभ्युप-गतं सूत्रमुदाहरति गुहामिति । ते मते इति ।। स्वमते तु नैवम् । यथोक्तं ‘गुहां प्रविष्टौ पिबन्तौ विष्णुरूपे एवे’ति ।। २६० ।।