दोषाद्यप्रतिरुद्धेन ज्ञानग्राहकसाक्षिणा
ज्ञप्तौ प्रामाण्यस्य स्वतस्त्वसमर्थनम्
युक्तिमल्लिका
दोषाद्यप्रतिरुद्धेन ज्ञानग्राहकसाक्षिणा ।
स्वतस्त्वं ज्ञानमानत्वनिर्णीतिनियमो हि नः ।। ३११ ।।
सुरोत्तमटीका
ननु किमिदं ज्ञानप्रामाण्यस्य स्वतस्त्वं नामेत्यत आह ।। दोषादीति ।। आदिपदेन अप्रामाण्यनिश्चयग्रहणम् । दोषाद्यप्रतिरुद्धेन ज्ञान-ग्राहकसाक्षिणाज्ञानमानत्वनिर्णीति नियमो नोऽस्माकं मते स्वतस्त्वमिति सम्बन्धः । अतिदूरत्वादिदोषदशायां ज्ञानस्यैवाग्रहणदशायां ज्ञानग्राहक-ज्ञानपदादिनाच प्रामाण्याग्रहणाद्बाधस्स्यादित्यत आद्यं विशेषणद्वयं साक्षिपदं च । अनुव्यवसायमात्रेणापि प्रामाण्यग्रहणमात्रस्य द्वितीयानुव्यवसायेन प्रामाण्यनिर्णयस्य च परेणाप्यङ्गीकारात् सिद्धसाधनता स्यादित्यतो निर्णीतिपदं नियमपदं च ।। ३११ ।।
सत्यप्रमोदटीका
‘तत्प्रामाण्यं च स्वत एव’ इति भगवत्पादोक्तं ज्ञान-प्रामाण्यस्य स्वतस्त्वं समर्थयिष्यन् ‘ज्ञानग्राहकमात्रग्राह्यत्वं स्वतस्त्वं’ इति तट्टीकोक्तं स्वतस्त्वनिर्वचनं तावत् परिष्कृत्याह दोषेति ।। दोषशङ्कादिरूपा प्रामाण्यविरोध्युपस्थापकसामग्रीत्यर्थः । आदिपदेन विरोध्युपस्थितिर्ग्राह्या । विरोधि च प्रामाण्याभावः अप्रामाण्यं चेत्युभयम् । ज्ञानपदेन ग्राह्यप्रामाण्या-श्रयतत्तज्ज्ञानं ग्राह्यम् । अन्यथा बाधापत्तेः । साक्षित्वं च ज्ञानप्रकार-प्रकारकतया ज्ञानप्रकारवद्विशेष्यकतया च ज्ञानविषयकप्रत्यक्षत्वं, ज्ञानांशे लौकिकप्रत्यक्षत्वं वा ।। मानत्वं याथार्थ्यम् । ‘याथार्थ्यमेव मानत्वमि’त्युक्तेः । निर्णीतिः । सत्यः स्तम्भो भवत्येवेतिवत् ज्ञानं प्रमाणं भवत्येवेत्यवधारणम् । न तु नदोषं चेत्प्रमाणमिति संमुग्धतया ग्रहणम् । नियमः साक्षिणा गृह्यत एवेत्येवंरूपः । न पुनः साक्षिणैव गृह्यत इति । अनुमित्याऽपि प्रामाण्यग्रहस्य सिद्धान्तेऽभ्युपगमात् । अप्रतिरुद्धेनेति साक्षिविशेषणकृत्यं स्वयमग्रे वक्ष्यति । व्यवसायोपनीतौ धर्मिधर्मौ अनुव्यवसाये व्रिषयौ इत्यत्र परतस्त्ववादिनां न विवादः । प्रामाण्यघटकोपाधिरूपं धर्मधर्मिवैशिष्ट्यं अनुव्यवसाये विषय एव न भवति बहिरर्थत्वादित्येके । विषयोऽपि न सत्तया विषय इत्यपरे । तत्र द्वितीयमतानुसारेण अनुव्यवसायरूपः साक्षी प्रामाण्यं गृह्णन्नपि न तत्र निर्णयरूपः । एतन्मतेन सिद्धसाधनतावारणाय निर्णीतिपदम् । अनुमित्यनु-व्यवसायेन, अभ्यासदशापन्नज्ञानानुव्यवसायेन पञ्चमानुव्यवसायेन च गृह्यमाणमपि प्रामाण्यं न प्रथमानुव्यवसायस्य विषय इति एके परतस्त्ववादिनो मन्यन्ते । तन्मतेन सिद्धसाधनवारणाय नियमपदम् । नः अस्माकं स्वतस्त्ववादिनां इति बहुवचनेन, चतुर्णामपि स्वतस्त्ववादिनां साधारणं उभयसिद्धप्रामाण्याविषयकज्ञानभिन्नज्ञानविषयत्वनैयत्यलक्षणं स्वतस्त्वनिर्वचनं सङ्गृह्णाति । तथा च अप्रतिबद्धसाक्षिवेद्यत्वनियमः साक्षिवेद्यत्वयोग्यता वा स्वतस्त्वमिति निष्कृष्टलक्षणद्वयं अभिहितं भवति । तदनेन तत्वनिर्णयटीकोक्तं ज्ञानग्राहकमात्रग्राह्यत्वं स्वतस्त्वं इति निर्वचनं परिष्कृत्योक्तं ध्येयम् । विस्तरस्तर्कताण्डवे स्वमते स्वतस्त्वनिरुक्तिभङ्गे ।। ३११ ।।
युक्तिमल्लिका
अतो दूरस्थवृक्षादिज्ञाने ज्ञातेऽपि यत्पुनः ।
प्रामाण्यसंशयस्तत्र तदस्माकं मते भवेत् ।। ३१२ ।।
सुरोत्तमटीका
दोषाद्यप्रतिरुद्धेनेति विशेषणग्रहणादिदं सिद्धमित्याह ।। अत इति ।। तत्र वृक्षादिज्ञाने । तत्प्रामाण्यसंशयरूपज्ञानम्।।३१२ ।।
सत्यप्रमोदटीका
ननु तथाऽपि स्वतस्त्वे अनभ्यासदशायां संशयो न स्यात् । ज्ञानग्रहे प्रामाण्यग्रहात् । अग्रहे च धर्मिज्ञानाभावादिति संशयानु-पपत्ति बाधकं परिहरति अत इति । असति प्रतिरोधे साक्षिवेद्यत्वनियमो वा साक्षिवेद्यत्वयोग्यता वा स्वतस्त्वमित्युक्तम् । अप्रामाण्यसंशयस्थले च प्रामाण्यग्रहणशक्तिप्रतिबन्धिका दूरस्थत्वादिदोषानुसन्धानरूपा अप्रामाण्य-ग्रहणसामग्री समवहितैव । अन्यथाऽप्रामाण्यसंशयायोगात् । एवं च ज्ञानं गृह्णता साक्षिणा शक्तिप्रतिबन्धात्प्रामाण्याग्रहणेऽप्यस्मदुक्तस्वतस्त्वाहान्या स्वतस्त्वपक्षेऽपि धर्मिज्ञानस्य प्रामाण्यानिश्चयस्य च सम्भवेन संशयो युक्त एवेति भावः । एतेन स्वतस्त्वनिर्वचने अप्रतिरुद्धेतिविशेषणस्य कृत्यमुक्तं भवति ।। ३१२ ।।
युक्तिमल्लिका
यतो दूरत्वदोषेण स्वगृहीतेन कुण्ठितः ।
न निश्चिनोति प्रामाण्यं तत्र ज्ञानग्रहेऽपि सः ।। ३१३ ।।
सुरोत्तमटीका
कुतो भवेदित्यत आह ।। यत इति ।। दूरत्वदोषेण दूरस्थवस्तुविषयत्वरूपदोषेणेत्यर्थः । स्वेन साक्षिणा गृहीतेन । तत्र दूरस्थ-वृक्षादिज्ञाने । सः साक्षी ।। ३१३ ।।
सत्यप्रमोदटीका
साक्षी दोषान् यथायथं प्रत्यक्षानुमानागमैरनुसन्धत्ते । तत्र दूरस्थत्वदोषः साक्षिणैव गृह्यत इत्याह स्वगृहीतेनेति ।। ३१३ ।।
युक्तिमल्लिका
देशस्य विप्रकर्षो हि दूरत्वं स च साक्षिणा ।
गृहीतुं शक्यते यस्मादाकाशोऽव्याकृतो ह्यसौ ।। ३१४ ।।
सुरोत्तमटीका
ननु वस्तुनो दूरस्थत्वं कथं साक्षिवेद्यमित्यत आह ।। देशस्येति ।। विप्रकर्षः सामीप्याभावः । सः देशविप्रकर्षः । असौ विप्रकृष्ट-देशः अव्याकृताकाशो हीति सम्बन्धः । आकाशस्य साक्षिवेद्यत्वमन्धकारेऽपि हस्तप्रसारणादिना उपपादितमन्यत्र ।। ३१४ ।।
सत्यप्रमोदटीका
तदेवोपपादयति देशस्येति । साक्षिवेद्यत्वाभावे जातिबधिरमूकादीनां गगनानिश्चयात्सञ्चार एव कुण्ठितः स्यात् अन्धकारे च हस्तप्रसारणादिकं च न स्यादिति भावः ।। ३१४ ।।
युक्तिमल्लिका
काचादिदोषं चैकत्र तत्कार्यानुमितं पुनः ।
यदान्यत्रानुसन्धत्ते ज्ञानमात्रग्रही तदा ।। ३१५ ।।
सुरोत्तमटीका
दोषशङ्काकलंके साक्षी अन्यत्रापि प्रामाण्यं न गृह्णा-तीत्याह ।। काचादीति ।। एकत्र स्वकरतलरेखादिज्ञाने । तत्कार्यानुमितं दोषकार्येणास्पष्टतयोल्लेखेनानुमितम् । अन्यत्र घटपटादिज्ञानान्तरे । ज्ञान-मात्रग्रही ज्ञानमात्रस्य ग्रहोऽस्यास्तीति ज्ञानमात्रग्रही । न प्रामाण्यग्रहीति भावः ।। ३१५ ।।
सत्यप्रमोदटीका
अनुमानप्रमाणेन साक्षिणा दोषानुसन्धानमुदाहरति काचेति । इदं घटादिविषयकं चक्षुरिन्द्रियं, दोषवत् अस्पष्टतया विषयो-ल्लेखित्वात्, करतलस्थरेखोपरेखादीनां अस्पष्टतयोल्लेखिदुष्टचक्षुरिन्द्रियव-दित्यनुमानप्रकारः कार्येण कारणानुमानरूपः ध्येयः ।। ३१५ ।।
युक्तिमल्लिका
विपर्ययेऽपि दूरत्वपूर्वदोषानुदर्शनात् ।
उदास्ते चतुरस्साक्षी प्रामाण्यग्रहणे किल ।। ३१६ ।।
सुरोत्तमटीका
ननु सर्वत्र साक्षिणैव प्रामाण्यग्रहे यदा वस्तुगत्या प्रामाण्याभाववति क्वचिद् ज्ञाने प्रामाण्यनिश्चयो जायते सोऽपि किं साक्षिणैव नेत्याह ।। विपर्ययेऽपीति ।। विपर्यये प्रामाण्याभाववति प्रामाण्यनिश्चयस्थान इति यावत् । दूरत्वपूर्वदोषानुदर्शनात् दूरत्वपूर्वदोषप्रतिरोधेनेति यावत् । चतुरः चेतनत्वेन विवेकी अप्रमायां प्रामाण्यग्रहणे ममायाथार्थ्यं स्यादिति विवेक-वानित्यर्थः । प्रामाण्यग्रहणे उदास्ते किलेति सम्बन्धः । अप्रतिबद्धसाक्षि-ग्राह्यत्वनियमस्यैव स्वतस्त्वेनोक्तत्वात् । अत्र तु प्रतिबन्धकदोषसद्भावात् साक्षिणा प्रामाण्याग्रहेऽपि न स्वतस्त्वहानिरिति भावः ।। ३१६ ।।
सत्यप्रमोदटीका
‘यद्दर्शनं क्वचिच्छुक्तिरजतादौ विषये व्यभिचारि बाधितं स्यात् तच्चक्षुरादिकरणकं मनःपरिणतिरुपमेव न साक्षिरूपम्’ इति ज्ञानपादीयसुधोक्तिमनुरुध्याह विपर्ययेऽपीति ।। दोषानुदर्शनात् । संशय-निश्चयसाधारणदोषज्ञानात् । उदास्ते । न दोषं चेत्प्रमाणं न चेदप्रमाणमिति व्यवस्थया गृह्णाति । अन्यतरकोटिं नावधारयति । चतुरः । अव्यभिचारि-सुदृढनिर्णयात्मकः
।। ३१६ ।।
युक्तिमल्लिका
तदा रागादिदोषेण कलुषं चञ्चलं मनः ।
गृह्णाति तत्र प्रामाण्यमर्थग्रहणकातरम् ।। ३१७ ।।
सुरोत्तमटीका
केन तर्हि तत्र प्रामाण्यभ्रम इत्यत आह ।। तदेति ।। तदा साक्षिण औदासीन्यसमये । रागादिदोषेण कलुषं चञ्चलं अर्थग्रहण-कातरमिति च मनसो हेतुगर्भं विशेषणत्रयम् । वस्तुगत्या रजताभावे रजते रागवशात्तज्ज्ञाने प्रामाण्यं निश्चिनोतीति हेतोः चंचलमिति च विकल्पात्म-कत्वेन भ्रमशीलत्वहेतोः सुखदुःखादीनां सर्वेषां प्रत्यक्षायोग्यान्तरपदार्थानां साक्षिणैव ग्रहणात् मम कदा को वा अर्थः स्यादित्यर्थग्रहणे अत्यन्तो-त्कण्ठायुक्तत्वस्य च हेतोः सूचनात् । तव वस्तुगत्या अप्रमाभूते ज्ञाने । अतिक्षुधितः पुरुषः सदन्नालाभे कदन्नमिव विवेकिना स्वमरणभिया त्यक्तं सर्पं मरणशङ्काशून्यो मौढ्यात्स्पृशन्बालक इव च विपरीतमपीममर्थं गृह्णातीति भावः । ननु कुत एतत्कल्प्यत इति चेत् साक्षिणो याथार्थ्यनियमाभावे क्वचिद्व्यभिचरितार्थविषयत्वेच तद्गृहीतसुखदुःखादौ कदाचिद्वैपरीत्यमपि स्यात् । अतस्साक्षिणो याथार्थ्यनियमस्यावश्यंभावाद्व्यभिचरितस्यास्य प्रामाण्यनिश्चयस्या-गत्या मानसत्वस्यैव वक्तव्यत्वात् ।। ३१७ ।।
सत्यप्रमोदटीका
तदा साक्षिण औदासीन्यसमये । गृह्णाति निश्चिनोति । अन्यथा प्रवृत्तिर्न स्यादिति भावः । तत्र हेतुगर्भविशेषणत्रयम् कलुषमित्यादि
।। ३१७ ।।
युक्तिमल्लिका
समीपस्थपदार्थानां चक्षुरादीन्द्रियैश्शुभैः ।
ग्रहणे ज्ञानयाथार्थ्यग्रहे तस्याग्रहो महान् ।। ३१८ ।।
सुरोत्तमटीका
तर्हि क्व साक्षी प्रामाण्यं गृह्णातीत्यत आह ।। समीप-स्थेति ।। ग्रहणे ज्ञाते सतीति शेषः । तदा तज्ज्ञानं गृह्णतः साक्षिणः तत्र ज्ञानयाथार्थ्यग्रहे महानाग्रहो नियम इत्यर्थः । प्रतिबन्धकदूरत्वादिदोषा-भावादिति भावः ।। ३१८ ।।
सत्यप्रमोदटीका
समीपस्थपदार्थानाम् । पद्धत्युक्ता ये अर्थदोषाः अतिदूरत्वमतिसामीप्यमित्यादयः तद्रहितानाम् । शुभैः क्लृप्तदोषरहितैः । इन्द्रियैरित्युपलक्षणम् । निर्दोषया उपपत्त्या निर्दोषेण वाक्येन च । महान् आग्रहः प्रामाण्यं गृह्णात्येवेति नियमः ।। ३१८ ।।
युक्तिमल्लिका
स्वतः प्रामाण्यवादे तन्न काऽप्यनुपपन्नता ।
यथानुभूतसर्वार्थवादिनां तत्ववादिनाम् ।। ३१९ ।।
सुरोत्तमटीका
तत्तस्मात्समीपस्थार्थविषयकज्ञानेष्वेव प्रामाण्यनिश्चय-नियमाङ्गीकारात् यथानुभूतसर्वार्थवादिनां तत्ववादिनां स्वतः प्रामाण्यवाद इति सम्बन्धः । यथानुभूतेत्युक्त्या दूरस्थज्ञाने प्रामाण्यसंशयस्य समीपस्थपदार्थज्ञाने तदभावस्य च सर्वानुभवसिद्धत्वं स्फोरयति । काप्यनुपपन्नतानेति सम्बन्धः । सर्वत्र प्रामाण्यनिश्चयं वदतां मीमांसकानामिव नास्माकं प्रामाण्यसंशया-द्यनुपपत्तिरिति भावः ।। ३१९ ।।
सत्यप्रमोदटीका
स्वतः प्रामाण्यवादे अप्रतिबद्धः साक्षी प्रामाण्यं नियमेन गृह्णतीति वादे । तदुक्तम् ‘अदुष्टबुद्धीनां स्वत एव सिद्धत्वा-त्प्रामाण्यस्य’ इति । अनुपपन्नता । परतस्त्ववादिनामिवानवस्था, प्राभाकराणा- मिव बाह्यागमज्ञानप्रामाण्यप्रसङ्गः, साङ्ख्यानामिव आरोपितज्ञान-प्रामाण्यानुमानप्रसङ्गः इत्यादिका ।। ३१९ ।।
युक्तिमल्लिका
न चेत्तण्डुलपानीयवस्त्रभार्यासुतादिषु ।
गृहस्थितेषु गृहिणो नवेषु स्यान्न निर्णयः ।। ३२० ।।
सुरोत्तमटीका
समीपस्थपदार्थज्ञानेष्वपि साक्षिणा प्रामाण्यनिश्चया-नङ्गीकारे बाधकमाह ।। नचेदिति ।। समीपस्थार्थज्ञानेष्वपि प्रामाण्यनिश्चयो नचेत् नवेषु नूतनतया दृष्टेष्वित्यनेन तज्ज्ञाने गृहीतप्रामाण्यज्ञानजातीयत्व-रूपस्य पराभिमतस्य प्रामाण्यानुमापकस्याभावं सूचयति । गृहे स्थितेष्वेव नतु भुक्तेष्वित्यनेन समर्थप्रवृत्तिजनकत्वरूपलिङ्गाभावं सूचयति । निर्णयो न स्यादिति सम्बन्धः । उक्तरीत्या प्रामाण्यानुमापकलिङ्गद्वयस्यात्राभावेन साक्षिणाऽप्येतज्ज्ञानप्रामाण्यानिश्चयेप्रामाण्यसंशयाहितार्थसंशयस्याप्यवश्यम्भावे-नोक्तोऽयमर्थनिर्णयो न स्यात् । अस्ति चात्रार्थनिर्णयः । अतस्साक्षिणा ज्ञानप्रामाण्यं निर्णेयमिति भावः ।। ३२० ।।
सत्यप्रमोदटीका
‘संवादान्वयव्यतिरेकानुविधायित्वात्प्रामाण्यज्ञप्ते-स्तत्कार्यत्वमित्येतदप्यनेनैव निरस्तम् व्यतिरेकाभावस्यानुभवसिद्धत्वात्’ इति तत्वनिर्णयटीकोक्तमाह न चेदिति । संवादो हि द्विविधः । सजातीयसंवादो विजातीयसंवादश्चेति । साक्षात्स्वविषयकप्रमाणान्तरसंवादः सजातीयसंवादः । स्वनिष्ठप्रामाण्यव्यवस्थापनद्वारा स्वविषयविषयकमानान्तरसवादः विजातीय-संवादः । अत्र नवेषु इत्यनेन सजातीयसंवादाभावं सूचयति । गृहे स्थितेष्वेव न तु भुक्तेष्वित्यनेन विजातीयसंवादाभावम् । एवं च उभयविधसंवादाभावेऽपि प्रामाण्यज्ञप्तेरनुभवसिद्धत्वेन न तस्यास्तत्कार्यत्वमिति भावः ।। ३२० ।।
युक्तिमल्लिका
शिशुः किं जातमात्रोऽम्बास्तनं सन्दिह्य चुम्बति ।
पशुश्च नवघासादौ न विश्वसिति किं वने ।। ३२१ ।।
सुरोत्तमटीका
ननु प्रामाण्यानुमानात्प्राक् सर्वत्रार्थानिर्णय एवास्तु को दोष इत्यत आह ।। शिशुरिति ।। जातमात्र इत्यनेन समर्थप्रवृत्तिजनकत्वादि-लिङ्गाभावं सूचयति ।। ३२१ ।।
सत्यप्रमोदटीका
उक्तं व्यतिरेके व्यभिचारं शिशूनां पशूनामप्यनुभवो-दाहरणेन द्रढयति किं जातमात्र इति । अत्रापि जातमात्र इत्यनेन नव-घासादौ इत्यनेन चोभयविधसंवादाभावो ज्ञाप्यते ।। ३२१ ।।
युक्तिमल्लिका
अनानुभविकी सर्वत्रापि संदिग्धता नृणाम् ।
विनोन्मत्तशिरःपित्तिपिशाचग्रस्तचेतनान् ।। ३२२ ।।
सुरोत्तमटीका
उन्मत्तश्च शिरःपित्तीच पिशाचग्रस्तचेतनश्च तान्विना सर्वत्रार्थे ज्ञाने च संदिग्धता सन्देहविषयता अनानुभविकीति सम्बन्धः।।३२२।।
सत्यप्रमोदटीका
एतदनङ्गीकारे सर्वानुभवविरोधं बाधकमाह अनानु-भविकीति ।। ३२२ ।।
युक्तिमल्लिका
अनभ्यासदशापन्नसमीपस्थे न संशयः ।
न तत्र तद्धीमानत्वेऽप्यस्ति कस्यापि संशयः ।। ३२३ ।।
सुरोत्तमटीका
तदेव विशदयति ।। अनभ्यासेति ।। अर्थ इति शेषः । तद्धीमानत्वे तस्यासन्दिग्धार्थस्य या धीस्तन्मानत्वे ।। ३२३ ।।
सत्यप्रमोदटीका
‘बुद्धिदोषाभावेऽनभ्यासदशाऽऽपन्नज्ञानप्रामाण्यस्यापि निष्कम्पस्यैव प्रतीयमानत्वात्’ इति तत्वनिर्णयटीकोक्तमाह अनभ्यासेति ।। ३२३ ।।
युक्तिमल्लिका
एवं चार्थेष्वसन्देहान्मानत्वेऽपि न संशयः ।
यतस्तत्संशयोऽप्यर्थसंशये पर्यवस्यति ।। ३२४ ।।
सुरोत्तमटीका
अर्थसंशयाभावेऽपि ज्ञानप्रामाण्यसन्देहः कुतो न स्यादित्यत आह ।। एवं चेति ।। एवमुक्तरीत्या सर्वार्थसन्देहस्यानानुभवि-कत्वेनेत्यर्थः । नन्वर्थसन्देहाभावेऽपि ज्ञानमानत्वसंशयोऽस्तु किं बाधकमित्यत आह ।। यत इति ।। यतस्तत्संशयोऽपि ज्ञानप्रामाण्यसंशयोऽपि अर्थसंशये पर्यवस्यति अत इति सम्बन्धः । अतः प्रामाण्यसंशयस्यार्थसंशयस्य च अन्तत एकविषयत्वादर्थनिश्चये प्रामाण्यनिश्चयोऽप्यवर्जनीय एवेति भावः । तथाहि प्रामाण्यं नाम तद्वति तत्प्रकारकज्ञानत्वं तत्र तत्प्रकारकत्वांशे न कस्यापि मते संशयः । किं तु तद्वद्विशेष्यकत्व एव संशयो वाच्यः । सोऽपि तद्वत्त्व एव पर्यवस्यति । तद्वत्तासंशयोऽर्थसंशय इत्यनर्थान्तरम् । तथा च समीप-स्थतण्डुलपानीयादिषु अर्थनिश्चयनियमात् नियमेन ज्ञानप्रामाण्यनिश्चयोऽ-प्यावश्यक एव । स च समर्थप्रवृत्तिजनकत्वगृहीतप्रामाण्यज्ञानजातीयत्वयोः पराभिमतलिङ्गयोरभावेन साक्षिणैव वाच्य इति कथं नास्मदुक्तप्रामाण्य-स्वतस्त्वम् ।। ३२४ ।।
सत्यप्रमोदटीका
असन्देहात् धर्मिणि धर्मवैशिष्ट्यविषयकसन्देहा-भावात् । मानत्वे तद्वद्विशेष्यकत्वे ।। तत्संशयः तद्वद्विशेप्यकत्वसंशयः । अर्थसंशये धर्मिधर्मवैशिष्ट्यसंशये । पर्यवस्यति प्रामाण्यस्यार्थसत्ताघटितत्वा-दित्याशयः ।। ३२४ ।।
युक्तिमल्लिका
अयोग्यं मनसो मानत्वं चेत्तत्संशयः कुतः ।
स्वायोग्यगन्धे सन्देहश्चक्षुषा कस्य जायते ।। ३२५ ।।
सुरोत्तमटीका
साक्षिमनसोरन्तरिन्द्रियत्वेन प्रामाण्यस्य मनोयोग्यत्वे साक्षियोग्यत्वमपि सेत्स्यतीत्याशयेन मनोवेद्यत्वं तावत्समर्थयति ।। अयोग्य-मिति ।। ज्ञानप्रामाण्यं मनसः अयोग्यं चेदिति सम्बन्धः । तर्हि तत्संशयः प्रामाण्यसंशयः कुतः स्यात् न कुतश्चित् । मनोव्यतिरेकेण प्रामाण्य-संशयजनककरणाभावात् । साक्षिणः याथार्थ्यनियमेन संशयकरणत्वायोगात् । ननु मनसा गृहीतुमयोग्येऽपि प्रामाण्ये सन्देहस्तेन जायतां को दोष इत्यत आह ।। स्वायोग्येति ।। स्वायोग्ये गन्धे चक्षुषा गृहीतुमयोग्येगन्धे । एवं च प्रामाण्यस्य मनोयोग्यत्वे साक्षियोग्यत्वं सुतरां सेत्स्यतीति भवः । एतेन क्वचित्प्रामाण्यभ्रमो मनसा जायत इत्येतदपि समर्थितम् ।
नन्वेवं सति सर्वत्र मनसैव प्रामाण्यस्य ग्रहोऽस्तु किं साक्षिवेद्यत्वाङ्गी-कारेणेति चेत् न । मनसा क्वचिदप्रमायामपि प्रामाण्यग्रहेण सर्वत्र तेनैव प्रामाण्यग्रहणेऽनाश्वासप्रसङ्गेन प्रमारूपज्ञानेषु गृहीततत्तत्प्रामाण्ये आश्वासाय नियमेन यथार्थस्य प्रामाण्यग्राहकस्य साक्षिणोवश्यमपेक्षितत्वात् । सुप्तिदशाया-मङ्गनालिङ्गनसर्पापसर्पणयोः फलत्वादर्शनेन उपरतमनस्कस्य पुंसः सौषुप्तिकस्य सुखस्य दुःखाभावस्य चानुभवाय साक्षिण एवावश्यकत्वाच्च । दोषेण कुण्ठित-गतिः साक्षी तदभावे चेतनत्वेन तीव्रगतिः स्वविषयं ज्ञानप्रामाण्यं सुखमिव स्वयमेवादौ गृह्णातीति पुनर्मनसस्तत्रानवकाशाच्च ।
ननु तद्वति तत्प्रकारकत्वलक्षणज्ञानप्रामाण्यस्य तद्वत्तारूपबाह्यार्थघटितत्वेन साक्षिमनसोर्बहिरस्वातन्त्र्यात् भवद्भिरपि ज्ञानद्वारैव तद्विषयीकरणं वक्तव्यं न तु साक्षात् । तथाच कथं प्रामाण्यस्य मनस्साक्षियोग्यत्वमिति चेत् तर्हि साक्षाद्विषय एव योग्यो न परंपराविषय इत्युक्तं स्यात् । तथा सति योगज-धर्मप्रत्यासत्त्या मुनिभिर्ज्ञातसकलपदार्थानां तदिन्द्रियायोग्यत्वप्रसङ्गे तेषामसर्व-ज्ञताप्रसङ्गात् । अश्वद्वारा ग्रामं गतस्य राज्ञो ग्रामगामित्वं च न स्यात् । अतस्साक्षात्परंपरया वा तदुल्लेख्यं वस्तु तद्योग्यमेवेति वक्तव्यम् । अस्तु तर्हि परंपरया ज्ञातबाह्यपदार्थानामपि मनस्साक्षियोग्यता । अन्यद्वारा ज्ञातेषु तेषु साक्षी कथमर्थसत्तानिश्चयरूप इति चेत् । न । योगजधर्मद्वारा सर्वार्थ-निश्चायकयोगीन्द्रियवदेवोपपत्तेः ।। ३२५ ।।
सत्यप्रमोदटीका
मनसैव प्रामाण्यसन्देहः, न साक्षिणा तस्य सुदृढ-निर्णयरूपत्वात् । तदुक्तं
‘सुदृढो निर्णयो यत्र ज्ञेयं तत्साक्षिदर्शनम्’ इति ।
‘मानसे दर्शने दोषाः स्युर्नवै साक्षिदर्शने ।
यत्क्वचिद्व्यभिचारि स्याद्दर्शनं मानसं हि तत्’
इति च । तेन मनसः प्रामाण्यग्रहणयोग्यत्वं तावत्सिध्यतीत्याह अयोग्यमिति । अयं प्रयोगोऽत्राभिप्रेतः । मनः प्रामाण्यग्रहणयोग्यं, तत्सन्देहकारणेन्द्रियत्वात् । यत् यत्सन्देहकरणमिन्द्रियं तत् तद्ग्रहणयोग्यम्, यथा रूपसन्देहकरणेन्द्रियं चक्षू रूपग्रहणयोग्यम् इति । विपक्षे बाधकोक्त्या अप्रयोजकतां वारयति स्वायोग्येति । चक्षुषा गन्धसन्देहोऽस्तु इति न शङ्क्यम् सर्वानुभवबाधितत्वादित्याह कस्येति । किंशब्द आक्षेपे ।। ३२५ ।।
युक्तिमल्लिका
उपनीतं च निर्णीतिकन्या धन्याऽन्वमन्यत ।
दोषाभावाद्विरुद्धार्थकोटेराटोपमोटनात् ।। ३२६ ।।
सुरोत्तमटीका
ननु साक्षिणा घटत्वप्रकारकत्वोल्लेखे क्रियमाणे प्रकारित्व- मात्रस्य साक्षादुल्लेखेऽपि प्रतिसम्बन्धिभूतघटत्वं बाह्यपदार्थत्वात् व्यवसायद्वारे-णैवोल्लिख्यते । तथा च व्यवसायद्वारोपनीते प्रतिसम्बन्धिभूतघटत्वे घटत्वं पटत्वं वेति कुतो न संशयः । घटादेस्स्थैर्यस्थापकप्रत्यभिज्ञाप्रत्यक्षस्यच उपनीततत्तांशे कथमर्थसत्तानिश्चयरूपत्वम् । संशयकारणाभावादिति चेत् तर्हि तद्वदेव संशयकारणाभावे घटत्ववैशिष्ट्यांशमपि साक्षी निश्चिनुयादेवेति साहित्य-मुद्रयाऽऽह ।। उपनीतमिति ।। निर्णीतिकन्या प्रामाण्यनिर्णयरूपकन्या निर्णयरूपः साक्षीति यावत् । निर्णीतिशब्दस्य स्त्रीलिङ्गत्वात् कन्येत्युक्तम् । निर्दोषसाक्षिरूपत्वाद्धन्येत्युक्तम् । उपनीतं व्यवसायोपनीतम् । प्रामाण्यमिति शेषः । उपनयनवन्तमिति ध्वनिः । ज्ञानप्रामाण्यमन्वमन्यत । विषयतया मत्सम्बन्धिकरोमीत्यङ्गीचकार । अन्यत्र उदूढंकरोमीत्यङ्गीकारोध्वनितः ।
किमर्थमन्वमन्यतेत्यत आह ।। दोषाभावादिति ।। व्यवसायगृहीतेषु प्रागुक्तसमीपस्यार्थेषु दूरत्वादिदोषाभावात् । अन्यत्राकुलीनत्वादिदोषाभावो ध्वनितः । विरुद्धार्थकोटेः प्रामाण्यविरुद्धार्थः अप्रामाण्यं तत्कोटेः आटोप-मोटनात् आटोपः सम्भ्रमः । तन्मोटनाच्छेदादभावादित्यर्थः । अन्यत्र विवाहविरोधिनां पुंसां द्रव्यकोटेराटोपमोटनादिति ध्वनिः । यथा कन्या अकुलीनत्वादिदोषरहित पुरुषलाभे विवाहविघ्नकारिभिर्दत्तद्रव्यकोटिमप्युपेक्ष्य तं वरयेदेव । एवं साक्षी दूरस्थत्वादिदोषरहितवस्तुविषयव्यवसायेनोपनीतमेव प्रामाण्यं दोषजन्यायाः घटत्वाभाववति घटत्वप्रकारकत्वरूपाप्रामाण्यकोटेरत्रा-सम्भवात् तान्तिरस्कृत्य घटत्ववत्येव घटत्वप्रकारकज्ञानवानहमिति निश्चिनुयादिति भावः । तथा चायं प्रयोगः । अनभ्यासदशापन्नसमीपस्थार्थ-विषयकज्ञानप्रामाण्यं साक्षिणैव प्रतीयते साक्षीतरनिर्णायकाभावे सति निर्णीय-मानत्वात् घटत्वप्रकारकत्ववदिति ।। ३२६ ।।
सत्यप्रमोदटीका
उक्तन्यायं साक्षिण्यतिदिशन्, अन्तरिन्द्रिययोः साक्षि-मनसोः बहिरर्थ भूततद्वत्त्वघटितप्रामाण्यग्रहणयोग्यता कथं घटत इति शङ्कां तदुपायोक्त्या निराह उपनीतमिति । अयमाशयः । साक्षी, बहिरर्थत्वात् तद्वत्त्वरूपस्य धर्मधर्मिवैशिष्ट्यस्य, तद्ग्रहणे न प्रभवतीति वदन् प्रष्टव्यः । किं साक्षिणो बहिरर्थो वैशिष्ट्यं विषय एव न भवति । उत स्वातन्त्र्येण तदविषयः। नाद्यः । साक्षिणो व्यवसायविषयकसाक्षात्कारत्वेन, व्यवसायस्य च ससम्बन्धिकत्वेन, व्यवसायविषयकसाक्षिणः सम्बन्धिताऽवच्छेदकवैशिष्ट्य-विषयकत्वनियमात् । धर्मधर्म्यंशयोरिव तद्वैशिष्ट्यांशेऽपि व्यवसायप्रत्यासत्तेः सत्त्वेन तदप्रतीतौ हेत्वभावाच्च । न द्वितीयः । स्वातन्त्र्येण विषयत्वस्य स्वतस्त्वसिद्धावनुपयोगात् । उपनीततया वैशिष्ट्यविषयकत्वेऽपि साक्षिणा तद्धटितप्रामाण्यग्रहस्याविकलत्वात् । नन्वेवं साक्षिणः श्रुतसाक्षिवाक्यवत् व्यवसायविषयतया वैशिष्ट्यविषयकत्वेऽपि तत्संशयविरोधित्वरूपं सत्तानिश्चय-रूपत्वं नास्तीति न तद्धटितप्रामाण्ये निश्चयरूपता इति चेन्न । यत्र ज्ञानस्यान्यद्वारेणार्थविषयता तत्र द्वारिणा द्वारे सत्त्वेनार्थविषयकमिति ग्रहणे द्वारिणोऽपि सत्त्वेनार्थविषयतेत्यनुभवसिद्धमित्याह निर्णीतीति । अत्र व्यवसायो द्वारम् । तत्र अर्थसत्ताविषयकत्वग्रहः साक्षिणो युज्यते । कुतः । विरुद्धार्थकोटिः अप्रामाण्यम् । तदाटोपमोटनात् । तदुपस्थित्यभावात् । अप्रामाण्यकारणं दूरस्थत्वादिदोषः । तदभावात् न व्यवसायेऽनाश्वासः । यथा कन्या उपनयनवन्तं दोषरहितं पुरुषं, विरुद्धधनकोटिमप्युपेक्ष्य वरयेदेव तथेति ध्वनिः।।३२६ ।।
युक्तिमल्लिका
अतस्सांशयिकत्वाख्यहेतोरेतादृशस्थले ।
असिद्धत्वान्नमानत्वपरतस्त्वप्रसाधकः ।। ३२७ ।।
सुरोत्तमटीका
नन्वस्तूक्तस्थले साक्षिणैव प्रामाण्यावधारणम् । तथापि अनभ्यासदशापन्नज्ञानप्रामाण्यं परतो ज्ञायते सांशयिकत्वादप्रामाण्यवदिति परोक्तप्रतिपक्षानुमानस्य किं दूषणमित्यत आह ।। अत इति ।। अतोऽस्म-दुक्तेषु साक्षिणा निर्णीतेषु समीपस्थपदार्थविषयकानभ्यासदशापन्नज्ञानप्रामाण्येषु संशयाभावात् एतादृशस्थले सांशयिकत्वहेतोरसिद्धेस्तज्ज्ञानप्रामाण्यपरतस्त्व-साधको नेति सम्बन्धः ।। ३२७ ।।
सत्यप्रमोदटीका
परतस्त्ववादिना, सांशयिकत्वहेतुः परतस्त्वसाधनाय प्रयुज्यते । तत्किं दोषादिना साक्षिणः प्रतिरोधदशायां उत अप्रतिरोध-दशायाम् । आद्ये अप्रयोजकता । प्रतिरोधादेव साक्षिणा प्रामाण्याग्रहणस्य, मानससंशयस्य चोपपत्तेः । अप्रतिबद्धसाक्षिवेद्यत्वरूपस्वतस्त्वाहानेः । द्वितीये तु प्रामाण्यस्य निश्चितत्वाद्धेतोरसिद्धिरेवेत्याह अत इति । एतादृशस्थले अप्रतिरोधदशायाम् । ज्ञानस्य प्रामाण्यग्रहे अभ्यासदशापन्नत्वमप्रयोजकम् किन्तु दोषाभाव एवेति हृदयम् ।। ३२७ ।।
युक्तिमल्लिका
दूरस्थे संशयोऽप्यस्ति दोषश्च भ्रमकारणम् ।
यतोऽणुत्वभ्रमो नॄणां महत्यर्थेऽपि जायते ।। ३२८ ।।
सुरोत्तमटीका
कथं तर्हि दूरस्थजलादिज्ञानप्रामाण्ये संशय इत्यत-स्तदुपपादयति ।। दूरस्थ इति ।। दूरस्थवस्तुविषयकानभ्यासदशापन्नज्ञान-प्रामाण्ये यतः भ्रमकारणदूरस्थत्वलक्षणदोषोऽस्ति । चशब्देन दोषप्रतिरोधात् निर्णायकसाक्ष्यभावं समुच्चिनोति । अतः संशयोऽप्यस्तीति सम्बन्धः । दूर-स्थत्वस्य दोषतामुपपादयति ।। यत इति ।। यतो दूरस्थे महत्यप्यर्थेऽणुत्वभ्रमो जायते । अतो भ्रमकारणत्वाद्दूरत्वं दोष इति दोषपदस्यावृत्त्याऽन्वयः ।।३२८।।
सत्यप्रमोदटीका
दूरस्थस्य ज्ञाने प्रामाण्यग्रहणप्रकारं पक्षभेदेन विविच्य पूर्वोक्तां सांशयिकत्वस्य हेतोरसिद्धिं निष्कर्षति पञ्चभिः । दूरस्थे इत्यादिना । तदुक्तं तत्त्वोद्योते ‘द्विविधं ज्ञानम् । एकाकारनियतं डोलायमानं च । तत्र द्वितीयं सन्देहसंज्ञां लभते । आद्यमपि द्विविधम् । किञ्चित्स्वार्थस्य निश्चायकं यथा स्तम्भो भवत्येवेति । किञ्चित्स्वार्थमुल्लिखदपि न तस्य निश्चायकम् । यथा सवितृसुषिरविषयम् । स चायं भेदः क्वचित्सम्भावनाभावाभावाभ्यां भवति । क्वचित्परीक्षापेक्षायामपि तत्प्रवृत्त्यप्रवृत्तिभ्याम् । क्वचिच्च प्रागेव विपरीतसंस्कारभावाभावाभ्यां इति । संशयोऽपीति । अपिशब्देन क्वचित् साक्षिणा दोषसद्भावनिश्चये सति भ्रमोऽपि मानसो भवति । दोषस्य भ्रमकारणत्वात्, साक्षिणा च तदा प्रतिरोधेन प्रामाण्यग्रहणाभावादित्याह दोषश्चेति । दूरत्वस्य दोषत्वेऽनुभवमाह यत इति ।। ३२८ ।।
युक्तिमल्लिका
तत्र तद्दोषरोधेन प्रामाण्यं प्राङ्न गृह्यते ।। ३२९ ।।
सुरोत्तमटीका
दोषसत्त्वेऽपि कुतो न निर्णय इत्यत आह ।। तत्रेति ।। तत्र दूरस्थजलज्ञाने तद्दोषरोधेन दूरत्वाख्यदोषरोधेन प्राक्प्रवृत्तेः पूर्वं प्रामाण्यं न गृह्यते । साक्षिणा न निश्चीयत इत्यर्थः ।। ३२९ ।।
सत्यप्रमोदटीका
तत्र दूरस्थजलज्ञाने । प्राक् विशेषदर्शनाभावे । तत्सद्भावे तु प्रतिबन्धनिरासात्साक्षिणा प्रामाण्यं तत्रापि निश्चीयत एव
।। ३२९ ।।
युक्तिमल्लिका
विशेषदर्शनाभावाद्द्विकोटिस्मृतिमान् जनः ।
तदर्थी तत्र सन्दिग्धे मनसा न तु साक्षिणा ।। ३३० ।।
सुरोत्तमटीका
तत्र प्रामाण्यसंशयमुपपादयति ।। विशेषेति ।। द्विकोटी प्रमात्वाप्रमात्वे । एकैककोटिनिर्णायकविशेषदर्शनाभावात् द्विकोटिस्मृतिमान्।तदर्थी जलार्थी तत्र तज्ज्ञानप्रामाण्ये मनसा करणेन संदिग्धे इदं ज्ञानं प्रमा न वेति सन्देहं कुरुते।।३३० ।।
सत्यप्रमोदटीका
क्वचित्सन्देहं तत्सामग्रयुपपादनपूर्वकमभिनीय दर्शयति विशेषेति ।। ३३० ।।
युक्तिमल्लिका
विकल्परूपं हि मनो यत आहुः पुरातनाः ।
यतश्च संशयस्साक्षिवेद्यदुःखसुखेषु न ।। ३३१ ।।
सुरोत्तमटीका
मनसः संशयहेतुत्वं पुराणप्रक्रिययोपपादयति ।। विकल्परूपमिति ।। हीत्यनेन संकल्पविकल्पात्मकं मन इति प्रसिद्धिं सूचयति । ननु साक्षिणैव संशयः कुतोनेत्यत आह ।। यतश्चेति ।। साक्षिवेद्यसुखदुःखेषु यतः संशयो नास्ति । अतो न साक्षिणा सन्दिग्ध इति पूर्वेणान्वयः ।। ३३१ ।।
सत्यप्रमोदटीका
‘मानसे दर्शने दोषाः स्युर्नवै साक्षिदर्शने ।
सुदृढो निर्णयो यत्र ज्ञेयं तत्साक्षिदर्शनम्’
इति ज्ञानपादीयानुव्याख्यानोक्तमाह विकल्पेति ।। सर्वत्र प्रामाण्यग्रहे परीक्षापेक्षां वदतां परतस्त्ववादिनामिव नास्माकमनवस्थेत्याह यत इति । तदुक्तं वादावल्यां ‘सुखदुःखेच्छातदभावादिषु साक्षिसिद्धेषु क्वचिदन्यथा-भावानुपलम्भात्’ इति ।। ३३१ ।।
युक्तिमल्लिका
ज्ञानं गृह्णंस्तदा साक्षी निर्दोषं चेदियं प्रमा ।
इति सामान्यतः प्रामाण्यं च गृह्णन्निवर्तते ।
अत्र सांशयिकत्वाख्यहेतुस्स्यात्सिद्धसाधनः ।। ३३२ ।।
सुरोत्तमटीका
ननु संशयधर्मिभूतं तज्ज्ञानं कथं साक्षिणा गृह्यत इत्यत आह ।। ज्ञानमिति ।। ज्ञानं प्रामाण्यसंशयधर्मिभूतम् । इदं ज्ञानं निर्दोषं चेत् तर्हि इयं प्रमा प्रमितिरिति सामान्यत एव प्रामाण्यं गृह्णन्निवर्तते । सामान्यतो गृह्णन्नित्यनेन प्रामाण्यस्य सामान्यतः कथंचित् यावज्ज्ञानग्राहकसाक्षिवेद्यत्वं वक्तुं शक्यत इति सूचितम् । तत्र तन्निश्चयरूपो न भवतीति भावः । अत्र दूरस्थवस्तुविषयकानभ्यासदशापन्नज्ञानप्रामाण्ये । सांशयिकत्वहेतुः सिद्धसाधनः स्यात् । तत्र मयापि स्वतस्त्वानङ्गीकारादिति भावः ।। ३३२ ।।
सत्यप्रमोदटीका
संशयस्थलेऽपि तद्धर्मिभूतस्य ज्ञानस्य ग्रहणं साक्षिणैव । तद्ग्रहणप्रकारस्तु निर्दोषं चेत्प्रमा न चेदन्यथा इति व्यवस्थयैव । ननु सुदृढनिर्णयरूपस्य कथमेवं संशयरूपतेति तत्राह सामान्यत इति ।। अयं भावः । व्यवसायोत्पत्त्यनन्तरं करणदोषविषयके मानसे संशये तदाहित-प्रामाण्याप्रामाण्यविषयके च तादृशे संशये सति साक्षी उक्तसंशयोपनीतकोटी-रनूद्य पूर्वसंशयोपस्थितादोषत्वादिव्यवस्थाप्यत्वमेवोत्तरसंशयोपस्थितप्रामाण्या-प्रामाण्ययोरवधारयति । अतस्तत्र स निश्चयरूप एव । सदोषत्वादिकोटिचतुष्टयं तु संशयद्वयोपनीतमनुवदत्येव न विधत्ते । तदवधारणे उदासीन इति न कुत्रापि तस्य संशयरूपत्वप्रसङ्ग इति । सामान्यतः पूर्वमानससंशयविषयतया सन्दिग्धं प्रामाण्यं अदोषव्यवस्थाप्यतया गृह्णन् न तु अवधारयन् इत्यर्थः । सिद्धसाधनः प्रतिबद्धः साक्षी प्रामाण्यं नावधारयतीति यत्प्रमेयं स्वतस्त्व-वादिनां सिद्धं तस्यैव साधनः । न तु पुनः साक्षिणः प्रामाण्य ग्रहणयोग्यत्वा-भावरूपस्य पराभिमतपरतस्त्वसाधनः इत्यवधेयम् ।। ३३२ ।।
युक्तिमल्लिका
तत्र सांशयिकत्वेऽपि कुतोऽन्यत्र तदग्रहः ।
दूरस्थे चञ्चलं चक्षुर्न हि पात्रस्थितोदने ।। ३३३ ।।
सुरोत्तमटीका
ननु दूरस्थजलादिज्ञानप्रामाण्ये संशये प्रामाण्यत्वा-विशेषात् समीपस्थज्ञानप्रामाण्येऽपि सन्देहः स्यादित्यत आह ।। तत्रेति ।। तत्र दूरस्थजलज्ञानप्रामाण्ये अन्यत्र समीपस्थवस्तुविषयकज्ञाने तदग्रहः प्रामाण्यानिश्चयः कुत इति सम्बन्धः । अत्रार्थान्तरन्यासं करोति ।। दूरस्थ इति ।। दूरस्थे चञ्चलं चक्षुः पात्रस्थितोदने चञ्चलं नहीति चञ्चलपदावृत्त्या योजना । तद्वत्समीपस्थज्ञानप्रामाण्यमपि साक्षी निर्णयेदेवेति भावः ।।३३३।।
सत्यप्रमोदटीका
तत्र प्रतिबन्धस्थले, सांशयिकत्वेऽपि साक्षिणा प्रामाण्यानवधारणेऽपि । अन्यत्र दोषतत्प्रयुक्तमानससंशययोरभावस्थले । तदग्रहः प्रामाण्यानवधारणम् । चञ्चलं प्रमाऽजनकम् । न हि प्रतिबद्धं कार्यमजनयत्कारणमकारणं भवतीति भावः । तदुक्तं भगवत्पादैः ‘अन्यथाऽ-नवस्थानात्’ इति । तदाशयः विवृतस्तर्कताण्डवे, ‘फलाभावमात्रेण स्वरूप-योग्यत्वाभावसाधने लोकसिद्धसर्वव्यवस्थाऽयोगादित्यर्थः’ इति ।। ३३३ ।।
युक्तिमल्लिका
क्वचिज्ज्ञानत्वजातीये दोषजेऽव्यभिचारिणि ।
सर्वत्र व्यभिचारित्वशङ्कापङ्कोऽपि नोचितः ।। ३३४ ।।
सुरोत्तमटीका
ननु दोषजे ज्ञाने अर्थव्यभिचारदर्शनात् सर्वत्रापि ज्ञाने अर्थव्यभिचारशङ्का स्यादेव । अतः कथं समीपस्थवस्तुज्ञाने प्रामाण्यनिश्चय इत्यत आह ।। क्वचिदिति ।। सर्वत्र दोषाजन्ये अत एवाव्यभिचारिणि च ज्ञाने
।। ३३४ ।।
सत्यप्रमोदटीका
अव्यभिचारिणि दोषाजन्ये । अस्य सर्वत्रेत्यनेनान्वयः । शङ्कापङ्कः निर्मूलसंशयः ।। ३३४ ।।
युक्तिमल्लिका
अनुमानत्वजातीये दोषजेऽव्यभिचारिणि ।
किं प्रामाण्यानुमानाच्च तच्छङ्की त्वं निवर्तसे ।। ३३५ ।।
सुरोत्तमटीका
कुतो नोचित इत्यत आह ।। अनुमानत्वेति ।। तच्छङ्की अर्थव्यभिचारशङ्की गृहीतज्ञानप्रामाण्यनिश्चयाभाववानिति वा । निवर्तसे किम् । अनुमानेनापि प्रामाण्यनिश्चयं न करोषि किम् ।। ३३५ ।।
सत्यप्रमोदटीका
किं चैवं शङ्कायाः सार्वत्रिकत्वाभ्युपगमे, त्वदभि-लषितोऽनुमित्या प्रामाण्यनिश्चयोऽपि न सिध्येदित्याह अनुमानत्वेति । पर्वतो वह्निमानित्यनुमितिः प्रमाणं संवादादित्येवं त्वया प्रामाण्यानुमानेऽपि शङ्काऽऽ-स्कन्दनादिति भावः ।। ३३५ ।।
युक्तिमल्लिका
यदि व्याप्त्यादिदाढर्््येन शङ्कां धिक्कुरुते भवान् ।
तर्हि निर्दोषतादाढर्््यात्साक्षीह क्षोभयेद्धि ताम् ।। ३३६ ।।
सुरोत्तमटीका
ननु व्याप्त्यादिदार्ढ्यादनुमानगृहीतप्रामाण्ये समाश्वासः स्यादित्यत आह ।। यदीति ।। भवान् शङ्कां धिक्कुरुते शङ्कां तिरस्कृत्य मन-स्समाधानं करोतीति भावः । तर्हि ममापि समं समाधानमित्याह ।। तर्हीति ।। इह समीपस्थवस्तुज्ञाने तां शङ्काम् ।। ३३६ ।।
सत्यप्रमोदटीका
परमुखेनैव समाधिं वाचयति यदीति ।। ३३६ ।।
युक्तिमल्लिका
तत्सन्निकृष्टदृष्टेषु न प्रामाण्यग्रहे भयम् ।
प्रामाण्यग्रहणे शक्तिस्साक्षिणस्स्वेन तेजसा ।। ३३७ ।।
सुरोत्तमटीका
तत्रेत्यादिनोक्तमुपसंहरति ।। तदिति ।। तस्मात् शङ्काकारणाभावात् । सन्निकृष्टानि च तानि दृष्टानीति विग्रहः । प्रामाण्यग्रहे प्रामाण्यनिश्चये । तर्हि क्वचित्परीक्षापेक्षा कुत इत्यत आह ।। प्रामाण्यग्रहण इति ।। स्वेन तेजसा स्वसामर्थ्येन ।। ३३७ ।।
सत्यप्रमोदटीका
सन्निकृष्टदृष्टेषु दोषाजन्यज्ञानेषु । भयं दोषजन्येष्वपि प्रामाण्यावधारणापत्तिरूपम् । प्रामाण्यग्रहणे स्वस्य स्वग्राह्यज्ञानस्य च प्रामाण्यावधारणे । साक्षिणः चेतनत्वेन स्वयम्प्रकाशस्य । स्वेन तेजसा सहजशक्त्या । यत्र क्वचित्परीक्षापेक्षा तु अपवादनिरासार्था । एतेन ग्राहकान्तरानवस्था परीक्षानवस्था चेत्यनवस्थाद्वयं परतस्त्ववादिनामिव नास्मन्मतेऽवकाशमासादयतीति समर्थितं वेदितव्यम् ।। ३३७ ।।
युक्तिमल्लिका
निरोधनाशमात्राय नदीरुद्धेन नौरिव ।
परीक्षाऽपेक्ष्यते क्वापि तदभावे स्वयं पटुः ।
न हि राजपथे गन्त्रा गमने नौरपेक्ष्यते ।। ३३८ ।।
सुरोत्तमटीका
निरोधनाशमात्राय निरोधकदोषशङ्कानिरासमात्राय नतु प्रामाण्यनिश्चयायेत्यर्थः । क्वापि क्वचित्परीक्षा तद्भोगजन्यसुखानुभवाख्य-प्रवृत्तिसामर्थ्यविचारः अपेक्ष्यत इति सम्बन्धः । तत्र दृष्टान्तः ।। नदीरुद्धे-नेति ।। नदीरुद्धेन ग्रामं जिगमिषता पुरुषेण नौरिवेति । तदभावे दोषादि-प्रतिबन्धकाभावे । तदभावे स्वयं पटुरित्यत्रार्थान्तरन्यासः ।। नहीति ।। राजपथ इत्यनेन नद्यादिप्रतिबन्धकाभावं सूचयति । गंत्रा पुरुषेण ।। ३३८ ।।
सत्यप्रमोदटीका
सहजशक्तिमेवोपपादयति निरोधेति । तदुक्तं वादावल्यां ‘न हि गोक्षुरकापसारणसापेक्षेति गजस्य गमनशक्तिः परतन्त्रा’ इति
।। ३३८ ।।
युक्तिमल्लिका
निरोधकोऽपि कार्यस्याभावं सम्पादयेत्परम् ।
तदभावस्यापि कार्ये कारणत्वं न शोभते ।। ३३९ ।।
सुरोत्तमटीका
मास्तु तर्हि प्रामाण्यनिश्चयं प्रति परीक्षापेक्षा । दोषाख्यप्रतिबन्धकाभावस्य तु कारणता स्यात् । दोषाद्यप्रतिरुद्धत्वस्य भवद्भिरप्यङ्गीकारादित्यत आह ।। निरोधकोपीति ।। कार्यस्य प्रामाण्य-निश्चयरूपस्य । तदभावस्यापि प्रतिबन्धकाभावस्यापि ।। ३३९ ।।
सत्यप्रमोदटीका
प्रतिबन्धकाभावस्य कारणत्वाभावं समर्थयितुं ताव-त्प्रतिजानीते तदभावस्येति ।। ३३९ ।।
युक्तिमल्लिका
रुणद्धि यद्धि सामग्रीसत्त्वेऽप्यभिमतं फलम् ।
बुधैस्तदेव सर्वत्र प्रतिबन्धकमुच्यते ।। ३४० ।।
सुरोत्तमटीका
कुतो न शोभत इत्यत आह ।। रुणद्धीति ।। यद्वस्तु सामग्रीसत्त्वेऽपि कारणकलापसत्त्वेपि । अभिमतं फलं दाहादिकम् । तदेव रोधकमण्यादिवस्त्वेव सर्वत्र सर्वकार्येषु । तथा च प्रतिबन्धकाभावस्य न कारणसामग्य्रप्रवेशः । तस्यापि कारणसामग्य्रां प्रवेशे सामग्य्रभावेनैव कार्या-भावात् सामग्रीसत्त्वेऽप्यभिमतफलरोधकत्वलक्षणं प्रतिबन्धकत्वं प्रतिबन्ध-काभिमतस्य न स्यादिति भावः ।। ३४० ।।
सत्यप्रमोदटीका
प्रतिबन्धकलक्षणपरामर्शेनैव तस्य कारणत्वाभावः सिध्द्यतीत्याशयेन तल्लक्षणमाह रुणद्धीति । तथा च सत्यां सामग्य्रां कार्या-नुत्पादप्रयोजकत्वं प्रतिबन्धकत्वम् । प्रतिबन्धकाभावस्यापि कारणसामग्य्रां प्रवेशे सामग्य्रभावेनैव कार्याभावाल्लक्षणस्यासम्भवः ।। ३४० ।।
युक्तिमल्लिका
उष्णस्पर्शभरेणोग्रश्शक्तो दग्धुं हि पावकः ।
मन्त्रादिप्रतिबद्धस्तु न दहेदन्यदा दहेत् ।। ३४१ ।।
सुरोत्तमटीका
तदुपपादयति ।। उष्णस्पर्शेति ।। उष्णस्पर्शभरेण स्वयमेव दग्धुं शक्तः पावको मन्त्रादिप्रतिबद्धस्तु न दहेत् । अन्यदा मन्त्रादि-प्रतिबन्धकाभावे उष्णस्पर्शभरेणैव दहेद्धीति पूर्वपदावृत्त्या योजना ।। ३४१ ।।
सत्यप्रमोदटीका
एवं मणिमन्त्रादिप्रतिबन्धकाभावः न दाहं प्रति कारणमित्याह उष्णेति । तथा च वह्नौ दाहशक्तेरिव साक्षिणि प्रामाण्य-ग्रहणशक्तेः सहजत्वेऽपि मण्यादिप्रतिबन्धेनादाहस्येव दोषशङ्कादिप्रतिबन्धेन प्रामाण्याग्रहणोपपत्तिरिति भावः ।। विस्तरः तर्कताण्डवे प्रतिबन्धकाभावस्य हेतुत्वे प्रकारचतुष्टयभङ्गे ।। ३४१ ।।
युक्तिमल्लिका
यत्प्रागभावादुदयन्घटो न स्वनिरोधकृत् ।
यतस्तन्तुविनाशेन पटनाशे न तन्तुषु ।
तद्रोद्धृता यतश्चेशो नित्यः क्ष्मापातरोधकृत् ।। ३४२ ।।
सुरोत्तमटीका
ननु सति पुष्कलकारणे कार्याभावसंपादकत्वं प्रतिबन्ध-कत्वमिति प्रतिबन्धकलक्षणं चेत् स्यादेव प्रतिबन्धकाभावस्य कारणकोटाव-प्रवेशः । कारणीभूताभावप्रतियोगित्वं प्रतिबन्धकत्वमिति पक्षे कथमुक्तो दोष इत्यतस्तल्लक्षणं दूषयति ।। यदिति ।। यद्यस्मात्कारणात् प्रागभावात्स्व-प्रागभावात् उदयन्नुत्पद्यमानः न स्वनिरोधकृत् स्वप्रतिबन्धको नेति सम्बन्धः । नहि स्वकारणीभूतस्वप्रागभावप्रतियोगी घटः प्रतिबन्धक इत्युच्यते लोकैः । तथा च त्वदुक्तलक्षणं घटेऽतिव्याप्तमिति भावः । स्थलान्तरेऽप्यतिव्याप्तिं दर्शयति ।। यत इति ।। यतो यस्मात्कारणात् । तन्तुनाशेन पटनाशे जायमाने सति पटनाशकारणीभूताभावः तन्तुनाशस्तत्प्रतियोगित्वं तन्तुष्वस्तीति हेतोः तन्तूनां तद्रोद्धृता पटनाशरोद्धृता नेति सम्बन्धः । तन्तुषु सत्स्वेव तन्तु-संयोगनाशजन्यपटनाशस्य जायमानत्वेन तन्तूनां पटनाशं प्रत्यप्रतिबन्धकत्वात् । तथा च पटनाशकारणीभूततन्तुध्वंसप्रतियोगिषु पटनाशाप्रतिबन्धकेषु च तन्तुष्वतिव्याप्तं परोक्तलक्षणमिति भावः । अतिव्याप्तिमुक्त्वाऽव्याप्तिमप्याह ।। यतश्चेति ।। नित्य इत्यनेन कारणीभूताभावप्रतियोगित्वमीश्वरस्य नास्तीति द्योतयति । क्ष्मापातरोधकृत् कूर्मरूपेणाप्सुभूपतनप्रतिबन्धकृत् । तथा च भूपतनप्रतिबन्धके त्वदुक्तलक्षणाभावादव्याप्तिरिति भावः ।। ३४२ ।।
सत्यप्रमोदटीका
कारणीभूताभावप्रतियोगित्वं प्रतिबन्धकत्वं इति पराभिप्रेतं लक्षणं निराह यदिति । तत्र अभावः प्रागभावः ध्वंसो वा । आद्ये स्वं प्रति अप्रतिबन्धके घटे स्वकारणीभूतस्वप्रागभावप्रतियोगित्वस्य सत्त्वेनाति व्याप्तिः । द्वितीये पटनाशं प्रति अप्रतिबन्धकेषु तन्तुषु पटनाशरूपकार्यं प्रति कारणीभूतो यस्तन्तुनाशः तत्प्रतियोगित्वस्य सत्त्वेनातिव्याप्तिः । न हि तन्तवः पटनाशं प्रति प्रतिबन्धकाः । सत्स्वेव तन्तुषु तन्तुसंयोगनाशेन पटनाशस्य जायमानत्वात् । उभयत्रापि, भूपतनप्रतिबन्धके भुवो धारके कूर्मरूपे परमात्मनि अव्याप्तिः । तत्र हेतुः नित्य इति । अनादिरित्यपि ग्राह्यम्
।। ३४२ ।।
युक्तिमल्लिका
अतो न कारणीभूताभावस्य प्रतियोगिता ।
प्रतिबन्धकता किं तु पूर्वोक्तैव सतां मता ।। ३४३ ।।
सुरोत्तमटीका
अतः अव्याप्त्यतिव्याप्त्यादिदोषग्रस्तत्वादित्यर्थः । पूर्वोक्तैव रुणद्धीति पूर्ववाक्योक्तैव ।। ३४३ ।।
सत्यप्रमोदटीका
अतः सकलदोषैरव्याप्त्यादिभिर्दुष्टत्वात् । पूर्वोक्ता ‘रुणद्धि यद्धि’ इत्यादिनोक्ता ।। ३४३ ।।
युक्तिमल्लिका
मण्यादिर्मुख्यतो रोद्धा तस्यैवादर्शि लक्षणम् ।
हेतोर्विघटकादृष्टं त्वमुख्यं तन्न लक्षितम् ।। ३४४ ।।
सुरोत्तमटीका
ननु सामग्रीविघटकमदृष्टं प्रतिबन्धकमित्युच्यते । तत्र सति पुष्कलकारणे कार्याभावसंपादकत्वस्य भवदुक्तलक्षणस्याप्यव्याप्तिरित्यत आह ।। मण्यादिरिति ।। हेतोः कारणकलापस्य विघटकं यददृष्टं तत्त्वमुख्यं प्रतिबन्धकम् । कार्यार्जकसामग्रीसङ्घटनप्रतिबन्धद्वारा परंपरया कार्यप्रतिबन्ध-नात् । तत्तस्मान्मुख्यप्रतिबन्धकत्वाभावान्न लक्षितं लक्षणवत्तया न प्रदर्शितम् । मण्यादिस्तु साक्षात्कार्यं प्रत्येव प्रतिबन्धकत्वेन मुख्यप्रतिबन्धकत्वात्तस्यैव लक्षणमुक्तमिति भावः । न हि मुख्यगङ्गालक्षणं वदन्तो मुख्यं तीरमपि सङ्गृह्णन्तीति भावः ।। ३४४ ।।
सत्यप्रमोदटीका
प्रतिबन्धकं द्विविधं मुख्यं अमुख्यं चेति । तत्र आद्यं मण्यादिकं कारणनिष्ठकार्यानुकूलशक्तिविघटकरूपम् । द्वितीयं सामग्रीविघटक-रूपमदृष्टम् । आद्यस्य लक्षणमेव पूर्वोक्तम् । अतो न तस्य द्वितीयलक्षण-लक्ष्येऽव्याप्तिः शङ्कनीयेत्याशयेनाह मण्यादिरिति ।। ३४४ ।।
युक्तिमल्लिका
प्रतिबन्धकमण्यादेरभावो यदि कारणम् ।
कारणाभावतस्तर्हि कार्याभावो भविष्यति ।। ३४५ ।।
सुरोत्तमटीका
मण्यभावस्यापि दाहकारणत्वे मणेः प्रतिबन्धकत्वकथैव वृथेत्येतत्सदृष्टान्तमुपपादयति ।। प्रतिबन्धकेति ।। प्रतिबन्धकश्चासौ मण्यादि-रिति विग्रहः । कारणाभावतः प्रतिबन्धकाभावाख्यकारणाभावतः कार्याभावः दाहलक्षणकार्याभावः ।। ३४५ ।।
सत्यप्रमोदटीका
कारणाभावः प्रतिबन्धक इति त्वन्मते मणौ मुख्य-प्रतिबन्धकलक्षणं तावन्न सम्भवतीत्याह प्रतिबन्धकेति ।। ३४५,३४६ ।।
युक्तिमल्लिका
प्रतिबन्धकताऽप्यत्र मण्यादेर्भण्यते कुतः ।। ३४६ ।।
सुरोत्तमटीका
अत्र दाहलक्षणकार्ये । प्रतिबन्धकता निरोधकता ।। ३४६ ।।
युक्तिमल्लिका
दण्डाख्यकारणाभावाद्यत्र कार्यं न जायते ।
प्रतिबन्धेन निर्बन्धं तत्र को वक्ति मानवः ।। ३४७ ।।
सुरोत्तमटीका
तत्र दृष्टान्तमाह ।। दण्डाख्येति ।। यत्र यस्मिन्देशे तत्र तस्मिन्देशे प्रतिबन्धेन प्रतिबन्धकेन निर्बन्धं कार्याभावलक्षणनिर्बन्धं को मानवो वक्तीति सम्बन्धः ।। ३४७ ।।
सत्यप्रमोदटीका
कारणाभावे प्रतिबन्धकत्वव्यवहारः अलौकिक इति दृष्टान्तोक्त्याऽऽह दण्डेति ।। ३४७ ।।
युक्तिमल्लिका
कारणाभावहेतुश्च कश्चित्स्यात्प्रतिबन्धकः ।
सत्येव कारणे शक्तिस्तम्भकोऽप्यस्ति कश्चन ।। ३४८ ।।
सुरोत्तमटीका
कारणविघटकादृष्टे स्वोक्तप्रतिबन्धकलक्षणाव्याप्ति-परिहाराय यदुक्तमदृष्टस्यामुख्यप्रतिबन्धकत्वं मणेश्च मुख्यतः प्रतिबन्धकत्वं तदुभयं सयुक्तिकं विविच्य दर्शयन् प्रतिबन्धकाभावस्यापि कारणत्वे मणेर्द्वेधापि प्रतिबन्धकत्वायोगादप्रतिबन्धकत्वमेव स्यादित्याह ।। कारणाभावहेतुश्चेत्या-दिना ।। कारणाभावहेतुः कारणसामग्रीविघटक इति यावत् । कश्चिददृष्टादिः । सत्येव कारणे कारणकलापे सतीति यावत् । शक्तिस्तंभकः वह्न्यादे-र्दाहादिशक्तिप्रतिबन्धकः । शक्तिप्रतिबन्धकत्वं नाम दाहकशक्तौ सत्यामेव ततो दाहादिकार्यं भवितुं न मुञ्चतीति साक्षात्कार्यप्रतिबन्धकत्वमेवेत्यर्थः । कश्चन मण्यादिः ।। ३४८ ।।
सत्यप्रमोदटीका
त्वद्रीत्या मणौ अमुख्यप्रतिबन्धकलक्षणमप्यसम्भवीति वक्तुं प्रागुक्तं विभागं स्मारयति कारणेति ।। ३४८ ।।
युक्तिमल्लिका
मण्यभावस्य हेतुत्वे तदभावात्मको मणिः ।
न हेत्वभावहेतुत्वात्प्रतिबध्नात्यदृष्टवत् ।। ३४९ ।।
सुरोत्तमटीका
तदभावात्मक इत्यत्र तत्पदेन दाहकारणत्वेन पराभिमतो मण्यभावो गृह्यते । अभावपदेन च तस्याभावस्याभावो गृह्यते । सचाभावाभावो भाव एवेति मणिरेवेति भावेनोक्तं तदभावात्मको मणिरिति । हेत्वभावहेतुत्वात् हेत्वभावसंपादकत्वाददृष्टवन्न प्रतिबध्नातीति सम्बन्धः । मण्यभावस्य हेतुत्वे मण्यभावाभावरूपो मणिः हेत्वभावात्मक एव न त्वदृष्टवत् हेत्वभाव-संपादकतया प्रतिबन्धक इति भावः ।। ३४९ ।।
सत्यप्रमोदटीका
असम्भवमेवोपपादयति मण्यभावेति । त्वन्मते मणिर्हेत्वभावरूप एव न हेत्वभावघटकः इति भावः ।। ३४९ ।।
युक्तिमल्लिका
कार्याभावो यतस्स्वाभावाख्यहेतोरभावतः ।
सति तस्मिन्नभूत्तेन शक्तिस्तम्भकता गता ।। ३५० ।।
सुरोत्तमटीका
शक्तिस्तम्भकत्वेन प्रतिबन्धकत्वं दूषयति ।। कार्याभाव इति ।। यतस्तस्मिन्मणौ सति कार्याभावो दाहलक्षणकार्याभावः स्वाभावाख्य-हेतोः स्वस्यमणेरभावाभिधदाहहेतोरभावतोऽभूदिति सम्बन्धः । तेन कारणेन
।। ३५० ।।
सत्यप्रमोदटीका
अत एव कारणनिष्ठकार्यानुकूलशक्तिविघटकत्वरूपस्य प्रतिबन्धकलक्षणस्यापि त्वन्मते मणौ असम्भव एवेत्याह कार्याभावेति
।। ३५० ।।
युक्तिमल्लिका
कारणाभावमात्रेण कार्याभावस्य सिद्धितः ।
शक्तिस्तम्भकता केन कल्प्या कल्पकसंसदि ।। ३५१ ।।
सुरोत्तमटीका
तेन शक्तिस्तम्भकता गतेत्येतद्विशदयति ।। कारणा-भावमात्रेणेति ।। मण्यभावरूपदाहकारणाभावेनैव कार्याभावस्य दाहलक्षण-कार्याभावस्य सिद्धितः सम्भवात् शक्तिस्तम्भकता दाहकारणसामग्य्रां दाहशक्ति- स्तम्भकता केन कारणेन कल्प्या । मण्यभावाख्यकारणाभावेन सामग्य्रा एवाभावात्कार्याभावोपपत्तौ पुनर्मणेरपि कारणशक्तिस्तंभकताया न किञ्चि-त्कल्पकमिति भावः ।। ३५१ ।।
सत्यप्रमोदटीका
मण्यभावः खलु कारणं त्वन्मते । स च मणिसद्भावे नास्ति । तथा च कारणाभावः । तत एव च सामग्रयभावः । तेनैव च कार्याभावः । सति चैवं कारणस्यैवाभावात् कार्याभावोपपत्तौ न कारण-निष्ठकार्यानुकूलशक्तिविघटकत्वकल्पनाऽवकाशमासादयतीत्याह कारणाभावेति
।। ३५१ ।।
युक्तिमल्लिका
सर्वथा कारणाभावाद्भिन्नस्स्यात्प्रतिबन्धकः ।
न चेद्दण्डाभावतश्च प्रतिबन्धकता भवेत् ।। ३५२ ।।
सुरोत्तमटीका
प्रतिबन्धकाभावस्य कारणत्वप्रकारान्तरेणापि मणेः प्रतिबन्धकत्वं न घटत इत्याह ।। सर्वथेति ।। कारणाभावात् कारणस्य मण्यभावस्याभावात् प्रतिबन्धकः भिन्नः स्यादिति सम्बन्धः । मण्यभावस्य कारणत्वमते च मण्यभावाभावात्मको मणिः कारणस्याभावरूप एव । नतु कारणाभावाद्भिन्न इति भावः । प्रतिबन्धकस्य कारणाभावाद्भिन्नत्वानङ्कीकारे बाधकमाह ।। नचेदिति ।। दण्डस्य घटं प्रति कारणत्वाद्दण्डाभावाद्यत्र घटाभावस्तत्र दण्डाभावादावपि प्रतिबन्धकता भवेत् । दण्डाभावस्यापि प्रतिबन्धकत्वं विद्वद्भिः कथ्येतेति भावः ।। ३५२ ।।
सत्यप्रमोदटीका
विपक्षे लोकव्यवहारविरोधं बाधकं दर्शयन्नेव परोक्त-लक्षणस्य प्रत्याख्यानमुपसंहरति सर्वथेति ।। ३५२ ।।
युक्तिमल्लिका
तस्माच्छङ्कापनोदाय परीक्षापेक्षणं क्वचित् ।
तदभावे सह ज्ञानैः प्रामाण्यं च स वीक्षते ।। ३५३ ।।
सुरोत्तमटीका
प्रामाण्यग्रहणे शक्तिरित्यादिनोक्तमर्थमुपसंहरति ।। तस्मादिति ।। यस्मात्कारणात् क्वचिदेवाप्रामाण्यशङ्का न सर्वत्र समीपस्थ-पदार्थेषु तदभावस्योपपादितत्वात् । तस्मात् अप्रामाण्यशङ्कापनोदाय परीक्षा-पेक्षणं क्वचिदेव न सर्वत्रेति भावः । तदभावे दूरस्थवस्तुविषयत्वादिदोष-प्रयुक्ताप्रामाण्यशङ्काभावे । सः साक्षी ।। ३५३ ।।
सत्यप्रमोदटीका
प्रत्याख्यानस्य प्रकृतोपयोगमाह तस्मादिति ।। तदुक्तं तत्त्वनिर्णये ‘अदुष्टबुद्धीनां स्वत एव सिद्धत्वात्प्रामाण्यस्य’ इति । प्रतिबन्ध-दशायां कार्याजननमात्रेण शक्तेः सहजत्वाभावे वह्न्यादौ दाहादिशक्तेः सहजत्वमिति व्यवस्थित्यनुपपत्तेरिति भावः ।। तथा च साक्षिणः प्रामाण्य-ग्रहणे सहजशक्तौ न काऽप्यनुपपत्तिरिति ।। ३५३ ।।
युक्तिमल्लिका
अथ प्रामाण्यानुमितेः पूर्वं प्रामाण्यसंशयः ।
सर्वत्राप्यस्ति तेनैतत्साक्षिणा वीक्ष्यते कथम् ।। ३५४ ।।
सुरोत्तमटीका
ननु प्रामाण्यानुमितेः पूर्वं सर्वज्ञानप्रामाण्यसंशयात् क्वापि प्रामाण्यं साक्षिणा गृहीतुं न शक्यत इत्याग्रहाद्वदन्तं प्रति दूषणान्तरं वक्तुमुप-क्रमते ।। अथेति ।। सर्वत्र सन्निकृष्टविप्रकृष्टवस्तुविषयकज्ञाने । तेन कारणेन । एतज्ज्ञानप्रामाण्यं साक्षिणा कथं वीक्ष्यत इति सम्बन्धः ।। ३५४ ।।
सत्यप्रमोदटीका
इदानीं पराभिमतपरतस्त्वसाधकमपाकरोति अथे-त्यादिभिः ।। ३५४ ।।
युक्तिमल्लिका
अतोऽनुमानात्तत्तद्धि प्रामाण्यमनुमीयते ।
इत्यक्षिणी निमील्यैव वदन्तं प्रति चोच्यते ।। ३५५ ।।
सुरोत्तमटीका
अतः यतः साक्षिणा सर्वत्र प्रामाण्यं वीक्षितुं न शक्यते तस्मादित्यर्थः । अनुमानात्समर्थप्रवृत्तिजनकत्वादित्यादिरूपात् । समीपस्थ-पदार्थज्ञानेषु प्रामाण्यसंशयाभावस्योपपादितत्वात् अक्षिणी निमील्येत्युप-हासोक्तिः ।। ३५५ ।।
सत्यप्रमोदटीका
‘प्रामाण्यं परतो ज्ञायते सांशयिकत्वात्’ इत्यस्य समीपस्थपदार्थविषयकज्ञानप्रामाण्ये असिद्धिरित्याह अत इति ।। ३५५ ।।
युक्तिमल्लिका
अनानुभविकस्सोऽयं संशयः केन कल्प्यते ।
प्रामाण्यग्रहणोपायाभावादिति मतं यदि ।। ३५६ ।।
सुरोत्तमटीका
यदुक्तं सर्वत्र प्रामाण्यसंशय इति तत्र को हेतुरिति पृच्छति ।। अनानुभविक इति ।। अनानुभविकः अनुभवविरुद्धः । नन्वनुमानातिरिक्तप्रामाण्यग्राहकप्रमाणाभावात् प्रामाण्यसंशय इति शङ्कामनूद्य दूषयति ।। प्रामाण्येति ।। तदा अन्योन्याश्रयाख्यमहादोषः ते भविष्यतीति सम्बन्धः ।। ३५६ ।।
युक्तिमल्लिका
तदा तेऽन्योन्याश्रयाख्यमहादोषो भविष्यति ।
संशयानुपपत्त्यैव प्रामाण्येक्षणशिक्षणम् ।। ३५७ ।।
सुरोत्तमटीका
तदुपपादयति ।। संशयेति ।। सर्वत्र ज्ञाने प्रामाण्य-संशयानुपपत्त्या प्रामाण्येक्षणशिक्षणं प्रामाण्येक्षणरूपस्य साक्षिणः शिक्षणं तदग्राहकत्वकल्पनमिति भावः ।। ३५७ ।।
सत्यप्रमोदटीका
न चात्र विवादः । संशये कल्पकाभावात् अनुभव-विरोधाच्चेत्याह अनानुभविक इति ।। ननु न कल्पकाभावः । प्रामाण्य-ग्रहणोपायाभावस्यैव सर्वत्र सांशयिकत्वस्य कल्पकत्वात् । अत एव अनानु-भविकमप्यसिद्धमिति चेद् अत्र प्रष्टव्यम् । प्रामाण्यग्रहणे उपायाभाव एव कुतः । अनुव्यवसायरूपसाक्षिण एव उपायस्य विद्यमानत्वात् । साक्षी न प्रामाण्यग्राहकः किन्तु अनुमितिरेवेति चेत् । किमेतत्स्वसमयानुरोधादेवोच्यते उत लोकानुभवमनुरुध्य । नाद्यः अन्योन्याश्रयादित्याह तदा त इति । सिद्धे परतस्त्वरूपे त्वत्समये साक्षिणः प्रामाण्याग्राहकत्वसिद्धिः । तत्सिद्धौ न परतस्त्वसिद्धिरिति ।। ३५६, ३५७ ।।
युक्तिमल्लिका
न चेद्घटत्वतद्वच्वतत्प्रकारकतादिकम् ।
उपनीतमनीतं वा साक्षात्कुर्याद्धि साक्ष्यसौ ।। ३५८ ।।
सुरोत्तमटीका
नचेत्संशयानुपपत्त्या साक्षिणः प्रामाण्याग्राहकत्वकल्पनं न चेत् घटत्वं घटत्वजातिः तद्वत्त्वं घटत्ववत्त्वं तत्प्रकारकता घटत्वप्रकार-कत्वम् । आदिपदेन घटत्ववद्विशेष्यकत्वं ज्ञानत्वं चेति प्रामाण्यशरीरघटकं सर्वं गृहीतमिति द्रष्टव्यम् । उपनीतं व्यवसायोपनीतम् । तच्च घटत्वं घटे घटत्ववत्त्वं च । बाह्यत्वात् । अनीतं अनुपनीतम् । तच्च घटत्ववद्विशेष्य-कत्वादिकम् । साक्षाज्ज्ञाननिष्ठत्वेनान्तरत्वात् । असौ साक्षी साक्षात्कुर्याद्धि । प्रतिबन्धकाभावादिति भावः ।। ३५८ ।।
सत्यप्रमोदटीका
न द्वितीयः । लोकानुभवस्य विरुद्धत्वादित्याह न चेदिति । स्वसमयदुरभिनिवेशदुर्व्यसनेन अनुभवपीडनं न क्रियते चेत् इत्यर्थः । साक्षात्कुर्यात् अवधारयेत् । दोषाभावे साक्षिणः उपनीतांशेऽपि अवधारण-रूपत्वं ‘उपनीतं च निर्णीतिकन्या धन्याऽन्वमन्यत’ इत्यादिना समर्थितम् । अनीतं साक्षाद्विषयं घटत्ववद्विशेष्यकत्वावच्छिन्नघटत्वप्रकारकत्वं सुखसुखत्व-तद्वैशिष्ट्यादिकम् आन्तरपदार्थं च । हीत्यनेन प्रतिबन्धकाभावे साक्षिणा प्रामाण्यावधारणस्यानुभवसिद्धतां द्योतयति ।। ३५८ ।।
युक्तिमल्लिका
यद्यस्ति संशयस्तेऽयं तदैवास्य पराभवः ।
पराभूते सति ह्यस्मिन्नीक्षणं स्याद्दुरीक्षणम् ।। ३५९ ।।
सुरोत्तमटीका
तस्मात्प्रामाण्यसंशय एव प्रतिबन्धको वक्तव्य इत्याह ।। यदीति ।। ते तव मते अयं संशयः प्रामाण्यसंशयः यद्यस्ति तदैवास्य साक्षिणः पराभवः प्रामाण्याग्राहकत्वरूपः सिद्ध्यतीति शेषः । अस्मि-न्साक्षिणि पराभूते सति प्रामाण्यनिर्णायकत्वशक्तिरहिते सति ईक्षणं अस्मदभिमतं साक्षिणा प्रामाण्येक्षणं दुरीक्षणं अर्थसत्ताया अनिश्चायकं स्यादिति सम्बन्धः ।। ३५९ ।।
सत्यप्रमोदटीका
न च प्रामाण्यसंशय एव प्रतिबन्धकः अन्योन्याश्रया-दित्याह यद्यस्तीति ।। ३५९, ३६० ।।
युक्तिमल्लिका
प्रामाण्यवीक्षणाभावादेव संशयकल्पना ।
एवं च कथमन्योन्यसंश्रयस्त्वां जिहासति ।। ३६० ।।
सुरोत्तमटीका
साक्षिरूपेक्षणस्य दुरीक्षणत्वे सिद्ध एव प्रामाण्यकोटि-निश्चायकाभावात् त्वदभिलषितसंशयोत्थानं स्यादित्याह ।। प्रामाण्येति ।। तथाचान्योन्याश्रय इत्याह ।। एवं चेति ।। ३६० ।।
युक्तिमल्लिका
पृथुबुध्नोदरत्वादेर्विशेषस्य प्रदर्शनात् ।
कथं समीपस्थघटपटाद्यर्थेषु संशयः ।
यन्मूलो ज्ञानमानत्वसन्देहस्ते भविष्यति ।। ३६१ ।।
सुरोत्तमटीका
समीपस्थघटादिज्ञानप्रामाण्ये संशयो नानुभविक इत्युक्तम् । तत्कुत इत्यत आह ।। पृथ्विति ।। घटत्वादेः निर्णायको यः पृथुबुध्नोदराकारत्वादिः तस्य विशेषस्य । यन्मूलः यः अर्थसंशयः मूलं कारणं यस्य सः । पृथुबुध्नोदराकारत्वाख्यविशेषदर्शनेन पुरोवर्तिनि घटत्ववत्त्वस्यापि निर्णीतत्वात् । तन्निर्णय एव प्रामाण्यकोटेर्विशेषदर्शनमिति कथं प्रामाण्य-संशयः । नहि विशेषदर्शने सति संशय इति भावः ।। ३६१ ।।
सत्यप्रमोदटीका
प्रामाण्यसंशये प्रत्यर्थसंशयः कारणम् । अर्थसंशयं च प्रति विशेषादर्शनम् । समीपस्थेषु घटपटाद्यर्थेषु पृथुबुध्नोदरत्वादिविशेष-दर्शनस्यैव सद्भावेन नार्थसंशय एवोत्पत्तुमर्हति कुतस्तन्मूलकः प्रामाण्यसंशयः इत्याह पृथ्विति ।। ३६१ ।।
युक्तिमल्लिका
यथा प्रामाण्यानुमानात्प्रामाण्यस्य विनिर्णयः ।
तथा घटत्वप्रत्यक्षाद्घटत्वस्यापि निर्णयः ।। ३६२ ।।
सुरोत्तमटीका
घटत्वप्रापकविशेषदर्शनात् घटत्वनिर्णयमुक्त्वा प्रकारान्तरेणापि तन्निर्णयमुपपादयति ।। यथेति ।। ३६२ ।।
सत्यप्रमोदटीका
किं चानुमितिः प्रामाण्यनिर्णयरूपेति परेणाङ्गीकृतम् । तत्र कुतो न संशयकल्पनेति वक्तव्यम् । अनुमाने क्लृप्तदोषाणामसिध्द्यादीना-मभावात्तत्र निर्णयश्चेत् प्रत्यक्षे क्लृप्तदोषाणां दूरस्थत्वादीनामभावाद्धट-प्रत्यक्षस्यापि निर्णयरूपत्वमङ्गीकार्यमित्याह यथेति ।। ३६२,३६३ ।।
युक्तिमल्लिका
शङ्काधानं यथा तत्र मूलदाढर्््यान्न ते मते ।
तथा निर्दोषाक्षजन्यज्ञानदाढर्््यादिहापि न ।। ३६३ ।।
सुरोत्तमटीका
तत्र प्रामाण्यानुमाने । मूलदार्ढ्यात् अनुमानमूल-व्याप्त्यादिदार्ढ्यात् । इहापि घटेऽपि शङ्काधानं नेति सम्बन्धः ।। ३६३ ।।
युक्तिमल्लिका
तस्मात्प्रामाण्यशङ्काया बीजं भर्जितमत्र ते ।
निर्बीजा सा लता गर्भस्रावेणैव गताऽभवत् ।। ३६४ ।।
सुरोत्तमटीका
समीपस्थघटज्ञानप्रामाण्यसंशयाभावमुपसंहरति ।। तस्मादिति ।। शङ्काबीजं निर्णायकाभावसहकृतसाधारणधर्मदर्शनरूपम् । सा शङ्का । लतेव लतागर्भस्रावेणैव । बीजाभावेनेति भावः ।। ३६४ ।।
सत्यप्रमोदटीका
उपसंहरति तस्मादिति ।। ३६४ ।।
युक्तिमल्लिका
दोषशङ्काकृतोऽप्येषु न स्यात्प्रामाण्यसंशयः ।
समीपस्थघटाद्यर्थज्ञानेषु कुत एव सा ।। ३६५ ।।
सुरोत्तमटीका
ननु दोषजन्यत्वशङ्कया प्रत्यक्षस्य दुर्बलत्वे जाते प्रामाण्यसंशयः स्यादित्यत आह ।। दोषशङ्केति ।। एषु ज्ञानेषु दोषशङ्काकृतः प्रामाण्यसंशय इति सम्बन्धः । कुतो नेत्यत आह ।। समीपस्थेति ।। हेतुगर्भं विशेषणम् । यतो घटादयः समीपस्थाः अतोऽतिदूरत्वादिदोषाभावात् समीपस्थघटाद्यर्थज्ञानेषु सा दोषशङ्का कुत एव न कुतोऽपीत्यर्थः ।। ३६५ ।।
सत्यप्रमोदटीका
अर्थेन्द्रिययोः सन्निकर्षेण जायमाने प्रत्यक्षे अप्रामाण्य- शङ्कां प्रति तयोरन्यतरस्मिन्दोषशङ्का खलु कारणम् । यदा निर्दोषमिन्द्रियं दूरस्थत्वादिदोषरहितेनार्थेन सन्निकृष्टं सत् प्रत्यक्षं जनयति तदा तत्र ज्ञाने अप्रामाण्यशङ्काकारणस्यैवाभावेन नैव तच्छङ्का सम्भाविनीत्याह दोषेति ।।३६५।।
युक्तिमल्लिका
तत्सन्निकृष्टदृष्टार्थज्ञानमानत्वसंशयः ।
अजानतां जानतां वा नास्ति चक्षुष्मतां सताम् ।। ३६६ ।।
सुरोत्तमटीका
उक्तमर्थमुपसंहरति ।। तदिति ।। तत्तस्मात् । सन्निकृष्टाश्च ते दृष्टार्थाश्चेति विग्रहः । अजानताम् । अज्ञानिनाम् । जानताम् । ज्ञानिनाम् । चक्षुष्मतामित्यनेन स्यात्कथंचित्संशयोऽन्धानामिति सूचयति । दोषशङ्काहि प्रामाण्यसंशयतद्विपर्ययलक्षणफलबलकल्प्या । फलं च न केषामप्यस्तीति भावः ।। ३६६ ।।
सत्यप्रमोदटीका
अजानतां जानतां वेति । परीक्षानैरपेक्ष्येण साक्षिणः सहजशक्त्यैव इति भावः । सतां अदुष्टबुद्धीनाम् ।। यथोक्तं ‘अदृष्टबुद्धीनां स्वत एव सिद्धत्वात्प्रामाण्यस्य’ इति ।। ३६६ ।।
युक्तिमल्लिका
नायं घट इति प्रोक्ते भवत्येवेति यत्पुनः ।
भवन्ति प्रतिवक्तारस्तत्र किं कारणं वद ।। ३६७ ।।
सुरोत्तमटीका
उक्तं प्रामाण्यसंशयाभावमनुभवारूढं करोति ।। नाय-मिति ।। अत्रायं घट इति ज्ञाने जाते नात्र घट इति केनचिद्धूर्तेन प्रोक्ते सति अयं घटो भवत्येवेति पुनः प्रतिवक्तारो भवन्ति लोकाः । तस्मादेतादृशस्थले ज्ञानप्रामाण्यसंशयः सर्वानुभवविरुद्ध इति भावः । तत्र एवं प्रतिवचने ।। ३६७ ।।
युक्तिमल्लिका
यद्यर्थे तत्र विश्वासस्तर्हि तेन च साक्षिणा ।
ग्रहणे नतरां तस्य विघ्नो द्वैमातुरो ह्यसौ ।। ३६८ ।।
सुरोत्तमटीका
तस्मात्तादृशस्थले ज्ञानप्रामाण्यसंशयाभावोऽवश्यं वाच्य इत्याह ।। यदीति ।। तत्र तादृशस्थले ज्ञातेऽर्थे यदि विश्वासः अयमेतादृशो भवत्येवेति विश्वासः । संशयाभावस्याप्युपलक्षणमेतत् । तर्हि तेन निश्चयरूपेण पूर्वव्यवसायेन निर्धारणरूपैतादृशज्ञानग्राहकसाक्षिणाच तस्यार्थस्य ग्रहणे उभाभ्यामपि तदर्थावधारणे कृते सतीति यावत् । तस्य ताभ्यां निर्णीते घटत्व-वत्त्वरूपस्य विघ्नः अभावशङ्का नतरां अतिशयेन नेति सम्बन्धः । साहित्य-रससम्पादनाय विघ्न इत्युक्तम् । कथं न विघ्न इत्यतः साहित्यमुद्रया तमुपपादयति ।। द्वैमातुर इति ।। व्यवसायानुव्यवसायरूपमातृद्वयोपेत इत्यर्थः। मातृद्वयपोषितत्वाद्द्वैमातुराख्यो विघ्ननिवारको विनायक इति ध्वनिः ।। यथा द्वैमातुरं दृष्ट्वा विघ्नस्स्वयमेव पलायनं करोति । एवं साधकदृढप्रमाणद्वय-साधितमर्थसद्भावं दृष्ट्वा शङ्कापिशाची दूरापास्तेति भावः ।। ३६८ ।।
सत्यप्रमोदटीका
एकाकारनियतोऽपि व्यवसायो द्विविधः । अयं घट इति, अयं घटो भवत्येवेति च । तत्राद्येऽनुव्यवसायः घटमहं जानामीत्येवं-रूपः। द्वितीये तु घटमेव घटत्वेन जानामि इति सुदृढनिर्णयात्मकः व्यवसाये प्रामाण्योल्लेखी । तदुक्तं तर्कताण्डवे ‘सुखमेव सुखत्वेन जानामीत्यादिज्ञाने प्रामाण्यशब्दानुल्लेखेऽपि तदर्थस्य सुखत्ववति सुखत्वप्रकारकत्वरूपस्य प्रामाण्यस्योल्लेखादि’ति । एतादृशस्थले न केवलं व्यवसायो निर्णयरूपः एकाकारनियतत्वात् । किं नामानुव्यवसायोऽपि व्यवसायप्रामाण्यनिश्चयद्वारा
अर्थनिर्णयस्य सुदृढतां सम्पादयति । तथा च तत्रार्थशङ्का नतरां सम्भवतीति प्रमेये लोकानुभवमभिनीय दर्शयति नायं घट इति । द्वैमातुरः व्यवसायानु-व्यवसायरूपमातृद्वयोपेतः । विघ्ननिवारको विनायक इति ध्वनिः ।।३६७,३६८।।
युक्तिमल्लिका
किञ्च वित्तव्ययायाससाध्ये कर्मणि कर्मिणाम् ।
प्रामाण्यनिश्चयोऽवश्यं निश्शङ्कायै प्रवृत्तये ।। ३६९ ।।
सुरोत्तमटीका
प्रामाण्यस्य परतस्त्वे अनवस्थामप्याह ।। किञ्चे-त्यादिना ।। वित्तव्ययायाससाध्ये बहुवित्तव्ययायाससाध्ये । वित्तव्ययश्च आयासश्चेति विग्रहः । अल्पप्रयोजने कृष्यादौ सन्देहादपि प्रवृत्तिदर्शनात् ततो वैलक्षण्यायैतद्विशेषणम् । बहुवित्तव्ययायासासाध्ये कर्मणि फलसन्देहान्न कस्यापि प्रेक्षावतः प्रवृत्तिरिति भावः । कर्मणि यागादौ निश्शङ्कायै प्रवृत्तये अवश्यं प्रामाण्यनिश्चयः पुरुषप्रवर्तके ज्योतिष्टोमस्य स्वर्गसाधनत्वज्ञाने यत्प्रामाण्यं तन्निश्चयो वक्तव्यः ।। ३६९ ।।
सत्यप्रमोदटीका
‘तत्प्रामाण्यं च स्वत एव अन्यथाऽनवस्थानात्’ इति भगवत्पादोक्तां परतस्त्वहेतूनां प्रतिकूलतर्कपराहतिं वक्तुं तावत्प्रामाण्यस्य अवश्यवेद्यत्वमाह किञ्चेति । तदुक्तं तत्वनिर्णयटीकायां ‘अवश्यवेद्यत्वा-भावान्नानवस्थेत्यभिप्राय इति चेन्न । निश्शङ्कप्रवृत्तावश्यवेद्यत्वादि’ति । ‘यद्यपि लोके संशयतोऽपि प्रवृत्तिर्भवति । तथाऽपि न बहुतरशरीरायासवित्तव्ययादि-साध्या पारत्रिकी प्रवृत्तिस्तथा भवितुमर्हती’ति च ।। ३६९ ।।
युक्तिमल्लिका
स चेत्स्वतो न तर्हि स्यादनवस्थाख्यदूषणम् ।। ३७० ।।
सुरोत्तमटीका
सः प्रामाण्यनिश्चयः स्वतः ज्ञानग्राहकात् साक्षिण एव न चेत् तर्हि अनवस्थाख्यदूषणं स्यात् । एतज्ज्ञानप्रामाण्यं प्रामाण्यानुमित्या निर्णेयं तस्या अनुमितेरपि प्रामाण्यमनुमित्यन्तरेणेत्यनवस्थेति भावः । अस्माकं त्वपौरुषेयतया दोषाभावस्थलीयत्वात् एतज्ज्ञानप्रामाण्यं दोषाभावस्थलीय-ज्ञानान्तरप्रामाण्यं च गृह्णन्साक्षी चिद्रूपत्वेन स्वप्रकाशतया स्वात्मानं स्वप्रामाण्यं च सहैव गृह्णातीति नानवस्थितिः । परस्य तु क्वापि ज्ञाने स्वप्रकाशत्वानङ्गीकारात् सुस्थैवानवस्था ।। ३७० ।।
सत्यप्रमोदटीका
स चेत्स्वतो नेति । प्रामाण्यनिश्चयः साक्षीतरेण तार्किकरीत्या संवादादिलिङ्गेन वा, प्राभाकरदिशा मनोवृत्तिज्ञानेन वा, भट्टरीत्या ज्ञाततालिङ्गकानुमित्या वा भवतीति पक्षे इत्यर्थः । अनवस्थेति । फलमुखी करणमुखी चेत्यनवस्थाद्वयमित्यर्थः । यथोक्तं तर्कताण्डवे ‘परतस्त्वे प्रामाण्यज्ञानस्यापि प्रामाण्यं संवादादिलिङ्गजन्यानुमितिरूपेणान्येन ज्ञानेन ग्राह्यम्, एवं तत्प्रामाण्यमप्यन्येनेति फलमुखी एकाऽनवस्था । एवं प्रामाण्य-स्यानुमेयत्वे लिङ्गव्याप्त्यादिज्ञानप्रामाण्यानिश्चयेऽसिद्ध्यादिप्रसङ्गेन तन्निश्चयार्थं लिङ्गाद्यन्तरं तज्ज्ञानप्रामाण्यनिश्चयश्च स्वीकार्यः, एवं तत्र तत्रापीति करण-मुख्यान्यापीति अनवस्थाद्वयापत्तेरि’ति । एवं प्राभाकरमते मनोवृत्तिज्ञानस्या-स्वप्रकाशत्वेन ग्राहकान्तरानवस्था च ध्येया । साक्षिणा प्रामाण्यग्रह इति पक्षे तु नैतद्दोषावकाशः । साक्षी स्वयं प्रकाशः नियतयथार्थः, स्वात्मानं स्वप्रामाण्यं, व्यवसायं व्यवसायप्रामाण्यं च गृह्णातीत्यभ्युपगमात् ।। ३७० ।।
युक्तिमल्लिका
यद्यर्थनिश्चयादेव प्रवृत्तिरिति मन्यसे ।
तर्हि प्रामाण्यसन्देहस्थलेऽप्यर्थस्य निश्चयात् ।। ३७१ ।।
आवश्यकात्प्रवृत्तिरस्याद्यत्र प्रामाण्यसंशयः ।
तत्राप्युपान्तगमने किं न स्यादर्थनिश्चयः ।। ३७२ ।।
सुरोत्तमटीका
ननु किं प्रामाण्यनिश्चयेन आवश्यकार्थनिश्चयादेव प्रवृत्तिसम्भवादिति कस्यचिच्छङ्कामनूद्य दूषयति ।। तदिति ।। ननु प्रामाण्य-निश्चयरहितार्थनिश्चये प्रामाण्यसंशयाहितार्थसंशयस्याप्यवर्जनीयत्वात् कथमर्थ-निश्चयादेव प्रागुक्तनिश्शङ्कप्रवृत्तिरिति चेत्सत्यम् । दूषणान्तरमपि वक्तुं पुनरारम्भ इति द्रष्टव्यम् । तर्हि प्रामाण्यसन्देहस्थलेऽप्यावश्यकादर्थनिश्चयादेव प्रवृत्तिस्स्यादिति सम्बन्धः । यत्र यस्मिन्स्थले तत्र तस्मिन् प्रामाण्यसन्देहस्थले उपान्तगमने प्रामाण्यानुमापकप्रवृत्तिसामर्थ्याख्यहेतुनिश्चयार्थं समीपगमने अर्थनिश्चयो न स्यात् किम् । स्यादेवेत्यर्थः ।। ३७१,३७२ ।।
सत्यप्रमोदटीका
ननु पारत्रिक्यां प्रवृत्तावपि अर्थनिश्चय एव हेतुः । समानविषयकत्वात् । आवश्यकत्वाच्च । अतो नानवस्थेति चेत् । किं अर्थनिश्चयमात्रो हेतुः उत अयमर्थः इत्थं भवत्येवेति अवधारणात्मकः अर्थ-निश्चयाश्वासः । नाद्यः । तथा सति प्रामाण्यज्ञानस्यैव सर्वथाऽनपेक्षितत्वापत्त्या प्रामाण्यं परतो ज्ञेयं इति त्वन्मतस्यानवसरदुःस्थत्वापत्तेः । तस्य ज्ञेयत्वे खलु स्वतस्त्व परतस्त्वचिन्तावसरः । अथ मतं, यत्र दूरादर्थनिश्चयो जायते तत्र तस्य अप्रामाण्यशङ्काऽऽस्कन्दितत्वेन प्रवर्तकत्वानुपपत्त्या, तादृशस्थले अप्रामाण्यशङ्कानिरासार्थं प्रामाण्यनिश्चयोऽपेक्ष्यते । स च समर्थप्रवृत्ति-जनकत्वादिलिङ्गेनैवेति प्रामाण्यस्य परतस्त्वोक्तिर्युक्तेति चेदत्र वक्तव्यम् । प्रवृत्तिसामर्थ्यस्य कथं निर्णय इति । उपान्तगमनेन परीक्षया चेदेवं तर्हि प्रामाण्यनिश्चयानुमानात्पूर्वं अर्थनिश्चयस्यैवोत्पत्तिरुक्ता स्यात् । स च शङ्काऽ-नास्कन्दित एवेत्यभ्युपेयम् । अन्यथा प्रामाण्यसाधकहेतोरप्रयोजकत्वापत्तेः । तथा च प्रामाण्यनिश्चयसाध्यायाः प्रवृत्तेः अनुमानात्प्रागेव निष्पन्नत्वेन न तदर्थं प्रामाण्यनिश्चयानुसरणमिति प्रामाण्यस्य परतस्त्वचिन्ता मोघैवेत्याह यद्यर्थेत्यादिभिस्त्रिभिः ।। ३७१-३७३ ।।
युक्तिमल्लिका
अतः प्रामाण्यनिर्णीत्यै प्रवर्तेत न कश्चन ।। ३७३ ।।
सुरोत्तमटीका
अतः प्रवर्तकार्थनिश्चयस्यापि प्रामाण्यानुमितेः प्रागे-वावश्यकत्वात् ।। ३७३ ।।
युक्तिमल्लिका
यद्यर्थनिश्चयाश्वासः प्रामाण्यस्य विनिश्चये ।
अनवस्था तर्हि सुस्था निश्शङ्कासु प्रवृत्तिषु ।। ३७४ ।।
सुरोत्तमटीका
ननु प्रामाण्यसन्देहस्थले जातोऽप्यर्थनिश्चयः ज्ञान-प्रामाण्यानुमितेः पूर्वं प्रामाण्यसंशयाहितार्थसंशयस्याप्यवतरणात् अजातप्रायः । अतः प्रामाण्यानुमितिरप्यपेक्षितेति चेत् तर्ह्यावश्यकार्थनिश्चयादेव प्रवृत्तिरिति मतं गतम् । किन्तु निश्चितप्रामाण्यमेव ज्ञानं निश्शङ्कप्रवृत्तिजनकमिति मन्मतमेव त्वयाऽप्यनुसृतम् । एवं च घट्टकुटीप्रभातदृष्टान्तेन पुनरस्मदुक्ता-नवस्थैव सुस्थेत्याह ।। यद्यर्थनिश्चयाश्वास इति ।। यदि प्रामाण्यनिश्चये सति प्रामाण्यनिश्चये सत्येवेत्यर्थः । अर्थनिश्चयाश्वास इति सम्बन्धः । आश्वासो नाम अनेन गृहीतोऽर्थः इत्थमेवेत्यवधारणम् । तर्हि ज्ञानस्य प्रामाण्यनिश्चय-रूपायामनुमितावप्यर्थनिश्चयाश्वासः तत्प्रामाण्यविनिश्चयरूपानुमित्यन्तरादेव । तत्रापि तथेत्यनवस्था स्यादित्यर्थः । तर्हि निश्शङ्कासु प्रवृत्तिषु निश्शङ्क-प्रवृत्त्यर्थमिति यावत् । तत्तदर्थनिश्चयार्थं तत्तज्ज्ञानप्रामाण्यनिश्चयानु-सरणेऽनवस्थासुस्थेत्यर्थः ।। ३७४ ।।
सत्यप्रमोदटीका
अर्थनिश्चयाश्वास एव प्रवर्तक इति द्वितीयपक्षमाशङ्कते यदीति । अप्रामाण्यशङ्कास्थले च अर्थनिश्चयसद्भावेऽपि न तदाश्वासः । इदमित्थं भवत्येवेति अर्थनिश्चयाश्वास एव प्रवर्तकतयाऽङ्गीक्रियते । स च अप्रामाण्याशङ्कानिरासे एव भवति । तच्छङ्कानिरासश्च प्रामाण्यनिश्चयेन । तन्निश्चयश्चानुमित्यैव नानुव्यवसायेनेति प्रामाण्यस्यानुमेयत्वलक्षणपरतस्त्वोक्ति-रर्थवतीति शङ्काऽशयः । परिहरति अनवस्थेति । प्रामाण्यनिश्चयस्य प्रवर्त-कत्वाङ्गीकारेऽस्मत्प्रसञ्जितानवस्थाभिया खलु तत्पक्षं विहाय परेण अर्थ-निश्चयाश्वासः प्रवर्तक इति पक्ष उपात्तः । इदानीं अर्थनिश्चयाश्वासार्थमपि पुनः प्रामाण्यनिश्चयस्याऽवश्यकताङ्गीकारे आगतः स एव दुरात्माऽनवस्थादोषः इति घट्टकुटीप्रभातवृत्तान्त इति भावः ।। ३७४ ।।
युक्तिमल्लिका
किञ्चार्थनिश्चयव्याप्तः प्रामाण्यस्यापि निश्चयः ।। ३७५ ।।
सुरोत्तमटीका
अपि च अर्थनिश्चयस्यैव प्रवर्तकत्वं वदन् प्रष्टव्यः किं यादृशतादृशार्थनिश्चयादेव निश्शङ्कप्रवृत्तिरिति ब्रूषे उतातिदूरस्थत्वादिदोषा-भावस्थलीयार्थनिश्चयादिति । तत्र नाद्यः । पीतश्शङ्ख इति निश्चयात् प्रादेशपरिमितश्चन्द्र इत्यादिनिश्चयाच्च निश्शङ्कप्रवृत्त्यदर्शनात् । द्वितीयस्तु प्रामाण्यनिश्चयाविनाभूत एवेति तस्य प्रवर्तकत्वे प्रामाण्यनिश्चयस्यैव प्रवर्तकत्व-मुक्तं स्यादिति भावेनाह ।। किं चेति ।। प्रामाण्यस्य निश्चयोऽपि अर्थनिश्चयव्याप्त इति सम्बन्धः ।। ३७५ ।।
सत्यप्रमोदटीका
किञ्च अयं घटत्ववान् भवत्येवेत्येवंरूपार्थनिश्चयस्य प्रवर्तकत्वाङ्गीकारे निश्चितप्रामाण्यकं घटज्ञानं प्रवर्तकमित्येवाङ्गीकृतं भवति । तादृशार्थनिश्चयस्य तज्ज्ञानप्रामाण्यनिश्चयेन व्याप्तत्वादित्याह किञ्चेति । अर्थनिश्चयः व्याप्तो येनेति विग्रहः ।। ३७५ ।।
युक्तिमल्लिका
प्रकारत्वे विशेष्यत्वे न कदाऽप्यस्ति संशयः ।
घटत्ववत्त्वनिर्णीतिर्विशेष्ये याऽवशिष्यते ।
प्रामाण्यनिर्णयो ह्येष स एव ह्यर्थनिर्णयः ।। ३७६ ।।
सुरोत्तमटीका
कथमित्यतस्तदुपपादयति ।। प्रकारत्व इति ।। विशेष्ये घटे या घटत्ववत्त्वनिर्णीतिः अवशिष्यते । एष एव प्रामाण्यनिर्णयोहि । स एव घटे घटत्ववत्त्वनिर्णय एव । तस्मादर्थनिर्णयः प्रामाण्यनिर्णयाविनाभूत इति भावः ।। ३७६ ।।
सत्यप्रमोदटीका
व्याप्तिमेवोपपादयति घटत्ववत्त्वेति ।। यत्र व्यवसायो विशेष्यवृत्तिधर्मप्रकारकः तत्र व्यवसायप्रकारप्रकारकतया व्यवसायप्रकारव-द्विशेष्यकतया व्यवसायविषयकप्रत्यक्षात्मकोऽनुव्यवसायः व्यवसायप्रामाण्य-निश्चयात्मक एवेत्याह स एवेति ।। अर्थनिर्णयं प्रति व्यापक एवेत्यर्थः ।। ३७६ ।।
युक्तिमल्लिका
अतो गृहीतप्रामाण्यं ज्ञानमेव प्रवर्तकम् ।
प्रवृत्तेरर्थनिर्णीतिजन्यत्वोक्तौ च किं न ते ।। ३७७ ।।
सुरोत्तमटीका
अप्रामाण्यशङ्काशून्यार्थनिश्चय एव प्रवर्तकोऽस्तु किं प्रामाण्यनिश्चयेनेति केचित् वदन्ति । तद्दृश्यमानगौरवदोषदुष्टमपि दोषान्तरेण दूषयति ।। अत इति ।। अर्थनिश्चयस्य प्रामाण्यनिश्चयव्याप्तत्वादित्यर्थः । अप्रामाण्यशङ्काशून्यं ज्ञानं प्रवर्तकमिति वदताऽपि अर्थनिश्चयः प्रवर्तक इत्यवश्यं वक्तव्यम् । ज्ञानप्रवृत्त्योः समानविषयकत्वनियमात् । स च प्रामाण्यनिश्चयव्याप्त इति निश्चितप्रामाण्यमेव ज्ञानं प्रवर्तकमित्यङ्गीकार्यम् । आवश्यकत्वाल्लाघवाच्चेति भावः । तदेव विशदयति ।। प्रवृत्तेरिति ।। ते मते प्रवृत्तेः यागादिप्रवृत्तेः अर्थनिर्णीतिजन्यत्वोक्तौ गृहीतप्रामाण्यं ज्ञानमेव प्रवर्तकमिति न किं भवत्येवेति पूर्वावृत्त्या योजना ।। ३७७ ।।
सत्यप्रमोदटीका
अत इति । प्रकारान्तरेण प्रवृत्तिनिर्वाहासम्भवा-दित्यर्थः । तथा हि । न तावदर्थनिश्चयः एव प्रवर्तकः । पीतः शङ्ख इति निश्चयेऽपि पीतार्थिनोऽप्रवृत्तेः । नापि अप्रामाण्यशङ्काऽभावसहकृतः । तदभाववति तत्प्रकारकत्वरूपाप्रामाण्यशङ्काभावः अनेकाभावघटितत्वाद्गुरुः । प्रामाण्यनिश्चयस्तु न तथेति लघुः । एवमप्रामाण्यशङ्काभाववत् प्रामाण्या-त्यन्ताभावशङ्काभावः एवं तद्व्याप्तदोषजन्यत्वादिशङ्काभावोऽपि हेतुरिति अभावा अनेके । प्रामाण्यनिश्चयस्त्वेकः । अभावानां प्रामाण्यनिश्चयविरोध्यभावत्वे नैकत्वे त्वावश्यकत्वाल्लाघवाच्च प्रामाण्यनिश्चय एव सहकारी । प्रामाण्य-निश्चयस्याप्रामाण्यशङ्कानिवर्तकत्वेनोपक्षये त्वत्पक्षे प्रामाण्यस्यानुमेयत्वेना-वश्यकेन प्रामाण्यव्याप्यतया लिङ्गज्ञानेनैवाप्रामाण्यशङ्कानिवृत्तिसम्भवात्प्रामाण्य- ज्ञानस्य प्रवृत्तावनुपयोगात्तद्ग्रहणचिन्ता व्यर्था । अन्यथा व्याप्त्यादिनिश्चयोऽपि व्यभिचारादिशङ्कानिरासोपक्षीणः स्यात् । इत्यादि दूषणं द्रष्टव्यम् । विस्तरस्तु तर्कताण्डवे प्रामाण्यस्य प्रवर्तकत्वभङ्गे ।। ३७७ ।।
युक्तिमल्लिका
तज्ज्ञानग्राहकेणैव तद्ग्रहे नानवस्थितिः ।
अन्येन तु ग्रहेऽत्युग्रां कस्तरेत्तां सुदुस्तराम् ।। ३७८ ।।
सुरोत्तमटीका
उक्तामनवस्थामुपसंहरति ।। तदिति ।। तन्निश्चित-प्रामाण्यस्यैव ज्ञानस्य प्रवर्तकत्वात् तद्ग्रहे तस्य प्रामाण्यस्य ग्रहे अनवस्थिति-र्नेति सम्बन्धः । अन्यथा अनवस्थितिरिति भावः । अन्येन ज्ञानग्राहक-साक्ष्यतिरिक्तेनानुमानादिना ग्रहे प्रामाण्यग्रहे तामनवस्थाम् । अत्युग्रत्वे हेतुः सुदुस्तरामिति ।। ३७८ ।।
सत्यप्रमोदटीका
तदिति । निष्कम्पप्रवृत्त्यर्थं अवश्यवेद्यत्वादिति भावः । तदुक्तं तत्वनिर्णये । ‘प्रामाण्यं तावदवश्यं केनचित्प्रमाणेन वेदितव्यम् । अन्यथा तदभावप्रसङ्गात् । न च ज्ञानग्राहकातिरिक्तेन तद्ग्रहणं सम्भवति । तत्प्रामाण्यस्याप्यन्येन ग्रहणाङ्गीकारेऽनवस्थानात् । तस्य स्वतस्त्वे प्रथमस्यैव तथात्वाङ्गीकारोपपत्तेः । अतः परिशेषात् स्वतस्त्वसिद्धिरि’ति ।। ३७८ ।।
युक्तिमल्लिका
घटे घटत्वसत्त्वे हि घटज्ञानस्य मानता ।
पटादौ च पटत्वादेस्सत्त्वे तज्ज्ञानमानता ।। ३७९ ।।
सुरोत्तमटीका
निर्णीतिकन्या धन्येत्येतदुपपादयन् ज्ञानद्वारैव ग्रहणा-त्कथमर्थसत्तानिश्चयरूपत्वमिति शङ्कां प्रतिबन्द्या निराकरोति ।। घट इत्यादिना ।। घटज्ञानस्यायं घट इति ज्ञानस्य तज्ज्ञानमानता घटादिज्ञान-मानता ।। ३७९ ।।
सत्यप्रमोदटीका
प्रामाण्यं अनुव्यवसायविषयत्वयोग्यं इति अनुपदं सिषाधयिषुस्तदर्थं प्रामाण्यस्वरूपं निर्धारयति घट इति । विशेष्यवृत्तिधर्म-प्रकारकत्वमेव प्रामाण्यं न तु मणिकृदुक्तरीत्या विशेष्यनिष्ठात्यन्ताभाव-प्रतियोगिप्रकारानवच्छिन्नत्वादिकं येन व्यवसायाविषयतया अनुव्यवसाय-विषयत्वायोग्येन बहिरर्थेनाभावरूपोपाधिना घटिततया प्रामाण्यस्य, तद्विषयी-करणयोग्यताऽनुव्यवसायस्य न स्यादित्याशयः ।। ३७९ ।।
युक्तिमल्लिका
तत्तद्वत्त्वं तेषु तेषु व्यवसायेऽवसीयते ।
ततोऽनुव्यवसायेऽपि तद्भानं स्याद्धि तद्बलात् ।। ३८० ।।
सुरोत्तमटीका
तत्तद्वत्त्वं घटत्वपटत्वादिमत्त्वम् । तेषु तेषु घटपटादि-वस्तुषु । व्यवसाये अवसीयते निश्चीयते । तद्बलात् उपनायकव्यवसायबलात् । निश्चयरूपेण व्यवसायेनोपनीतं तथैव कथं नु साक्षी न निश्चिनुयात् । चक्षुष्मतोदितमार्गेणांधोऽपि तन्निश्चित्य गच्छति । नह्यंधादप्यंधः साक्षी । येन निर्णयोपनीतमपि न निर्णयेदिति भावः ।। ३८० ।।
सत्यप्रमोदटीका
व्यवसायविषयभूतं धर्मधर्मिवैशिष्ट्यं स्वविषयानु-व्यवसायं प्रति सत्तया विषयत्वयोग्यं व्यवसायविषयत्वात् विशेष्यवत् इति तर्कताण्डवोक्तमनुमानं हृदि कृत्वाऽऽह तत्तदिति । न चाप्रयोजकता । यदि उपनीतत्वमात्रेण वैशिष्ट्यं सत्तया न निश्चिनुयात् विशेष्यमपि न निश्चिनुयात् अविशेषात् इति विपक्षे बाधकसद्भावात् । योग्यत्वं च ज्ञानद्वारा प्रामाण्या-वच्छिन्नसहजशक्तिकत्वं ध्येयम् । न चाविशेषासिद्धिः । विशेष्यांशेऽनु-व्यवसायः सत्तया निश्चयरूप इति परेणाङ्गीकारात् । न चोपनीतं वैशिष्ट्यं कथं सत्तया विषयत्वयोग्यमिति वाच्यम् । विशेष्यमपि कथम् । उपनायकस्य व्यवसायस्य निर्दोषत्वेन निश्चितत्वादिति चेत्समं वैशिष्ट्येऽपीति भावः।।३८०।।
युक्तिमल्लिका
एवं च ज्ञानयाथार्थ्यं ज्ञानग्राहकसाक्षिणा ।
कथं न गृह्यते ज्ञानं यदि स्यात्सविकल्पकम् ।। ३८१ ।।
सुरोत्तमटीका
अनेन किं सिद्धमित्यतः प्रामाण्यस्वतस्त्वं सिद्धमित्याह ।। एवं चेति ।। ज्ञानयाथार्थ्यं यथावस्थितार्थविषयीकारित्वरूपं प्रामाण्यम् । निष्प्रकारकनिर्विकल्पकस्यानुपनायकत्वात् तद्व्यवच्छेदायोक्तं ज्ञानं यदि स्यात् सविकल्पकमिति ।। ३८१ ।।
सत्यप्रमोदटीका
अनुव्यवसायस्य सत्तया वैशिष्ट्यविषयकत्वे प्रामाण्य-विषयकत्वस्य सिद्ध्या स्वतस्त्वसिद्धिरित्याह एवं चेति ।। यदि स्यात् सविकल्पकमिति पररीत्योक्तम् । सिद्धान्ते निर्विकल्पस्याभावात् । वस्तुतस्तु सविकल्पकमित्यस्योपनायकमित्यत्र तात्पर्यम् । अयमत्र प्रयोगोऽभिप्रेतः । तत्तज्ज्ञानप्रामाण्यं स्वाश्रयज्ञानविषयकानुव्यवसायविषयत्वयोग्यं तद्विषयत्वा-योग्योपाध्यघटितज्ञानधर्मत्वात् तत्तज्ज्ञानत्ववत् इति । इदं चानुमानं ‘प्रामाण्यं ज्ञानग्राहकमात्रग्राह्यं अप्रामाण्येतरज्ञानवृत्तिधर्मत्वात् ज्ञानत्ववदिति सुधोक्तानु-मानस्य परिष्काररूपम् ।। ३८१ ।।
युक्तिमल्लिका
यद्यस्य निर्णयो न स्याज्ज्ञानद्वारैव वेदनात् ।
ज्ञानोपनीतसौरभ्यनिर्णीतिस्तर्हि चक्षुषा ।
सुरभीदं चन्दनं चेत्याकारा जायते कथम् ।। ३८२ ।।
सुरोत्तमटीका
अस्य प्रामाण्यस्य ज्ञानद्वारा ज्ञानोपसर्जनतयैवेत्यनेन स्वातन्त्र्येणाभानं द्योतयति । तर्हि चक्षुषा सुरभि चन्दनं चेत्याकारा चन्दनांशं सौरभ्यांशं च विविच्य वस्तुसत्तयैवोल्लिखन्ती ज्ञानोपनीतसौरभ्यनिर्णीतिः कथं जायत इति सम्बन्धः ।। ३८२ ।।
सत्यप्रमोदटीका
उपनीतेऽपि सत्तानिश्चयरूपतां पूर्वोक्तां विपक्षेऽनेक-बाधकोक्तिभिर्द्रढयति यदीत्यादिभिः । शङ्कामुत्थापयति यदीति । अनुव्यव-सायस्य श्रुतसाक्षिवाक्यवत् अन्यविषयतया वैशिष्ट्यग्राहकत्वेऽपि तत्संशय-विरोधित्वरूपं सत्तानिश्चयरूपत्वं नास्तीति न तद्धटितप्रामाण्ये निश्चयरूपता । न हि अन्यविषयतयाऽर्थग्राहकेणाप्यर्थसत्त्वसिद्धिः । गेहे घटज्ञानमिति वाक्य-जन्यज्ञानेनापि घटसिद्ध्यापातादिति शङ्काऽभिप्रायः । परिहरति ज्ञानोप-नीतेति ।। दृढज्ञानोपनीतेत्यर्थः । तथैवाग्र उक्तेः । दृढेतिहेतुगर्भं विशेषणम् । दोषशङ्कादिनाऽनास्कन्दितेत्यर्थः । अयमाशयः । न व्यवधानमात्रेण सत्त्वा-निश्चायकत्वम् । तथा सति सुरभीदं चन्दनमिति चाक्षुषज्ञानस्य ज्ञानोपनीत-सौरभ्यांशे निश्चयरूपत्वं न स्यात् । तथा घटोऽयमिति चाक्षुषज्ञानस्य साक्ष्युपनीतयोर्देशकालयोर्निश्चयरूपत्वं न स्यात् । न चेष्टापत्तिः । अनुभव-विरोधादित्याह न हीति ।। ३८२,३८३ ।।
युक्तिमल्लिका
घटोऽयमितिधीर्देशकालयोरुपनीतयोः ।
निर्णयाय कथं शक्ता न हि तत्राप्यनिश्चयः ।। ३८३ ।।
सुरोत्तमटीका
ज्ञानद्वारा ग्राहकस्यापि तत्सत्तानिर्णयरूपत्वं च स्थलान्तरेऽपि दर्शयति ।। घटोयमिति ।। घटोयमिति धीः चाक्षुषधीः उपनीतयोर्देशकालग्राहकज्ञानान्तरोपनीतयोः स्वातन्त्र्येण चक्षुरयोग्ययो-र्निर्णयायार्थसत्तानिर्णयाय कथं शक्ता । तत्रापि न शक्तेत्यत आह ।। नहीति ।। तत्रापि घटोऽयमिति चाक्षुषज्ञानेऽपि अनिश्चयं उपनीतदेशकाल-योरनिर्णयो नहीति सम्बन्धः । अत्राप्यनिर्णये देशकालव्यवस्थैव घटादेर्न सिद्ध्येदिति भावः ।। ३८३ ।।
युक्तिमल्लिका
उपनायकतज्ज्ञानदाढर्््यात्तत्संशयो न चेत् ।
दृढज्ञानोपनीतेऽर्थे कथमत्राप्यनिर्णयः ।। ३८४ ।।
सुरोत्तमटीका
उपनायकज्ञानदार्ढ्यात्सौरभकालादावर्थसत्तानिश्चय इति चेत् तर्हि समं ममापीत्याह ।। उपनायकेति ।। तज्ज्ञानं तस्य सौरभादेर्ज्ञानं उपनायकं च तत् तज्ज्ञानं चेति विग्रहः । तत्संशयः सौरभ्यादिसंशयः । दृढज्ञानं निश्चयरूपव्यवसायः । तेनोपनीते अर्थे घटत्ववत्त्वादौ अत्र साक्षिणि अनिर्णयस्तत्सत्तानिर्णयरूपत्वाभावः कथमिति सम्बन्धः ।। ३८४ ।।
सत्यप्रमोदटीका
नन्वेवं गेहे घटज्ञानमिति वाक्यजन्यज्ञानं, कुतो घटसत्वं न साधयतीति चेद्वैषम्यादित्याह उपनायकेति । उपनायकं सौरभ्य-ज्ञानं देशकालोपनायकं साक्षिरूपं च ज्ञानं निर्दोषतया सत्त्वेनार्थविषयके इति गृहीते । तेन द्वारिणस्तत्सत्तानिश्चयरूपत्वं युज्यते । गेहे घटज्ञानं साक्षिणा श्रुतवाक्यं च द्वारिणा ज्ञानेन तथा न गृहीते इति न तेनार्थसिद्धिः । यदि पुनस्ते अपि क्वचित्तथा गृहीते तदा तत्रापि घटसत्त्वसिद्धिर्भवत्येव । घटोऽयमिति धीरित्युपलक्षणम् । ज्ञानमात्रमित्यर्थः । वस्तुसामान्यविषयक-प्रत्ययमात्रस्य कालखचिततयैव तत्तद्वस्त्ववभासनात् । तदुक्तमनुव्याख्याने आनुमानिकपादे ‘तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् ।। साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते’ इति ।। तथा चोपनीतत्वमात्रेणानाश्वासे वस्तु-मात्रस्य देशकालव्यवस्थाविलोपप्रसङ्ग इति भावः ।। ३८४ ।।
युक्तिमल्लिका
ज्ञातो मया गुरूक्तार्थ इति यो वेत्ति साक्षिणा ।
यथा तस्यास्ति विश्वासस्तस्मिन्नर्थे तथैव हि ।। ३८५ ।।
ज्ञातो घटः पटो ज्ञात इत्यादावपि साक्षिणा ।
ज्ञानस्यूततया भातोऽप्यर्थः किं नावसीयते ।। ३८६ ।।
सुरोत्तमटीका
किं च यो गुरुमुखात्कमपि ग्रन्थं श्रुतवान्सः नैवं वक्तु-मर्हतीत्याशयेन ज्ञानोपसर्जनतया प्रतीतेऽप्यर्थे विश्वासो भवतीत्यत्र दृष्टान्तान्तरमाह ।। ज्ञातोमयेति ।। मया गुरूक्तार्थो ज्ञात एवेति साक्षिणा यः पुरुषो वेत्ति तस्य पुरुषस्य तस्मिन्नर्थे गुरूक्तेर्ज्ञानस्य चोपसर्जनतया साक्षिणा भातेऽर्थे यथा विश्वासोऽस्ति तथैव मया ज्ञातो घटः ज्ञातः पट इत्यादावनु-व्यवसायरूपे ज्ञाने ज्ञानस्यूततया पूर्वज्ञानगर्भीकृततया भातः विषयीकृतः अर्थस्तद्वत्तादिः साक्षिणा किं नावसीयत इति सम्बन्धः । गुरूक्तोऽर्थो मम साक्षिणि सम्यङ् निश्चितोऽभूदिति गुरुप्रीत्यै स्वमनोनिश्चयं दर्शयितुं हीदं वचनम् । एवं वदतोऽपि मनसि तत्वसन्देहे गुरुमुखाच्छ्रवणार्थं कोऽपि न यतेऽति भावः ।। ३८५,३८६ ।।
सत्यप्रमोदटीका
एतदर्थविषयकगुरुवाक्यजन्यज्ञानवानहं इति साक्षिणोऽनुभवस्तदर्थे सत्तानिश्चयात्मकोऽस्तीत्यविवादः । तत्र साक्षी, ज्ञानं, गुरुवाक्यं चेति द्वयोपसर्जनतयाऽर्थं विषयीकरोति । एवमपि तस्य तत्रार्थे सुदृढ आश्वासः । ज्ञातो मया घटः इत्यत्र तु घटः केवलमेकस्यैवोपसर्जनतया भाति । ज्ञानमात्रोपसर्जनतयाऽर्थस्य भानात् । तथा च सुतरामाश्वासस्तत्र भवत्येवेति भावः ।। ३८५, ३८६ ।।
युक्तिमल्लिका
इति शुश्रुम धीराणां तदुक्तमृषिणेति च ।
श्रुत्या स्वोक्तार्थदाढर्््यार्थं पूर्वैरप्युक्ततोच्यते ।। ३८७ ।।
सुरोत्तमटीका
अन्योपसर्जनतया अर्थग्राहकस्य तदर्थसत्तानिश्चयरूपत्वं श्रौतमतरीत्या दर्शयति ।। इतीति ।। इति शुश्रुमधीराणां येनस्तद्विचचक्षिरे तदुक्तमृषिणा पवमानः प्रजापतिरित्यादिश्रुत्या च स्वोक्तो योऽयमर्थः तद्दार्ढ्यार्थं पूर्वैर्ऋष्यादिभिरप्युक्तता स्वोक्तार्थस्योच्यते ।। ३८७ ।।
सत्यप्रमोदटीका
द्वारस्य निर्दोषत्वे, तद्द्वाराग्रहणं, संवादेन दाढर्््य-सम्पादकमेवेत्येतत् शास्त्रसंमत्या द्रढयति इतीति ।। दार्ढ्यार्थमिति । तदुक्तं तर्कताण्डवे ‘स्वतन्त्रादप्यनाशङ्कितदोषान्यद्वारा ग्राहकस्य । ‘ऋषिभिर्बहुधागीतं छन्दोभिर्विविधैः पृथक्’ । ‘तदेतदृचाभ्युक्तम्’ । इत्यादिवत्संवादेनाधिक्याच्च’ इति ।। ३८७ ।।
युक्तिमल्लिका
वाचोगोचरताज्ञानेऽप्यर्थसत्ता यथेयते ।
ज्ञानगोचरताज्ञानेऽप्यर्थसत्ता तथेयताम् ।
न चेच्चारांश्चारयन्तो नृपाश्च स्युरकोविदाः ।। ३८८ ।।
सुरोत्तमटीका
तथा च पूर्वेषां वाचोगोचरताज्ञानेऽपि तदर्थसत्ता यथेयते निर्णीयते तथा प्रकृतेऽपि पूर्वज्ञानगोचरोऽयमर्थ इति ज्ञानेऽप्यर्थसत्ता ज्ञायतामिति सम्बन्धः । राजनीत्या बाधकान्तरं चाह ।। नचेदिति ।। अन्योपनीततया भानमर्थसत्तानिश्चायकं न चेत् तत्तद्देशीयवार्ताविज्ञानाय चारान् गूढपुरुषान् धनं दत्वा चारयन्तो नृपा अकोविदास्स्युः । तेषां चारमुखेनैव तत्तद्देशवृत्तान्तज्ञानात् । स्वातन्त्र्येण तज्ज्ञानाभावात् अन्योपसर्जनतया ज्ञानस्याप्रयोजकत्वे चारांश्चारयन्तो नृपाः कथं कोविदाः स्युरिति भावः । निर्दोषतत्तद्वाक्यरूपचरमप्रमाणे आश्वासश्चेन्निर्दोषप्रत्यक्षरूपप्रथमप्रमाणेऽपि कुतो नाश्वासः । अतो यत्किञ्चिदेतत् ।। ३८८ ।।
सत्यप्रमोदटीका
द्वारिणोऽर्थसत्तानिश्चये द्वारस्य निर्दोषत्वमेव प्रयोजकमित्येतद्राजनीत्या विपक्षे बाधकोक्त्या द्रढयति न चेदिति । चारवाक्यस्य निर्दोषतां निश्चित्यैव राजाऽऽप्तितस्तदुक्तार्थज्ञानस्य प्रामाण्य-मवधार्य तदर्थसत्तां निर्धारयति । एवमपि चेन्न तत्र निश्चयस्तर्हि चारनियोज-कस्य राज्ञोऽकोविदत्वमापद्यत इति भावः ।। ३८८ ।।
युक्तिमल्लिका
किं चेदं निरणायीति प्रोक्तेऽर्थे सत्त्वनिर्णयः ।
अस्त्येव निकटस्थेषु धीश्च निश्चयरूपिणी ।। ३८९ ।।
सुरोत्तमटीका
दृढज्ञानोपनीतेऽर्थे अर्थसत्तानिश्चयोऽप्यस्तीत्येतदनु-भवारूढं करोति ।। किञ्चेति ।। इदमेवं निरणायि निर्णीतमिति प्रोक्ते सति अर्थे सत्त्वनिर्णयः अर्थसत्तानिर्णय इति यावत् । अस्त्येवेत्यनेनान्यथा स्वव्याहतिरिति द्योतयति । निकटस्थेषु पदार्थेषु निश्चयरूपिणी इदमित्थमेवेति निश्चयरूपिणी धीश्चास्तीति क्रियावृत्त्या योजना ।। ३८९ ।।
सत्यप्रमोदटीका
यदि च सव्यवधानत्वमात्रेण सत्त्वानिश्चायकत्वं तर्हि मम गेहे घटप्रमा इत्याप्तवाक्यजन्यज्ञानेनापि घटसत्त्वं न सिध्येत् इति तर्कताण्डवोक्तदिशा प्रतिबन्दीं गृह्णाति किञ्चेति ।। इदं निरणायि, मया घटसत्त्वं निश्चितं, मम घटप्रमाऽस्तीति यावत् । विपर्यये पर्यवसानमाह अर्थे सत्वनिर्णयः अस्त्येवेति । अतः निर्दोषत्वाविशेषात् निकटस्थेषु धीश्च निश्चयरूपिणी अस्त्येव अङ्गीकार्यैव । अन्यथा पूर्वोक्ताप्तवाक्यजन्यज्ञानमपि अर्थसत्तानिश्चयरूपं न स्यादिति भावः ।। ३८९ ।।
युक्तिमल्लिका
अतो विनिश्चितोऽर्थोयमित्यनुव्यवसायवान् ।
अर्थसत्तारूपमेव तत्प्रामाण्यं च निर्णयेत् ।। ३९० ।।
सुरोत्तमटीका
अतः निश्चयरूपव्यवसायबलात् एवमर्थो विनिश्चित इत्यनुव्यवसायवान् पुरुषस्तेनानुव्यवसायेनार्थसत्तानिश्चयरूपमेव तत्प्रामाण्यं पूर्वव्यवसायप्रामाण्यं निर्णयेत् निश्चिनुयादेव । तथा चैतादृशस्थले प्रामाण्य-स्वतस्त्वं सिद्धमेवेति भावः ।।३९० ।।
सत्यप्रमोदटीका
तथा च प्रामाण्यस्वतस्त्वसिद्धिरित्याह अत इति ।। अतः इदं इत्थमेवेति अर्थनिश्चयस्य तज्ज्ञानप्रामाण्यनिश्चयव्याप्तत्वात् । अर्थ-सत्तारूपमेव अर्थसत्ताव्यापकमेव । तथा च प्रयोगः । विमतः अनुव्यवसायः स्वग्राह्यव्यवसायप्रामाण्यविषयकः विनिश्चितार्थव्यवसायविषयकानुव्यसायत्वात् प्रामाण्यानुमित्यनुव्यवसायवत् ।। ३९० ।।
युक्तिमल्लिका
किं च प्रामाण्यानुमित्याऽप्युपस्थिततदग्रहः ।
साक्षिणि स्याद्यतस्तत्राप्युपनीतं तदीयते ।। ३९१ ।।
सुरोत्तमटीका
अधुना उपनीतार्थे अनुव्यवसायस्यार्थसत्तानिश्चयरूपता नास्तीति वदतस्तार्किकस्य स्वव्याहतिमाह ।। किञ्चेति ।। साक्षिणि ज्ञानप्रामाण्यमनुमिनोमीत्यनुव्यवसायरूपे ज्ञाने प्रामाण्यानुमित्याऽपि पराभिमत प्रामाण्यानुमानजन्यप्रामाण्यानुमित्यापि उपस्थिततदग्रहः उपस्थापितज्ञान-प्रामाण्यनिश्चयाभावः स्यादिति सम्बन्धः । तत्र हेतुः ।। यत इति ।। तत्र प्रामाण्यानुमित्यनुव्यवसायेऽपि उपनीतं तत्प्रामाण्यं ईयते गृह्यते साक्षिणा ।। ३९१ ।।
सत्यप्रमोदटीका
सव्यवधानत्वमात्रेण निश्चायकत्वाभावेऽनुमित्यनु-व्यवसायेनापि अनुमित्युपनीतव्यवसायप्रामाण्यनिश्चयो न स्यादित्याह किञ्चेति ।। न चेष्टापत्तिः । अनुमित्यादिप्रामाण्यं स्वत इति प्राचीननैयायिकै-रङ्गीकारेण अप्रसिद्धान्तापातात् ।। ३९१ ।।
युक्तिमल्लिका
न किं प्रमावानहमित्याकारा निश्चयात्मिका ।
जायतेऽनुव्यवसितिः प्रामाण्येऽनुमितेऽपि ते ।। ३९२ ।।
सुरोत्तमटीका
अनुमित्युपनीतमपि प्रामाण्यं साक्षिणा मा ग्राहि को दोष इत्यत आह ।। नेति ।। ते तव मते प्रामाण्येऽनुमिते सत्यपि प्रमावान् प्रमारूपजलज्ञानवानहमित्येवमाकारा निश्चयात्मिका प्रामाण्यसत्तानिश्चयरूपा अनुव्यवसितिर्न जायते किमिति सम्बन्धः । तथा चानुभवविरोध इति भावः ।। ३९२ ।।
सत्यप्रमोदटीका
‘न च नवीनन्यायमते तत्रापि स्वतः प्रामाण्या-भावात्साध्यवैकल्यम् । तथात्वे तत्प्रामाण्ये कदाचित्संशयविपर्ययव्यतिरेक-प्रमाऽन्यतरापातात्’ इति तर्कताण्डवोक्तदिशा नवीनमतेऽनुभवविरोधमाह न किमिति ।। ३९२ ।।
युक्तिमल्लिका
व्याप्तिजानुमितेर्दाढर्यादुपनीतस्य निर्णये ।
अक्षजानुभवे दाढर्यं किं नास्त्यत्रोपनेतरि ।। ३९३ ।।
सत्यप्रमोदटीका
तत्र परिहारं परमुखेन वाचयित्वा समः समाधि-रित्याह व्याप्तिजेति । उपनायकयोः दाढर्यं प्रत्यक्षानुमित्योरुभयत्र सममिति भावः ।। ३९३ ।।
युक्तिमल्लिका
नापि प्रामाण्यसन्देहाज्ज्ञानदाढर्््यस्य विप्लवः ।
दृढरूढज्ञानशक्त्या संशयस्यैव हिंसनात् ।। ३९४ ।।
सुरोत्तमटीका
शङ्कते ।। व्याप्तिजेति ।। उपनीतस्यानुमित्युपनीतस्य निर्णये साक्षिणेति शेषः । उत्तरमाह ।। अक्षजेति ।। अत्र प्रमानुव्यवसायेन प्रामाण्यग्रहणस्थले उपनेतरि अक्षजानुभव इति सम्बन्धः । ननु प्रामाण्यानु-मित्यनन्तरं पुनः प्रामाण्यसंशयाभावादस्तु तदनुव्यवसाये प्रामाण्यनिश्चयः । अक्षजन्यज्ञानानुव्यवसाये प्रामाण्यस्य प्रागनिश्चितत्वेन प्रामाण्यसंशयात् उपनायकव्यवसायेन दार्ढ्यमिति शङ्कां प्राक्परिहृतामपि प्रतिबन्दीस्थापनाय पुनः परिहरति ।। नापीति ।। ज्ञानदार्ढ्यस्योपनायकज्ञानदार्ढ्यस्य । कुतो नेत्यत आह ।। दृढेति ।। अतिदूरत्वादिदोषाभावात् दृढं रूढम् उत्पन्नं यज्ज्ञानं अक्षजानुभवरूपं तच्छक्त्या हिंसनात् अनुत्थानादित्यर्थः ।। ३९४ ।।
सत्यप्रमोदटीका
अर्थेन्द्रिययोः क्लृप्तदोषाभावे प्रत्यक्षं अयं घटो भवत्येवेति निश्चयरूपमेव जायते । एवं अनुव्यवसायोऽपि घटमेव घटत्वेन जानामि इति प्रामाण्यनिश्चयात्मकः । तत्र पुनःप्रामाण्यसन्देहस्यैवानवकाशान्न तत्संशयबलेन प्रत्यक्षस्योपनायकस्यादृढत्वकल्पना । अन्योन्याश्रयादित्याह नापीति ।। ३९४, ३९५ ।।
युक्तिमल्लिका
घटत्ववत्त्वे सन्देहस्स्यात्तन्निश्चयविच्युतौ ।
सन्देहात्तच्च्युतेश्चोक्तौ किं दोषं नानुपश्यसि ।। ३९५ ।।
सुरोत्तमटीका
तदनङ्गीकारे प्रागुक्तान्योन्याश्रयदोषं स्मारयति ।। घटत्ववत्त्व इति ।। घटत्ववत्त्वे प्रामाण्यशरीरप्रविष्टघटत्ववत्त्वे सन्देहः प्रामाण्यसंशय इति यावत् । तन्निश्चयविच्युतौ तस्य घटत्ववत्त्वस्य यो निश्चयः पूर्वव्यवसायरूपस्तस्य विच्युतौ तिरस्कारे सति स्यादिति सम्बन्धः । सन्देहात् प्रामाण्यसन्देहात् तच्च्युतेर्व्यवसायरूपनिश्चयच्युतेर्दोषमन्योन्याश्रयम् । प्रामाण्य-संशयबलादेव हि घटत्ववत्वनिश्चयरूपव्यवसायतिरस्कारः । सति च तस्मिन्संशयविरोधिनिश्चयाभावात् प्रामाण्यशरीरनिविष्टघटत्ववत्त्वसन्देहरूप प्रामाण्यसंशय इत्यन्योन्याश्रय इति भावः ।। ३९५ ।।
युक्तिमल्लिका
किं प्रत्यक्षममानं ते किं वा दुर्बलमन्यतः ।
साभासत्वं द्वयोश्चास्ति मानत्वं चोभयोस्समम् ।। ३९६ ।।
सुरोत्तमटीका
अनुमित्यनुव्यवसायस्य प्रामाण्यसत्तानिश्चयरूपत्वे प्रत्यक्षानुव्यवसायस्यापि तन्निश्चायकत्वं स्यादेव । अविशेषादित्याह ।। किं प्रत्यक्षमिति ।। ते मते प्रत्यक्षममानं किं अन्यतोऽनुमानादेर्दुर्बलं किं वेत्याक्षेपः । द्वयोः प्रत्यक्षानुमानयोस्साभासत्वं क्वचिदाभासप्रत्यक्षानु-मानसहितत्वं मानत्वं सदोषस्याभासत्वेऽपि निर्दोषस्य मानत्वं च उभयो-स्समम् । न च वाच्यं अनुमित्या साक्षात्प्रामाण्यमेवोपस्थाप्यते । अक्षज-व्यवसायेनतु नेति अतः कथमविशेष इति । प्रकारित्वविशेष्यित्वज्ञानत्वानां साक्षाज्ज्ञानधर्माणामुपस्थापकान्तरानपेक्षणेन प्रामाण्योपस्थापनस्यापि जलनिष्ठ-जलत्ववत्त्वमात्रोपस्थापने पर्यवसानेनाक्षजव्यवसायादविशेषात् ।। ३९६ ।।
सत्यप्रमोदटीका
किञ्च किमिदं प्रत्यक्षस्यादृढत्वम् । अमानत्वं, क्वचिदाभासत्वं, अनुमितिवत्साक्षात्प्रामाण्याविषयकत्वं वा । नाद्यः अनङ्गी-कारादित्याह किं प्रत्यक्षमिति । किमाक्षेपे । न द्वितीयः अनुमानेऽपि साम्यादित्याह साभासत्वमिति । नापि तृतीयः । अनुमित्या प्रामाण्यो-ल्लेखेऽपि जले जलत्ववत्त्वोपस्थापन एव पर्यवसितः । तच्च इदं जलमेवेति विषयीकारिणि प्रत्यक्षेऽप्यस्तीति कुतो दौर्बल्यमिति भावः ।। ३९६ ।।
युक्तिमल्लिका
प्रबलाक्षोपनीतेऽर्थे निर्णयो यदि नेष्यते ।
दुर्बलानुमयाऽऽनीते विश्वासो नतरां तदा ।। ३९७ ।।
सुरोत्तमटीका
किं च प्रत्यक्षानुमानयोस्साम्यमङ्गीकृत्योक्तम् । वस्तुतस्तु प्रबलप्रत्यक्षोपनीतेऽर्थसत्तानिश्चयाभावे दुर्बलानुमयोपनीते सुतरां स न स्यदित्याह ।। प्रबलेति ।। आनीते उपनीते नतरामतिशयेन नेत्यर्थः ।। ३९७ ।।
सत्यप्रमोदटीका
वस्तुतोऽनुमानापेक्षया प्रत्यक्षमेव प्रबलमित्याह । प्रबलेति । तदुक्तं ‘क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितं’ इति । समर्थितं च न्यायामृते जात्योपक्रमादिन्यायैरुपजीव्यत्वेन च प्रत्यक्षप्राबल्यम् । अतो न तदुपनीते अनाश्वासशङ्कालेशोऽपीति भावः ।। ३९७ ।।
युक्तिमल्लिका
ज्ञातस्यैव पुनर्ज्ञाने प्रामाण्यं गृह्यते किल ।
तादृश्याद्ये दृढज्ञाने कुतो वा तन्न गृह्यते ।। ३९८ ।।
सुरोत्तमटीका
किं च द्वितीयव्यवसायानुव्यवसाये प्रामाण्यस्य निश्चये प्रथमव्यवसायानुव्यवसाये कुतो न निश्चीयते । उभयोरपि व्यवसाययोर्मात्रयाऽपि विशेषाभावादित्याह ।। ज्ञातस्यैवेति ।। ज्ञातस्येत्युपलक्षणम् । अनुव्यव-सितस्येत्यपि ग्राह्यम् । पुनर्ज्ञाने अनुव्यवसाये च सतीत्यपि ग्राह्यम् । तादृशि द्वितीयज्ञानसदृशे ।। ३९८ ।।
सत्यप्रमोदटीका
प्रथमं अयं घट इति व्यवसायः घटमहं जानामि इति तदनुव्यवसायश्च । अनेनानुव्यवसायेन स्वग्राह्यव्यवसायनिष्ठं प्रामाण्यं न ग्राह्यं स्वतस्त्वापत्तेः । किन्तु अयं घट इति समानविषयकं व्यवसायान्तरम् तद्विषयको द्वितीयोऽनुव्यवसायः । अनेन द्वितीयेनानुव्यवसायेन प्रथम-व्यवसायनिष्ठं प्रामाण्यं गृह्यते इत्यङ्गीक्रियते । नन्वेवमपि प्रामाण्यस्यानु-व्यवसायवेद्यत्वोपगमे अनुमेयत्वरूपपरतस्त्वहान्या पुनः स्वतस्त्वापत्ति-स्तदवस्थैवेति चेन्न । तज्ज्ञानविषयकज्ञानाजन्यज्ञानविषयत्वं स्वतस्त्वं इति निर्वचनात् । तथा च तज्ज्ञानं ग्राह्यप्रामाण्याश्रयं प्रथमज्ञानं, तद्विषयकं ज्ञानं प्रथमानुव्यवसायः, तदजन्यं ज्ञानं तदेव, स्वस्य स्वाजन्यत्वात् । तस्य प्रामाण्यविषयकत्वं नाङ्गीकृतम् । किन्तु द्वितीयानुव्यवसायस्यैव । एवं च न स्वतस्त्वापत्तिः इति परतस्त्ववादपक्षमुत्थापयति ज्ञातस्येति । पुनर्ज्ञाने समानविषयकज्ञानान्तरानुव्यवसाये । प्रामाण्यं प्रथमज्ञाननिष्ठं इति शेषः । अन्यथा स्वतस्त्वापत्तेरित्यवधेयम् । किलेत्यपहासः । अपहासबीजं दर्शयन् दूषयति तादृशीति । निर्दोषतया दृढत्वेन द्वितीयज्ञानसदृशे प्रथमज्ञाने । अर्थसत्तानिश्चायकत्वप्रयोजकस्य उपनायकदाढर्््यस्योभयत्र समानत्वेऽपि एकत्र निश्चयोऽपरत्र नेत्येतद्दुराग्रहमात्रमूलत्वादपहास्यमेवेत्याशयः ।। ३९८ ।।
युक्तिमल्लिका
परतस्त्वस्य रक्षार्थं यद्येष नियमस्तव ।
स्वतस्त्वपरिरक्षार्थं युक्तियुक्तो ममाप्ययम् ।। ३९९ ।।
सुरोत्तमटीका
ननु तज्ज्ञानविषयकज्ञानाजन्यज्ञानग्राह्यत्वाभावः परतस्त्वम् । प्रथमानुव्यवसायेन च प्रामाण्यग्रहणे तज्ज्ञानविषयकं ज्ञानं प्रथमानुव्यवसाय एव तदजन्यं ज्ञानं तदेव तेनच प्रामाण्यग्रहणे मदभिमत-परतस्त्वभङ्गः स्यात् । तस्य रक्षार्थं प्रथमानुव्यवसायेन प्रामाण्याग्रहण-नियमोऽङ्गीक्रियत इति शङ्कामनूद्य दूषयति ।। परतस्त्वेति ।। तर्हि स्वतस्त्व-परिरक्षार्थं तज्ज्ञानविषयकज्ञानाजन्यज्ञानग्राह्यत्वलक्षणस्वतस्त्वस्य परिरक्षार्थं युक्तियुक्तः पूर्वोक्तयुक्तियुक्तः अयं प्रथमानुव्यवसायेन प्रामाण्यग्रहणनियमः । प्रथमानुव्यवसाये व्यवसायोपनीतत्वात् । घटत्ववत्वं न निश्चीयते । द्वितीयानुव्यवसायेतु पूर्वानुव्यवसायेनैवोपनीतत्वाद्घटत्ववत्त्वस्यार्थसत्तानिश्चयो भवतीति कश्चित् । इदमतीव परिहास्यम् । साक्षाद्घटत्ववत्त्वग्राहिणा व्यवसाये-नोपनीतं घटत्ववत्त्वं न निश्चीयते किल साक्षात्स्वायोग्यघटत्ववत्त्वस्य पूर्व-व्यवसायोपस्थापितस्य ग्राहिणाऽत एव तस्यार्थसत्तानिश्चयमकुर्वता प्रथमानु-व्यवसायेनोपस्थापितं घटत्ववत्त्वं साक्षात्तदग्राहकतयाऽभिमतेन द्वितीयानु-व्यवसायेनार्थसत्ताघटिततया निर्णीयते किल । इदं च साक्षादर्थं दृष्ट्वा केन-चिदुक्ते वाक्येऽनाश्वासः किल तद्वाक्यद्वारा तमर्थं वदतः परस्य परंपरावाक्ये सुतरां विश्वासः किलेति लौकिकमाभाणकमनुकरोति । न च वाच्यं प्रथम-व्यवसायेन द्वितीयव्यवसायस्य संवादाद्दार्ढ्यमिति । संवादकस्य तस्य दार्ढ्ये स्वानुव्यवसायेऽपि सुदृढतया स्वार्थमुपस्थापयेदेव । नोचेदन्धानुगान्ध-वद्द्वितीयस्यापि कस्तेनोपकारः ।। ३९९ ।।
सत्यप्रमोदटीका
दूषणमेव विवृणोति परतस्त्वस्येति । अयमाशयः । प्रथमानुव्यवसायेनैव कुतो न प्रामाण्यग्रहः इति वक्तव्यम् । किं स्वसमय-मात्रानुरोधेन, उत युक्तियुक्ततया । नाद्यः अतिप्रसङ्गात् परसमयरक्षणार्थं स्वतस्त्वस्याप्यङ्गीकार्यत्वापत्तेः इत्याह स्वतस्त्वेति । न द्वितीयः । तदभावात् । प्रत्युत स्वतस्त्वपक्षे एव युक्तीनां सद्भावसमर्थनेन वैपरीत्यस्यैवो-चितत्वादित्याह युक्तियुक्त इति । एतेनान्यतरपक्षानिर्णय इति शङ्का परास्ता ।। ३९९ ।।
युक्तिमल्लिका
किञ्च प्रवृत्तिसामर्थ्यात्प्रामाण्यानुमितिस्तव ।
प्रवृत्तेश्च समर्थत्वं केन निर्णीयते वद ।। ४०० ।।
सुरोत्तमटीका
इदानीं प्रामाण्यग्राहकसाक्षिणोऽवज्ञाने तव प्रामाण्यानु-मापकहेतुसिद्धिरेव न स्यात् । अतस्सोऽवश्यंमान्य इत्याह ।। किं चेति ।। प्रवृत्तिसामर्थ्यात् प्रवृत्तेस्सामर्थ्यात्फलवत्त्वात्फलवत्प्रवृत्तिजनकत्वादिति यावत्
।। ४०० ।।
सत्यप्रमोदटीका
परतस्त्ववादिमुखेनैव साक्षिणोऽर्थसत्तानिश्चयात्मकतां वाचयितुं पराभिमतं परतस्त्वमनुवदति किं चेति । इदं जलज्ञानं प्रमाणं सफलप्रवृत्तिजनकत्वादिति अनुमेयत्वं खलु परतस्त्वम् । तत्र प्रवृत्तेः सफलत्वं नाम प्रवृत्तस्य जलार्थिनः उदन्याऽभावनिमित्तदुःखाभावस्य सुखस्य च अनुव्यवसायाभिमतसाक्षिणाऽनुभवः । तथाच दुःखाभावे सुखे च सत्तानिश्चयः तज्ज्ञानयोश्च तत्सत्ताघटितप्रामाण्यनिश्चयश्च साक्षिणोऽवश्यमङ्गीकार्यः । अन्यथा प्रामाण्यानुमितौ लिङ्गस्वरूपस्यैवासिध्द्यापत्तेः । तथा च साक्षिणा प्रामाण्य-ग्रहमनुपजीव्य अनुमानस्यैवानुत्थानात् अनुमेयत्ववादिनाऽपि स्वतस्त्व मङ्गीकृतमेवेति तदनभ्युपगमोक्तिः स्वव्याहतेत्याह पितेति । उपजीव्य इत्यर्थः ।। ४००, ४०१ ।।
युक्तिमल्लिका
न हि तत्रानुमा तेऽस्ति साक्षिणा केवलेन चेत् ।
पिता तवानुमानस्य साक्षी रक्ष्यो हि सर्वथा ।। ४०१ ।।
सुरोत्तमटीका
तत्प्रवृत्तेस्समर्थत्वमनुमानेन गृह्यत इत्यत आह ।। नहीति ।। प्रवृत्तेर्हि फलं जलपानजन्यसुखम् । तच्च साक्षिणावा साक्षि-प्रतिनिधिना मनसावा गृह्यत इति तवाप्यनुमतमिति हीत्यनेन सूचयति । केवलेनानुमानाद्यनुपजीविना साक्षिणा चेत् तर्हि तवानुमानस्य पिता पितेव पिता । ग्राहक इत्यर्थः । साक्षी सर्वथा रक्ष्योहीति सम्बन्धः । हीत्यनेन साक्षिणागृहीतेऽर्थे निश्चयाभावे तव हेतोरसिद्धिस्स्यादिति सूचयति ।। ४०१ ।।
युक्तिमल्लिका
दूरे प्रामाण्यशङ्का चेन्नोपान्ते सा कुतो नृणाम् ।
ज्ञाने ज्ञातेऽर्थतोऽर्थेच्छोः कोटिस्मृत्या बुभुत्सया ।
प्राप्तशङ्कातरोर्मूलं छेत्तुं कोऽन्यः परश्वधः ।। ४०२ ।।
सुरोत्तमटीका
परमुखेनैव साक्षिणा प्रामाण्यनिश्चयो भवतीति वाचयितुं तं पृच्छति ।। दूर इति ।। उपान्ते समीपे सा अप्रामाण्यशङ्का कुतो नेति सम्बन्धः । ननु धर्मिज्ञानाद्यभावात्संशयाभाव इत्यत आह ।। ज्ञान इति ।। ज्ञाने ज्ञात इत्यनेन धर्मिज्ञानमुक्तं भवति । अर्थतः प्रयोजनात् । अर्थेच्छोरर्थ-प्राप्तीच्छावतः । बुभुत्सया प्रामाण्याप्रामाण्यान्यतरकोटिबुभुत्सया । अन्योऽनु-व्यवसायेनैव प्रामाण्यनिश्चयात् ।। ४०२ ।।
सत्यप्रमोदटीका
दोषशङ्काऽऽद्यकलङ्कितज्ञानस्यानुव्यवसायः स्वग्राह्य-ज्ञानप्रामाण्यविषयकः तद्विरुद्धाविषयकत्वे सति तद्व्याप्यत्वाविषयकत्वे सति तत्संशयविरोधिप्रत्ययत्वात् इति तर्कताण्डवोक्तदिशा स्वतस्त्वेऽनुमानमग्रे ‘विमता सन्निकृष्टापूर्वार्थादोषजदृष्टिदृक्’ इति ४८४ श्लोकेन विवक्षुस्तदुपयुक्त-मुपोद्धातं रचयति दूरे इत्यादि चतुर्भिः । शङ्कां प्रति दूरस्थत्वादिदोषः कारणम् । न चोपान्ते समीपस्थे स दोषः । अतस्तत्कार्यशङ्काऽपि नेत्याह कुत इति ।। अनेन शङ्काया असार्वत्रिकत्वस्य व्युत्पादनेनानुमाने पक्षप्रसिद्धिर्व्युत्पादिता ज्ञेया । न च अप्रयोजकता । यदि प्रामाण्यनिश्चयो न स्यात् तत्संशयविरोधित्वमेव न स्यात् इति विपक्षे हेतूच्छित्तिरूप-बाधकसद्भावादिति वक्तुं संशयविरोधित्वे सम्भावितानि प्रकारान्तराणि प्रतिक्षिपति ज्ञाने इत्यादिना तस्मादित्यन्तेन । तथाहि । संशयाभावः किं धर्म्यज्ञानात्, कोट््यस्मरणात्, बुभुत्साऽभावात्, प्रामाण्यविरुद्धविषयकत्वात् प्रामाण्यव्याप्यविषयकत्वात्, प्रामाण्यविषयकत्वाद्वा इति विकल्पान् क्रमेण निराह । ज्ञाने इति । नाद्यः । धर्मिणो ज्ञानस्य ज्ञातैकसत्त्वेन तदज्ञानम-सम्भवि । न द्वितीयः । प्रयोजनसद्भावेन तदिच्छोः ज्ञानत्वरूपसाधारण-धर्मदर्शनवतः कोटिस्मृतिरपि नियता । न तृतीयः । अर्थेच्छोः विशेष-बुभुत्साऽप्यवर्जनीया । प्राप्तेति । सामग्रीवशात्प्रसक्तेत्यर्थः । मूलं छेत्तुं अनुत्पादं प्रयोजयितुम् । परश्वधः प्रतिबन्धकः । अन्यः प्रामाण्याप्रामाण्या-न्यतरकोटिनिर्धारणाभ्यामिति शेषः । सत्यां सामग्रयां शङ्कारूपकार्या-नुत्पादप्रयोजकं अन्यतरकोटिनिर्धारणरूपं विशेषदर्शनं वाच्यमिति भावः ।। ४०२, ४०३ ।।
युक्तिमल्लिका
अतोऽत्र तन्निरोधाय विशेषावसितिर्ध्रुवा ।
संशयस्य ह्यनुत्त्थानमेककोट््यवधारणे ।। ४०३ ।।
सुरोत्तमटीका
तदेव विशदयति ।। अत इति ।। यतः प्रामाण्यशङ्का-सम्भाविताऽत इत्यर्थः । अत्र समीपस्थघटादिज्ञाने । तन्निरोधाय प्रामाण्य-शङ्कानिरोधाय विशेषावसितिः प्रामाण्यरूपकोटिविशेषनिश्चयः । ध्रुवेत्यनेना-प्रामाण्यकोटिनिश्चयस्यानानुभविकत्वात्प्रामाण्यकोटेरेव निश्चयोऽवश्यं वक्तव्य इति सूचयति । तत्र हेतुमाह ।। संशयस्येति
।। ४०३ ।।
युक्तिमल्लिका
तस्मात्कथं न निर्णीतसमीपस्थार्थधीषु सा ।
अतोऽत्र संशयोच्छित्त्यै वाच्यः प्रामाण्यनिश्चयः ।। ४०४ ।।
सुरोत्तमटीका
उक्तमर्थमुपसंहरति ।। तस्मादिति ।। सा प्रामाण्यकोटिः । अतो गत्यन्तराभावात् । अत्र समीपस्थघटादिज्ञाने ।। ४०४ ।।
सत्यप्रमोदटीका
विशेषदर्शनाभिमतेषु अन्तिमेषु त्रिषु विकल्पेषु चतुर्थस्तावदत्र अनानुभविक इत्याह अत्रेति । समीपस्थघटादिज्ञाने । प्रामाण्यविरुद्धं खलु अप्रामाण्यं, तद्व्याप्यं, प्रामाण्याभावः तद्व्याप्यं चेति चतुष्टयम् । तत्सर्वमपि दोषाजन्यज्ञानस्थलेऽनुभवपराहतम् । तदन्यतमसद्भावे अर्थाभावनिश्चय एव स्यात् । न त्वनुभूयमानोऽर्थनिश्चयः । नापि पञ्चमः । तद्धि प्रामाण्यव्याप्यत्वेन प्रामाण्यव्याप्यज्ञानं विवक्षितम् । न हि व्याप्यज्ञानमात्रात्संशयनिवृत्तिः । अन्यथा तैलं पृथिवी न वेति संशयो न स्यात् । तच्चात्र नास्ति । व्याप्त्यनुसन्धानहीनानामपि बालमुग्धादीनां संशयादर्शनात् । अतः परिशेषात् षष्ठः प्रमाणविषयकत्वपक्ष एव स्वीकार्यः । तथा च प्रामाण्यस्य अनुव्यवसायवेद्यत्वरूपस्वतस्त्वसिद्धिर्निष्प्रत्यूहेत्युपसंहरति तस्मादिति ।। ४०४ ।।
युक्तिमल्लिका
नात्र प्रवृत्तिसामर्थ्यमन्यद्वाऽस्त्यनुमापकम् ।
यतो गृहीतप्रामाण्यज्ञानजातीयताऽपि न ।
नवार्थनूत्नज्ञानत्वात्स्वतस्त्वं कस्त्यजेत्ततः ।। ४०५ ।।
सुरोत्तमटीका
नन्वत्रापि समर्थप्रवृत्तिजनकत्वादिना निर्णयो भविष्य-तीत्यत आह ।। नेति ।। अन्यत्प्रवृत्तिसामर्थ्यात् । तच्च गृहीतप्रामाण्य-ज्ञानजातीयत्वम् । तदपि नास्तीत्याह ।। यत इति ।। तत्र हेतुः ।। नवार्थनूत्नज्ञानत्वादिति ।। नवो योऽयमर्थः तस्य नूत्नं नूतनं प्राथमिकमिति यावत् । गृहीतप्रामाण्यज्ञानजातीयत्वं तदा स्यात् । यद्येतज्ज्ञानात्पूर्वं ज्ञानमुत्पन्नं स्यात् । तज्ज्ञानस्य प्रामाण्यं च गृहीतं स्यात् । नचैतदत्र घटते । अर्थस्यापि नवत्वाज्ज्ञानस्याप्यत एव पूर्वमनुत्पन्नत्वेनास्यैव ज्ञानस्य प्राथमिकत्वात् । तस्मादत्र ज्ञानग्राहकेणैव ग्राह्यत्वलक्षणं स्वतस्त्वं कस्त्यजेदित्यर्थः ।। ४०५ ।।
सत्यप्रमोदटीका
न चात्राप्यनुमेयत्वं सम्भावनार्हं अनुमापक-लिङ्गाभावात् । तद्धि भवत् प्रवृत्तिसामर्थ्यरूपविजातीयसंवादो वा गृहीत-प्रामाण्यकज्ञानसजातीयत्वरूपसजातीयसंवादो वा । अत्र नोभयमपीत्याह नात्रेति ।। तत्र न तावदाद्यं समर्थप्रवृत्तिजनकत्वम् । सर्वत्र ज्ञाने तदभावात् । प्रवृत्तेः सामर्थ्यनिर्धारणार्थमपि परीक्षायाः लिङ्गानुसन्धानस्य प्रामाण्यस्य साक्षिणैव ग्राह्यत्वात् । तत्रापि परीक्षान्तरानुसरणेऽनवस्थाया उक्तत्वात् । नापि द्वितीयम् । प्रत्यग्रदृष्टपदार्थज्ञानेषु तदसम्भवात् । एतदाह नवार्थेति ।। संवादकज्ञानप्रामाण्यस्यापि साक्षिणैवावधार्यत्वेन स्वतस्त्वानपायाच्च । तत्रापि सजातियसंवादान्तरानुसरणेऽनवस्थानात् । उपसंहरति स्वतस्त्वमिति ।।४०५।।
युक्तिमल्लिका
समीपगमने सत्येवार्थसामर्थ्यशोधनम् ।
तत्प्रमानुमितेः पूर्वं प्रामाण्यं साक्षिणेक्ष्यते ।। ४०६ ।।
सुरोत्तमटीका
सन्निकृष्टार्थे समर्थप्रवृत्तिजनकत्वादिकं प्रामाण्यानुमापकं नास्तीत्युक्तम् । तर्हि दूरस्थे भविष्यतीत्यत आह ।। समीपेति ।। दूरस्थेऽपि समर्थप्रवृत्तिजनकत्वाख्यहेतुनिर्णयाय दूरस्थजलादिसमीपगमने सतीत्यर्थः । अर्थसामर्थ्यशोधनं समर्थप्रवृत्तिजनकत्वावधारणमिति यावत् । तदा सन्निकृष्ट-घटादिज्ञानप्रामाण्यनिर्णयवत्त्वदभिमतानुमितेः पूर्वमेव साक्षिणा तत्र प्रामाण्य-निर्णयो वाच्यः । अन्यथा हेतोरनिर्णयप्रसङ्गात् । दूरस्थत्वादिदोषाभावा-च्चेत्याह ।। तदिति ।। यतोऽनुमितेः पूर्वं साक्षिणा प्रामाण्यग्रहणे बाधकाभावः यतश्च हेतुसिद्धावर्थसत्ताऽवश्यंपरेणापि निर्णेया तस्मादित्यर्थः ।। ४०६ ।।
सत्यप्रमोदटीका
उक्तदोषो दूरस्थज्ञानेऽपि समान इत्याह समीपगमन इति । प्रवृत्तेः सामर्थ्यनिश्चयो अर्थतथात्वनिश्चये तज्ज्ञानप्रामाण्यनिश्चय एव च पर्यवस्यतीति भावः ।। ४०६ ।।
युक्तिमल्लिका
साक्ष्युच्छिष्टकृताहारा तेऽनुमास्योपजीविनी ।
साक्षी तदक्षाद्यध्यक्षो नोपेक्ष्योऽयं मुमुक्षुभिः ।। ४०७ ।।
सुरोत्तमटीका
साक्ष्युच्छिष्टकृताहारा साक्षिसिद्धप्रामाण्यग्राहिणीति यावत् । उच्छिष्टेत्यनेन तदनुमानस्य सिद्धसाधनतां ध्वनयति ।। अङ्गीकृत्य चेदमुदितम् । वस्तुतस्तु तद्धेतोरनवसरदुःस्थतैव । नह्यापणंगतस्स्वकरस्थ-कदलीफलं भक्षयित्वैव कश्चिन्निश्चिनुयात् । अस्य साक्षिणः । तत् निश्शङ्क-प्रत्यक्षतया सर्वप्रमाणमूलत्वात् । अक्षाद्यध्यक्षः व्यवसायरूपप्रत्यक्षानुमाना-द्यध्यक्षः । तत्तत्प्रामाण्यग्राहकत्वेनेति भावः ।। ४०७ ।।
सत्यप्रमोदटीका
हेतोः पक्षवृत्तित्वनिश्चयकाले प्रागेव साक्षिणा प्रामाण्यस्य निश्चयादनुमानं सिद्धसाधनमेवेत्याह साक्षीति । अध्यक्षः सर्वप्रमाणानां प्रामाण्यग्राही । मुमुक्षुभिरिति ।। मोक्षादिकमतीन्द्रियम् वेदैकप्रमाणगम्यम् । अतो न तज्जन्यज्ञानप्रामाण्यनिश्चये सजातीयसंवादरूप-लिङ्गस्यावसरः । प्रवृत्तिसामर्थ्यरूपलिङ्गावधारणं मुमुक्षुदशायामसम्भावितम् । अतो मुमुक्षूणां प्रवर्तको वेदजन्यज्ञाने प्रामाण्यनिश्चयः साक्षिणैवैष्टव्यः । अतः साक्ष्युपेक्षणेन परतस्त्ववादिनां मोक्षाशा दूरोत्सारिता इति हृदयम्
।। ४०७ ।।
युक्तिमल्लिका
अप्रामाण्ये स्वतस्त्वं न युक्तियुक्तमतो न तत् ।। ४०८ ।।
सुरोत्तमटीका
यदि प्रामाण्यस्य स्वतस्त्वं तर्ह्यप्रामाण्यस्यापि स्वतस्त्वं स्यादिति प्रतिबन्दीं परिहरति ।। अप्रामाण्येति ।। अतः यतो युक्तियुक्तं न अत इत्यर्थः । तदप्रामाण्यस्वतस्त्वम् ।। ४०८ ।।
सत्यप्रमोदटीका
‘दुष्टबुद्धीनामेवाप्रामाण्यशङ्केति परतोऽप्रामाण्यं’ इति तत्वनिर्णयोक्तं अप्रामाण्यस्य परतस्त्वं समर्थयिष्यन्प्रतिजानीते अप्रामाण्य इति । अत इत्युक्तेर्यत इत्यादावुपस्कर्तव्यम् । तदित्यप्रामाण्यस्वतस्त्वं परामृशति ।। यतो न युक्तियुक्तं अतः न तत् । अङ्गीकारार्हमिति शेषः ।। ४०८ ।।
युक्तिमल्लिका
भ्रमज्ञानज्ञेयरूप्यत्वाद्यभावो ह्यमानता ।
तत्सत्त्वग्राहिणी भ्रान्तिस्साक्षी चान्तः स्वतन्त्रदृक् ।
उपनायकशून्येन बाह्यं तद्गृह्यते कथम् ।। ४०९ ।।
सुरोत्तमटीका
कुतो न युक्तियुक्तमित्यत आह ।। भ्रमेति ।। भ्रमरूपं यज्ज्ञानं तेन ज्ञेयं यच्छुक्तेरूप्यत्वादि तदभावः अमानता हीति सम्बन्धः । तदभाववति तत्प्रकारकत्वरूपाप्रामाण्यस्य तदभाव एव पर्यवसानादिति हिशब्देन सूचयति । तदभावोऽपि भ्रमोपनीतः किं न स्यादित्यत आह ।। तदिति ।। तस्य रूप्यत्वादेः सत्त्वग्राहिणी न तु तदभावग्राहिणीत्यर्थः । भ्रमानुपनीतोऽपि तदभावस्साक्षिणा गृह्यतामित्यत आह ।। साक्षीति ।। अन्तश्शरीरान्तःस्थसुखादिविषये स्वतन्त्रदृक्स्वातन्त्र्येण दर्शनम् । तस्मादुप-नायकशून्येन साक्षिणा बाह्यं तदप्रामाण्यं कथं गृह्यत इति सम्बन्धः।। ४०९ ।।
सत्यप्रमोदटीका
ननु कथं न युक्तियुक्तम् । अप्रामाण्यं ज्ञानग्राहक-मात्रग्राह्यं ज्ञानधर्मत्वात् प्रामाण्यवत् इति युक्तेः सद्भावादिति चेन्न । युक्तेः बाधितविषयत्वादाभासत्वं इति वक्तुं अप्रामाण्यस्वरूपं निर्धारयति भ्रमेति । भ्रमश्च तज्ज्ञानं च तस्य ज्ञेयः विषयः रूष्यत्वादि तदभावः । विशेष्यवृत्त्य-भावप्रतियोगिरूप्यत्वादिधर्मप्रकारकत्वमिति यावत् अमानतेति हि शब्देन सूचयति किमतो यद्येवमित्यत आह तत्सत्त्वेति ।। अयमाशयः । अप्रामाण्य-घटकः रजत्वाद्यभावस्तावद्बाह्यार्थः । स च न साक्षात्साक्षिणा गृहीतुं शक्यः साक्षिणो बहिरस्वातन्त्र्यात् । नाप्युपनायकद्वारा । उपनायकभ्रान्तेस्तदविषय-कत्वात् । प्रत्युत रजतत्वादिसत्त्वग्राहित्वात् । अतो बाधितविषयमनुमानमिति।। ४०९ ।।
युक्तिमल्लिका
अतोऽनुमानतो रूप्यत्वाभावोपस्थितिर्यदा ।
तदा तदपिगृह्णीयादिति सर्वमनाकुलम् ।। ४१० ।।
सुरोत्तमटीका
अत इति ।। यतस्साक्षिणो बहिरस्वातन्त्र्यमत इत्यर्थः । अनुमानतः इदं रूप्यं न दह्यमानत्वात् पाट्यमानत्वादित्याद्यनुमानतः । तदप्यप्रामाण्यमपि । सर्वमनाकुलमिति ज्ञप्तौ प्रामाण्यस्वतस्त्वस्योपसंहारः ।। ४१० ।।
सत्यप्रमोदटीका
अतः यतः साक्षी बहिरस्वतन्त्रः भ्रमश्च न रजतत्वाद्य-भावोपनायकः तदनुल्लेखित्वात् तस्मात् । अनुमानतः इत्युपलक्षणम् । नेदं रजतमिति विसंवादिमानान्तरात् । तथा च नियमेन विसंवादसहकृतसाक्षि-वेद्यत्वादप्रामाण्यं परतो ग्राह्यमिति फलितम् ।। ४१० ।।
।। ज्ञानप्रामाण्यस्य ज्ञप्तौ स्वतस्त्वसमर्थनम् ।।