यदा हि रूपनिष्पत्तिर्मुक्तौ जीवस्य जायते
'यमेव वृणुते' इत्यादिश्रुत्यर्थः
युक्तिमल्लिका
यदा हि रूपनिष्पत्तिर्मुक्तौ जीवस्य जायते ।
न हि तत्प्राकृतं रूपं स्वेनेत्यस्य विरोधतः ।। ४१९ ।।
सुरोत्तमटीका
चिदात्मकदेहस्य कार्यकारित्वानङ्गीकारे बाधकमाह ।। यदा हीति ।। निष्पत्तिः परंज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते । स तत्र पर्येति । जक्षन्क्रीडन्रममाणस्स्त्रीभिर्वा यानैर्वेति श्रुत्युक्ताभिव्यक्तिः । तत् श्रुत्युक्तं रूपम् । स्वेनेत्यस्य बाह्यदेहव्यावर्तकविशेषणस्य । स्वस्वरूपभूतेनेति हि तस्यार्थः । बाह्यसकलदेहनिवृत्तिरूपे मोक्षे कथ्यमानं स्वत्वमिदमेव नान्यदिति भावः ।। ४१९ ।।
सत्यप्रमोदटीका
किं चैवं जडदेहादेरेव कर्तृत्वघटकत्वे मुक्तौ जक्षण-क्रीडनादिकर्तृत्वमेव न सिध्द्यत् । तत्र प्राकृतदेहाभावात् । ‘मुक्तिर्हित्वाऽ-न्यथारूपं स्वरूपेण व्यवस्थितिरि’ति हि मुक्तेर्लक्षणम् । हित्वाऽन्यथारूपं इति प्राकृतदेहप्रहाणस्य स्वेन रूपेण इति स्वात्मकचिद्रूपेणावस्थितेश्च अत्र स्पष्टं वर्णनादित्याह यदेति ।। ४१९ ।।
युक्तिमल्लिका
मुक्तत्वव्याहतेश्चातश्चिद्रूपं रूपमुच्यते ।। ४२० ।।
सुरोत्तमटीका
अतः मौक्तरूपत्वात् । रूपं देहः ।। ४२० ।।
सत्यप्रमोदटीका
अतः मुक्तिकालीनदेहत्वात् । रूपं ‘स्वरूपेण व्यवस्थितिरि’त्यत्र कथितो देहः ।। ४२० ।।
युक्तिमल्लिका
येन पर्येति सस्त्रीको यानैर्गच्छति पश्यति ।
हसति क्रीडते रूपं देहोऽयं नात्र संशयः ।। ४२१ ।।
सुरोत्तमटीका
ननु रूपपदं चैतन्यस्वरूपपरम् । न तु देहपरमित्यत आह ।। येनेति ।। श्रुतौ सः निष्पन्नरूप इति हेतुगर्भविशेषणेन रूपेणैव पर्यटनादेः कथनात् स्त्रीरमणादेर्देहं विनाऽयोगाच्च रूपपदोदितो देह एवेति भावः । न चेयं मुक्तिर्जीवन्मुक्तिः येन प्राकृतदेहोऽपि संपद्यते । स्वस्वरूपाभिनिष्पत्तेर्जीवन्मुक्तावभावात् ।। ४२१ ।।
सत्यप्रमोदटीका
किं चेदं हसनक्रीडनादिसाधनत्वाद्देह एव भवितुं युक्तं न तु त्वदभिमतं निरवयवं चैतन्यस्वरूपमात्रमिति शंसति येनेति । येन रूपेण पर्येति अयं देहः इति योजना । विधेयापेक्षया अयं इति पुल्लिङ्गः । ‘शैत्यं हि यत्सा प्रकृतिर्जलस्ये’तिवत् । इयं च वर्णिता परममुक्तिरेव परञ्ज्योतिरुप-सम्पत्त्युत्तरभावित्वादित्याह न संशय इति ।। ४२१ ।।
युक्तिमल्लिका
फलाध्याये हि सम्पद्याविहायेति यमादरात् ।
असूत्रयत्सूत्रकारस्स मोक्षः परमो ध्रुवः ।। ४२२ ।।
सुरोत्तमटीका
युक्त्यन्तरं चाह ।। फलाध्याय इति ।। संपद्या-विहायेत्यनेन ‘‘संपद्याविहाय स्वेनशब्दादि’’ति सूत्रं गृह्णाति । यं मोक्षं फलाध्याये आदरादसूत्रयदिति योजना । संपद्येति प्राप्तिमुक्त्वा पुनरविहायेति तस्या एव सदातनत्वेन विशेषितत्वादादरादित्युक्तम् । वेदान्तविद्याफलत्वेन साधनाध्याये ज्ञानपादोक्तापरोक्षज्ञान्याख्यजीवन्मुक्तस्य फलतया च कथ्यमानेयं मुक्तिः कथमवान्तरमुक्तिरिति भावः ।। ४२२ ।।
सत्यप्रमोदटीका
किं च विमतः परममोक्षः फलाध्याये मुक्तपरत्वेन सूत्रितत्वात् सम्पत्त्यनन्तरत्वात् सम्पत्तिरूपत्वाच्च । न चासिद्धिः । ‘मुक्तः प्रतिज्ञानात्’ सम्पद्येति अविहायेति च सूत्रकृतैव सिद्धेरुक्तत्वात् । तदाह फलेति ।। ४२२ ।।
युक्तिमल्लिका
यत्र त्वस्येति वाक्यं तु प्रवृत्तं तर्कमुद्रया ।
दृढीकरोतीममर्थं यत्तर्कोऽन्तविपर्ययः ।। ४२३ ।।
सुरोत्तमटीका
तर्हि ‘‘यत्रत्वस्य सर्वमात्मैवाभूत् । तत्केन कं पश्येत् । केन कं जिघ्रेदि’’ति श्रुतेः का गतिरित्यतस्सूत्रकाराभिमतदृढनिरूढस्पष्टेतर-श्रुतिबलादस्पष्टतया सावकाशायास्तस्या एतदनुकूलतयैवार्थः कथनीय इति भावेनाह ।। यत्रत्वस्येति ।। तर्कमुद्रया । यद्यस्य मुक्तस्य सर्वमात्मैवाभूत् । मायावाद्युक्तरीत्या आत्मव्यतिरिक्तं किमपि नाभूत् । तत् तर्हि केन करणेन कं पश्येदित्यादि रूपेण प्रवृत्तमित्यर्थः । इमं मुक्तस्य देहेन्द्रियादिसद्भावरूपम् । यत् यस्मात्तर्कः अन्तविपर्ययः अन्ते अवसाने विपर्ययः विपर्यये पर्यवसानं यस्य सः । तस्माद्दृढीकरोतीति पूर्वेणान्वयः । तर्हि केन कं पश्येदिति दर्शनाक्षेपरूपतर्कस्य पश्यति जिघ्रति च तेनेन्द्रियेण तं विषयम् । अतः मायावाद्यभिमतचैतन्यमात्रात् विशेषबलेनातिरिक्तं देहेन्द्रियादिकमप्यस्तीति विपर्ययपर्यवसानस्य तर्केऽवश्यमपेक्षितत्वात्पूर्वश्रुत्युक्तदेहेन्द्रियादि दृढीकरणायेयं श्रुतिः प्रवृत्तेति भावः ।। ४२३ ।।
सत्यप्रमोदटीका
उक्तप्रमाणानामनुग्राहकं श्रौतं तर्कमुदाहृत्य मुक्तौ स्वरूपेन्द्रियसद्भावं स्थिरीकरोति यत्रेति । अनेन ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्केन कं जिघ्रेदि’ति वाक्यं सङ्गृह्णाति । अस्याः श्रुतेस्तर्कत्वसमर्थनं, औत्यमितनिर्विशेषात्मभावरूपमोक्षनिराकरणपूर्वकं चिद्रूपेन्द्रियसद्भावसमर्थनपरत्वं च फलसौरभे ‘यदा त्वात्मैक एवे’त्यादिना (श्लो.२९२) निपुणतरमुपपादितमनुसन्धेयम् । तर्कस्य प्रमाणानुग्राहकत्वं च ‘सोऽयं क्वचित्प्रमाणानामनुग्राहकोऽपि भवति’ इति पद्धतिवाक्यादवसेयम् । अन्तविपर्ययः अन्ते अवसाने विपर्ययः यस्य । विपर्ययपर्यवसानरूपाङ्गोपेतः इति यावत् । तर्कस्वरूपं च तत्वनिर्णयटीकायामुक्तं तद्यथा—
‘यदि निर्विशेषचैतन्यमात्रमवशिष्यते न किमपि वस्त्विति मतं स्यात् तदा दर्शनघ्राणादिरूपभोगोऽस्य न स्यात् । तथा येनेश्वरेणेदं सर्वजीवो विजानाति तज्ज्ञानाभावश्च प्रसज्येत । एवं विज्ञातुरात्मनोऽपि ज्ञानं न स्यात् । निर्विशेषत्वेन कर्तृत्कर्मभावविरोधात् । भवितव्यं च दर्शनादिभोगेनेश्वर-ज्ञानेनात्मज्ञानेन च । अतो निर्विशेषचैतन्यमात्रावस्थानलक्षणमोक्षोप्यनुपपन्न’ इति।।४२३ ।।
युक्तिमल्लिका
अव्ययोक्तेरनेकार्थे शासने त्वनुशासनात् ।
सामान्यवचनं ह्येतत्पूर्ववाक्तु विशेषवाक् ।। ४२४ ।।
सुरोत्तमटीका
यत्रेत्यस्य यदीत्यर्थः कथं स्यादित्यत आह ।। अव्ययोक्तेरिति ।। अनुशासनात् । अव्ययानामनेकार्थत्वमित्यभियुक्तवचना-दित्यर्थः । एतत् यत्रत्वस्येति वाक्यं सामान्यवचनं सावकाशवाक्यम् । पूर्वावाक् परंज्योतिरुपसंपद्येति वाक् विशेषवाक् पर्यटनस्त्रीरमणादेर्निरवकाशतया कथनात् ।। ४२४ ।।
सत्यप्रमोदटीका
यत्रेत्यस्य यदि इत्यर्थः अनुशासनसिद्ध इत्याह अव्ययेति । सामान्यवचनमिति उपलक्षणं । एकं सावकाशं च । भोग-प्रतिपादिकाः पूर्वोदाहृतास्तु वाचः विशेषपरा बहवः निरवकाशाश्च । अतस्तदनुसारेणैवेदं व्याख्येयम् ।। ४२४ ।।
युक्तिमल्लिका
जम्बुको मेषयुद्धार्थो वृद्ध्यर्थो पोषको जनः ।। ४२५ ।।
सुरोत्तमटीका
श्रुत्योरेकस्याः व्यावहारिकार्थतया अप्रामाण्यम् । अपरस्याः प्रामाण्यमिति व्याख्यानं नीतिविरुद्धं चेत्याह ।। जम्बुक इति ।। मेषयुद्धार्थी मेषयोः परस्परयुद्धे सति तच्छिरोविदारणोत्थरक्तं पिबामीत्याशया मेषयुद्धार्थी । पोषकः मेषयोरुभयोरपि रक्षकः अविपालः वृध्द्यर्थी वृद्धिमेव प्रार्थयमानः स्वपोष्यमेषाणां मध्ये एकस्यापि मरणमसहमान इति यावत् । एवं श्रुतिघातकस्त्वंयत्किञ्चिज्जल्पसि । श्रुतिरक्षकस्तु वेदव्यासः तद्भक्ताश्च एकामपि श्रुतिं हन्तुं नेच्छन्तीति भावः ।। ४२५ ।।
सत्यप्रमोदटीका
न च भोगश्रुतयो व्यावहारिकभोगपरा इति युक्तं तथात्वे तासामप्रामाण्यापत्तेः । बाध्यार्थकत्वात् । विरोधेऽन्यतरश्रुतेर-प्रामाण्योक्तिर्मायिगोमायोरेव युक्ता न तु वैदिकस्येत्याह जम्बुक इति । अत्र जम्बुकः मायी । युद्धं विरोधव्युत्पादनं तेनान्यतरस्यातत्वावेदकत्वलक्षणम-प्रामाण्यं च । पोषकः श्रुतिरक्षकः सूत्रकारः मीमांसकः । वृद्ध्यर्थी विरोधपरिहारेण उभयोरपि प्रामाण्यरक्षकः ।। ४२५ ।।
युक्तिमल्लिका
न चेत्कामान्निता कामरूपिता गानकर्तृता ।
भोक्तृता सर्वकामानां कुप्यन्त्येते विमुक्तिगाः ।। ४२६ ।।
सुरोत्तमटीका
न चेत् एवमविरुद्धार्थो न कथ्यते चेत् । ‘‘कामान्नी कामरूप्यनुसंचरन् । एतत्सामगायन्नास्ते’’ इति श्रुतौ ‘‘सोऽश्नुते सर्वान्कामा-निति श्रुतौ’’ च कथिताः कामान्नित्वादयश्चत्वारो मुक्तविशेषणीभूतधर्माः जीवन्मुक्तावसम्भाविताः कुप्यन्ति निरवकाशबहुश्रुत्युक्तशोभनार्थापहारिणं त्वामन्धेतमसि निक्षिपन्तीत्यर्थः । निरवकाशबहुश्रुतीनामप्रामाण्यकथनात् सावकाशैकश्रुतेरनुकूलार्थकथनमेव न्याय्यमिति भावः ।। ४२६ ।।
सत्यप्रमोदटीका
न चेत् अस्याः श्रुतेस्तर्कपरतामनङ्गीकृत्य निर्विशेष-मोक्षपरता वर्ण्यते चेत् । एते कामान्निताऽऽदिचत्वारो धर्माः निरवकाश-श्रुतिसिद्धाः विमुक्तिगाः परममुक्तावेवोपपद्यमानाः । कुप्यन्ति
‘स्वानन्दविषये मोक्षे वेदोक्ते युक्तिसाधिते ।
द्वेषोऽयं वादिनां कस्मात्तद्विरुद्धेऽथवाऽऽग्रहः’
इति सुमध्वविजयोक्तरीत्या निर्निमित्तं दुराग्रहेण वेदाप्रामाण्यवादिने वेदाभिमानिन्यो देवताः कुपिताः सत्यः तं तमसि पातयन्तीति यावत् ।। ४२६ ।।
युक्तिमल्लिका
तव त्वापातवाक्यार्थात् शून्यतैवेत्यपार्थता ।
चित्रचिद्रूपदेहास्तज्जीवास्सर्वेऽपि सर्वदा ।। ४२७ ।।
सुरोत्तमटीका
परकीयार्थे वाक्यमर्यादयैव बाधकं चाह ।। तव त्विति ।। आपातवाक्यार्थात् आपाततः प्रतीतवाक्यार्थात् । ‘‘विज्ञातारमरे केन विजानीयात् येनेदमखिलं वेद तं च केन विजानीयादि’’ति स्वस्वरूप-ज्ञानस्य ब्रह्मरूपज्ञानस्य चाभावोक्त्या शून्यतैव भविष्यतीत्यर्थः । विषयाद्य-भावमङ्गीकुर्वतापि मायावादिना स्वस्वरूपं ब्रह्मरूपं च नापलप्यते । तस्य स्वप्रकाशतया ज्ञानं चाङ्गीक्रियते । तदपि न स्यात् । अतस्त्वयाप्यस्मद्वत्तर्क-मुद्रैवाश्रयणीयेति भावः । तत्तस्मान्मुक्तौ स्त्रीपुरुषदेहानामावश्यकत्वात्
।। ४२७ ।।
सत्यप्रमोदटीका
एतद्वाक्यार्थत्वेन परोक्तो मोक्षस्तु शून्यभावापत्ति-रूपतमस एव नामान्तरमित्याह तवेति । ज्ञानभोगादिसकलविशेषरहिता-वस्थाया दुःखतरात्मकत्वस्य स्पष्टत्वात् । यथोक्तं ‘मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेदि’ति । भाषितः च परेणैव विष्णुसहस्रनामगतशून्यपद-व्याख्यानावसरे निर्विशेषस्य शून्यभावः ‘निर्विशेषत्वाच्छून्यवच्छून्यः’ इति । तत् तस्मात् । सर्वदा संसारे मुक्तौ च । सर्वेऽपि त्रिविधाः । चित्रचिद्रूपाः त्रिविधचेतनात्मकदेहोपेताः । चित्रेत्यनेन मुक्तियोग्यानां ज्ञानानन्दात्मकत्वं मध्यमानां मिश्ररूपत्वं अधमानां दुःखात्मकत्वरूपं वैचित्र्यं स्वरूपदेहस्याभि-प्रैति । यद्वा सर्वेऽपि चतुर्विधमुक्ताः चित्रेति मौक्तभोगसाधनस्त्रीपुरुषादि-लोकविलक्षणेत्यर्थः ।। ४२७ ।।
युक्तिमल्लिका
चिद्रूपाकारहेतुत्वाल्लिङ्गदेहेऽपि तत्पदम् ।
बन्धे तु प्राकृतोऽप्यस्ति मुक्तौ चिन्मात्रकं वपुः ।। ४२८ ।।
सुरोत्तमटीका
तत्पदं देहपदं चिद्रूपदेहप्रावरणरूपत्वादेव लिङ्गदेहस्य देहत्वम् । नो चेत् जडान्तरेष्वदृष्टं देहत्वं कथमस्येति भावः।। ४२८ ।।
सत्यप्रमोदटीका
चिद्रूपाकारः आव्रियमाणः, हेतुः स्वाकारस्य यस्य इति विग्रहः । इदं च गुणसौरभे यवनस्त्रीकञ्चुकदृष्टान्तोक्त्या विवृतमिति भावः। तत् पदं लिङ्गदेहपदम् । लीनं स्वरूपदेहाकारं गमयतीति व्युत्पत्त्येति भावः । आव्रियमाणस्वरूपदेहस्याकारज्ञापने स्वस्य लिङ्गत्वादित्याशयः ।। प्राकृतोऽपि इत्यत्रापिपदेन चिन्मात्रस्य समुच्चयः । तदुक्तं भगवत्पादैः
‘जीवोपाधिर्द्विधा प्रोक्तः स्वरूपो बाह्य एव च ।
बाह्योपाधिर्लयं याति मुक्तावन्यस्य तु स्थितिः’ इति ।। ४२८ ।।
युक्तिमल्लिका
हरेस्तु नित्यमुक्तस्य देहस्सर्वत्र सर्वदा ।
बलज्ञानप्रभासौख्यसौन्दर्यादिगुणात्मकः ।। ४२९ ।।
सुरोत्तमटीका
हरेस्त्विति तुशब्देन कदाचिद्बद्धात्पुनर्मुक्ताज्जीवाद्विशेषं सूचयति । तदेव स्पष्टयति ।। नित्यमुक्तस्येत्यादिना ।। सर्वत्र सर्वदेत्यत्र हेतुसूचनाय नित्यमुक्तस्येति हेतुगर्भं विशेषणम् । प्राकृतदेहवत्त्वे नित्यमुक्त-त्वव्याकोपात् विद्यामयो यस्स तु नित्यमुक्त इति नित्यमुक्ततया श्रूयमाणस्य भगवतो देहः ज्ञानानन्दादिशुभगुणात्मक एवेत्यप्राकृतदेहवत्त्वे नित्यमुक्तत्वं च हेतुरिति भावः ।। ४२९ ।।
सत्यप्रमोदटीका
तुना कदाचिन्मुक्तव्यवच्छेदः । नित्यमुक्तस्येति सर्वत्र सर्वदा बलज्ञानादिगुणात्मकत्वे हेतुः । सर्वत्र सर्वरूपेषु । तदुक्तं भगवत्पादैः
‘आनन्दमात्रकरपादमुखोदरादिः ।
सर्वत्र च स्वगतभेदविवर्जितात्मा’ इति ।। ४२९ ।।
युक्तिमल्लिका
तस्यैष आत्मा विवृणुते तनूं स्वामिति श्रुतिः ।
भगवत्प्राप्तितः पश्चात्तनुं वक्ति विमुक्तिगाम् ।। ४३० ।।
सुरोत्तमटीका
निरवकाशस्पष्टश्रुत्यन्तरेणापि नित्यमुक्तस्य हरेर्मुक्तानां चानादिनित्यचिदानन्दात्मकस्वरूपभूतदेहवत्तां प्रसाधयन् तस्य दुःखाहेतुतां केवलसुखहेतुतां च प्रसाधयति ।। तस्यैष इति ।। अनेन ‘‘नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वामि’’ति श्रुतिं संगृह्णाति । तेन स्वप्रसादपात्रीभूतेन मुक्तेन लभ्यः प्राप्य इत्युक्तत्वात् भगवतः प्राप्तितः पश्चादित्युक्तम् । तनुं मुक्तजीवतनुम् । तस्य स्वां तनुमित्युक्तेर्जीवतनोः प्राप्तेर्मुक्तजीवतनुमित्युक्तम् ।। ४३० ।।
सत्यप्रमोदटीका
‘यमेवैष वृणुते तेन लभ्यः’ इति पूर्वभागः वाक्य-स्यात्रानुसन्धेयः । इयं च निरवकाशा ‘विवृणुते’ इति श्रुतिः पूर्वोक्तं मुक्त-स्वरूपदेहादिसद्भावरूपं’ सर्वं प्रमेयजातं विवृणुते इति ध्वनिः । तदेव विवृणुते भगवदित्यादिना दशभिः । ‘एव वृणुते’ इति श्रुत्युक्तं वरणं भगवतः परमप्रसाद एव । ‘तेन लभ्यः’ इत्युक्तं लभ्यत्वं प्राप्तिः मुक्तिरूपैव । तत्रापि तनूं स्वामित्युक्तेः स्वरूपदेहसद्भावः स्पष्ट एवेति भावः ।। विवृणुते तनूमित्यत्र यतिभङ्गः शास्त्रत्वेन समाधेयः । एवमुत्तरत्रापि ।। ४३० ।।
युक्तिमल्लिका
तदाऽपीशतनोस्साक्षात्कारं वा वक्ति वाग्घि सा ।
अर्थद्वयं यतो वाक्यस्यास्य श्लोक्यं बुधैस्सदा ।। ४३१ ।।
सुरोत्तमटीका
श्रुतेरर्थान्तरमप्याह ।। तदापीति ।। ईशतनो-श्श्रीनारायणविग्रहस्य । लभ्य इत्युक्तपरमात्मनोऽपि स्वपदेन वक्तुं शक्यत्वात् ईशतनोर्वेत्युक्तम् । विवृणुत इत्युक्तत्वान्मुक्त्यनन्तरं प्रतिबन्धकाभावेन सदा साक्षात्कारस्य सत्वादिदमुक्तम् । यतः उक्तरीत्याऽर्थद्वयस्यापि श्रौतपद-लभ्यत्वात् श्लोक्यं स्तुत्यम् ।। ४३१ ।।
सत्यप्रमोदटीका
अयं श्लोको मुक्तजीवस्येव नित्यमुक्तपरमात्मनोऽपि विग्रहसद्भावे प्रमाणमित्याह तदाऽपीति । भगवत्प्राप्तितः पश्चादपि । ईश्वरतनोरपीति वा योजना । न केवलं जीवतनोरित्यर्थः । स्वशब्दस्य समभि-व्याहृतयोः तदेतच्छशब्दार्थयोर्जीवपरयोरुभयोः परामर्शकत्वात् इत्याह अर्थद्वयमिति ।। ४३१ ।।
युक्तिमल्लिका
तनुश्शरीरमेवेयं रूपमात्रं न वै तनुः ।
घटत्वरूपे किं कश्चिद्विपश्चित्प्राह देहताम् ।। ४३२ ।।
सुरोत्तमटीका
प्रागुक्तश्रुतितोऽस्याः श्रुतेस्स्पष्टता कथमित्यत आह ।। तनुरिति ।। ४३२ ।।
सत्यप्रमोदटीका
तनुशब्दश्च शरीरवाच्येव न तु स्वरूपमात्रवाचीत्ये-तद्व्यतिरेकमुखेनाह तनुरिति ।। ४३२ ।।
युक्तिमल्लिका
स्वामित्युक्त्या तनुस्सा च स्वरूपैवेति सिद्ध्यति ।
जडान्यदेहनिर्मोक्षात्स्वीयत्वार्थो ह्यपार्थकः ।। ४३३ ।।
सुरोत्तमटीका
तनोस्स्वरूपभूतता कथमित्यत आह ।। स्वामित्यु-क्त्येति ।। स्वामित्यस्य स्वीयामित्यर्थः कुतो नेत्यत आह ।। जडान्यदेह-निर्मोक्षादिति ।। जडः अन्यः जीवाद्भिन्नो देहः तस्य निर्मोक्षान्नितरां मोचनात् । मुक्तिकाले लिङ्गशरीरस्थूलशरीरयोरुभयोरपि मोचनादित्यर्थः । स्वीयत्वार्थः अपार्थको व्यर्थः । भिन्नदेहो हि स्वीयतया वक्तुं शक्यते । तदभावात् आत्मात्मीयज्ञातिधनवाचीस्वशब्द इत्यप्राथमिकार्थत्वाच्च स्वामित्यस्य स्वरूपभूतामित्येवार्थ उच्यत इति भावः ।। ४३३ ।।
सत्यप्रमोदटीका
स्वशब्दस्य स्वकीयस्वात्मकेत्युभयार्थकत्वेऽपि अत्र स्वीयत्वार्थकत्वस्यापार्थकत्वात् स्वरूपार्थकत्वमेवेत्याह स्वामिति।। ४३३ ।।
युक्तिमल्लिका
दृङ्मात्रं जडदेहस्य किं महाकरुणाफलम् ।। ४३४ ।।
सुरोत्तमटीका
जडदेहार्थत्वे बाधकान्तरं चाह ।। दृङ्मात्रमिति ।। जड-देहस्य दृङ्मात्रं विवृणुत इति पदोक्तं दर्शनमात्रं महाकरुणायाः वृणुत इति पदोक्ताङ्गीकाराख्यमहाकरुणायाः फलं किमिति सम्बन्धः । श्रवणादि जन्यमहाप्रसादसिद्ध्युत्तरं पुनर्जडदेहस्य तद्दर्शनस्य च संसारहेतुत्वेन विरुद्ध-त्वादिति भावः ।। ४३४ ।।
सत्यप्रमोदटीका
भगवदत्यर्थप्रसादजन्याविर्भावविषयत्वाच्च न जड-देहोऽत्रार्थ इत्याह दृङ्भात्रमिति ।। ४३४ ।।
युक्तिमल्लिका
अनादिनित्यता चा(स्या)स्य व्यक्तिमात्रप्रकीर्तनात् ।
सिद्धा तेन च संसिद्धा जडान्यैव तनूरियम् ।। ४३५ ।।
सुरोत्तमटीका
विवृणुत इति व्यक्तिमात्रप्रकीर्तनात्केवलं व्यक्तेरेव कथनात् पूर्वं विद्यमानत्वसिद्ध्याऽनादित्वं विवृणुत इति व्यक्तेस्सदा वर्तमानत्व कथनान्नित्यत्वं चेति अस्य देहस्यानादिनित्यता च सिद्धेति सम्बन्धः । तेन चोक्तरीत्या सिद्धेन अनादिनित्यत्वेन च इयं श्रुत्युक्ता तनुः जडान्यैव संसिद्धेति योजना । प्रागुक्तयुक्तिसमुच्चयार्थश्चशब्दः ।। ४३५ ।।
सत्यप्रमोदटीका
आविर्भावोक्त्याऽनादित्वं क्रियासातत्यार्थकेन विवृणुत इत्यत्रत्यलटा नित्यत्वं च सुगममित्याह अनादिनित्यता चेति।। ४३५ ।।
युक्तिमल्लिका
अतश्श्रुत्यर्थतत्वज्ञास्तनुं मुक्तपरात्मनोः ।
चिदानन्दमयीं प्राहुर्न प्राहुर्जडदेहिताम् ।। ४३६ ।।
सुरोत्तमटीका
अतश्श्रौतपदपर्यालोचने सति अनादिनित्यस्वरूपभूत-देहलाभात् चिदानन्दमयीं चिदानन्दात्मकचैतन्यस्वरूपतया चिदानन्दप्रचुराम् ।। ४३६ ।।
सत्यप्रमोदटीका
श्रुत्यर्थतत्वज्ञाः स्वतनुशब्दयोरर्थविमर्शनेन तन्निश्चय-वन्तः । आनन्दमयीं आनन्दात्मिकां तत्प्रचुरां च ।। ४३६ ।।
युक्तिमल्लिका
सा च जन्मजरारोगह्रासनाशाद्यभावतः ।
न क्लेशदा तयोस्तस्मात्कथं दोषावहा वद ।। ४३७ ।।
सुरोत्तमटीका
सास्वरूपभूता तनुः । तयोर्जीवपरमात्मनोः । दोषावहा मलिनत्वसंपादिका । जडदेहवत्त्वे हि मलिनत्वरूपशबलता स्यात् । चिदानन्दात्मकदिव्यदेहवत्त्वे कथं मालिन्यम् । अन्यथा चिदानन्दशबलतयापि मालिन्यप्रसङ्गादिति भावः ।। ४३७ ।।
सत्यप्रमोदटीका
‘नानिष्टभोगस्तेन स्यात्प्राकृतक्षेत्रसम्भवः’ इति सुमध्वविजयोक्तमाह सा चेति ।। ४३७ ।।
युक्तिमल्लिका
किं तु सौन्दर्यसौरभ्यप्रभामन्दस्मितेक्षितैः ।
आलिङ्गनैरालपनैश्चित्रमाल्यानुलेपनैः ।। ४३८ ।।
परार्ध्यभूषणैर्मौक्तनृत्तवादित्रकीर्तनैः ।
भोगैश्च विविधैर्नित्यं महोत्साहावहैव हि ।। ४३९ ।।
सुरोत्तमटीका
न केवलं दोषावहा नेत्येव । किं तु मौक्तसकल-महोत्साहसंपादकत्वेन महाश्रेयस्करीचेत्याह ।। किन्त्वित्यादिना महोत्साहा-वहैव हीत्यन्तेन ग्रन्थेन ।। ४३८,४३९ ।।
सत्यप्रमोदटीका
न केवलं नानिष्टभोगः किन्तु सङ्कल्पमात्रोपनतयथेष्ट-भोगश्चेत्याह द्वाभ्यां किं त्विति ।। ४३८, ४३९ ।।
युक्तिमल्लिका
अतस्तया शबलता न विद्वज्जनसंमता ।। ४४० ।।
सुरोत्तमटीका
अतः उक्तरीत्या दोषाहेतुत्वाद्गुणसंपादकत्वाच्च ।। ४४०।।
सत्यप्रमोदटीका
अतः अनभीष्टाहेतुत्वात् अभीष्टप्रयोजकत्वाच्च । तया स्वरूपतन्वा । शबलता स्वसद्भावनिमित्तकदोषहेतुता ।। ४४० ।।
युक्तिमल्लिका
ददती शं बलं च त्वच्छबलत्वं बहिः क्षिपेत् ।
बिन्दुमात्राधिकत्वेऽपि प्रबलो दुर्बलं क्षिपेत् ।। ४४१ ।।
सुरोत्तमटीका
ज्ञानानन्दस्वरूपत्वात्स्वरूपभूतदेहेन भगवतश्शबलता नेतीममर्थं साहित्यमुद्रया च साधयति ।। ददतीति ।। शं सुखं बलं च ददती भगवतस्तनुः । अत एव शंबलरूपत्वेन शंबलशब्दवाच्या च । त्वच्छबलत्वं मायावादिना त्वयोक्तशबलत्वं बहिः भगवतो बहिः अमुक्तजीवादिषु क्षिपेदिति सम्बन्धः । पाञ्चभौतिकदेहान्जीवानेव शबलीकुर्यात् । ज्ञानानन्दमयदिव्यदेहे भगवति शबलताया अवकाशमपि न दिशेदिति भावः । तत्र लोकन्यायमाह ।। बिन्दुमात्रेति ।। बिन्दुमात्राधिकत्वेऽपि प्रबलः बिन्दुमात्रेणापि प्रबल इत्यर्थः । क्षिपेन्निराकुर्यात् । अल्पबलेनाधिकोऽपि प्रबलः तावद्बलरहितं दुर्बलं घातयेदित्यर्थः । प्रकृतेऽपि परोक्तशबलात् अस्मदुक्तरीत्या शबलरूपा भगव-त्तनुः बिन्दुमात्रेणाधिकेति तत्क्षिपेदिति साहित्यमुद्रया फलितोऽर्थः । सुखज्ञानरूपतया शबलतां वारयेदिति तत्वार्थः ।। ४४१ ।।
सत्यप्रमोदटीका
ददती तनुरित्यनुकृष्यते । स्थापयन्ती । त्वच्छबलत्वं तत्सम्बन्धनिमित्तेन त्वयाऽऽरोप्यमाणं विकारित्वम् । बहिः क्षिपेत् निराकुर्यात् । उक्तार्थं साहित्यमुद्रया रञ्जयति । बिन्दुमात्रेति । शं इत्यत्र बिन्दोरधिकवादित्यर्थः ।। ४४१ ।।
युक्तिमल्लिका
चित्रप्रकाशबलतश्शबलो वाऽस्तु नः प्रभुः ।
यतोऽस्य हासो धवलस्तनुर्नीलाऽधरोऽरुणः ।। ४४२ ।।
सुरोत्तमटीका
एवं दोषरूपां परोक्तशबलतां निराकृत्य गुणरूपां काञ्चन शबलतामङ्गीकरोति ।। चित्रेति ।। यतः परमात्मनःहासः मन्दहासः धवलश्श्वेतः तनुः नीलानीलवर्णा । अधरः अधरोष्ठः अरुणः रक्तवर्णः उपलक्षणं चैतत् । हस्तपादतलान्यरुणानि । नखानामावलिश्श्वेता । अक्षिणी पुण्डरीकवत् श्वेते । कटाक्षौ द्वौ नीलौ । तदन्तप्रदेशौ ईषदरुणौ चेत्यपि द्रष्टव्यम् । ततः चित्रप्रकाशबलतः विचित्रकान्तीनां बलतः नः प्रभुः शबलः अस्तु वेति योजना । नानावर्णतया गोरिव गौविन्दस्यापि शबलतायां न नो हानिरिति भावः । साहित्यमुद्रया परनिराकरणकौशलं स्वस्वरूपनिरूपण-कौशलं च पश्यतो भगवतः कृपया मन्दहासोऽभूदिति सूचनाय स एवादौ गृहीतः ।। ४४२ ।।
सत्यप्रमोदटीका
‘श्यामाच्छबलं प्रपद्ये’ इति भाष्योदाहृतश्रुतिसिद्धं सौन्दर्यपोषकं अप्राकृतनानावर्णसमाहारात्मकं शबलत्वं परमात्मनि पुरस्क्रियत इत्याह चित्रेति । उपपादयति ह्रास इत्यादिना अधर इत्युपलक्षणं लक्षण-शास्त्रानुसारेण पादपाणितलादीन्यपि ग्राह्याणि । तदुक्तं सुमध्वविजये ‘अरुणी-भूतमिवारुणं स्वयं’ इति । ‘शबलप्रभादिविधद्युतिमत्सुखबोधसौरभसुरूप-गुणमि’ति च ।। ४४२ ।।
युक्तिमल्लिका
नान्तं न मध्यं नैवादिं यस्यापश्यद्रणेऽर्जुनः ।
अनन्तवाहुजठरवऋनेत्रभ्रमद्भ्रुवः ।
विश्वरूपाख्यरूपस्य दृष्टस्य ज्ञानचक्षुषा ।। ४४३ ।।
अनन्तगन्धाभरणान्यनन्तकुसुमानि च ।
अतन्तान्यम्बराण्यस्य केन दत्तानि सर्वदा ।। ४४४ ।।
सुरोत्तमटीका
भगवतः अमायिकानादिनित्यदेहवत्त्वं गीतावाक्येनापि साधयति ।। नान्तमित्यादिना ।। यस्य देहस्य अस्य विश्वरूपाख्यरूपस्येति सम्बन्धः । अनेन ‘नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वरविश्वरूपेति वचनं सूचयति । अत्राद्यंतशून्यतयाऽर्जुनदृष्टभगवद्देहस्यानादिनित्यत्वं स्पष्ट-मुक्त’म् । पश्यामि देवांस्तवदेवदेह इति देहस्यैव प्रस्तुतत्वात् ‘अनन्त-बाहूदरवक्त्रनेत्रं पश्यामित्वां सर्वतोऽनन्तरूपमित्यस्य पद्यस्य पूर्वार्ध एव प्रस्तुतत्वाच्च देहस्यैवानादिनित्यत्वमुच्यते ।’ अस्य विश्वरूपदेहस्य सर्वदा केन दत्तानि । सर्वदेत्यनेन तदीयानामनन्तानां गन्धाभरणकुसुमांबरादीनामपि लक्ष्म्यात्मकतयाऽनाद्यनन्तत्वं सूचयति । अर्जुनदर्शनसमयेऽनन्तानां तेषां को वा सम्पादकोऽस्ति । अतस्तान्यप्यनन्तानि । किमुवाच्यं तदा धारदेहस्येति भावः ।। ४४३,४४४ ।।
सत्यप्रमोदटीका
उक्तार्थे स्पष्टां गीतोक्तिं प्रमाणयति । नान्तमिति अत्रोक्तं आदिमध्यान्तशून्यत्वं पूर्वप्रकृतदेहस्यैवेति स्पष्टम् । भ्रमद्भ्रुवः इति षष्ठ्यन्तं रूपस्येत्यनेन सम्बध्यते केन दत्तानि । न केनापि । दर्शनसमये सम्पादकाभावादसम्भवाच्च । किं तु लक्ष्म्यात्मकानि नित्यान्येवेत्याह सर्वदेति ।। ४४३, ४४४ ।।
युक्तिमल्लिका
सवित्री तस्य देहस्य नादितिर्नापि देवकी ।
यो दौत्यमाचरद्देहस्स एवैतादृशः किल ।। ४४५ ।।
सुरोत्तमटीका
तस्य विश्वरूपदेहस्य । तदुदरकोणे क्वचित्स्थिता अदिति र्देवकी वा न सवित्री । नन्वस्य देहस्य तत्प्रसूतत्वाभावेऽपि अवतारदेहस्य भविष्यतीत्यत आह ।। य इति ।। यो देह इति सम्बन्धः । दौत्यं दूतभावम् । अर्जुनरथसारथ्यमिति यावत् । स एव सारथ्यकारी देह एव एतादृशः किल विश्वरूपदेहः किल । किलेत्यनेन तस्यैव देहस्य विश्वरूपत्वं न तु स देहोऽन्यः अयमन्य इति रूपद्वयकल्पनम् । भारतभागवतादि-विरुद्धत्वादिति सूचयति । तेनैव रूपेण चतुर्भुजेन ‘‘सहस्रबाहो भव विश्वमूर्ते’’ इत्यस्यैव रूपस्य चतुर्भुज रूपाकारत्वस्योक्तत्वात् तद्रूपं तथैवास्ति चेत् किमर्थमियं प्रार्थना । अतस्तस्यैव रूपस्य स्थूलतां सूक्ष्मतां च स्वशक्त्या भगवान्प्रदर्शयति ।। ४४५ ।।
सत्यप्रमोदटीका
तस्य अर्जुनेन दृष्टस्य । देहस्य विश्वरूपस्य । नेति । कृत्स्नजगदाधारस्य परिच्छिन्नजननीदेहगर्भगतत्वासम्भवादिति भावः । अवतार रूपस्य अर्जुनसारथेरस्य विश्वरूपस्य चात्यन्ताभेदमाह स एवेति । सावधारण प्रत्यभिज्ञयाऽणुमात्रोऽपि भेदो नास्तीति ज्ञाप्यते ।। ४४५ ।।
युक्तिमल्लिका
अनाद्यनन्तदेहेऽस्मिन्क्व निराकारता च ते ।
दिव्यदृष्ट्यैव दृष्टोऽयं कथं मायामयो भवेत् ।। ४४६ ।।
सुरोत्तमटीका
अस्मिन्ननाद्यनन्तदेहे सति तव निराकारता क्व देहापगमे हि पराभिमतानिराकारता स्यात् । उक्तविधया देहस्यानादिनित्यत्वे तु निराकारता देशान्तरं गतेति भावः । ‘‘दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरमि’’ति वचनाद्दिव्यदृष्ट्यैव दृष्ट इत्यर्थः । मायायाः भ्रान्तदृष्टि-गम्यत्वनियमेनायं देहः कथं मायामयो भवेदित्यर्थः ।। ४४६ ।।
सत्यप्रमोदटीका
क्व कस्मिन् काले । सार्वकालीने उपगमापगमयोर-भावात् तदभावे च निराकारताशङ्काया गर्भस्रावेणैव निरासादिति भावः । मायामयत्वशङ्कामपाकरोति दिव्येति ‘दिव्यं ददामि ते चक्षुरि’ति वचनात् ।। ४४६ ।।
युक्तिमल्लिका
मायादूरत्ववाचा च नेदं मायामयं वपुः ।। ४४७ ।।
सुरोत्तमटीका
प्रागुक्तवचनान्यपि स्मारयति ।। मायेति ।। चशब्दा-द्युक्तिभिश्च ।। ४४७ ।।
सत्यप्रमोदटीका
‘मायां व्युदस्य चिच्छक्त्ये’ति प्रागुक्तप्रमाणबाधितं च मायामयत्वमिति स्मारयति मायेति ।। ४४७ ।।
युक्तिमल्लिका
अपरिच्छिन्नदेहोऽयं पार्थप्रत्यक्षगोचरः ।
परिच्छिन्नभवन्मायामयो नैवेति मे मतिः ।। ४४८ ।।
सुरोत्तमटीका
भगवद्देहस्य मायामयत्वाभावे स्मार्तयुक्त्यन्तरं चाह ।। अपरिच्छिन्नेति ।। ४४८ ।।
सत्यप्रमोदटीका
देशतोऽपरिच्छिन्नस्य न परिच्छिन्नमायोपादानकत्व-मित्याह अपरिच्छिन्नेति ।। ४४८ ।।
युक्तिमल्लिका
तत एव स सत्योऽभून्नित्यश्च परमात्मवत् ।
ब्रह्मवच्चिन्मयोऽप्यासीत्त्वन्नयान्नैव मन्नयात् ।। ४४९ ।।
सुरोत्तमटीका
तत एवापरिच्छिन्नत्वादेव । सः देहः । परमात्मवदिति दृष्टान्तः । विमतो भगवद्देहः परमार्थसत्यः सार्वकालीनतया नित्यश्चेति साध्यद्वयम् । अपरिच्छिन्नत्वात्परमात्मवदिति प्रयोगो द्रष्टव्यः । अनेनैव हेतुना प्रमेयान्तरमपि सिद्धमित्याह ।। ब्रह्मवदिति ।। त्वन्नयात्तव सिद्धान्तरीत्यैव । मन्नयादेव न । परमते ब्रह्मणोऽन्यत्रापरिच्छिन्नत्वाभावात् पररीत्यैवेदमनुमान-मिति भावः ।। ४४९ ।।
सत्यप्रमोदटीका
तत एवं देशतोऽपरिच्छिन्नत्वादेव । विमतो देहः सत्यः देशतः अपरिच्छिन्नत्वात् परमात्मवत् । नित्यश्च तत एव तद्वदेव इति प्रयोगौ ध्येयौ । ‘अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्’ । इति गीतोक्तं व्याप्तिसमर्थनं अनुसन्धेयम् । कालप्रकृत्यादिकोऽपि दृष्टान्त ऊह्यः ब्रह्मवत् । एवं विमतः देहः शुद्धचिद्रूपः अपरिच्छिन्नत्वात् ब्रह्मवत् व्यतिरेकेण प्रपञ्च-वदिति युक्त्यन्तरमप्याह ब्रह्मवदिति । परिच्छिन्नत्वं मिथ्यात्वे हेतूकुर्वता त्वयैवायं न्यायोऽभ्युपगत इति न व्यभिचारादिशङ्कावकाश इत्याह त्वन्नया-देवेति ।। ४४९ ।।
युक्तिमल्लिका
क्वानन्तसूर्यसङ्काशप्रकाशो मुक्तिदः प्रभुः ।
क्व ते तमोमयी माया यं प्रपन्नोऽपि यां तरेत् ।। ४५० ।।
सुरोत्तमटीका
भगवतः अमायिकदेहवत्त्वे पुनरपि युक्तिद्वयमाह ।। क्वानन्तेति ।। प्रकाशतमसोः परस्परविरोधादिति युक्तिरनेन सूचिता । यं परमात्मानं प्रपन्नः श्रवणमननादिना प्रपन्नः शरणं प्राप्तः यां मायां ‘‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति त’’ इति वचनात् । यदा तद्भक्तोऽपि माया-तरणसमर्थः तदा सुतरां स भगवानिति युक्तिरनेन सूचिता ।। ४५० ।।
सत्यप्रमोदटीका
किं च मायाशब्दस्य अन्धकारः अर्थः अज्ञानं वा उभयथाऽपि न देहस्य मायामयत्वमित्याह क्वेति क्व त, इति च । विमतो देहः न अन्धकारमयः तद्विरोधिप्रकाशात्मकत्वात् । तच्च ‘दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता’ इति वचनात्सिद्धम् । न अज्ञानमयः अज्ञाननिरसनहेतु-प्रपत्तिविषयत्वात् । तच्च ‘नष्टो मोहः स्मृतिर्लब्धा’ इत्यादिवचनात्सिद्धमिति भावः ।। ४५० ।।
युक्तिमल्लिका
प्रायो दग्धपटप्राया या यज्ज्ञानोदये हृदि ।
मायानिस्तरणोपायस्सोऽयं मायामयः किल ।। ४५१ ।।
सुरोत्तमटीका
युक्त्यन्तरं चाह ।। प्राय इति ।। यज्ज्ञानोदये यस्या-परोक्षज्ञानोदये या माया । मायानिस्तरणोपायस्स भगवान्स्वदर्शनमात्रेण मायां दग्धपटोपमां कुर्वन्नित्यर्थः । तया मायया मायामयः किलेत्युपहासः ।।४५१।।
सत्यप्रमोदटीका
मायानिश्शक्तीकरणहेतुज्ञानविषयत्वाच्च न माया-मयत्वमित्याह प्राय इति । जीवन्मुक्तिदशायां किञ्चिदनुवर्तमानाऽपि दग्ध-पटवन्न कार्यकरी ‘किं त्वन्यदेहाय गुणान्न वृंक्ते’ इत्युक्तेरिति भावः ।।४५१।।