पशुपक्ष्यादिरूपेण जीवा एव पृथक् स्थिताः

मुक्तौ पशुपक्ष्यादिसद्भावः

युक्तिमल्लिका

पशुपक्ष्यादिरूपेण जीवा एव पृथक् स्थिताः ।

संसृतौ व्यत्ययस्तेषां मुक्तौ तत्तत्स्वरूपता ।। ३८९ ।।

सुरोत्तमटीका

 व्यत्ययो बाह्यपश्वादिरूपेण व्यत्ययः । तेषां पशुपक्ष्यादि रूपाणां जीवानां चिदात्मकस्वाभाविकतादृशरूपाभावे घटपटस्तम्भकुड्यादिषु जडेषु नियमेनादृष्टं पशुपक्षिवृक्षलतामानुषादिरूपं स्थिरचरात्मकजीवेष्वेव कुतो नियमेन दृश्यतेऽतो जीवास्स्वभावतोऽपि तादृशा इति युक्तिमपि सूचयितुं संसृतौ व्यत्यय इत्युक्तम् । तत्तत्स्वरूपता तेन तेनाकारेण स्वरूपं येषान्ते तत्तत्स्वरूपास्तेषां भावस्तत्तत्स्वरूपता ।। ३८९ ।।

युक्तिमल्लिका

इत्यादिमानैस्तत्प्रोक्ते चर्चा युक्तिबुभुत्सया ।

अतो युक्तियुतं श्रौतं सर्वं मान्यमिति स्थितम् ।। ३९० ।।

सुरोत्तमटीका

 इत्यादिमानैरित्यादिप्रमाणवचनैः प्रोक्तोऽर्थः । तत्तस्मा-द्वचनमूलत्वाद्वचनानुग्राहकयुक्तिबुभुत्सया चर्चा न तु शुष्कचर्चेति भावः ।। ३९० ।।

सत्यप्रमोदटीका

 तत् तस्मात् । प्रोक्ते प्रकर्षेण सोपपत्तिकं वर्णिते बुभुत्सया मन्दानां बोधनेच्छया । मान्यं शुष्कतर्कत्वाभावात्

।। ३९० ।।

युक्तिमल्लिका

स्पष्टा श्रुतिश्चार्थमेनं वक्ति तच्चातुरीं शृृणु ।। ३९१ ।।

सुरोत्तमटीका

 तच्चातुरीं श्रुतिचातुरीम् ।। ३९१ ।।

सत्यप्रमोदटीका

 श्रुतिः ‘रूपं रूपं प्रतिरूपो बभूव’ इत्यादिरग्रे ‘पुरु-रूपस्य’ इत्यादिना वक्ष्यमाणा ।। ३९१ ।।

युक्तिमल्लिका

सुरधेनुद्रुमाहीन्द्रवीन्द्रनद्यादिरूपिणः ।

मुक्ताश्च पशुपक्ष्याद्याः सन्ति चेत्किं ततो गतम् ।। ३९२ ।।

सुरोत्तमटीका

 श्रुत्यर्थं वक्तुं प्रकारान्तरेण तदनुग्राहकयुक्तिस्मृत्यादिकं दर्शयति ।। सुरधेन्वित्यादिना ।। यथा पूर्वोक्तन्यायेन स्वर्गे सन्ति सर्वजन-पूज्याश्च भवन्ति ।तथा मौक्ताः मुक्तौ विद्यमानाश्च सन्ति चेत्ततः किङ्गतं न किमपीत्यर्थः।।३९२ ।।

सत्यप्रमोदटीका

 द्रुमाः उपकक्षासः इत्यादिश्रुतिसिद्धाः । अहीन्द्रेति ‘मुक्तेन्द्वहिमगुमदनाहीन्द्रदेवेन्द्रसेव्ये’ इति वायुस्तुतिनिरूपिताः । किं ततो गतमिति । न काऽपि श्रुतहानिः न वाऽश्रुतकल्पनेति भावः ।।३९२,३९३।।

युक्तिमल्लिका

निर्दुःखानन्दचिद्रूपा मुक्तास्ते चित्रयोनयः ।

मत्स्यकूर्मवराहाद्या इव निर्दोषमूर्तयः ।। ३९३ ।।

सुरोत्तमटीका

 प्राक्सामान्येत्युक्तं विशिष्यानुवदन्नाह ।। निर्दुःखेति ।। ३९३ ।।

युक्तिमल्लिका

ब्रह्मलोकाप्तचण्डालाद्यशेषप्राणिसार्थपः ।

इति नामार्थतत्त्वज्ञा मुक्तौ चेत्थं प्रचक्षते ।

स्वर्नीतगर्दभश्वादिरिति नामान्तरं किल ।। ३९४ ।।

सुरोत्तमटीका

 ब्रह्मलोकं परब्रह्मलोकं विष्णुलोकमित्यर्थः । आप्ता-स्स्वसहायेन प्राप्ता ये चण्डालाद्यशेषप्राणिनः । आदिशब्देन पश्वादिकं गृह्यते । तेषां सार्थं समूहं पातीति ब्रह्मलोकाप्तचण्डालाद्यशेषप्राणिसार्थपश्श्रीरामचन्द्रः । आप्तेत्यतीतार्थकप्रत्ययान्तप्रयोगबलादाप्त्यनन्तरमपि चण्डालादिजातिविभागोऽ-स्तीति ज्ञायते । इत्यनेन प्रकारेण यो वासुदेव सहस्रनामस्थनाम्नोऽर्थस्तं जानन्तीति तथोक्ताः । इत्थं निर्दुःखानन्दस्वरूपपशुपक्षिचण्डालादिनाना-जात्याक्रान्तत्वप्रकारेण आदिपदस्यार्थं स्पष्टतया ज्ञापयितुं रामस्यैव नामान्तरं वासुदेवसहस्रनामस्थं पठति ।। स्वर्नीतेति ।। स्वश्शब्दब्रह्मलोकशब्द-योरेकस्मिन्नेव प्रयोगाद्विष्णोरेवायं लोकः । श्वेतद्वीपं प्रति गच्छता रामेण सहैव पशुपक्ष्यादीनामपि गमनप्रसिद्धिश्च ।। ३९४ ।।

सत्यप्रमोदटीका

 नामान्तरं पूर्वोक्तात् ब्रह्मलोकेत्यादिनाम्नः अन्यत् वासुदेवसहस्रनामसु पठितम् । ताभ्यां च वैकुण्ठे चण्डालादीनां गर्दभाश्वादीनां च सद्भावः सिध्यतीति भावः ।। ३९४ ।।

युक्तिमल्लिका

विषवृक्षफलाकारा शर्कराकृतकृत्रिमा ।

धत्ते किं तिक्ततादोषं मुक्तास्ते तद्वदेव हि ।। ३९५ ।।

मुक्तेरमुक्तिता तु स्याद्दुःखे सत्येव नान्यथा ।

देहादिर्दुःखहेतुत्वाद्दुःखमित्युपचर्यते ।। ३९६ ।।

सुरोत्तमटीका

 ननु ज्ञानानन्दस्वरूपत्वेऽपि दृश्यमानाकारविकार-सद्भावात्कथं न दोष इत्यतस्तत्र दृष्टान्तमाह ।। विषवृक्षेति ।। कृत्रिमा कृतप्रतिमा ।। ३९५,३९६ ।।

सत्यप्रमोदटीका

 आकारमात्रं न दोषावहं इत्येतद् दृष्टान्तोक्त्या स्फोरयति विषेति । शर्करया निर्मिता प्रतिमा विषवृक्षाकारत्वेऽपि न स्वादुत्वस्वरूपं जहातीति भावः ।। ‘ननु विप्रतिपन्नः स्यादूर्मिमान् देहवत्त्वतः । चैत्रो यथेत्युपाधिः स्यादत्र चाशुद्धदेहिता’ इति समुध्वविजयोक्तं विविनक्ति देहादिरिति । परमात्मवदिति’ अतः शुद्धचिद्देहेन्द्रियभोग्य-सावि’ति तत्रैव समर्थितत्वादिति भावः ।। ३९५–३९८ ।।

युक्तिमल्लिका

तद्दुःखं दुःखहेतुश्च दुःखान्मुक्ते न शोभते ।

यद्दुःखात्यन्तविच्छेदं मोक्षमाहुर्विचक्षणाः ।। ३९७ ।।

सुरोत्तमटीका

 तत्तस्माद्दुःखरूपत्वाद्दुःखदायकत्वाच्च दुःखहेतुर्दुःखहेतु-भूतप्राकृतदेहादिकं च । मुक्ते मोचनं प्राप्ते मुक्तसमुदाये । यद्यस्मात् ।।३९७।।

युक्तिमल्लिका

निर्दुःखानन्ददेहस्तु यदि स्यात्परमात्मवत् ।

तच्चित्रतायामपि च किं वित्तं तव नश्यति ।। ३९८ ।।

सुरोत्तमटीका

 तच्चित्रतायां पशुपक्ष्यादिरूपेण देहचित्रतायाम् । हीनापि योनिर्नयोनित्वेन दूषणम् । विष्णोर्मत्स्यादिषु योनिषु तददर्शनात् । किन्तु दुःखदत्वेनैव । मौक्तिकहीनयोनिष्वपि नास्त्येव तदिति भावः ।।३९८।।

युक्तिमल्लिका

पुरुरूपस्य तस्येमे प्रतिरूपाः किलाखिलाः ।

श्रुतिसिद्धं ततो जीवनानारूपं न संशयः ।। ३९९ ।।

सुरोत्तमटीका

 अधुना जीवस्वरूपे वैचित्र्यसाधिकाया ‘‘रूपं रूपं प्रतिरूपो बभूव, तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते, युक्ता ह्यस्य हरयश्शता दशे’’ति श्रुतेरर्थमाह ।। पुरुरूपस्येति ।। अयं समुदायार्थः । इन्द्रः परमैश्वर्यसंपन्नः परमात्मा । प्रकृतिबन्धस्य कैरप्यनङ्गी-कारान्निर्गुणः पुरुरूपत्वाभावाच्च विष्णुरेवेन्द्रः । मायाभिस्स्वेच्छाभिस्स्वलक्ष्मी-रूपैस्सह वा पुरुरूपः पुरूण्यनन्तानि नानाविधानि च रूपाणि यस्य परमात्मनस्स तथोक्तः । ईयते प्रतिपाद्यते श्रुतिपुराणादौ ।

अस्य परमात्मनः । हरयो दुरितहरणशीलत्वाद्धरिनामानः शता नारायणादिशतमूर्तयः । दश मत्स्यकूर्मादिदशमूर्तयश्च । युक्ता ह्याकार-वैचित्र्येणायुधवैचित्र्येण च युक्ता हि । अतः पुरुरूपतयोक्त इन्द्रः परमात्मैव । तस्यैव दशरूपत्वशतरूपत्वसिद्धेः । सर्वाण्यपि रूपाणि स्वपरमैश्वर्यसामर्थ्या-देवाविर्भूतानि न तु कर्मजानि स्वयं च परमैश्वर्यसंपन्नानीति सूचनायेन्द्र इत्युक्तम् । अत एव माया चेच्छा श्रीर्वाऽत्र विवक्षिता । न तु पराभि-मताऽविद्या । परमैश्वर्यशक्तिविरोधात् । परमतेऽविद्याया एकत्वेन बहुवचन-विरोधात् । हरिशब्दोक्तानिष्टहरणसामर्थ्यविरोधाच्च । स्वच्छन्दोपात्तदेहाय तस्येच्छया त्तवपुषः कुत एव बन्ध इत्यादिप्रमाणवचनैर्भगवदवताराणां तत्तत्कालाविर्भूतस्वभक्तब्रह्मसुरभूप्रह्लादाद्यनिष्टपरिजिहीर्षया स्वभक्ताभीप्सित-पुरुषार्थादित्सा देवरिरक्षा दैत्यजिघांसादिरूपेच्छामूलं रूपस्य तां रुग्मिणीं श्रियमनन्यगतिं निरीक्ष्यया लीलया धृततनोरनुरूपरूपेति वचनानुसारेण स्वावतारैस्सहावतीर्णबहुतरश्रीश्रीरूपसहितत्वस्य न्याय्यत्वात् । लीलयेत्युक्त्या कुत एव बन्ध इति बन्धप्रतिषेधेन च बन्धकाविद्यामूलत्वस्य बाधितत्वाच्च । ‘‘दुर्गेति भद्रकालीति विजयी वैष्णवीति च । माया नारायणी वैष्णवी’’त्युक्त श्रीरूपदुर्गानामधेयपद्ये पठितत्वात् ।

महामायेत्यविद्येति नियतिर्मोहिनीति च ।

प्रकृतिर्वासनेत्येवं तवेच्छानन्तकथ्यते ।।

इतीच्छानामधेय पङ्क्तौ पठितत्वाच्च । मां संपद्रूपलक्ष्मीं मां रमां वा यापयतीति व्युत्पत्त्योभयत्रापि मायाशब्दस्य योगसम्भवाच्च । मयनिर्मितत्वेन मयसम्बन्धितया मायाशब्दवाच्यैन्द्रजालिककुविद्याया मायायुद्धविशारदेषु दैत्येषु सम्भवेन तस्मादप्यादौ विद्यमाने पुरुषे विज्ञानास्त्रेण तां मायामपास्य निमिषान्तर इति वचनान्मायानिर्हरणसमर्थविज्ञानशक्तियुक्ते भगवत्ययोगाच्च ।

पुरुषस्य तस्य परमात्मनः रूपं रूपं प्रति अस्येत्यत्रोक्तो जीवः प्रतिरूपः प्रति रूपं यस्येति व्युत्पत्त्या तद्रूपसमानरूपतया प्रतिरूपपदवाच्यः प्रतिबिम्बो बभूव । तद्बिम्बभूतं भगवद्रूपं अस्य जीवस्य प्रतिचक्षणाया परोक्षज्ञानाय । मोक्षसाधनीभूतापरोक्षज्ञानं बिम्बभूततद्रूपविषयकमेव भवेदित्यर्थः । पुरुरूपस्य हरे रूपाणि शतदशेति प्रस्ताव्य रूपं रूपमिति वीप्सया मत्स्यादि-भगवद्रूपाणामपि प्रतिरूपजीवसिद्ध्या जीवानामपि मत्स्यकूर्मवराहनरसिंह-शिंशुमाराद्याकारवत्त्वसिद्धिरिति भावः । पुरुरूपस्य पूर्णानेकरूपस्य तस्य परमात्मनः इमे जीवाः प्रतिरूपास्समानरूपाः ।। ३९९ ।।

सत्यप्रमोदटीका

 ‘रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दश’ इति श्रुत्या जीवानां प्रतिबिम्बत्वं मिथो वैचित्र्यं च साधयति । परमेश्वरस्य रूपं रूपं प्रति जीवाख्यः प्रतिरूपो भूत्वा वर्तते । तद्बिम्बरूपम् अस्य मुक्त्यर्थं साक्षात्कारविषयो भवति । स च परमेश्वरः स्वसामर्थ्येनानन्तजीवबिम्बरूपो ज्ञायते । अस्यानन्तानि हरिनामकानि रूपाणि व्यूहशः सन्तीति प्रसिद्ध-मित्यर्थः ।। ३९९ ।।

युक्तिमल्लिका

शता दशेति तद्रूपं यच्छ्रुत्यैव विवेचितम् ।

अतः स्वरूपमात्रं न रूपं मत्स्यादयो हि ते ।। ४०० ।।

सुरोत्तमटीका

 तद्रूपं बिम्बभूतरूपम् । यद्यस्मात्ते रूपपदोदिता ।। ४०० ।।

सत्यप्रमोदटीका

 पुरुशब्दो बहुत्ववाची न त्वेकस्मिन्नेव पूर्णत्वरूप-धर्मवाची । श्रुत्यैव शता दशेति विवरणात् इत्याह शता इति । ‘शब्दो बहुत्ववचनः शतमिति’ इति महा.ता.निर्णयोक्तेः । अत्र च बहुत्वम् अनन्तत्वमेव ।। ४००–४०१ ।।

युक्तिमल्लिका

कथं स्वरूपमात्रस्य शतता दशता तव ।

तत्पुरुत्वं न पूर्णत्वं बहुतैव भवेद्ध्रुवम् ।। ४०१ ।।

सुरोत्तमटीका

 तव मते ब्रह्मण एकत्वाङ्गीकारादिति भावः । तत्तस्मात् ।। ४०१ ।।

युक्तिमल्लिका

रूपं रूपं चेति वीप्सा जुगुप्सा च न चेद् भवेत् ।

मत्स्यकूर्मादिरूपाणां प्रतिरूपाश्च तादृशाः ।

कथं न वाच्या धीमद्भिः प्रतिशब्दार्थवेदिभिः ।। ४०२ ।।

सुरोत्तमटीका

 तादृशाः मत्स्यकूर्मादीनामाकारसदृशाकारवन्तः ।।४०२।।

सत्यप्रमोदटीका

 जुगुप्सेति । एकत्वे वीप्साया अयोगादिति भावः । प्रतिरूपशब्दस्यार्थः तादृशा इति । तदधीनत्वे सति तेन किञ्चित्सदृशा इत्यर्थः। अनेन मुक्तानां प्रतिबिम्बत्वात् बिम्बभूतमत्स्यादिभगवद्रूपसदृशाकारता स्वत एव सिद्धेत्याह कथमिति ।। ४०२–४०३ ।।

युक्तिमल्लिका

तत्तद्रूपापरोक्ष्येण मोक्षस्तेषां भवेत्किल ।

प्रतिपत्त्याऽपरोक्ष्यं हि प्रतिचक्षणमुच्यते ।। ४०३ ।।

सुरोत्तमटीका

 अन्यथा प्रतिपदवैयर्थ्यं स्यात् ।। ४०३ ।।

युक्तिमल्लिका

तदस्येति श्रुतौ प्रोक्तं जीवस्य परमस्य च ।

द्रष्टृदृश्यात्मकं रूपद्वयं तत्पारमार्थिकम् ।

यन्मोक्षदप्रमारूपसाक्षात्कारस्य गोचरः ।। ४०४ ।।

सुरोत्तमटीका

 तत्तस्मात् । एतदेव विवृणोति ।। यदिति ।। यद्यस्मात् ।। ४०४ ।।

सत्यप्रमोदटीका

 गोचरः परमात्मा । आश्रयः जीवः इत्येतदप्युप-स्कर्तव्यम् । तेनोभयोरपि पारमार्थिकत्वस्य सिद्धिः ।। ४०४ ।।

युक्तिमल्लिका

मोक्षं प्रत्यपरोक्षं च यतस्तत्प्रतिचक्षणम् ।

अर्थं प्रत्येव दृष्टिश्च यतोऽभूत्प्रतिचक्षणम् ।

अतो यथार्थज्ञानार्था प्रतिचक्षणवागियम् ।। ४०५ ।।

उद्देश्यता कथं नोचेदनुद्देश्यभ्रमे सताम् ।

तादर्थ्ये हि चतुर्थीयमनर्थे सा कथं वद ।। ४०६ ।।

सुरोत्तमटीका

 प्रतिचक्षणपदेन प्रतिचक्षणमित्युक्तेऽपि मोक्षस्य कथं लाभ इत्यतो योग्यतयेत्याह ।। मोक्षमिति ।। तच्छ्रुत्युक्तम् । यथार्थज्ञान-विषयत्वेनापि द्रष्टृदृश्यरूपयोस्सत्यत्वं प्रतिचक्षणपदार्थपर्यालोचनयैवाया-स्यतीत्याह ।। अर्थमिति ।। प्रकारान्तरेणापि सम्यग्ज्ञानमानयति ।। उद्देश्येति ।। ४०५,४०६ ।।

सत्यप्रमोदटीका

 अर्थं पुरुषार्थोत्तमं मोक्षम् । प्रति उद्देशीकृत्य । मोक्षस्योद्देश्यत्वेनैव तद्धेतुज्ञानस्यापि तत्सिद्धमित्याह उद्देश्यतेति । अनर्थे अनुद्देश्ये ।। ४०५,४०६ ।।

युक्तिमल्लिका

ऐश्वर्यवान्किलेन्द्रोऽसौ सद्गुणो न तु निर्गुणः ।

अतो मायापदं चास्य माहात्म्यान्येव शंसति ।। ४०७ ।।

सुरोत्तमटीका

 अत इन्द्रपदवाच्यस्याप्यस्यैश्वर्यादिगुणभरितत्वात् मायायाः परमते निर्गुणचिन्मात्राश्रितत्वाच्च । अस्येन्द्रपदवाच्यनारायणस्य । माहात्म्यपदमिच्छालक्ष्म्योरप्युपलक्षणम् । मयटः प्राधान्येऽनुशासनान्महिमापि मायेति भावः ।। ४०७ ।।

सत्यप्रमोदटीका

 ऐश्वर्यवान् षड्गुणैश्वर्यवान् । अत एव सर्वज्ञः । माहात्म्यानि सविशेषाभिन्नानि । अतो बहुवचनोपपत्तिः । तेन सर्वज्ञत्वात् नास्याज्ञानश्रयत्वम् । ‘अज्ञताऽखिलसंवेत्तुर्घटते न कुतश्चने’ति भगवत्पादोक्तेः ।। ४०७ ।।

युक्तिमल्लिका

बहुत्वार्थविभक्त्यर्थो मायैका ते कथं वद ।

कथं मायाख्यदोषः स्यात्परमेश्वरताऽऽश्रये ।

न हि मायामयं रूपं प्रमागोचरतां व्रजेत् ।। ४०८ ।।

सुरोत्तमटीका

 पराभिलषितमायाया अग्रहणे निमित्तान्तरं चाह ।। बहुत्वेति ।। इतोऽपि न मायाऽविद्येत्याह ।। कथमिति ।। प्रतिचक्षण-पदोक्तप्रमागोचरत्वाद्ययोगाच्च न मायामयं तद्रूपमित्याह ।। न हीति ।।४०८।।

सत्यप्रमोदटीका

 ते अज्ञानैकत्ववादिनः । ज्ञानस्य प्रमात्वाच्च न तद्विषयस्य मायामयत्वसम्भव इत्याह नेति ।। ४०८ ।।

युक्तिमल्लिका

शता दशेति कथनादिन्द्रो नायं पुरन्दरः ।

परमेश्वरता मुख्या न यन्नश्वरसंपदि ।। ४०९ ।।

सुरोत्तमटीका

 इन्द्रपदस्य प्रसिद्धेन्द्रपरत्वायोगे युक्तिद्वयमाह ।। शता इति ।। ४०९ ।।

सत्यप्रमोदटीका

 नायमिति । पुरन्दरस्य बहुत्वाभावात् । नित्यत्व-परमत्वयोः तस्यैश्वर्येऽभावाच्चेत्यर्थः ।। ४०९ ।।

युक्तिमल्लिका

युक्ता हीति सुयुक्तीनां विद्वत्सिद्धेश्च कीर्तनात् ।

संशयोऽस्मिन्समस्तेऽर्थे कार्यो नार्यैः कदाचन ।। ४१० ।।

सुरोत्तमटीका

 हिशब्देन विद्वत्प्रसिद्धेरिति द्रष्टव्यम् ।। ४१० ।।

सत्यप्रमोदटीका

 कीर्तनात् क्रमेण युक्ता इति हि इति पदेन च ।। ४१० ।।