नापि प्रमाया जनको दोषाभावो गुणोऽपि वा
उत्पत्तौ स्वतस्त्वसमर्थनम्
युक्तिमल्लिका
नापि प्रमाया जनको दोषाभावो गुणोऽपि वा ।
असल्लिङ्गपरामर्शाद्यतो यादृच्छिकानुमा ।। ४११ ।।
सुरोत्तमटीका
उत्पत्तावपि प्रामाण्यस्वतस्त्वं समर्थयितुमारभते ।। नापीति ।। कुतो नेत्यत आह ।। असल्लिङ्गेति ।। असच्च तल्लिङ्गं च बाष्पा-रोपितधूमादिकं तस्य परामर्श इति विग्रहः ।। वस्तुगत्याऽधूमस्यापि तस्य वह्निव्याप्यधूमवानित्येव परामृश्यमानत्वाल्लिङ्गपरामर्श इत्युक्तम् । यादृच्छि-कानुमा । प्रमारूपेति शेषः ।। ४११ ।।
सत्यप्रमोदटीका
‘तत्प्रामाण्यं च स्वत एव सिद्धं’ इति तत्वनिर्णये करणप्रामाण्यस्य चोत्पत्तौ स्वतस्त्वं प्रतिपादितम् । तत्र ज्ञानप्रामाण्यस्योत्पत्तौ स्वतस्त्वं तट्टीकोक्तदिशा, परतस्त्वे बाधकोक्त्या समर्थयितुं उपक्रमते नापीत्यादिना । अयमाशयः । सुधायां जिज्ञासाधिकरणे उत्पत्तौ स्वतस्त्वं ज्ञानजनकमात्राधीनजन्मत्वं इति निरुक्तम् । तत्र मात्रपदेन ज्ञानत्वावच्छिन्न-कार्यतानिरूपितकारणताश्रयव्यतिरिक्तस्य गुणस्य दोषाभावस्य च व्यवच्छेदः । तत्र अनित्यप्रमामात्रानुगतगुणः परतस्त्वसाधकः इति मन्वानाः पक्षधर-प्रगल्भादयः ग्राह्यप्रमेत्यादिना त्रेधा गुणस्वरूपं परिष्कृत्य फलतया विषय-सत्त्वमेवानुगतगुणं निरूपयन्ति । अयं च पक्षः अग्रे ‘यद्यर्थसत्ताऽत्र गुण-स्तथापि न गुणाज्जनिः’ इति (४३२) श्लोकमारभ्य निरसिष्यते । तत्र विस्तरः तर्कताण्डवे प्रमामात्रानुगतगुणभङ्गे द्रष्टव्यः । प्रमामात्रानुगत-गुणाभावेऽपि प्रत्यक्षादिप्रमासु प्रत्येकानुगतगुणैरेव परतस्त्वं सेत्स्यतीत्यपरे यज्ञपतिप्रभृतयः समास्थिताः । अनुमितिप्रमायां यथार्थलिङ्गपरामर्शस्यानुगत-गुणत्वं च वर्णयन्ति । तत्र सुधायां मात्रपदेन व्यवच्छिन्नस्य गुणस्य दोषा-भावस्य वा प्रमाजनकत्वं नोपपन्नमिति साधयितुं तावत् प्रतिजानीते नापीति । तत्र हेतुं व्यतिरेकव्यभिचारमाह असल्लिङ्गपरामर्शेति । इदमुपलक्षणम् । दुष्टार्थेन्द्रियसन्निकर्षात् यादृच्छिकी प्रत्यक्षप्रमा, विप्रलम्भकादिवाक्यात् शुकादिवाक्याद्वा यादृच्छिकी शाब्दप्रमा इत्यपि ग्राह्यम् । तथा च तदभिमत-गुणाभावेऽपि तत्तत्प्रमा सर्वत्र दृष्टेति भावः ।। ४११ ।।
युक्तिमल्लिका
सल्लिङ्गस्य परामर्शो गुणस्तेऽनुमितौ मतः ।
तदभावेऽपि जातेयमनुमा यत्प्रमापिका ।
सर्वत्र च प्रमायास्तद्गुणजत्वकथा वृथा ।। ४१२ ।।
सुरोत्तमटीका
यादृच्छिकानुमितिरूपप्रमायां गुणाभावं विशदयति ।। सल्लिङ्गस्येति ।। तदभावेऽपि सल्लिङ्गपरामर्शाभावेऽपि यत्प्रमात्मिकेयमनुमा जातेति सम्बन्धः । तत्तस्मात् सर्वत्रापि प्रमाया गुणजन्यत्वकथा वृथेति सम्बन्धः ।। ४१२ ।।
सत्यप्रमोदटीका
एवं व्यतिरेकव्यभिचारात् प्रमायां न गुणः कारणमिति द्वाभ्यां विशदयति सल्लिङ्गस्येत्यादिना । बाष्पारोपितधूमेन जायमानायां यादृच्छिक्यां वह्न्यनुमितौ न विद्यमानलिङ्गस्य परामर्शोऽस्तीति भावः।।४१२।।
युक्तिमल्लिका
यो धर्मो व्यतिरेकेण व्यभिचारी स कार्यकृत् ।। ४१३ ।।
सुरोत्तमटीका
तदुपपादयति ।। य इति ।। धर्मो गुणरूपः व्यतिरेकेण व्यभिचारी । गुणाभावेऽपि प्रमोदयादिति भावः । स गुणः । कार्यकृत् प्रमारूपकार्यकृत् । कुत इत्यत आह ।। कारणमिति ।। यस्मात्कारणमन्वयि व्यतिरेकि चेति सम्बन्धः ।। ४१३ ।।
सत्यप्रमोदटीका
व्यतिरेकव्यभिचारेऽपि गुणस्य कुतो न प्रमाकारणत्व-मित्यतः कारणताग्राहकप्रमाणवैधुर्यादिति वक्तुं तत्प्रमाणमाह यस्मादिति ।। अन्वयि व्यतिरेकि चेति । अन्वयव्यतिरेकलिङ्गगम्यमित्यर्थः । न तु अन्वयव्यतिरेकवत्त्वमात्रम् । तदुक्तं शक्तिसद्भावसमर्थनावसरे सुधायां ‘ततोऽन्वयव्यतिरेकसमधिगम्यमतीन्द्रियमेव किञ्चिन्मृदादीनां घटादिकारणत्व-मभ्युपगमनीयमि’ति ।। तथा चान्वयव्यतिरेकवत्त्वरूपमनन्यथासिद्धनियत-पूर्ववृत्तित्वमेव न कारणत्वम् । किं तु तदनुमेयम् । विस्तरस्तर्कताण्डवे शक्तिवादे ।। ४१३ ।।
युक्तिमल्लिका
दण्डे सति घटाभावादन्वयस्य निरूपणम् ।
यस्मिन्सत्येव यदिति प्राज्ञाः प्राहुर्विवेकिनः ।। ४१४ ।।
सुरोत्तमटीका
नन्वन्वयनिरूपणं कथमित्यत आह ।। दण्ड इति ।। दण्डे सति घट इति नान्वयः । दण्डे सत्यपि घटाभावात् । किं त्वन्वयस्य-निरूपणं यस्मिन्सत्येव यत्तत्तस्य कारणमित्यन्वय निरूपणं विवेकिन आहुरिति सम्बन्धः ।। ४१४ ।।
सत्यप्रमोदटीका
ननु यदुक्तं अनन्यथासिद्धनियतपूर्ववृत्तित्वरूपान्वय-व्यतिरेकवत्त्वलिङ्गेन कारणत्वमनुमेयमिति न तद्युक्तम् । अप्रामाण्यस्य परतस्त्ववादिना दोषस्य भ्रमकारणत्वं स्वीकृतम् । तच्च, दोषः भ्रमकारणं भ्रमनिरूपितान्वयव्यतिरेकवत्त्वात् इत्यनुमातव्यम् । न च तत्सम्भवति । यादृच्छिकसंवादिप्रमास्थले उक्तरूपलिङ्गाभावेनासिध्द्यापत्तेः । दोषसत्त्वे भ्रमसत्त्वं इति खलु भ्रमनिरूपितान्वयवत्त्वं दोषस्य वाच्यम् । न च तत्तत्र सम्भवति । दोषसत्त्वेऽपि यदृच्छया प्रमाया एवोदयेन भ्रमानुत्पादात् । अतोऽन्वयव्यतिरेकाभ्यां कथं कारणत्वानुमानमिति चेत् । स्यादेतदेवं यदि त्वदुक्तं अन्वयस्वरूपनिरूपणं उपपन्नं स्यात् । तथा सति दण्डस्यापि घटकारणत्वाभावप्रसङ्गादित्याह दण्ड इति । तर्हि निर्दोषोऽन्वयनिरूपणप्रकारः कीदृश इत्यत आह यस्मिन् सत्येवेति ।। ४१४ ।।
युक्तिमल्लिका
दण्डे सत्येव हि घटो दण्डाभावे न कुत्रचित् ।
अतोऽन्वयोक्तिर्मान्यैवं नान्यथा व्यभिचारतः ।। ४१५ ।।
सुरोत्तमटीका
तच्चोपपन्नमित्याह ।। दण्ड इति ।। दण्डाभावे कुत्र-चित्क्वापि घटो नेति सम्बन्धः । अतः यत एवमुक्ते न व्यभिचारः अत इत्यर्थः । एवं यस्मिन्सत्येवेत्युक्तरीत्या । अन्यथा यस्मिन्सति यदित्यन्वयोक्तिः व्यभिचारतो नेति सम्बन्धः ।। ४१५ ।।
सत्यप्रमोदटीका
अयमेव प्रकारो निर्दोषतया मान्य इत्याह दण्ड इति ।। ४१५, ४१६ ।।
युक्तिमल्लिका
दण्डे सत्यापि मृत्पिण्डाद्यभावे यद्घटोऽपि न ।
रासभे सत्यपि घटो जायते च स्वकारणात् ।। ४१६ ।।
सुरोत्तमटीका
व्यभिचारमेव विशदयति ।। दण्ड इति ।। दण्डेसति घट इत्यन्वयस्य कारण एव दण्डेऽभावात् अन्वयभङ्गरूपो व्यभिचार इत्यर्थः । एतादृशान्वयस्याकारणे रासभेऽपि सत्त्वात् अलक्ष्यगमनरूपव्यभिचारोऽ-पीत्याह ।। रासभ इति ।। सत्यपि रासभे घटस्स्वकारणान्मृदादेर्जायते चेति सम्बन्धः । तस्माद्यस्मिन्सति यत्तत्तस्य कारणमित्यन्वयस्य निरूपणं रासभेऽतिप्रसक्तमिति भावः ।। ४१६ ।।
युक्तिमल्लिका
अतोऽत्र दोषे सति च भ्रमाभावो न दूषणम् ।
दोषे सत्येव तु भ्रान्तिरिति सोऽपि यतोऽवयी ।। ४१७ ।।
सुरोत्तमटीका
अस्तु यस्मिन्सत्येव यदित्यन्वयनिरूपणं तथापि प्रकृते किमागतमित्यत आह ।। अत इति ।। यतोऽन्वयनिरूपणमेव मत इत्यर्थः । अत्र यादृच्छिकप्रमायां सति च सत्यपि भ्रमाभावः भ्रमलक्षणकार्याभावो न दूषणं दोषस्य भ्रमान्वयघातकं नेत्यर्थः । सोऽपि दोषोऽपि । तस्माद्दोषे सत्येव भ्रमो दोषाभावे न भ्रम इति दोषान्वयव्यतिरेकानुविधानाद्भ्रमस्य दोषजन्यत्वं सिद्धमिति भावः । गुणस्यतु सल्लिङ्गपरामर्शस्य यादृच्छिक प्रमारूपानु-मितावभावेन गुणे सत्येव प्रमेत्यन्वयस्य गुणाभावे प्रमाभाव इति व्यतिरेकस्य चाभावेन प्रमाया गुणजन्यत्वं भग्नमित्यपि द्रष्टव्यम् ।। ४१७ ।।
सत्यप्रमोदटीका
अत इति । अन्वयप्रकारस्येवंरूपत्वात् । दोषस्य भ्रमकारणत्वानुमाने भ्रमनिरूपितान्वयवत्त्वरूपहेत्वंशस्यासिद्धिः परिहृतेत्याह नेति ।। परिहारमुपपादयति सत्येवेति । एवकारपुरस्सरं व्याप्तिप्रदर्शनेन पूर्वं निर्दिष्टस्य व्यापकत्वावगमेन यत्र भ्रमः तत्र दोष इति व्याप्तिस्वरूपप्राप्तेः यादृच्छिकप्रमास्थले भ्रमस्यैवाभावेन निदर्शितान्वयव्याप्तिव्यभिचारस्याप्रसङ्गात् नान्वयवत्त्वरूपहेत्वंशस्यासिद्धिशङ्काप्रसर इत्याशयः । एतेन प्रमां प्रति गुणस्य कारणत्वमपि निरस्तम् । तत्रापि यत्र प्रमा तत्र गुण इत्येवान्वयस्य वक्त-व्यत्वेन यादृच्छिकप्रमास्थले च गुणाभावेनान्वयव्यभिचारः स्फुटः । अतोऽ-न्वयवत्त्वरूपलिङ्गाभावान्न कारणत्वानुमानं सम्भवतीति ध्येयम् ।। ४१७ ।।
युक्तिमल्लिका
एवं च ज्ञानसामग्य्रां सत्यामेव प्रमा भवेत् ।
तदभावे तु न भवेदित्येवालं ममापि हि ।। ४१८ ।।
सुरोत्तमटीका
एतेनान्यदपि सिद्धमित्याह ।। एवं चेति ।। तदभावे ज्ञानसामग्य्रभावे न भवेत् । प्रमेत्यनुवर्तते । ममापि मत एवमेवान्वयव्यतिरेक निरूपणमलं हीति सम्बन्धः ।। ४१८ ।।
सत्यप्रमोदटीका
ज्ञानजनकमात्राधीनजन्मत्वं स्वतस्त्वं इति सुधोक्तं निर्वचनमप्यनेनैव समाहितमित्याह एवं चेति । ननु प्रमात्वस्य ज्ञानसामान्य-सामग्रीप्रयोज्यत्वं खलु एतेन निर्वचनेनाभिप्रेतम् । भ्रमस्थले दोषस्याधिकस्य विद्यमानत्वेऽपि ज्ञानसामान्यसामग्री तावदविकला । तत्र कुतो न प्रमोत्पत्तिः । यदि दोषप्रतिबन्धान्न प्रमा तर्हि ज्ञानमपि सा न स्यात् । ज्ञानत्वप्रमात्वयोरेकसामग्रीप्रयोज्यत्वादेकांशे प्रतिबन्धेऽपरांशेऽपि तथात्वात् । मैवम् । स्यादेतदेवं यदि ज्ञानसामान्यसामग्य्रां सत्यां प्रमेत्येवान्वयस्वरूप-निरूपणं भवेत् । न तदस्ति । किं नामोक्तदिशा ज्ञानसामान्यसामग्य्रां सत्यां एव प्रमा इत्येव । न चैवं सति पूर्वोक्तातिप्रसङ्गः प्रसरतीति भावः । तदेतदाह आक्षेपो निर्निबन्धन इति ।। ४१८, ४१९ ।।
युक्तिमल्लिका
तस्माद्भ्रमस्य सामग्य्रां प्रमासामग्य्रपि प्रमाम् ।
सामान्यरूपां कुर्यादित्याक्षेपो निर्निबन्धनः ।। ४१९ ।।
सुरोत्तमटीका
तस्मादिति ।। यस्माज्ज्ञानसामग्य्रां सत्यामेव प्रमा तदभावे तदभाव इत्यन्वयव्यतिरेकनिरूपणं तस्मादित्यर्थः । भ्रमस्य सामग्य्रां ज्ञानसामान्यसामग्रीरूपप्रमासामग्य्रपि सामान्यरूपां प्रमाम् । आक्षेपो निर्निबन्धनः । तस्मिन्सति तदित्यन्वयस्यानिरूपणादिति भावः ।। ४१९ ।।
युक्तिमल्लिका
सुहृद्भावेन पृच्छन्तं प्रति तु प्रतिबन्धिका ।
एका फलबलात्तत्र नापरेत्युत्तरं वदेत् ।। ४२० ।।
सुरोत्तमटीका
भ्रमसामग्य्रां ज्ञानसामान्यसामग्रीरूपप्रमासामग्य्रा अपि सत्त्वात्कथं प्रमारूपकार्याभाव इति सुहृद्भावेन पृच्छामीति चेत्तत्राह ।। सुहृद्भावेनेति ।। एका भ्रमसामग्री फलबलात् प्रमानुत्पादलक्षणफलबलात् । प्रतिबन्धिका प्रमोत्पत्तेः प्रतिबन्धिका । अपरा भ्रमसामग्रीप्रविष्टप्रमासामग्री प्रतिबन्धिका प्रमोत्पत्तिप्रतिबन्धिका नेत्युत्तरं वदेदित्यर्थः ।। ४२० ।।
सत्यप्रमोदटीका
नन्वेवं सति तत्र प्रमासामग्य्राः सत्त्वेऽपि दोषरूप-प्रतिबन्धकवशान्न प्रमोत्पत्तिरित्युक्तं स्यात् । न च तद्युक्तम् । तथा सति ज्ञानोत्पत्तिरपि न स्यादित्युक्तो दोषः इत्यत आह फलबलादिति । अय-माशयः। प्रतिबन्धकत्वं हि सर्वत्र फलबलादेव कल्प्यम् । नायमस्ति नियमो यत्कारणनिष्ठशक्त्योरेकांशस्य प्रतिबन्धेऽपरस्यापि स इति । मणिनाऽग्निनिष्ठाया दाहशक्तेः प्रतिबन्धेऽपि तन्निष्ठायाः प्रकाशनशक्तेरप्रतिबन्धात् । एवमत्रापि दोषेण प्रमात्वजननशक्तिप्रतिबन्धेऽपि न ज्ञानत्वजननशक्तिप्रतिबन्धः । न हि तयोरेकशक्तिप्रतिबन्धकप्रतिबध्यत्वमपि स्वतस्त्वान्तर्गतम् । अतिप्रसङ्ग-परिहारस्तु अनुभवसिद्धफलबलादेवेति भावः ।। ४२० ।।
युक्तिमल्लिका
यादृच्छिके यदृच्छैव भ्रमस्य प्रतिबन्धिका ।
दोषस्य जागरूकत्वात्तद्रोधे तदपेक्षणम् ।। ४२१ ।।
सुरोत्तमटीका
एवं तर्हि यादृच्छिकसंवादिप्रमायां विद्यमाना भ्रमसामग्री कथं न प्रमोत्पत्तिप्रतिबन्धिकेत्यत आह ।। यादृच्छिक इति ।। भ्रमस्य भ्रान्तेः । भ्रमकारणदोषस्य चेत्यपि द्रष्टव्यम् । यदृच्छाप्रतिबद्धोदोषः भ्रमं जनयितुं प्रमां प्रतिबद्धुं च नाशक्नोदिति भावः । अत एवात्र यदृच्छापेक्षण-मित्याह ।। दोषस्येति ।। जागरूकत्वात् विद्यमानत्वादिति यावत् । तद्रोधे दोषशक्तिप्रतिरोधे तदपेक्षणं उत्तेजके सति मणिशक्तिप्रतिबन्धेन दाहवदत्रापि प्रमोत्पत्तेरिति भावः । तथा च यादृच्छिकप्रमायां दोषस्याप्रतिबन्धकत्वान्न तदभावापेक्षणमिति भावः ।। ४२१ ।।
सत्यप्रमोदटीका
यदुक्तं दोषः प्रमात्वांशस्य प्रतिबन्धक इति न तद्युक्तम् । यादृच्छिकप्रमास्थले सत्यपि दोषे प्रमोत्पत्तिदर्शनादित्यत आह यादृच्छिक इति । तत्र यादृच्छिकस्य विषयसत्त्वस्योत्तेजकत्वेनोत्तेजका-भावविशिष्टस्य प्रतिबन्धकस्याभावात् । न हि मन्त्रसमवधाने मणिर्दाहं प्रतिबध्नातीति भावः ।। ४२१ ।।
युक्तिमल्लिका
प्रमासामग्य्रेव शक्ता स्वफलं साधयेत्तदा ।
अतो यादृच्छिकी साऽभूत्तन्मात्रे तदपेक्षणात् ।। ४२२ ।।
सुरोत्तमटीका
तदा प्रमासामग्य्रेव ज्ञानसामग्रीरूपप्रमासामग्य्रेव शक्ता प्रमोत्पादने सहजशक्तिमती स्वफलं प्रमालक्षणस्वकार्यं साधयेदित्यर्थः । एतदेव विशदयति ।। अत इति ।। यतो यादृच्छिकप्रमायामेव यदृच्छापेक्षाऽत इत्यर्थः । सा दोषे सत्यपि जायमानाप्रमा । तन्मात्रे तादृशमात्रे । तद-पेक्षणात् । यदृच्छापेक्षणात् ।। ४२२ ।।
सत्यप्रमोदटीका
तदा उत्तेजकेन प्रतिबन्धकशक्तेः कुण्ठनदशायाम् ।। ४२२ ।।
युक्तिमल्लिका
अन्यत्र सापि नापेक्ष्या गुणात्तत्क्व प्रमोदयः ।। ४२३ ।।
सुरोत्तमटीका
अन्यत्र यादृच्छिकप्रमाया अन्यत्र घटपटादिप्रमास्विति यावत् । साऽपि यदृच्छाऽपि । एतेन यदृच्छाया अपि प्रमामात्रेऽनपेक्षणात् न तस्याः प्रमाजनकगुणत्वमिति सूचयति । तत्तस्मात् दोषाभावस्य गुणस्य चोक्तरीत्या व्यभिचारेण प्रमाकारणत्वायोगात् यदृच्छायाः क्वाचित्कत्वेन गुणत्वायोगात् क्व गुणात्प्रमोदय इति सम्बन्धः ।। ४२३ ।।
सत्यप्रमोदटीका
ननु यादृच्छिकप्रमास्थले विषयसत्त्वस्योत्तेजकत्वाङ्गी-कारोऽयुक्तः । विषयसत्त्वस्य सार्वत्रिकत्वेन तस्यैव प्रमायां गुणत्वसम्भवात् स्वतस्त्वहानेरित्यत आह अन्यत्रेति । प्रमामात्र इत्यर्थः । सा यदृच्छा विषयसत्त्वमिति यावत् । नापेक्ष्या । विद्यमानमपि विषयसत्त्वं न प्रमाजन-कतया अपेक्ष्यम् । तत् तस्मात् सल्लिङ्गपरामर्शादिकस्य वा दोषाभावस्य वा विषयसत्त्वस्य वा प्रमां प्रत्यजनकत्वात् । तदुक्तं तर्कताण्डवे अनित्य-प्रमामात्रानुगतगुणभङ्गे ‘किञ्च परतस्त्ववादिना हि विषयसत्त्वनैरपेक्ष्येण स्वत एवाप्रमाव्यावृत्तं ज्ञानकारणादधिकं किञ्चित्कारणं प्रमायां साधनीयम् । न तु ज्ञानसाधारणकारणस्यैव विषयसत्त्वविशेषणेनाप्रमाव्यावृत्तिः साधनीया । स्वतस्त्ववादिनाऽपि प्रमायां ज्ञानसाधारणकारणस्य विषयसत्त्वस्य स्वीकृतत्वेन सिद्धसाधनत्वादि’ति । अत्र ज्ञानसाधारणकारणस्येति पररीत्योक्तिरिति न्यायदीपव्याख्यायां व्यक्तम् । सुधोदाहरणेनाग्रे तत्रैव तर्कताण्डवे स्षष्टीकरणात् । तथा हि— ‘अत एव सुधायां ज्ञानजनकमात्राधीन-जन्मत्वमिति मात्रशब्देन जनकान्तरमेव निषिद्धम् । न तु विषयसत्त्वम् । तस्यातीतादिविषयकानुमित्यादिसाधारणत्वेन प्रामाण्यशरीरान्तर्गतत्वेन च तदजनकत्वादि’ति ।। प्रतिवक्ष्यति चाग्रे ग्रन्थकारोऽत्रैव विषयसत्त्वस्य गुणत्वं ‘यद्यर्थसत्ताऽत्र गुणः’ इत्यादिना ।। ४२३ ।।
युक्तिमल्लिका
यतो वह्न्यनुमा सेयं ततो धूमत्वधीबलात् ।
तज्जन्मवाच्यं नान्यस्माद्यद्धूमस्याग्निलिङ्गता ।। ४२४ ।।
सुरोत्तमटीका
ननु भवेदयं दोषाभावस्य गुणस्य च प्रमाकारणत्वाभावः । यदि बाष्पारोपितधूमज्ञानस्य यादृच्छिकवह्न्यनुमितिरूपप्रमां प्रति कारणत्वं स्यात् । तदेव कुत इत्यत आह ।। यत इति ।। यद्यपि कारणान्तराभावात् जन्यज्ञानेच कारणस्यावश्यकत्वात् धूमभ्रमजन्यत्वमनिच्छताऽपि वक्तव्यम् । तथापि युक्त्या साधनं युक्तिमल्लिकायास्स्वभाव इति द्रष्टव्यम् । यतश्चेयं यादृच्छिकप्रमारूपा वह्न्यनुमा ततो वह्न्यनुमितित्वात् । तज्जन्म वह्न्यनु-मितिजन्म । अन्यस्माद्धूमज्ञानादन्यस्मात् । तत्र हेतुः ।। यदिति ।। यद्यस्माद्धूमस्याग्निलिङ्गता तस्माद्बाष्पे धूमत्वप्रकारकज्ञानादेव तज्जनिरिति भावः ।। ४२४ ।।
सत्यप्रमोदटीका
यदुक्तं यादृच्छिकप्रमास्थले सल्लिङ्गपरामर्शाभावेऽपि वह्न्यनुमितिदर्शनेन व्यतिरेकव्यभिचारान्न गुणस्य प्रमाकारणत्वमिति परतस्त्वा सिद्धिरिति तदयुक्तम् । तत्र धूमाभासस्य वह्न्यनुमितिरूपप्रमाजनकत्व-स्यैवानङ्गीकारादिति चेत् अत्र वक्तव्यम् कुतोऽयमनङ्गीकार इति ।। धूमाभासस्य ज्ञानजनकत्वमेव नेति वा । उत्पन्नं ज्ञानं नानुमितिरिति वा । अनुमितित्वेऽपि लिङ्गान्तरादुत्पन्नेति वा । नाद्यः ज्ञानोत्पत्तेरनुभवसिद्धत्वात् । अनुभवमभिनीय दर्शयति सेयमिति । न द्वितीयः । प्रत्यक्षागमाजन्य-स्यानुमितित्वावश्यम्भावादित्याह वह्न्यनुमेति । न तृतीयः । लिङ्गान्तर-स्यानुपलम्भबाधितत्वेनादृष्टकल्पनाप्रसङ्गादित्याह नान्यस्मादिति ।। ४२४ ।।
युक्तिमल्लिका
यथाऽन्यत्र भ्रमाकारा सा धीर्धूमभ्रमादभूत् ।
तथैवेयं जनौ कोऽपि न विशेषोऽनयोर्द्वयोः ।। ४२५ ।।
सुरोत्तमटीका
प्रकारान्तरेणापि तदुपपादयति ।। यथेति ।। यथाऽन्यत्र यादृच्छिकप्रमातोऽन्यत्र वह्निभ्रमस्थल इत्यर्थः । सा धीः वह्न्यनुमितिरूपाधीः । इयं यादृच्छिकवह्न्यनुमितिरूपा प्रमा । प्रमाऽप्रमारूपयोरनयोर्द्वयोर्वह्न्यनु-मित्योरित्यर्थः । जनौ उत्पत्तौ ।। ४२५ ।।
सत्यप्रमोदटीका
ननु धूमभ्रमात्क्वचिद्वह्निभ्रमः क्कचित्प्रमा इत्येवं कार्ये वैचित्र्यं कुत इति चेत् किमुत्पत्तिप्रकारे विशेषं पृच्छसि उत ज्ञप्तौ । नाद्यः उभयोरपि असल्लिङ्गपरामर्शेनैव उत्पत्त्यनुभवेन तदभावात् । न द्वितीयः । संवादेन लिङ्गेनैकस्य प्रामाण्यं, विसंवादेनापरस्याप्रामाण्यमित्युत्तरकाले परीक्षया ज्ञप्त्युपपत्तेः । न चैवं प्रामाण्यग्रहस्य परीक्षापेक्षत्वे स्वतस्त्वहानिः । नदोषं चेत् प्रमाणं इति सामान्यतः प्रामाण्यं गृहीतवतैव साक्षिणा दोषशङ्का-निरासमात्रे परीक्षाऽपेक्षत्वेन तदनन्तरं स्वमहिम्नैव प्रामाण्यावधारणेन स्वतस्त्वस्याविकलत्वादित्येतस्य प्रमेयस्य सविस्तरं प्रागेव समर्थितत्वादित्याह यथाऽन्यत्रेत्यादिना निर्णीयते बुधैरित्यन्तेन ।। ४२५,४२६ ।।
युक्तिमल्लिका
प्रवृत्त्युत्तरकालं तु विसंवादादसौ भ्रमः ।
संवादेन प्रमा सेयमिति निर्णीयते बुधैः ।। ४२६ ।।
सुरोत्तमटीका
तर्ह्येकस्याः प्रमात्वमपरस्या अप्रमात्वं च कुतो ज्ञायत इत्यत आह ।। प्रवृत्तीति ।। असौ यादृच्छिकप्रमातिरिक्ता धूमभ्रमजन्या वह्न्यनुमितिः सेयं यादृच्छिकप्रमारूपा वह्न्यनुमितिः । अतिदूरस्थलीय-ज्ञानप्रामाण्यत्वात् प्राक्साक्षिणा प्रामाण्याग्रहणं न दोष इति भावः ।। ४२६ ।।
युक्तिमल्लिका
उत्पत्तिस्तूभयोरेकप्रकारा नात्र संशयः ।
तस्मादुक्तो गुणोऽन्यो वा कल्पनीयो न जन्मनि ।। ४२७ ।।
सुरोत्तमटीका
उभयोर्भ्रमाभ्रमयोः । सल्लिङ्गस्य परामर्श इत्यादिनोक्त-मर्थमुपसंहरति ।। तस्मादिति ।। यस्मादियं यादृच्छिकप्रमारूपा वह्न्यनुमिति-स्सल्लिङ्गपरामर्शलक्षणगुणं दोषाभावं चान्तरेण धूमज्ञानमात्रेणैवोत्पन्ना तस्मा-दित्यर्थः । उक्तो गुणस्सल्लिङ्गपरामर्शलक्षणः । अन्यो दोषाभावः । जन्मनि प्रमोत्पत्तौ न कल्पनीय इत्युक्त्या या तार्किकाणां स्वमतदुराग्रहेण गुणान्तर-कल्पना साऽपि नेति सूचयति । वह्निप्रकारिकाया अस्या धूमत्त्वप्रकारक-ज्ञानादेवोत्पत्तिसम्भवेन कल्पनाया निर्मूलत्वात् ।। ४२७ ।।
सत्यप्रमोदटीका
उपसंहरति तस्मादिति ।। अन्यो वेति । अग्रे दूषयिष्यमाणस्तार्किकैः परिकल्पितः विषयसत्वैशीप्रमेत्येवमादिरूपः ।। कल्पनीयेति । दुराग्रहमात्रमूलः न तु विचारसह इत्याशयः ।। ४२७ ।।
युक्तिमल्लिका
लिङ्गभ्रमाख्यानुमानदोष सत्येव याऽभवत् ।
दोषाभावानपेक्षैव सेयं यादृच्छिकप्रमा ।। ४२८ ।।
सुरोत्तमटीका
याऽनुमितिरूपा प्रमा सेयमिति सम्बन्धः ।। ४२८ ।।
सत्यप्रमोदटीका
मा भूद् गुणः । दोषाभाव एव प्रमां प्रति कारण-मित्यस्तु । एवमपि स्वतस्त्वहानिरेवेत्यतः प्रागुक्तौ यादृच्छिकप्रमास्थलीयौ अन्वयव्यतिरेकव्यभिचारौ मा विस्मार्षीरित्याह लिङ्गेति ।। ४२८ ।।
युक्तिमल्लिका
प्रमया नान्वयो यस्य व्यतिरेकोऽपि यस्य न ।
दोषाभावस्स कुत्रापि न प्रमां प्रति कारणम् ।। ४२९ ।।
सुरोत्तमटीका
यादृच्छिकप्रमायां दोषाभावस्यान्वयतो व्यतिरेकतश्च व्यभिचारेण अन्यत्र घटपटादिप्रमासु विद्यमानोऽपि दोषाभावो न कारण-मभूदित्याह ।। प्रमयेति ।। यस्य दोषाभावस्य प्रमया नान्वयस्सत्येव तस्मिन् प्रमेत्यन्वयो नेत्यर्थः । यस्य दोषाभावस्य च व्यतिरेकोऽपि दोषाभावाभावे प्रमाया अभाव इति व्यतिरेकोऽपि नेत्यर्थः । उभयोरपि यादृच्छिकप्रमायां व्यभिचारात् । स व्यभिचारी दोषाभावः । दोषाभाव इत्युपलक्षणम् । सल्लिङ्गपरामर्शरूपगुणस्याप्यत्रैवान्वयतो व्यतिरेकतश्च व्यभिचारात्तद्वा तादृग्वा गुणान्तरमपि न कुत्रापि कारणमिति भावः ।। ४२९ ।।
सत्यप्रमोदटीका
कारणमिति । कारणतावच्छेदकप्रतिबन्धकाभावादि-साधारणं प्रयोजकत्वमात्रमनुमतमेवेति भावः । ‘अदुष्टमिन्द्रियं त्वक्षं’ इति ब्रह्मतर्के, ‘निर्दोषार्थेन्द्रियसन्निकर्षः प्रत्यक्षम्’ इति प्रमाणलक्षणे तत्र तत्र दोषाभावापेक्षतामात्रस्योक्तत्वात् । प्रतिबन्धकाभावस्तु न कारणम् । तदुक्तं सुधायां ‘तर्हि दोषाभावः कारणमित्यायातमिति चेन्न । तथा सति उत्सर्गाभावयोः क्वाप्यभावप्रसङ्गात्’ इति । अत्र विस्तरस्तर्कताण्डवे प्रमायां दोषाभावस्य हेतुत्वभङ्गे ।। ४२९ ।।
युक्तिमल्लिका
एवं च भावाभावाख्यगुणज्ञा नैव या प्रमा ।
तत्स्वतस्त्वं महत्तत्वमित्याहुस्तत्ववादिनः ।। ४३० ।।
सुरोत्तमटीका
तस्मादुत्पत्तावपि स्वतस्त्वमेव तत्वमित्याह ।। एवं चेति ।। या प्रमा तत्स्वतस्त्वं तस्याः प्रमायाः ज्ञानसामान्यसामग्रीमात्रजन्यत्वं स्वतस्त्वं महत् युक्तियुक्तत्वेन सर्वजनैर्माननीयमित्यर्थः ।। ४३० ।।
सत्यप्रमोदटीका
उक्तमर्थं निगमयति एवमिति ।। भाव सल्लिङ्ग-परामर्शादिः । तस्यान्वयतो व्यतिरेकतश्च व्यभिचारात् दोषनिरासो-पक्षीणत्वेनान्यथासिद्धेश्च । अभावः दोषाभावः । तस्य प्रतिबन्धकाभावरूप-त्वेनाकारणत्वात् । न तदुभयजन्यत्वं प्रमाया इत्याह नैवेति ।। महत् उक्तदिशा साधकोपेतं बाधकरहितं च ।। ४३० ।।
युक्तिमल्लिका
कार्यस्यैवं व्यवस्थित्या सर्वमासीदनाकुलम् ।। ४३१ ।।
सुरोत्तमटीका
कार्यस्य प्रमारूपकार्यस्य ।। ४३१ ।।
सत्यप्रमोदटीका
सर्वं अपौरुषेयवेदप्रामाण्यादिकम् ।। ४३१ ।।
युक्तिमल्लिका
तस्यापि चोत्तरं ब्रूमो यस्तथापि दुराग्रही ।
यद्यर्थसत्ताऽत्र गुणस्तथापि न गुणाज्जनिः ।। ४३२ ।।
सुरोत्तमटीका
तथापि उक्तरीत्या गुणं विनैव प्रमायास्सम्भवेऽपि दुराग्रही स्वमतपरिरक्षणायानानुभविकमपि कञ्चिद्गुणं वक्त्याग्रहवान् तस्याप्युत्तरं ब्रूम इति सम्बन्धः । कोऽत्र कल्पितो गुणः किं च तस्योत्तरमित्यत आह ।। यद्यर्थेति ।। अत्र यादृच्छिकसंवादिप्रमायाम् । अर्थसत्ता वह्निरूपस्यार्थस्य विद्यमानता । उत्तरमाह ।। तथापीति ।। गुणादर्थसत्ताख्यत्वदुक्तगुणात् । जनिः यादृच्छिकसंवादिवह्न्यनुमितिजन्म ।। ४३२ ।।
सत्यप्रमोदटीका
प्राग्दूषितं विषयसत्त्वस्य गुणत्वं अधिकदोषोक्त्यै पुनराशङ्कते यदीति ।। दूषयति येति । विषयसत्त्वस्य प्रामाण्यशरीरान्तर्गतत्वेन न तज्जनकत्वमित्याह न गुणाज्जनिरिति । यथा चैतत्तथा सुधादिवाक्यो-दाहरणेन विवृतमधस्तात् ।। ४३२ ।।
युक्तिमल्लिका
परोक्षानुमितेर्जन्मन्यर्थो यत्ते न कारणम् ।
अन्यथा भाव्यनुमितेरसम्भवमनुस्मर ।। ४३३ ।।
सुरोत्तमटीका
कुतो न जनिरित्यत आह ।। परोक्षेति ।। परोक्षाच साऽनुमितिश्चेति विग्रहः । ते मते । अर्थः विषयः । यद्यस्मान्न कारणं तस्मान्न गुणाज्जनिरिति पूर्वेणान्वयः । परोक्षज्ञानं प्रत्यर्थस्याजनकत्वाङ्गीकारात् । अर्थस्याजनकत्वेच तत्सत्तायास्सुतरामजनकत्वमिति भावः । तदनङ्गीकारे बाधकमाह ।। अन्यथेति ।। भाव्यनुमितेः भविष्यद्वृष्ट्यादिविषयकानुमितेः । व्यापकवतिव्याप्यज्ञानमनुमितौ गुणस्सच यादृच्छिकानुमितावप्यस्तीति कश्चित् । तदप्यनेनैव निरस्तम् । साध्यवत्त्वापरपर्यायस्य व्यापकवत्त्वस्य परोक्षविषयतया जनकत्वायोगेन तज्ज्ञानस्य चात्माश्रयतया जनकत्वायोगेन व्याप्यज्ञानमात्रस्य च भ्रमसाधारण्येन जनकगुणासिद्धेः ।। ४३३ ।।
सत्यप्रमोदटीका
दोषान्तरमप्याह परोक्षानुमितेरिति । परोक्षशाब्द-बोधस्येत्यादिकमपि ग्राह्यम् । भाव्यनुमितेरिति । अतीतानुमितेः अतीतशब्द-बोधादेरित्यपि ध्येयम् । प्रत्यक्षादिप्रमास्वपि विषयसत्त्वस्य सद्भावेन त्वदुक्त-स्यानुमित्यसाधारण्यस्यायोगाच्च अप्रमायामपि विषयासत्वस्यैव दोषत्वापाता-च्चेत्यादयस्तर्कताण्डवोक्ता दोषा अप्यत्रानुसन्धेयाः ।। ४३३ ।।
युक्तिमल्लिका
नाप्यैश्वरार्थधीरत्र गुणो भवितुमर्हति ।
यद्धीत्वेनाखिले कार्ये सा हेतुर्न गुणत्वतः ।। ४३४ ।।
सुरोत्तमटीका
पक्षधरमतमाशङ्क्य दूषयति ।। नापीति ।। ईश्वर-सम्बन्धिन्यर्थधीः ईश्वरप्रमेत्यर्थः । अत्र यादृच्छिकसंवाद्यनुमितिप्रमायाम् । यद्यस्माद्धीत्वेन ईश्वरज्ञानत्वेन सा ईश्वरधीः तस्मादीश्वरप्रमाया गुणत्वेन हेतुत्वकल्पनमनुचितमिति भावः । किञ्चार्थसत्ता गुण इति वदता प्रमायां स्वस्वविषयसत्ता गुण इत्युक्तं स्यात् । तत्र च यस्य कस्यचिद्विषयस्य सत्तायां सर्वांशेनापि प्रमेत्युच्यते वा उत यावद्विषयिणी प्रमा तावतस्सर्वस्यापि सत्ता गुण इत्युच्यते वा । नाद्यः । इदमंशसत्तया रजतांशेऽपि प्रमाप्रसङ्गात् । न द्वितीयः । रजतं जानामीति भ्रमानुव्यवसाये नेदं रजतमिति बाधप्रत्ययेच प्रमयोल्लिख्यमानतया विषयस्य रजतस्य सत्ताभावेन व्यभिचारात् यत्र यत्रार्थसत्ता तत्रैव प्रमेति व्याप्तेरेकांशेन भङ्गेऽपि गुणकारणतावादस्य भग्नत्वेन तत्रैव स्वतस्त्वापरिहारात् । अगत्याऽत्रैकांशसत्तयैव सर्वांशेऽपि प्रमोदयाङ्गीकारे तदंशेन व्यभिचारापरिहारात् । भ्रमेऽप्यगत्येदमंशसत्तयैव रजतांशेऽपि प्रमोदयप्रसङ्गात् । सर्वासामपि प्रमाणां सर्वांशेनापि गुणं विनैवोदयस्य न्याय-प्राप्तत्वाच्च । तथा चेयमुभयतः पाशारज्जुः । अस्माकं तु प्रमाया गुणजन्यत्व-नियमाभावेन न सर्वत्र प्रमाया अर्थसत्तानियमापेक्षा । अत एव जगत्सत्यत्वं प्रमाविशेषेणैव साधयन्ति ।अनयैव दिशा विशेष्यनिष्ठविशेषणेन्द्रियसन्निकर्षादेः प्रत्यक्षप्रमायां गुणताऽपि निरसनीया।। ४३४ ।।
सत्यप्रमोदटीका
प्रत्यक्षादिप्रमासु प्रत्येकानुगतगुणपक्षं सल्लिङ्गपरामर्शस्य अनुमितिप्रमायां गुणत्वेनाभिमतस्य व्यतिरेकव्यभिचारप्रदर्शनेन दूषयित्वा, इदानीं प्रगल्भपक्षधराभिमतं प्रमामात्रानुगतगुणपक्षं दूषयति नापीत्यादिना । ग्राह्यप्रमा वा विशेष्यनिष्ठविशेषणज्ञानं वा अविद्यमानासंसर्गाग्रहो वा गुणः इति तदभिमतम् । तत्र ग्राह्यप्रमा नाम येन यद्ग्राह्यं तत्र तत्प्रमा । तथा च प्रमामात्रं प्रति ईश्वरनिष्ठाया ग्राह्यप्रमाया गुणत्वमिति तदाशयः । ऐश्वरार्थधीः । ईश्वरनिष्ठा ग्राह्यार्थविषयिणी प्रमा । यत् यस्मात्कारणात् । सा ईश्वरनिष्ठा प्रमा । धीत्वेन उपादानगोचरसाक्षात्कारतया । अखिले कार्ये भ्रमसाधारणं कार्यत्वावच्छिन्नं प्रति । न गुणत्वतः । अत्र हेतुरिति पूर्वोक्तं योजनीयम् । प्रमामात्रे गुणत्वेन न हेतुरित्यर्थः ।। ४३४ ।।
युक्तिमल्लिका
गुणत्वेनापि हेतुत्वे कल्पनागौरवं भवेत् ।
स्वतस्त्वेनान्यथासिद्धेः कल्पकं च न किञ्चन ।। ४३५ ।।
सुरोत्तमटीका
ननु प्रमाया गुणजन्यत्वान्यथानुपपत्त्येश्वरबुद्धेरीश्वर-ज्ञानत्वेन गुणत्वेन च कारणत्वं कल्प्यत इत्यत आह ।। स्वतस्त्वेनेति ।। स्वतस्त्वेन प्रमाया ज्ञानसामान्यसामग्रीमात्रजन्यत्वरूपस्वतस्त्वेन । कल्पक-मीश्वरज्ञानस्य गुणत्वकल्पकम् ।। ४३५ ।।
सत्यप्रमोदटीका
ननु कार्यमात्रं प्रति साक्षात्कारत्वेन हेतुरपीश्वरप्रमा प्रमां प्रति गुणत्वेनापि हेतुरस्तु को दोष इत्यत आह कल्पनेति । अत्र वक्तव्यं कुत एषा कल्पनेति । ईश्वरज्ञानस्याकारान्तरेण हेतुत्वाक्लृप्तेर्वा, प्रमात्वस्य गुणप्रयोज्यत्वलक्षणपरतस्त्वान्यथानुपपत्त्या वा । नाद्यः । साक्षात्कारत्वेन हेतुत्वस्य क्लृप्तत्वादित्युक्तत्वात् । न द्वितीयः । परतस्त्व-स्येदानीमप्यसिद्धत्वेनान्यथा सिद्धेरित्याह स्वतस्त्वेनेति । अन्योन्याश्रयान्नैवं कल्पना युक्ता । प्रामाण्यस्य परतस्त्वनिश्चये ईश्वरज्ञानस्य ग्राह्यप्रमात्व-रूपगुणत्वेन कारणत्वकल्पनम् । तत्कल्पने एव चानुगतगुणलाभेन परतस्त्व-सिद्धिः इति ।। ४३५ ।।
युक्तिमल्लिका
लिङ्गभ्रमादेव साऽभूदनुमा लैङ्गिकी यतः ।
अर्थसत्तादयस्तद्धीमानत्वस्यानुमापकाः ।। ४३६ ।।
सुरोत्तमटीका
यतोऽनुमा लैङ्गिकी लिङ्गजन्यत्वाल्लैङ्गिकीत्युच्यते । यतस्सा यादृच्छिकप्रमारूपानुमा । लिङ्गभ्रमाल्लिङ्गज्ञानात् प्रकृतापेक्षया भ्रमादित्युक्तम् । लिङ्गज्ञानादित्युपलक्षणम् । व्याप्तिज्ञानधर्मिज्ञानरूप-सामग्य्राश्चेत्यपि द्रष्टव्यम् । एवेत्यनेनार्थसत्तादिकं व्यावर्तयति । तर्ह्यर्थसत्तायाः कुत्रोपयोग इत्यत आह ।। अर्थसत्तादय इति ।। आदिपदेन संवादादेर्ग्रहणम् । तद्धीमानत्वस्य तादृशानुमितिमानत्वस्य । दूरत्वादिदोषग्रस्ततया प्राक्साक्षिणोऽपेक्षितस्येति भावः ।। ४३६ ।।
सत्यप्रमोदटीका
अर्थसत्त्वपर्यवसितमीश्वरज्ञानं प्रामाण्यशरीरान्तर्गतत्वेन न प्रामाण्यजनकम् । यादृच्छिकसंवादेन प्रमायामनुमितावपि प्रामाण्योत्पत्तिः भ्रमप्रमासाधारणया अनुमितेः व्याप्तिज्ञानादिसामग्रयैवेत्याह लिङ्गेति । तत्र हेतुमाह लैङ्गिकी यत इति । अर्थसत्ताजन्यत्वेऽनुमाया लैङ्गिकीति व्यवहारो न स्यादिति भावः । अर्थसत्तादीनां दोषशङ्कादिनिरासकत्वेन साक्षिणा प्रामाण्यावधारणे उपयोगमात्रं तु स्वीकृतम् । तावन्मात्रेण ज्ञप्तौ स्वतस्त्वाहानेरित्याह अर्थसत्तादय इति ।। ४३६ ।।
युक्तिमल्लिका
किं चार्थधीत्वतस्तस्सास्यात्तत्तदर्थेषु कारणम् ।
ज्ञानधीत्वेन च ज्ञाने न गुणोऽसौ भ्रमेऽपि यत् ।
तत्त्वदुक्तगुणोत्थाऽभूदेवमप्यनुमा न सा ।। ४३७ ।।
सुरोत्तमटीका
ईश्वरज्ञानस्य गुणत्वं प्रकारान्तरेण दूषयति ।। किञ्चेति ।। सा ईश्वरधीः । अर्थधीत्वतः इममर्थं करोमीत्यर्थज्ञानत्वतः । तत्तदर्थेषु घटपटा-द्यर्थेषु । ज्ञाने जनयितव्ये ज्ञानधीत्वेनेदं ज्ञानं करोमीति ज्ञानविषयकधीत्वेन तस्मिन्ज्ञाने कारणं स्यात् । कर्तारो हि तत्तत्कार्यमेवं सङ्कल्प्य कुर्वन्ति । अतस्सम्भावितत्वादिदं पक्षद्वयमाशङ्कितम् । असावेतादृशी ईश्वरधीरपि न गुणः प्रमाजनकीभूतो गुणो न । तत्र हेतुः ।। भ्रमेऽपीति ।। यद्यस्माज्ज्ञानं करोमीति ज्ञानधीत्वेनेश्वरज्ञानस्य कारणता भ्रमेप्यस्ति । तस्माद्भ्रमसाधारणत्वान्न गुण इति पूर्वेण संम्बन्धः उपसंहरति ।। तदिति ।। त्वदुक्तः प्रमामात्रकारणीभूतः ।।४३७।।
सत्यप्रमोदटीका
ईश्वरज्ञानस्य गुणत्वं रीत्यन्तरेणापाकर्तुं तस्य कारणत्वाकारं निर्धारयति किञ्चेति । ईश्वरः खलु घटं करोमीति सङ्कल्प्य घटं करोति । अतः तज्ज्ञानं, घटं प्रति, घटज्ञानत्वेन कारणम् । एवं पटं प्रति पटज्ञानत्वेन कारणम् । तथा च तत्तदर्थं प्रति तत्तद्विषयकज्ञानत्वेन तस्य कारणत्वं क्लृप्तम् । अस्त्वेवं किं प्रकृत इत्यत आह ज्ञानधीत्वेनेति । ज्ञानरूपकार्यं प्रति ज्ञानविषयकज्ञानत्वेन ईश्वरज्ञानस्य कारणत्वं सिद्धमित्याह ज्ञान इति । कारणमित्यत्राप्यन्वेति । अस्तु तर्हि तेनैव रूपेण प्रमां प्रति गुणत्वमित्यत आह नेति । तत्र हेतुमाह यदिति । यस्मादित्यर्थः । भ्रमेऽपीति । ज्ञानधीत्वेन कारणमिति योज्यम् । अयमाशयः । अप्रमायाः परतस्त्वसिद्ध्यर्थं यथा स्वत एव प्रमाव्यावृत्तं पित्तबाधप्रमादादिकं ज्ञान-साधारणकारणातिरिक्तं दोषरूपकारणं व्यवस्थाप्यते तथा प्रमायाः परतस्त्वं अभिलषता स्वत एवाप्रमाव्यावृत्तं ज्ञानासाधारणकारणातिरिक्तं किमपि गुणरूपकारणं व्युत्पादनीयम् । न च तव गुणाभिमतमीश्वरज्ञानं उक्त-प्रकारोपेतम् । तस्य ज्ञानसाधारणकारणत्वेनाप्रमाव्यावृत्तत्वाभावात् । तथाभूतस्यापि गुणत्वाङ्गीकारे तेनैव गुणेनाप्रमाया अपि प्रमात्वापातादिति । उपसंहरति तदिति । त्वदुक्तः कार्यमात्रं प्रति तत्तत्त्कार्यविषयकज्ञानत्वेन कारणीभूतः ईश्वरज्ञानाख्यगुणः । एवमपि न केवलं अर्थसत्ताया गुणत्वानु-पपत्तेः किन्त्वनयाऽपि रीत्या । सा यादृच्छिकप्रमा ।। ४३७ ।।
युक्तिमल्लिका
करोमीदमिदं चेति तत्तत्कार्यं करोत्यपि ।
अन्यबुध्द्याऽन्यकरणमभ्रान्तस्य कथं वद ।। ४३८ ।।
सुरोत्तमटीका
ननु ज्ञानेऽप्यर्थधीत्वेनैव कारणता । तच्च प्रमायामेव घटते न भ्रम इति मन्दाशङ्कां निराकरोति ।। करोमीति ।। इदं घटलक्षण-कार्यमिदं पटलक्षणकार्यं च करोमीति तत्तत्कार्यं घटपटलक्षणकार्यमेव करोति । अपिस्सम्भावनायाम् । अन्यबुद्ध्या अर्थं करोमीत्यर्थबुद्ध्या अन्यकरणमन्यस्य ज्ञानस्य करणमभ्रान्तस्येश्वरस्य कथं स्यात् । अतो ज्ञानधीत्वेनैव ज्ञानं करोति । स च भ्रमसाधारणत्वान्न गुण इति भावः । ननु प्रमां करोमीति धीः प्रमायां गुणः । स च भ्रमे नास्तीति चेत् तर्हि भ्रमं करोमीति धीः भ्रमे गुणः । स च प्रमायां नास्तीति सममतो यत्किञ्चिदेतत् ।। ४३८ ।।
सत्यप्रमोदटीका
ईश्वरज्ञानस्य कार्यमात्रं प्रति पूर्वोक्तं कारणत्वप्रकारं व्याप्तिदर्शनेन समर्थयति करोमीति ।। इदमिदमिति तत्तदिति च वीप्सया व्याप्तेरव्यभिचारमाह । विपक्षे ईश्वरस्य भ्रान्तत्वापत्तिप्रसङ्गेन नाप्रयोजकतेत्याह अन्यबुद्ध्येति ।। तथा च ज्ञानरूपकार्यं प्रति ज्ञानविषयकज्ञानत्वेनैवेश्वर-ज्ञानस्य कारणत्वम् । तस्य चाप्रमासाधारण्यान्न गुणत्वमिति फलितम् ।। ४३८ ।।
युक्तिमल्लिका
गुणानपेक्ष एवासौ भ्रमं कुर्यात्किल प्रभुः ।
गुणैः किल प्रमां कुर्यान्न स्वतन्त्रेऽन्यतन्त्रता ।। ४३९ ।।
सुरोत्तमटीका
ननु प्रमायां कल्प्यमानगुणस्य भ्रमे सम्भवेऽपि तद-नपेक्षयैव भ्रमं कुरुते । प्रमांतु न तथेति फलबलात्कल्प्यत इति परस्याशङ्का-मनूद्य सोपहासं दूषयति ।। गुणानपेक्ष इति ।। असौ प्रभुः गुणानपेक्ष एव भ्रमं कुर्यात्किल । गुणैः प्रमां कुर्यात्किल । किलेत्यनेन फलस्य स्वतस्त्वेना-न्यथोपपत्तिरूपमस्वारस्यं सूचयति । दोषान्तरं चाह ।। नेति ।। स्वतन्त्रे ईश्वरेऽन्यतन्त्रता गुणफलादितन्त्रता नेति सम्बन्धः ।। ४३९ ।।
सत्यप्रमोदटीका
नन्वप्रमासाधारण्येऽपि न प्रमां प्रतीश्वरज्ञानस्य गुणत्वं विरुध्यते । विद्यमानमपि भ्रमविषयकं ज्ञानमीश्वरो न भ्रमकृतावपेक्षते । प्रमाकृतौ तु तज्ज्ञानमपेक्षत इति स्वीकारादिति तार्किकाभिमतमनूद्य सोपहासं दूषयति गुणेत्यादि द्वाभ्याम् । विद्यमानस्याप्येकत्र भ्रमेऽनपेक्षा अपरत्र प्रमायामेवेश्वरेणापेक्षेत्येवं प्रकारद्वयकल्पनं तदा स्याद्यदि प्रमायाः परतस्त्वं प्रामाणिकं स्यात् । तदेव नास्ति । तव दुराशापूरणाय स्वतन्त्रस्येश्वरेच्छा न नियन्तुं शक्येति भावः ।। ४३९, ४४० ।।
युक्तिमल्लिका
भ्रमज्ञानं यथा कुर्यात्प्रमां कुर्यात्तथैव हि ।
द्विप्रकारतया कर्तुं किं स तार्किककिङ्करः ।। ४४० ।।
सुरोत्तमटीका
तद्विशदयति ।। भ्रमज्ञानमिति ।। यथा गुणं विनैव भ्रमरूपं ज्ञानं कुर्यात् तथा गुणं विना प्रमामपि कुर्याद्धीति सम्बन्धः । स ईश्वरो द्विप्रकारकतया तार्किकाभिलषितप्रकारद्वयघटिततया कर्तुं तार्किककिंकरः किम् । नेति सम्बन्धः ।। ४४० ।।
युक्तिमल्लिका
अर्थप्रमा यदि गुणः प्रमायामैश्वरीर्यते ।
भ्रान्तार्थो रजतादिस्सन्नन्यथाख्यातिवादिनः ।
अर्थसत्ताप्रमा चैशी तद्भ्रमेऽप्यस्ति ते मते ।। ४४१ ।।
सुरोत्तमटीका
किंचार्थसत्तार्थप्रमाच तार्किकमते भ्रमेऽप्यस्ति । अतो भ्रमसाधारणत्वान्न द्वावपि गुणावित्याह ।। अर्थप्रमेति ।। यद्यैश्वरी अर्थप्रमा प्रमायां गुण इतीर्यते तर्हि । भ्रान्तार्थः भ्रान्तिविषयोऽर्थः रजतादिः रजत-सर्पादिः अन्यथाख्यातिवादिनस्तार्किकस्य मते सन्नेव । अन्यथाख्यातिवादिन इति तत्र हेतुगर्भं विशेषणम् । अन्यत्र सत एवान्यत्र ख्यातिर्ह्यन्यथाख्यातिः । तत्तस्मादर्थस्यासत्त्वाभावात् अर्थसत्ता ऐशी सर्वज्ञेश्वरसम्बन्धिनी तत्प्रमाच ते तार्किकाभिमतस्य तव मते भ्रमेऽप्यस्तीति सम्बन्धः । तेन भ्रमाभ्रमौ च त्वदुक्तगुणसञ्जातौ त्वदुक्तगुणाभ्यामर्थसत्ताऽर्थप्रमारूपाभ्यामुत्पन्नौ जातौ अभूतामिति सम्बन्धः । द्वयोर्भ्रमाभ्रमयोः । तत् प्रमात्वम् ।। ४४१ ।।
सत्यप्रमोदटीका
अतीतादिप्रमास्थलेऽभावात् प्रामाण्यशरीरान्तर्गतत्वाच्च नार्थसत्तागुण इत्युक्तम् । ऐश्वरी प्रमाऽप्यर्थसत्तापर्यवसायित्वात् भ्रम-साधारण्याच्च न गुण इति च निरूपितम् । इदानीमुभयोरपि गुणत्वोक्ति-स्तार्किकानां स्वप्रक्रियाविरुद्धेति वक्तुं तदर्थं तदभिमतामन्यथाख्यातिमनुवदति भ्रान्तेति । अन्यत्र सत एवान्यत्र ख्यातिरन्यथाख्यातिरिति हि तन्मतम् । तथा च भ्रमविषयो रजतं सदेवेति भ्रमेऽपि अर्थसत्ता ऐशी प्रमा चेत्युभयोरपि विद्यमानतया तस्यापि प्रमात्वमापद्यते । अतस्तयोर्गुणत्वोक्तिः स्वव्याहतेत्याह अर्थसत्तेत्यादिना ।। ४४१, ४४२ ।।
युक्तिमल्लिका
त्वदुक्तगुणसञ्जातौ द्वौ च जातौ भ्रमाभ्रमौ ।
गुणजत्वात्प्रमात्वं चेद्द्वयोरपि कुतो न तत् ।। ४४२ ।।
यदि तत्र सतोऽर्थस्य प्रमैशी ते गुणस्तदा ।
लध्वी तत्रार्थसत्तैव गुणोऽभून्न तु तत्प्रमा ।। ४४३ ।।
सुरोत्तमटीका
ननु तत्र सतोऽर्थस्य प्रमैव गुणः । भ्रमे च न तत्र सतोऽर्थस्य प्रमाऽस्ति । रजतादेर्देशान्तरे सत्त्वादिति चोद्यमनूद्य दूषयति ।। यदीति ।। ऐशी तत्र सतोऽर्थस्य प्रमेति सम्बन्धः । तदा तर्हि लघ्वी अर्थसत्तैव गुणोऽभून्नतु तत्प्रमा गौरवादिति भावः ।। ४४२,४४३ ।।
सत्यप्रमोदटीका
ननु पुरोदेशे सतोऽर्थस्य ऐशी प्रमा गुण इत्यङ्गी-क्रियते । भ्रमे च देशान्तरस्थार्थस्यैवैशी प्रमा । अतो न भ्रमसाधारण्यं दोष इत्याक्षिपति यदीति । समाधत्ते तदेति । तर्हीत्यर्थः । लध्वी प्रमाशरीरान्त-र्भूता । ऐशी प्रमा तु गुर्वी अर्थसत्ताघटितमूर्तिका । तद्धटितापेक्षया तस्य घटकस्य लघुत्वमिति भावः ।। ४४३ ।।
युक्तिमल्लिका
सा चानुमायां हेतुर्न गुणजा सा प्रमा कथम् ।। ४४४ ।।
सुरोत्तमटीका
सा च तत्रार्थसत्ताचानुमायां यादृच्छिकसंवादिन्या-मनुमितौ हेतुर्न । परोक्षज्ञानस्य विषयाजन्यत्वादिति भावः । तथा च सा प्रमा गुणजा कथम् । न कथंचिदित्यर्थः ।। ४४४ ।।
सत्यप्रमोदटीका
सा च तत्रार्थसत्ता च । अनुमायां यादृच्छिकसंवादेन लिङ्गाभासेन जन्यायामनुमितौ । इदमुपलक्षणम् । शब्दाभासेन जन्यायां यादृच्छिकशाब्दप्रमायां च । न हेतुः । परोक्षज्ञानस्य विषयाजन्यताया-स्त्वयैवानभ्युपगमात् । वस्तुतस्तु ज्ञानमात्रस्य विषयाजन्यत्वनियमादिति ध्येयम् । ‘विषयस्य क्वापि जनकताऽसंमतेरि’ति तत्त्वोद्योतटीकोक्तेः । उक्तं च तर्कताण्डवे प्रत्यक्षादिप्रमास्वनुगतगुणभङ्गे ‘चक्षुरादिवत् कारणत्वेन धर्मि-ग्राहकमानासिद्धोऽर्थः सन्निकर्षेणान्यथासिद्धत्वान्न प्रमाहेतुरि’ति । उपसंहरति गुणजेति । एतेन विशेष्यनिष्ठविशेषणज्ञानं अविद्यमानासंसर्गाग्रहो वाऽनित्य-प्रमामात्रेऽनुगतगुण इति पक्षद्वयमपि परास्तम् । पर्यवसाने विषयसत्त्वरूप-त्वात् । विशेषणज्ञानस्यासंसर्गाग्रहस्य च भ्रमसाधारण्यात् । विशेष्यनिष्ठ-शब्देनाविद्यमानशब्देन च विषयसत्त्वस्यैवोक्तेः ।। ४४४ ।।
युक्तिमल्लिका
गुणस्य सत्त्वमात्रेण प्रामाण्यं भण्यते यदि ।
तदा सामान्यसामग्रीमात्रजन्या प्रमा मम ।
सर्वाऽप्यभूत्स्वतस्त्वस्य केन वा हानिरुच्यताम् ।। ४४५ ।।
सुरोत्तमटीका
पुनश्शङ्कते ।। गुणस्य सत्त्वमात्रेणेति ।। प्रामाण्यं यादृच्छिकानुमितेः प्रामाण्यं गुणस्य तत्रार्थसत्तारूपगुणस्य सत्त्वमात्रेण । तदा तर्हि । त्वयाऽपि गुणस्य कारणत्वानङ्गीकारात् । ज्ञानसामान्यसामग्रीमात्रजन्या सर्वापि प्रमा ममाभूदिति सम्बन्धः ।। ४४५ ।।
सत्यप्रमोदटीका
ननु विषयसत्त्वस्य गुणस्य प्रमां प्रति कारणत्वं नोच्यते । येन पूर्वोक्तदोषः । किं नाम तस्य सत्त्वमात्रेणैव प्रामाण्यं भण्यत इति सम्भावितं पक्षान्तरमनुवदति गुणस्येति ।। एवं सति परतस्त्वपक्षो दत्तजलाञ्जलिरिति परिहरति तदेति । गुणस्य कारणत्वानङ्गीकारे ज्ञानजनक-मात्रजन्मवत्त्वं प्रामाण्यस्याभ्युपेतं स्यात् । ओमिति चेदेतत्पक्षस्य स्वतस्त्व-पक्षस्य चानर्थान्तरत्वेनाऽनुज्ञया वर्तामह इत्याह स्वतस्त्वेति ।। ४४५ ।।
युक्तिमल्लिका
ईदृग्गुणात् श्रुतीनां च मानता जानतां भवेत् ।
केन तासां जनिः कल्प्या तेन ते हीनताऽप्यभूत् ।। ४४६ ।।
सुरोत्तमटीका
किं च तत्र सतोऽर्थस्यवा तत्प्रमायावा गुणत्वे श्रुतिजन्य- प्रमाया अपि ईदृशगुणेनैव प्रमात्वसम्भवादाप्तोक्तत्वगुणसिद्ध्यर्थं श्रुतीनाम-नित्यत्वकल्पनं च तव मते व्यर्थमित्याह ।। ईदृगिति ।। ईदृग्गुणादर्थ सत्तादि-रूपगुणाच्छतीनां च मानता जानतां मते भवेत् । ततश्च केन कारणेन तासां जनिरुत्पत्तिः कल्प्येति सम्बन्धः । आप्तोक्तत्वस्यैव गुणत्वेहि तत्कल्प्यम् । अर्थसत्तादेरपि गुणत्वे वृथा तत्कल्पनेति भावः ।। तेन निर्निमित्तं श्रुतीना-मुत्पत्त्यङ्गीकारेण हीनता पूर्वोत्तरविवेकहीनताऽपि तेऽभूदित्यर्थः ।। ४४६ ।।
सत्यप्रमोदटीका
गुणस्य सत्त्वमात्रमुच्यते न तु तस्य कारणत्वमित्य-नेनान्यदप्यनुकूलितमित्याह ईदृगिति ।। कारणत्वशून्येत्यर्थः । श्रुतीनाम् । आप्तोक्तत्वगुणाभावेऽपीति शेषः । अपौरुषेयत्वेऽपीति यावत् । जानतां ज्ञानिनां मते । जनिः सर्गादावीश्वरान्नूतनतया रचनम् । केनेत्याक्षेपे । प्रामाण्यमेव खलु तत्कल्पकं त्वदभिमतम् । तच्चोक्तरीत्या स्वतस्त्वेनैवो-पपन्नम् । अतो निर्बीजं ते तत्कल्पनम् । वृथाऽप्रामाणिकं कल्पयतस्तव हीनता विवेकहीनता चाभूत् इत्यर्थः ।। ४४६ ।।
युक्तिमल्लिका
अनुभूतारोपकाले गुर्वी साऽप्यस्ति ते मते ।
लघुश्च पक्षो हन्ति त्वां गुरुश्चापि निहन्त्यहो ।। ४४७ ।।
सुरोत्तमटीका
अधुना तत्र सतोऽर्थस्य प्रमा गुण इति गौरवग्रस्त-पक्षाङ्गीकारेऽपि तार्किकमते भ्रमसाधारण्यमेवेत्याह ।। अनुभूतेति ।। सा तत्र सतोऽप्यर्थस्य प्रमा । लघुश्च पक्षः अर्थसत्ताया गुणत्वपक्षः । गुरुश्चार्थ-सत्ताप्रमाया गुणत्वपक्षश्च । नापि प्रतीयमानविशेष्याभिन्नसदर्थो वा तत्प्रमावा-गुणः । यादृच्छिकसंवाद्यनुमितावेव भावेन प्रकृतानुपयोगात् । अर्थपदेन विशेष्यस्यैव ग्रहे रजतभ्रमेऽतिप्रसङ्गतादवस्थ्यम् । अभिन्नपदस्थाने निष्ठ-पददानेऽपि रजताधारशुक्तिशकले जायमानानुभूयमानारोपेऽतिप्रसङ्गतादव-स्थ्यमेव ।। ४४७ ।।
सत्यप्रमोदटीका
परतस्त्ववादिनाऽऽदौ अर्थसत्ता गुण इति पक्ष आश्रितः । तस्यास्तन्मते भ्रमसाधारण्यदोषे स्वतस्त्ववादिनोक्ते सति तत्पक्ष-परित्यागेन तत्रार्थसत्ता गुण इति गुरुभूतः पक्षः समास्थितः । गौरवदोष-मविगणय्य द्वितीयपक्षाश्रयणेऽपि भ्रमसाधारण्यदोषस्तदवस्थ एव । गृह्यमाणा-रोपस्थले तत्रैवार्थस्य सत्त्वादित्याह अनुभूतेति । गृह्यमाणेत्यर्थः । सा तत्रार्थसत्ता पुरोदेशे आरोपितस्य विद्यमानता । त्वां त्वदभिमतं परतस्त्वम् । अयमभिसन्धिः । आरोपो द्विविधः । गृह्यमाणारोपः स्मर्यमाणारोपश्चेति । तत्राद्ये आरोपितं पुरतः सदेव । अधिष्ठानस्यारोपितस्य च प्रतीयमानं तादात्म्यमात्रं मिथ्या । तथा च तत्र त्वदुक्तगुणोऽविकलः । तस्य च भ्रम-साधारण्यात् न परतस्त्वसाधकत्वमिति । तदुक्तं सुधायां ‘यत्रारोप्यमधिष्ठान-सन्निहितं तत्र तत्तादात्म्यमात्रमसत् । यथा दूरस्थयोश्चूतपनसयोः । एक एवायं चूत इति बाधोत्तरकालमपि स्वरूपद्वयानुवृत्तेरि’ति । तथा च परस्य ‘भक्षितेऽपि लशुने न शान्तो व्याधिरि’ त्याभाणकविषयतेति भावः ।।४४७।।
युक्तिमल्लिका
उपादानापरोक्षत्वेनैव सा कारणं किल ।। ४४८ ।।
सुरोत्तमटीका
युक्तिसञ्चारायैतावच्चर्चितं वस्तुतस्तु तार्किकेणेश्वरज्ञानस्य गुणता वक्तुं न शक्यत इत्याह ।। उपादानेति ।। उपादानापरोक्षज्ञानत्वेनेश्वर-प्रमाकारणं तत्तत्कार्यकारणम् । किलेत्यनेनोपादानापरोक्षज्ञानचिकीर्षा-कृतिमज्जन्यानीति तदीयप्रक्रियां सूचयति ।। ४४८ ।।
सत्यप्रमोदटीका
ऐशी अर्थसत्ताप्रमा प्रमारूपकार्यं प्रति कारणमिति पक्ष एतावताऽभ्युपगम्य दूषितः । वस्तुतस्तु तार्किकेण स्वप्रक्रियाविरुद्धः स नाङ्गीकारार्हः । कार्यमात्रं प्रति उपादानगोचरापरोक्षज्ञानत्वेन ईश्वरज्ञानं कारणमिति हि तत्प्रक्रिया । तदनुरोधेन प्रमारूपकार्यं प्रत्यपि प्रमाया उपादानभूतस्यात्मनो ज्ञानत्वेनैव तस्य कारणत्वं तेन वक्तव्यम् । न तूत्पत्स्यमानप्रमाविषयकज्ञानत्वेन । आत्मगोचरापरोक्षज्ञानत्वेन कारणत्वं तु भ्रमसाधारण्यान्न गुण इत्युक्तमेवेति निरूपयिष्यन् परप्रक्रियां तावदनुवदति उपादानेति । सा ऐश्वरी प्रमा । किलेत्यनेन तदुक्ते ईश्वरसाधकानुमाने उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यं इति प्रतिज्ञासूचनेन प्रक्रियाया-स्तदङ्गीकृतत्वप्रसिद्धिमाह ।। ४४८ ।।
युक्तिमल्लिका
कर्तृज्ञानं तथैवानुत्पन्नकार्येषु कारणम् ।
न चेद्घटादिकर्तृत्वं कुलालस्य न शोभते ।। ४४९ ।।
सुरोत्तमटीका
युक्तिमप्याह ।। कर्तृज्ञानमिति ।। कर्तृर्ज्ञानं कर्तुज्ञानं तथैवोपादानापरोक्षज्ञानत्वेनैव । अनुत्पन्नकार्येषु पूर्वमनुत्पन्नानि पश्चादुत्पत्स्य-मानानिवा घटादिकार्याणि तेष्वित्यर्थः । नचेदुपादानापरोक्षज्ञानत्वेन कर्तृज्ञानं कारणं न चेदित्यर्थः । कुलालस्य घटादिकर्तृत्वं न शोभते।अनुत्पन्न-घटादिकार्यापरोक्षासम्भवेन मृदाद्यपरोक्षज्ञानेनैव तस्य कर्तृत्वावश्यंभावादिति भावः।। ४४९ ।।
सत्यप्रमोदटीका
युक्तियुक्ता चैषा प्रक्रियेत्याह कर्त्रिति । अनुत्पन्नेति हेतुगर्भं विशेषणम् । अयमभिप्रायः । कुलालज्ञानं घटं प्रति तदुपादानमृदाद्य-परोक्षज्ञानत्वेनैव कारणं वाच्यम् । न पुनर्घटगोचरापरोक्षज्ञानत्वेन । घटस्येदानीमप्यनुत्पन्नत्वेन तदपरोक्षज्ञानस्य कुलालेऽसम्भवादिति । न चेत् । कार्यगोचरापरोक्षज्ञानत्वेनैव कर्तृज्ञानस्य कार्यं प्रति कारणत्वं कल्प्यते चेदिति यावत् । न शोभते । कर्तृत्वस्यैवोच्छेदप्रसङ्गः ।। ४४९ ।।
युक्तिमल्लिका
ज्ञानोपादानमात्मा ते तद्धीत्वेनैश्वरी मतिः ।
कारणं स्यादर्थधीत्वेनापि हेतुत्वकल्पनम् ।
त्वच्छास्त्रगौरवायैव भारस्ते गौरवाय न ।। ४५० ।।
सुरोत्तमटीका
अस्तूक्तविधयैव कर्तृता तथापि प्रकृते किमायातमित्यत आह ।। ज्ञानोपादानमिति ।। ते मते आत्मा जीवः ज्ञानोपादानम् । तद्धीत्वेन ज्ञानोपादानात्मगोचरधीत्वेन । साच न गुणो भ्रमसाधारणत्वादिति भावः । त्वच्छास्त्रगौरवाय तव शास्त्रविस्ताराय भारः अप्रामाणिक-कल्पनारूपत्वेन भारभूतम् । एतादृशाप्रामाणिकार्थनिरूपणार्थं शास्त्रमेव बहुकृतं स्यात् । ते तव गौरवाय न । गौरवग्रस्तप्रमेयनिरूपणेन त्वं विद्व-ज्जनमध्ये लघुस्स्या इति भावः ।। ४५० ।।
सत्यप्रमोदटीका
प्रकृतोपयोगमाह ज्ञानेति । ते मते इति शेषः । तेन सिद्धान्ते आत्मनो ज्ञानोपादानत्वानङ्गीकृतिं ध्वनयति । परेण ज्ञानाधिकरण-मात्मेति स्वीकृतम् । ज्ञानं गुणः आत्मा च गुणी । गुणं प्रति गुणिनः समवायिकारणत्वलक्षणोपादानत्वस्य पराभ्युपगतेरिति भावः । तद्धीत्वेन आत्मगोचरधीत्वेन । कारणं प्रमां प्रतीति शेषः । अपिरुपादानगोचरापरोक्ष-ज्ञानत्वेन हेतुत्वं समुच्चिनोति । भारः अप्रामाणिकार्थनिरूपणम् । शास्त्रगौरवाय । ग्रन्थस्यायोग्यविस्तराय । ते गौरवाय । किं तु हीनत्वायैवेति भावः ।। न तु पुनस्त्वदभिमतपरतस्त्वसिद्धिः ।आत्मगोचरापरोक्षज्ञानस्य भ्रमसाधारण्येन गुणत्वासम्भवादिति भावः।।४५० ।।
युक्तिमल्लिका
पुंनिष्ठस्तु गुणो लोके पुंसि तज्ज्ञानधर्मिणि ।
गुणोऽन्यत्रानुमाऽन्यत्र चित्रं शास्त्रप्रवर्तनम् ।। ४५१ ।।
सुरोत्तमटीका
ईश्वरप्रमाया गुणत्वकथनेऽदृष्टकल्पना चेत्याह ।। पुन्निष्ठ इति ।। लोकेऽञ्जनादिगुणः तज्ज्ञानधर्मिणि । अञ्जनजन्यज्ञानवति पुंसि पुरुषे पुन्नयन इत्यर्थः । प्रकृतेतु गुणो ग्राह्यप्रमालक्षणो गुणः अन्यत्रेश्वरे । अनुमा यादृच्छिकानुमा । अन्यत्रानुमातरि पुरुषे । तथा च चित्रं शास्त्रप्रवर्तनमिति सम्बन्धः । तथा सति देवदत्तनयनगुणेन यज्ञदत्तस्य प्रमा स्यादिति भावः ।। ४५१ ।।
सत्यप्रमोदटीका
किञ्च व्यधिकरणाया ईश्वरप्रमाया जीवनिष्ठयादृच्छिक-प्रमासु हेतुत्वकल्पनमनुपपन्नमित्याह पुंनिष्ठ इति । तु शब्द एवार्थः व्याप्ति-सूचकः । लोक इत्यनेन व्याप्तेः सर्वोपसंहारित्वमभिप्रेतम् । यदि अन्यगतो गुणः अन्यत्र स्वकार्यप्रमां जनयेत् तर्हि देवदत्तनयनगतमञ्जनं यज्ञदत्तप्रमां जनयेदित्यतिप्रसङ्गे ध्येयः । चित्रमित्यपहासः । एवं अस्मदादिनिष्ठानां संशयप्रत्यक्षानुमितिनिर्विकल्पानांयथाक्रममीश्वरनिष्ठैर्विशेषदर्शनलिङ्ग परामर्श-वाक्यार्थज्ञानविशेषज्ञानजन्यत्वाद्यथाक्रमं निश्चयत्वानुमितित्वशाब्दज्ञानत्व-सविकल्पत्वानि स्युः इत्यादयोऽतिप्रसङ्गास्तर्कताण्डवोक्ता अनुसन्धेयाः ।। ४५१ ।।
युक्तिमल्लिका
सर्वज्ञेशप्रमा नॄणां गुणश्चेत्क्व भ्रमो भवेत् ।
गुणे सति प्रमाऽवश्यंभावाद्दोषविरोधिनि ।। ४५२ ।।
सुरोत्तमटीका
ईशप्रमाया गुणत्वाङ्गीकारे दोषान्तरं चाह ।। सर्वज्ञेति ।। नॄणां गुणश्चेत्प्रमाजनकगुणश्चेत् तर्हि क्व भ्रमो नॄणां भवेत् । सर्वज्ञेति हेतुगर्भं विशेषणम् । यत्र शुक्तौ रजतभ्रमो नॄणां तत्राप्यैश्वरी शुक्तिरूपार्थप्रमाऽस्त्येव । सर्वज्ञत्वादीश्वरस्य । सा च यस्य पुरुषस्य भ्रमो भवेत् तस्यैव तत्रत्य शुक्ति-प्रमायां त्वदुक्तरीत्या गुणोऽभूत् । तथा च तस्य शुक्तिप्रमैव स्यान्न रजतभ्रम इति भावः । तत्र कारणमाह ।। गुणे सतीति ।। दोषविरोधिनि गुणे सति प्रामावश्यम्भावादिति योजना । ईश्वरप्रमा तस्य गुणश्चेत्तदीयदोषं निरुध्य तस्य प्रमां जनयेत् । गुणस्य दोषविरोधित्वावश्यंभावादिति भावः ।। ४५२ ।।
सत्यप्रमोदटीका
सर्वज्ञस्य सर्वदा सर्वविषयकयथार्थज्ञानवत ईशस्य प्रमा व्यधिकरणत्वेऽपि गुणश्चेत्, जीवेषु जायमानायाः प्रमाया उत्पत्तिं प्रति गुणविधया ग्राह्यप्रमात्वेन कारणमित्यङ्गीक्रियते चेत् । क्वेत्याक्षेपे । भ्रमो नैव भवेदित्याशयः । तदेवोपपादयति गुणे सतीति । न हि सहकारिसमवहितं कारणं कार्यं व्यभिचरतीति भावः । ननु दोषः प्रतिबन्धक इत्यत आह दोषविरोधिनीति । परतस्त्ववादिना गुणस्य दोषनिरासे प्रमायां चोभयत्र कारणत्वमङ्गीकृतम् । तथा चैशी प्रमा स्वयं व्यधिकरणाऽपि जीवेषु विद्यमानं भ्रमकारणं दोषं निरस्य तेषु प्रमां जनयेदेव । तत्कुतो भ्रमोत्पत्तिः सम्भावि-नीति भावः । तदुक्तं तर्कताण्डवे ‘‘किञ्चैव सति स्थाणौ करादिविपर्यय-जन्यस्य पुरुषत्वभ्रमस्येश्वरनिष्ठया वक्रकोटरत्वादिप्रमया जन्यत्वात्स्थाणुप्रमात्वं स्यादि’’ति । तथा च भ्रममात्रोच्छेदप्रसङ्गेन भ्रमस्य परतस्त्वव्युत्पादन-प्रयासनैरर्थक्यमिति भावः ।। ४५२ ।।
युक्तिमल्लिका
प्रसिद्धगुणसन्त्यागेनाप्रसिद्धगुणोहनम् ।
न गुणश्शोधितधियां सुधियां कुधियामपि ।। ४५३ ।।
सुरोत्तमटीका
दोषान्तरं चाह ।। प्रसिद्धेति ।। प्रसिद्धगुणसंत्यागेन अनुमानमात्रे गुणत्वेन परसमयप्रसिद्धसल्लिङ्गपरामर्शाख्यगुणत्यागेन ।। ४५३ ।।
सत्यप्रमोदटीका
प्रसिद्धेति । ‘भूयोऽवयवेन्द्रियसन्निकर्षयथार्थलिङ्ग-सादृश्यवाक्यार्थज्ञानानां यथायथं प्रत्येकमेव गुणत्वं’ इति मणिकृदुक्त्या प्रत्यक्षादिप्रमासु प्रत्येकानुगतत्वेन प्रसिद्धेत्यर्थः । अप्रसिद्धेति । प्रमामात्रानु-गतैश्वरीप्रमेत्यादीत्यर्थः । गुणः उत्कर्षप्रयोजकः । अपिशब्दः किमुत सुधियामिति कैमुत्यार्थकः ।। ४५३ ।।
युक्तिमल्लिका
दोषे सत्यप्रमा सर्वा दोषाभावे न सा क्वचित् ।
तत्स्वतस्त्वं न तत्तत्त्वमिति तत्त्वविदां मतम् ।। ४५४ ।।
सुरोत्तमटीका
अप्रामाण्यप्रतिबन्दीं परिहरति ।। दोष इति ।। दोषे सति दोषे सत्येवेत्यर्थः । सा अप्रमा क्वचिन्नेति सम्बन्धः । तत्तस्मादप्रमाया अव्यभिचरितदोषान्वयव्यतिरेकानुविधायित्वात् तत्स्वतस्त्वं तस्याप्रामाण्यस्य स्वतस्त्वम् ।। ४५४ ।।
सत्यप्रमोदटीका
ननु यदुक्तं ‘दोषाभावानपेक्षैव सेयं यादृच्छिकप्रमा’ इति तत्स्वविरुद्धम् । तथा सति दोषस्याप्रमां प्रति कारणत्वभङ्गप्रसङ्गात् । दोषे सत्यपि तत्राप्रमाऽनुत्पत्तेरन्वयव्यभिचारादिति चेन्मैवम् । दोषे सत्येवा-प्रमेति अन्वयप्रकारस्य प्राग्व्युत्पादितत्वेन व्यभिचारानापत्तेरित्याह दोषे सतीति । दोषे सत्येवेत्यर्थः । तदुक्तं तत्त्वनिर्णयटीकायाम् ‘ननु यादृच्छिक-संवादिषु सत्यपि दोषेऽप्रामाण्याभावात्कथमप्रामाण्यस्य दोषान्वयव्यतिरेकानु-विधायित्वमिति चेन्न । तस्य सद्भाव एवोत्पादो नासद्भाव इत्यन्वयव्यतिरेकयोः कार्यकारणभावहेतुत्वादि’ति । सर्वेति काचिदिति चाप्रमां प्रति दोषस्या-व्यभिचरितानन्यथासिद्धान्वयव्यतिरेकवत्त्वमाह । अप्रामाण्यमुत्पद्यते चेत्तर्हि दोषसद्भाव एवोत्पादो नासद्भाव इति कार्यमुखान्वयव्यतिरेकयोर्विवक्षितत्वान्न यादृच्छिकसंवादादिस्थले व्यभिचार इति भावः । तत्स्वतस्त्वं अप्रामाण्य-स्वतस्त्वम् । तत् तस्मात् । तत्त्वविदां इन्द्रियादीनां ज्ञानजननशक्त्यैव प्रमोत्पादकत्वं, अपवादकेन दोषेणाहितशक्त्याऽप्रमोत्पादकत्वं इति यत्तत्त्वं तद्विजानताम् ।। ४५४ ।।
युक्तिमल्लिका
ज्ञानसामान्यसामग्री ज्ञानं सञ्जनयेद् ध्रुवम् ।
कार्यस्योपार्जिकामेव यत्सामग्रीं विदुर्बुधाः ।। ४५५ ।।
सुरोत्तमटीका
ज्ञानसामान्यसामग्य्रा उत्सर्गतः प्रमाजनकत्वमुपपाद-यति ।। ज्ञानेति ।। यद्यस्माद्बुधाः कार्यस्योपार्जिकामेव सामग्रीं विदुः । तत् ज्ञानसामान्यसामग्री ध्रुवं ज्ञानं जनयेदिति सम्बन्धः । बुधा इत्यनेन सामग्य्राः कार्यार्जकत्वनियमादिति वाक्यं सूचयति । तथा च ज्ञानानुत्पादकत्वे ज्ञानसामान्यसामग्य्रेव सा न स्यादिति भावः ।। ४५५ ।।
सत्यप्रमोदटीका
ज्ञानधर्मत्वाविशेषेऽपि प्रमात्वोत्पत्तिरुत्सर्गतः, अप्रमात्वस्य त्वपवादादित्यत्र नियामकं वक्तुमुपक्रमते ज्ञानेत्यादिना । अय-मिहाभिसन्धिः । ज्ञानसामान्यसामग्रीतः प्रमोत्पत्तिमनङ्गीकुर्वाणः प्रष्टव्यो जायते । किं ज्ञानसामान्यसामग्री ज्ञानं न जनयतीति मतम् । उत जातमपि ज्ञानं निर्विषयकमिति । यद्वा ज्ञेयं विषयीकुर्वदपि तदवृत्तिधर्मप्रकारेण विषयी-करोतीति विकल्पान् हृदि निधाय प्रसक्ततदितरपक्षप्रतिषेधपूर्वकं परिशेषतः स्वतस्त्वं साधयति षड्भिः श्लोकैः । तत्र न तावदाद्यः । सामग्य्राः कार्यार्जकत्वनियमस्य ज्ञानिसंमतत्वादित्याह कार्येति ।। ४५५ ।।
युक्तिमल्लिका
ज्ञानं च ज्ञेयसापेक्षं ज्ञेयं चास्ति यथा यथा ।
तथैव विषयीकुर्यात्स्वयोग्यं सति साधने ।। ४५६ ।।
सुरोत्तमटीका
तर्हि सामग्री भ्रममेव जनयत्वित्याशङ्क्याह ।। ज्ञानं चेति ।। ज्ञेयसापेक्षं ज्ञेयापेक्षया सहितम् । ज्ञानं च यथा यथा ज्ञेयं चास्ति तथैव स्वयोग्यज्ञेयं साधने इन्द्रियादौ सति विषयीकुर्यादिति योजना ।।४५६।।
सत्यप्रमोदटीका
न द्वितीयः । ज्ञानस्य ज्ञेयसापेक्षत्वस्वाभाव्यात् । न तृतीयः । ज्ञेयावृत्तिधर्मस्य ज्ञानकरणग्राह्यत्वायोग्यतया तद्वृत्तिधर्मस्यैव विषयीकरणात् इति । तदाह तथैवेति । तत्र निमित्तमाह सति साधन इति । निर्दोषसाधन इत्यर्थः । दोषसद्भावे परं, करणं ज्ञेयावृत्तिधर्मं स्वायोग्य-मप्यसन्निकृष्टं दोषवशाद्विषयीकुर्यात् । तदभावे तु ज्ञेयवृत्तिधर्ममेव सन्निकृष्ट-तया विषयीकुर्यात् । करणे दोषस्यैवासन्निकृष्टार्थग्रहोपयुक्तशक्त्यन्तराधाय-कत्वादिति भावः ।। ४५६ ।।
युक्तिमल्लिका
घटोऽयमिति हि ज्ञाने चक्षुषा च घटेन च ।
तत्संसर्गेणैव चालमेवमेव स्थलान्तरे ।। ४५७ ।।
सुरोत्तमटीका
तदेव विशदयति ।। घटोऽयमिति ।। तत्संसर्गेण चक्षुर्घटसंसर्गेण । एवमेव स्थलान्तरे पटादिज्ञानस्थले ।। ४५७ ।।
सत्यप्रमोदटीका
तदेव विशदयति घटोऽयमिति ।। ज्ञाने जननीय इति शेषः । निमित्तसप्तसी वा । चक्षुः, घटः, तयोः संसर्गः, इति एतैस्त्रिभि-रेवालम् । न तदतिरिक्तमपेक्षितम् । तत्रापि चक्षुः साधनं, संसर्गोऽत्वान्तर-व्यापारः। घटस्तु संसर्गेणान्यथासिद्धो न कारणमिति विवेक्तव्यम् । ‘यज्जातीयानन्तरं नियमेन कार्योत्पत्तिस्तदत्र साधनं विवक्षितमि’ति पद्धत्युक्त-रीत्या अर्थसन्निकृष्टं चक्षूरूपं साधनं स्वकार्यस्य अयं घट इति ज्ञानस्य जनने किमप्यतिरिक्तं कारणं सहकारितया नापेक्षते । दोषाभावस्तु प्रतिबन्धका-भावरूपो न कारणमिति प्रसिद्धमेव । तदिदमाह अलमिति ।। उक्तं नियमं सर्वत्रातिदिशति एवमेवेति ।। इदमुक्तं भवति । अयं घट इति ज्ञाने, घटः घटत्वं, तद्वैशिष्ट्यं चेति खलु त्रीणि विषयाः । त्रीण्यपि चक्षुस्सन्निकृष्टान्येव । अतः तज्ज्ञानजनने औत्सर्गिकशक्तिमतश्चक्षुषो नातिरिक्तकारणापेक्षेति
।। ४५७ ।।
युक्तिमल्लिका
सेयं ज्ञानस्य सामान्यसामग्री सा च धीः प्रमा ।
तन्न प्रमाऽऽख्यबोधस्य साधनेऽन्यानुधावनम् ।। ४५८ ।।
सुरोत्तमटीका
सेयमुक्ता ज्ञानस्य सामान्यसामग्री । इन्द्रियार्थसन्निकर्ष-रूपत्वात् । उक्ता सर्वाऽपि सामग्री सामान्यसामग्रीत्यर्थः । साचधीः एवं चक्षुर्घटसन्निकर्षे सति जाता धीः प्रमा यथार्थेति सम्बन्धः । अविद्यमान-घटत्वाभावस्य स्वायोग्यत्वात्तज्ज्ञानमजनयन्ती ज्ञानसामान्यसामग्री स्वसामग्रीत्वरक्षणाय स्वयोग्यघटादिज्ञानमेव जनयति । अतः परिशेषात् प्रमाजनकत्वमेव सामान्यसामग्य्रास्स्वभाव इति सिद्धमिति भावः । तत्तस्मा-त्सामान्यसामग्य्रा प्रमाजनकत्वस्वभावात् प्रमाख्यबोधस्य साधने उत्पादने अन्यस्य सामान्यसामग्रीव्यतिरिक्तगुणादेरनुधावनमनुसरणं नेति सम्बन्धः ।। ४५८ ।।
सत्यप्रमोदटीका
अस्त्वेवं ज्ञानजनने । प्रमाजनने त्वतिरिक्तकारणापेक्षा भवेत् । तथा च न स्वतस्त्वसिद्धिरित्यत आह सा चेति । स्यादेतदेवम् यदि घटज्ञानघटप्रमयोराकारौ भिन्नौ स्याताम् । नैतदस्ति । उभयोरपि, अयं घटः इति, घटत्ववद्विशेष्यकत्वावच्छिन्नघटत्वप्रकारकत्वलक्षण एक एवाकारः । अतस्तयोः सामग्रीभेदकल्पनं निर्मूलमिति परिशेषतः स्वतस्त्वसिद्धिरित्याह तन्नेति ।। ४५८ ।।
युक्तिमल्लिका
गोवत्सजनने गोभिर्गोवृषैरेव पूर्यते ।
विजातीयस्य वत्सस्य तत्सदृक्षोऽपरोऽपि च ।। ४५९ ।।
महिषो वा पिशाचो वा कश्चिन्निश्चीयते यतः ।
अतस्स्वयोग्यार्थबोधे चक्षुषाऽन्यन्न मान्यते ।। ४६० ।।
सुरोत्तमटीका
तत्र दृष्टान्तमाह ।। गोवत्सेति ।। गोभिर्धेनुभिः । गोवृषैर्गोवृषभैः । विजातीयस्य वत्सस्य तस्यामेव गवि विजातीयस्य गोवि-जातीयस्य महिषाद्याकारवत्सस्य । तत्सदृक्षः महिषोवा । अपरः कश्चि-त्पिशाचोऽपि वा महिषाकारवत्सस्य महिषः शृृङ्गपुच्छादिभिर्विकृतस्य तु वत्सस्य पिशाच इति विवेकः । यतो निश्चीयतेऽत इति सम्बन्धः ।। ४५९,४६० ।।
सत्यप्रमोदटीका
औत्सर्गिककार्यजनने नातिरिक्तापेक्षा साधनानामित्ये-तद्दृष्टान्तोक्त्या द्रढयति गोवत्सेति । अत्र गौः साधनं चक्षुः । वृषसंसर्गः अर्थसंसर्गोऽवान्तरव्यापारः । गोवत्सः प्रामाण्यमिति विवेकः । ज्ञानप्रमयोः सजातीयत्वं च पूर्वोक्तदिशा तद्वद्विशेष्यकत्वेन । घटत्वाभाववद्विशेष्यिका त्वप्रमा अयं घट इति ज्ञानेन घटवद्विशेष्यकेण न सजातीया । विजातीयस्य अप्रामाण्यस्य जननेऽतिरिक्तस्य दोषरूपकारणस्यापेक्षा नियता । अत्रापि दृष्टान्तमाह विजातीयस्येति । अत्र वत्सः अप्रामाण्यम् । महिषपिशाचादि-र्दोषस्थानीय इति विवेक्तव्यम् । निगमयति अत इति ।। अन्यत् अतिरिक्तं कारणम् । तथा च परिशेषात्स्वतस्त्वसिद्धिः । अयमत्र प्रयोगोऽभिप्रेतः । अनित्ययथार्थज्ञानत्वं अनित्यज्ञानत्वानवच्छिन्नकार्यताऽनवच्छेदकं अनित्य-ज्ञानावृत्तित्वरहितत्वात् ज्ञानत्ववदिति । विस्तरस्तर्कताण्डवे ।। ४५९,४६० ।।
युक्तिमल्लिका
स्वायोग्यविपरीतार्थधीषु दोषोऽप्यपेक्ष्यते ।। ४६१ ।।
सुरोत्तमटीका
स्वायोग्यविजातीयकार्ये एव विजातीयकारणान्तरा-पेक्षणादिति भावः । अन्यद्गुणादिकम् । स्वायोग्यविपरीतार्थधीष्वत्यन्तासत्त्वेन चक्षुरयोग्यविपरीतार्थरजतादिभ्रमेषु ।। ४६१ ।।
सत्यप्रमोदटीका
अप्रामाण्यस्य परतस्त्वं हेतूक्त्या निरूपयति स्वायोग्येति । भ्रमे प्रकारीभूतधर्मवैशिष्ट्यं विशेष्ये भासते । तच्चासत्त्वान्न चक्षुस्सन्निकर्षयोग्यम् । तद्विषयीकरणे दोषापेक्षा नियतेति भावः । तदुक्तं तर्कताण्डवे ‘भ्रमेऽर्थस्यासत्त्वेन सन्निकर्षासम्भवेन तत्स्थशनीयस्य दोषस्यावश्य कत्वात् । पित्तादिदोषेण भ्रमोत्कर्षदर्शनात् । अनन्यथासिद्धान्वयव्यतिरेकि-त्वाच्चाप्रमायां दोषो हेतुरिति अप्रामाण्यं परत एवे’ति ।। ४६१ ।।
युक्तिमल्लिका
इन्द्रियस्यार्थसम्बन्धो ज्ञानसामान्यकारणम् ।
यच्चक्षुश्शुक्तिसंयोगि सा च रूप्योपमा रुचा ।
प्रतीत्या व्यवहृत्या चारोप्यं रूप्योपमं किल ।। ४६२ ।।
सुरोत्तमटीका
नन्वयं घट इति प्रमायां विशेषणीभूतघटेनापि सन्निकर्ष-श्चक्षुषोऽस्ति । भ्रमेतु रजतचक्षुस्सन्निकर्षाभावाद्विशेषणसन्निकर्षो नास्ति । अतः कथमुक्ता प्रमासामग्री सामान्यसामग्रीत्यतस्तदुपपादयति ।। इन्द्रिय-स्येति ।। ज्ञानसामान्यकारणभूतेन्द्रियार्थसन्निकर्षो भ्रमेऽप्यस्ति । यद्यस्माच्चक्षु-श्शुक्तिसंयोगि । सा च शुक्तिः रुचा कान्त्या रजतोपमा । आरोप्यं शुक्ति-कायामारोप्यं रजतं प्रतीत्या व्यवहृत्याच रजतत्वप्रकारकप्रतीत्युल्लेख्यत्वेन रजतमित्यभिधाविषयत्वेन च रूप्योपमं प्रधानभूतरूप्यसदृशम् । किलेत्य-नेनास्य सर्वस्य प्रमेयस्य व्यवहारसिद्धतां दर्शयति । तथा च चक्षुस्सन्निकृष्ट-शुक्तिशकलसदृशसद्रूप्यसादृश्यमारोप्येऽप्यस्ति । तस्मात्परंपरयाऽऽरोप्यरजत-मपि चक्षुस्सन्निकृष्टमेवेति विशेषणसन्निकर्षस्यापि भ्रमसाधारणत्वात्सामान्य-सामग्रीत्वम् । न हि सर्वत्रैकविध एव सन्निकर्ष इति नियमोऽस्ति । क्वचि-त्संयोगः क्वचित्समवायः क्वचिद्विशेषणविशेष्यभावश्चेति त्वयाऽप्यङ्गीकारादिति भावः ।। ४६२ ।।
सत्यप्रमोदटीका
ननु यदुक्तं ज्ञानसामान्यसामग्री प्रमासामग्री चैक-रूपैवेति न तद्युक्तम् । तथा सति भ्रमस्यापि ज्ञानविशेषत्वेन भ्रमप्रमा-सामग्य्रोरेकरूपत्वमुक्तं स्यात् । तच्च न सम्भवति । इदं रजतं इति भ्रमस्थले विशेषणेन रजतेन सन्निकर्षो नास्ति । तस्यासत्त्वेन सन्निकर्षानुपपत्तेः । एवं च न सामग्य्रोरेकरूपतेति शङ्कां निराह इन्द्रियस्येति । स्यादेतदेवं यदि सन्निकर्षशब्देन सम्योगादिरेव विवक्षितः स्यात् । नैतदस्ति । किन्तु प्रत्यासत्तिमात्रम् । तच्चोभयत्र सममिति वक्तुं भ्रमे चक्षुषो रजतस्य च प्रत्यासत्तिमुपपादयति यदिति । यत् यस्मात् सा च शुक्तिः । रूप्योपमा रजतसदृशी । प्रधानेन रजतेन सादृश्योपेता । आरोप्ये चेत्युभयत्र रजतमिति प्रतीतेर्व्यवहारस्य च सामान्यात् । तथा च चक्षुषो भ्रमप्रतीतरजतस्य च स्वसंयुक्ताधिष्ठानभूतशुक्तिसदृशप्रधानभूतरजतसादृश्यरूपप्रत्यासत्तिरविकलेति नोक्तानुपपत्तिः ।। ४६२ ।।
युक्तिमल्लिका
इत्थं रूप्यभ्रमस्तस्यां मष्यादेर्न भ्रमोऽत्र तत् ।। ४३६ ।।
सुरोत्तमटीका
उक्तसादृश्यस्यावश्यकतामाह ।। इत्थमिति ।। इत्थं पूर्वोक्तसादृश्यघटितत्वेन तस्यां शुक्तौ रूप्यभ्रमः रूप्यभ्रम एवास्ति । तत्त-स्मात्सादृश्यस्यापेक्षितत्वादेवात्र शुक्तौ मष्यादेर्विसदृशस्य भ्रमो नेति सम्बन्धः । अथवा यद्यस्मात्तस्यां शुक्तौ रूप्यभ्रम एवास्ति । अत्र शुक्तौ मष्यादेर्वि-सदृशस्य भ्रमो न । तत्तस्मात्सादृश्यस्य निरुपाधिकभ्रमेऽन्वयव्यतिरेकानु-विधायकत्वात् इत्थं प्रागुक्तप्रमेयमित्थमेवेत्यर्थः । अन्यथा ख्यातिमतेतु चक्षु-स्सन्निकृष्टशुक्त्या साक्षात्सादृश्यमेव सम्बन्ध इति द्रष्टव्यम् ।। व्याप्तिग्रहणस्थले चक्षुस्सन्निकृष्टधूमसादृश्यस्य वा धूमत्वसामान्यप्रत्यासत्तेर्वाऽतीतानागतधूम-सम्बन्धत्वाङ्गीकारान्नेदमपूर्वम् । वस्तुतस्समानस्य भावस्सामान्यमिति व्युत्पत्ते-स्सामान्यमपि सादृश्यघटकमेव ।। ४६३ ।।
सत्यप्रमोदटीका
‘न हि सत्यशुक्तेः सत्यरजतस्य तयोः सादृश्यस्य चाभावे भ्रान्तिर्भवती’ति तत्वनिर्णयोक्तां सादृश्यस्यावश्यकतां विपक्षे बाधकोपदर्शनेन द्रढयति इत्थमिति । इमावत्रातिप्रसङ्गावभिप्रेतौ । यदि प्रधानमधिष्ठानसदृशं न स्यात् तदाऽधिष्ठानदर्शनानन्तरं संस्कारोद्बोधकोपाया-भावेन प्रधानस्मृतिर्न स्यात् । सादृश्यस्यैव संस्कारोद्बोधहेतुत्वात् । तदनङ्गीकारे विसदृशमषीखण्डस्यापि स्मरणं स्यात् । न च तदस्ति । अतोऽधिष्ठान-प्रधानयोः सादृश्यमावश्यकमिति । यद्यधिष्ठानप्रधानयोरारोपितेन सादृश्यं न स्यात् तर्हि अधिष्ठानप्रधानयोरभेदग्रहलक्षण आरोप एव न सिद्ध्येदिति रजतस्यारोपितत्वमेव न स्यात् । न हि दोषोऽपि विसदृशयोः शुक्तिमषी-खण्डयोरभेदग्रहजननस्येष्टे । अत इत्थं उक्तसादृश्यमावश्यकमिति । ननु आरोप्यस्यात्यन्तासत्त्वेन निर्धर्मकत्वात्कथं तत्सादृश्यमधिष्ठानप्रधानयोरिति चेन्न । आरोप्यस्य किञ्चित्प्रतियोगिकसादृश्यानाश्रयत्वेऽपि किञ्चिन्निष्ठसादृश्य-प्रतियोगित्वाङ्गीकारात्तस्य च रूप्यादिवद्धर्मिसत्तासापेक्षत्वाभावात् । एवं न तद्गतभूयोधर्मवत्त्वं तत्सादृश्यं किन्तु ‘सादृश्यं हि पदार्थान्तरमि’ति सुधोक्त-रीत्याऽखण्डधर्म एव । अतो न कश्चित्क्षुद्रोपद्रव इति ।। ४६३ ।।
युक्तिमल्लिका
चक्षुस्स्थपीतपित्तेन योगाच्छङ्खेऽपि पीतधीः ।
अतः पारम्पर्यतोऽर्थसम्बन्धोऽस्ति भ्रमेऽपि च ।। ४६४ ।।
सुरोत्तमटीका
सोपाधिकभ्रमेऽपि चक्षुस्सन्निकर्षमुपपादयति ।। चक्षु-स्स्थेति ।। चक्षुस्स्थं यत्पीतं पित्तं तेन योगाच्छङ्खेपि पीतधीः पीतश्शङ्ख इति धीर्भवति यतोऽतः पीतश्शङ्ख इति भ्रमेऽपि पारंपर्यतः चक्षुस्संयोगश्शङ्खे तस्मिंश्च नायनपित्तसम्बन्धस्तत्र च पीतिमेति परंपरया शङ्खेपि पीतगुण-सम्बन्धोऽस्ति । अतः पीतश्शङ्ख इति भ्रम इति भावः । तथाच विशेष्येन्द्रिय-सन्निकर्षो विशेषणेन्द्रियसन्निकर्षश्चेति द्वयमपि ज्ञानसामान्य सामग्रीत्युक्तं भवति ।। ४६४ ।।
सत्यप्रमोदटीका
भ्रमो द्विविधः सोपाधिको निरुपाधिकश्चेति । सोपाधिकः उपाधिनिमित्तको विशेषदर्शनानिवर्त्यः शङ्खः पीत इत्यादिः । तत्र चक्षुर्गतपित्तपीतिमोपाधिः । निरुपाधिकः इदं रजतमित्यादिः । एतावता निरुपाधिकभ्रमे आरोपितेन चक्षुषः प्रत्यासत्तिरुपपादिता । इदानीं सोपाधिक-भ्रमेऽपि तां दर्शयति चक्षुःस्थेति । अत्रारोपितः पीतिमा । चक्षुर्गतं पीति-मोपेतं पित्तद्रव्यं रश्मिद्वारा शङ्खेन सम्बन्ध्यते । वस्तुगत्या पित्तद्रव्यगतः पीतिमा तत्सम्बद्धे शङ्ख आरोप्यते । तथा च चक्षुस्संयुक्तशङ्खसम्बद्धपित्तद्रव्य-वृत्तित्वमेव चक्षुःपीतिम्नोः प्रत्यासत्तिरिति भावः।तथा च विशेषणप्रत्या-सत्तिरपि प्रमायामिव भ्रममात्रसाधारणीति भावः।। ४६४ ।।
युक्तिमल्लिका
सादृश्यं सदृशान्यार्थज्ञापनाय स्वयं पटु ।
तदेकत्वज्ञापनाय दोषाऽऽश्लेषमपेक्षते ।। ४६५ ।।
सुरोत्तमटीका
तर्हि भ्रमेऽपि सादृश्यादिनैवालं किं दोषेणेत्यत आह ।। सादृश्यमिति ।। सादृश्यं शुक्तौ रजतसादृश्यं शुक्तिसदृशो योऽयमन्योऽर्थो रजतादिः तज्ज्ञापनाय स्वयं पटु । रजतं कीदृशमित्युक्ते शुक्तिसदृशमित्युक्ते यथा शुक्तिस्तथेति स्वनिष्ठसादृश्यप्रतियोगितया तज्ज्ञापनाय दोषं नापेक्षत इति भावः । तदेकत्वज्ञापनाय यच्छुक्तिसदृशं रजतादि तस्यैकत्वमभेदस्तज्ज्ञापनाय रजतमेवेदमिति ज्ञापनायेत्यर्थः । दोषाश्लेष काचादिदोषसम्बन्धमप्यपेक्षते । चक्षुरपेक्षत इति योजना ।। ४६५ ।।
सत्यप्रमोदटीका
नन्वेवं सादृश्येनासन्निकृष्टस्य प्रधानभूतस्य रजतस्योप-स्थितिरित्युक्तम् । तर्हि तेनैव भ्रमनिर्वाहे दोषस्य क्वोपयोगः । येनाप्रामाण्यस्य परतस्त्वं सिध्येदित्यत आह सादृश्यमिति । स्वयं दोषनिरपेक्षम् । अपेक्षते चक्षुरिति शेषः । तच्च कर्तृवाचकम् । इदमुक्तं भवति । सत्यमेवं सादृश्येनैव प्रधानस्योपस्थितिरिति । न तावन्मात्रेण भ्रमः । इयं शुक्तिरिति प्रमास्थलेऽपि रजतोपस्थितिसम्भवात् । किं नामाधिष्ठानप्रधानयोरभेदस्यात्यन्तासतो विद्य-मानत्वेन ज्ञानमेव भ्रमः । न च तद्दोषं विना सम्भवतीति भ्रमस्य नियमेन दोषापेक्षत्वात् परतस्त्वमेवेति ।। ४६५,४६६ ।।
युक्तिमल्लिका
अतोऽन्यस्यान्यताबोधे दोषोऽप्यन्विष्यते बुधैः ।
अत्यन्तमसतोऽर्थस्य सत्ताधीः कथमन्यथा ।। ४६६ ।।
सुरोत्तमटीका
तदेव विशदयति ।। अत इति ।। अन्यताबोधे अन्या-भेदबोधे । अन्यथा दोषाभावे अत्यन्तमसतः सर्वदा अविद्यमानस्यार्थस्य शुक्तिरजततादात्म्यस्य ।। ४६६ ।।
युक्तिमल्लिका
विशेषणाभेदबोधे विशेष्येन्द्रियसङ्गमः ।
प्रमास्वलं मे सामान्यसामग्री सा भ्रमेऽपि यत् ।। ४६७ ।।
सुरोत्तमटीका
प्रकारान्तरेण प्रमाया ज्ञानसामान्यसामग्रीजन्यत्वमुप-पादयति ।। विशेषणेति ।। विशेषणं घटादिविशेष्यं अयमित्युल्लिख्यमानः पुरोवर्ती । तत्र विशेषणस्य घटादेर्विशेष्येण पुरोवर्तिना सहाभेदबोधे विशेषण-तादात्म्यबोधे घटोऽयमिति तादात्म्यबोध इति यावत् । विशेष्यं पुरोवर्ति । इन्द्रियं चक्षुरादि । तयोस्संगमस्सम्बन्धः प्रमासु घटोऽयमित्यादितादात्म्यप्रमासु मे मम मते अलं पर्याप्तम् । विशेषणघटस्यैव पुरोवर्तिविशेष्यात्मकत्वेनाति-प्रसङ्गाभावात् । पृथग्विशेषणसन्निकर्षरूपगुणो नापेक्ष्यत इति भावः । विशेष्यसन्निकर्षश्च भ्रमसाधारणत्वात् ज्ञानसामान्यसामग्रीत्याह ।। सामान्येति ।। सा विशेष्येन्द्रियसन्निकर्षरूपा सामग्री ज्ञानसामान्यसामग्री । तत्र हेतुर्भ्रमेऽपीति ।। यद्यस्मात्कारणात् भ्रमेऽपि विशेष्येन्द्रियसंयोगरूपा सामग्य्रस्ति । विशेष्यभूतशुक्तिशकलेनेन्द्रियसन्निकर्षस्य तत्रापि सत्त्वात् ।। ४६७ ।।
सत्यप्रमोदटीका
एवं विशेषणविशेष्योभयसन्निकर्षः इन्द्रियस्य ज्ञान-सामान्यसामग्रीत्युपेत्य भ्रमेऽपि विशेषणेन परम्परया सादृश्योपाधिकः सन्निकर्ष उपपादितः । इदानीं तादात्म्यप्रमायां घटोऽयमित्यादिरूपायां विशेष्य-विशेषणयोरभेदेन विशेष्येन्द्रियसन्निकर्ष एव सामग्री । सैव भ्रमसाधारण्या-ज्ज्ञानसामान्यसामग्रीति वर्णनेन एवमपि प्रमाया ज्ञानसामान्यसामग्रीजन्यत्वं निराबाधमिति तत्स्वतस्त्वं प्रकारान्तरेण निरूपयति विशेषणेति ।। ४६७ ।।
युक्तिमल्लिका
अतो घटोऽयमित्याद्या घटाद्यैक्यप्रमा मम ।
साक्षात्कारेज्ञानहेतुमात्रजन्याऽखिलाभवत् ।। ४६८ ।।
सुरोत्तमटीका
तादात्म्यप्रमास्थले उपपादितमर्थमुपसंहरति ।। अत इति ।। अत उक्तरीत्या विशेष्येन्द्रियसन्निकर्षेणैव पूर्तेः तस्य च विशेष्येन्द्रिय-सन्निकर्षो विशेषणज्ञानं तयोरसंसर्गाग्रह इत्युक्तसामान्यसामग्रीरूपत्वादित्यर्थः । साक्षात्कारज्ञानहेतुमात्रजन्या साक्षात्कारज्ञानसामान्यसामग्रीजन्येति यावत् ।। ४६८ ।।
सत्यप्रमोदटीका
साक्षात्कारश्च तज्ज्ञानं चेति विग्रहः । अयं घट इति प्रमायां इदंपदार्थो विशेष्यः । घटो विशेषणम् । उभयोरभेदेन विशेष्येन्द्रिय-सन्निकर्षातिरिक्तो न विशेषणेन्द्रियसन्निकर्षो नामास्ति । इदं रजतमिति भ्रमे तु विशेष्यादिदम्पदार्थाद्विशेषणंरजतं भिन्नम् । तेन विशेषणेन्द्रियसंयोगोऽपि पृथगपेक्षितः । तत् तस्मात् । तस्य रजतस्य । न धीः । उत्तरश्लोकस्थभवे-दित्यनेनान्वयः ।। ४६८, ४६९ ।।
युक्तिमल्लिका
भ्रमे विशेष्यशुक्त्यक्षिसंयोगोऽस्ति विशेषणम् ।
रजतं तु न तत्सङ्गि भिन्नत्वात्तन्न तस्य धीः ।। ४६९ ।।
सुरोत्तमटीका
अप्रमाया उक्तसामान्यसामग्रीजन्यत्वाभावमुपपादयति ।। भ्रम इति ।। विशेष्याच सा शुक्तिश्चेति विग्रहः । विशेषणं रजतं तु तत्संग्यक्षिसङ्गिनेति सम्बन्धः । भिन्नत्वाद्विशेष्यशुक्तिभिन्नत्वात् । अतः प्रमायामिव विशेष्यसन्निकर्ष एव विशेषणसन्निकर्षो नाभूदिति भावः । तत्तस्माद्विशेषणभूतरजतसन्निकर्षाभावात् तस्य रजतस्य धीः प्रमायां क्लृप्त-सामान्यसामग्रीमात्रतः प्रमायां क्लृप्ता या सामान्यसामग्री विशेष्यसन्निकर्ष-मात्ररूपा तन्मात्रतस्तस्मादेवेत्यर्थः । न भवेदिति योजना । प्रमायामिव विशेष्यविशेषणयोरभेदाभावेन विशेष्यसन्निकर्षस्यैव विशेषणसन्निकर्षत्वाभावा-त्पृथक्सन्निकर्षस्य च रजतरूपविशेषणस्यात्यन्तासत्त्वेनासम्भवादसन्निकृष्टे चार्थे चक्षुषो ज्ञानजनकत्वादर्शनादिति भावः । तथा चाक्ष्णाऽसन्निकृष्टरजतबोधनाय दोषोऽप्यवश्यमपेक्ष्यत इति भावेनाह ।। असन्निकृष्टेति ।। असन्निकृष्टं यद्रजतं तद्दृष्ट्यै ।। ४६९,४७० ।।
युक्तिमल्लिका
प्रमायां क्लृप्तसामान्यसामग्रीमात्रतो भवेत् ।
असन्निकृष्टतद्दृष्ट्यै दोषोऽप्येष्टव्य एव हि ।। ४७० ।।
सत्यप्रमोदटीका
क्लृप्तेति । विशेष्येन्द्रियसन्निकर्षरूपादित्यर्थः । असन्निकृष्टेति असत्त्वाच्चक्षुस्संयोगायोग्येत्यर्थः । तद्दृष्ट्यै रजतोल्लेखिज्ञानाय दोषोऽपीति । तथा च अप्रमायाः परतस्त्वं अस्मिन्नपि प्रकारे निष्प्रत्यूह-मित्यर्थः ।। ४७० ।।
युक्तिमल्लिका
विशेषणस्य भेदेऽक्ष्णा तत्संसर्गोऽप्यपेक्ष्यते ।
साऽपि सामान्यसामग्री यद्भ्रमेऽप्यस्ति तादृशि ।। ४७१ ।।
सुरोत्तमटीका
दण्डी कुण्डलीत्यादिविशेषणसंसर्गप्रमायान्तु विशेषण-तादात्म्यप्रमायामिव न विशेष्यसन्निकर्षमात्रेणालम् । पृष्ठनिहितदण्डे दण्डीति ज्ञानाभावात् । अतो विशेषणसन्निकर्षोऽप्यधिकोऽपेक्षितः । स च तादृश-संसर्गारोपेऽपि विद्यमानत्वान्न विशेषसामग्रीत्याह ।। विशेषणस्येति ।। भेदे विशेष्याद्भेदे । तत्संसर्गःविशेषणसंसर्गः । सापि विशेषणसंसर्ग घटितापि । यद्यस्मात्तादृशि तत्संसर्गप्रमासदृशि संसर्गारोपरूप इति यावत् । अस्ति तस्माद्भ्रमसाधारणत्वात् सामान्यसामग्रीति पूर्वेणान्वयः ।। ४७१ ।।
सत्यप्रमोदटीका
एवं विशेषणतादात्म्यप्रमायां स्वतस्त्वं, तादृशभ्रमे परतस्त्वं च व्युत्पाद्य विशेषणसंसर्गप्रमायां तादृशभ्रमे च ते उपपादयति विशेषणस्येति । तत्संसर्गः विशेषणसंसर्गः । अपिशब्दो विशेष्येन्द्रिय-संसर्गसमुच्चये । साऽपि उभयसंसर्गरूपाऽपि । सामान्यसामग्री ज्ञानसामान्य-सामग्री । यत् यस्मात् । तादृशि । सप्तम्यन्तम् तथाविधे । भ्रमे विशेषण-संसर्गभ्रमे ।। ४७१ ।।
युक्तिमल्लिका
वस्तुतः काकिनि गृहे काककोकिलवत्तयोः ।
प्रमायां च भ्रमे चाक्ष्णः किं न काकगृहान्वयः ।। ४७२ ।।
सुरोत्तमटीका
संसर्गप्रमायां संसर्गभ्रमेच विशेषणसन्निकर्षस्य साधारण्यं प्रदर्शयति ।। वस्तुत इति ।। वस्तुतस्स्वभावतः । काकिनि काकवति काक-कोकिलवत्तयोः प्रमायां भ्रमेच काकवदिति काकसंसर्गप्रमायां काके कोकिलत्वमारोप्य कोकिलवदिति विशेषणसंसर्गभ्रमे चाक्ष्णः काकगृहान्वयः विशेषणीभूतकाकसंसर्गः विशेष्यभूतगृहसंसर्गः पृथक्पृथक्किं नेति सम्बन्धः । तस्माद्विशेषणप्रमायां विशेषणभ्रमे च विशेष्यविशेषणयोरुभयोरपि संसर्ग-स्साधारण एवेति भावः ।। ४७२ ।।
सत्यप्रमोदटीका
काकवद्गृहमिति प्रमा । तत्रैव कोकिलवदिति भ्रमः । तयोः । प्रमायां च भ्रमे च प्रमाभ्रमयोः । काककोकिलवत्तयोरित्यनेनान्वयः । काकगृहान्वयः विशेषणविशेष्ययोरुभयोः चक्षुस्संसर्गः । तथा च स एव ज्ञान सामान्यसामग्रीति तन्मात्रजन्यत्वात्प्रामाण्यस्वतस्त्वसिद्धिरिति भावः ।। ४७२ ।।
युक्तिमल्लिका
तत्रापि कोकिलोऽसङ्गी तद्भ्रान्तिर्दोषजैव तत् ।
अतश्चोक्तं समस्तं च तत्वमासीदनाकुलम् ।। ४७३ ।।
सुरोत्तमटीका
तर्हि भ्रमे दोषोऽपि नापेक्षितः किं नेत्याह ।। तत्रा-पीति ।। कोकिलवद्गृहमिति ज्ञानेऽपि कोकिलः काकाभिन्नतया ज्ञायमानः कोकिलोऽसङ्गी चक्षुरसङ्गी । तत्तस्मात्कोकिलसंसार्गाभावात्तद्भ्रान्तिर्दोषजैवेति योजना । उक्तमर्थमुपसंहरति ।। अत इति ।। उक्तं समस्तं प्रमाया ज्ञानसामान्यसामग्रीमात्रजन्यत्वम् अप्रमायाश्च दोषसहितज्ञानसामान्यसामग्री-जन्यत्वम् ।। ४७३ ।।
सत्यप्रमोदटीका
तत्रापि कोकिलवद्गृहमिति भ्रमेऽपि । असङ्गी । असत्त्वात्संयोगायोग्यः । तत् तस्मात् । दोषजैवेति । अविद्यमानकोकिलोप-स्थित्यर्थं दोषो नियमेनापेक्षित इत्यर्थः । तथा चाप्रामाण्यस्य परतस्त्व-सिद्धिरिति भावः । उपसंहरति अत इति ।। ४७३ ।।
युक्तिमल्लिका
यथा घटादिकार्येषु दण्डत्वेनैव लाघवात् ।
हेतुता दण्डदाढर्््यादि, त्ववच्छेदकमेव ते ।। ४७४ ।।
सुरोत्तमटीका
दोषाभावस्य यादृच्छिकसंवादिनि व्यभिचारात् न प्रमाकरणतेत्युक्तम् । प्रकारान्तरेणापि तस्य कारणतां निराकरोति ।। यथेति ।। दण्डस्येति शेषः ।। ४७४ ।।
सत्यप्रमोदटीका
दोषाभावस्य प्रमां प्रति न कारणत्वं अन्यथासिद्धेः व्यभिचाराच्चेति वक्तुमादौ अन्यथासिद्धिं पराङ्गीकृतन्यायेन व्युत्पादयति यथेति । दण्डस्येति शेषः । ते इत्यनेनास्य न्यायस्य पराङ्गीकृतत्वप्रसिद्धिं द्योतयति । तदुक्तं मणौ ‘येन सहैव यस्य पूर्ववृत्तित्वमवगम्यते तत्तेनान्यथा-सिद्धमि’ति ।। ४७४ ।।
युक्तिमल्लिका
तथा चक्षुश्च चक्षुष्ट्वेनैव हेतुर्लघुत्वतः ।
अदुष्टत्वं तु तन्निष्ठमवच्छेदकमस्तु मे ।। ४७५ ।।
सुरोत्तमटीका
दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह ।। तथेति ।। हेतुः प्रमाहेतुः । तन्निष्ठं चक्षुर्निष्ठं ।। ४७५ ।।
सत्यप्रमोदटीका
दार्ष्टान्तिके योजयति तथेति । तदुक्तं तर्कताण्डवे प्रमायां दोषाभावस्य हेतुत्वभङ्गे ‘क्लृप्तकारणं चक्षुरादिकमादायैव दोषाभावस्य प्रमां प्रति नियतपूर्वभावित्वग्रहणेन दण्डत्ववद्दण्डगतदाढर्््यवत् चक्षुरादिनिष्ठ-कारणतावच्छेदकत्वमात्रेणान्वयव्यतिरेकयोरुपपत्तौ दोषाभावे कारणतायाः दोषाभावत्वे कारणतावच्छेदकतायाश्च कल्पने गौरवादि’ति । अस्तु मे इत्यनेन इदं सूचयति । ‘अदुष्टमिन्द्रियं त्वक्षं’ इत्यादौ ब्रह्मतर्केऽन्यत्र च यत्र दोषा-भावस्य लक्षणशरीरे प्रवेशस्तत्रापि न तस्य प्रमां प्रति कारणत्वमभिप्रेतम् किन्तु कारणतावच्छेदकप्रतिबन्धकाभावादिसाधारणं प्रयोजकत्वमात्रम् । अन्यथा ‘दोषाभावोऽपि न कारणमि’ति तत्त्वनिर्णयटीकया ‘तर्हि दोषाभावः कारणमित्यायातमिति चेन्न । तथा सति उत्सर्गापवादयोः क्वाप्यभावप्रसङ्गात्’ इति सुधया च विरोधापत्तेः । ‘दोषाभावस्य कारणत्वेन च नास्माकमनिष्टम् । तावता वेदापौरुषेयत्वाव्याघातादि’ति भाष्यटीकाऽपि प्रयोजकत्वाभिप्रायेणैव नेया इति ।। ४७५ ।।
युक्तिमल्लिका
अभावगुणजाऽप्येवं या न सा न गुणान्तरात् ।। ४७६ ।।
सुरोत्तमटीका
दोषाभावस्यावच्छेदकत्वे किं सिद्धमित्यत आह ।। अभावेति ।। या प्रमा । गुणान्तरात् भावरूपगुणात् । सा प्रमा तदुत्पन्ना नेत्यर्थः ।। ४७६ ।।
सत्यप्रमोदटीका
प्रयोजकत्वोक्तेः प्रकृतोपयोगमाह अभावेति ।। या सा इति प्रमापरामर्शः । गुणान्तरात् उत्पन्नेति शेषः ।। ४७६ ।।
युक्तिमल्लिका
भ्रमे त्वत्यन्तासतोऽपि सत्ताया बोधसाधने ।
दोषस्य हेतुताऽवश्यं वाच्या तत्परतोऽप्रमा ।। ४७७ ।।
सुरोत्तमटीका
अप्रामाण्यपरतस्त्वमावश्यकमित्याह ।। भ्रमेत्विति ।। अत्यन्तासतोऽपीत्यनेन सन्निकर्षाभावं सूचयति । तत्तस्माद्दोषस्यावश्यम्भावात्
।। ४७७ ।।
सत्यप्रमोदटीका
‘अत्यन्तमसतोऽर्थस्य सत्ताधीः कथमन्यथा’ इति हेतुपुरस्सरं प्राग्व्युत्पादितमप्रामाण्यस्य परतस्त्वं स्मारयति भ्रमेत्विति ।।४७७।।
युक्तिमल्लिका
यद्वा चक्षुः प्रमाहेतुर्दोषस्तु प्रतिबन्धकः ।
प्रतिबन्धस्य चाभावो न हेतुरिति साधितम् ।। ४७८ ।।
सुरोत्तमटीका
दोषाभावस्य प्रमाकरणत्वाभावं प्रकारान्तरेण साधयति ।। यद्वेति ।। प्रतिबन्धकः प्रमाप्रतिबन्धकः ।। ४७८ ।।
सत्यप्रमोदटीका
कारणताऽवच्छेदकत्वोक्त्याऽन्यथासिद्धिं व्युत्पाद्य प्रकारान्तरेणापि दोषाभावस्यान्यथासिद्धिं वर्णयति यद्वेति । प्रमाहेतुः उत्सर्गतः । साधितमिति ‘अतो न कारणीभूताभावस्य प्रतियोगिता’ इत्यादिना प्राक् । ननु परनिरूपितान्यथासिद्धिविभागेषु अयं प्रतिबन्धकाभावलक्षणोऽ-न्यथासिद्धिप्रकारो नान्तर्भवतीति चेत् मा भूत् । नायं अन्यथासिद्धशब्दो यौगिक इति परोऽपि मन्यते । आत्माश्रयापत्तेः । किं नाम लोकव्यवहारानु-सारेण पारिभाषिक इत्येव । तथा च दण्डत्वादौ लौकिकानां कारणत्व-व्यवहाराभावेन तत्र यथाऽन्यथासिद्धिः परिभाषिता तथा प्रतिबन्धकाभावेऽपि तथा व्यवहाराभावेनान्यैवान्यथासिद्धिः औत्सर्गिककार्यापवादकनिरासकत्वरूपा परिभाष्यतामिति यत्किञ्चिदेतत् ।। ४७८ ।।
युक्तिमल्लिका
यादृच्छिकार्थनिर्बाधबोधऽस्मिन्दृष्टिलिङ्गजे ।
व्यभिचारात्प्रमाहेतुर्दोषाभावो न कुत्रचित् ।। ४७९ ।।
सुरोत्तमटीका
व्यभिचाराद्दोषाभावस्य गुणस्य च न कारणतेत्युक्तम् । तद्विशदयन्नुक्तपक्षद्वयं सह संगृह्णाति ।। यादृच्छिकेति ।। यादृच्छिकश्चा-सावर्थनिर्बाध बोधश्चेति विग्रहः । यादृच्छिकप्रमायामिति यावत् ।। ४७९ ।।
सत्यप्रमोदटीका
एवं प्रकारद्वयेनान्यथासिद्धिं निरूप्य दोषाभावस्य गुणस्य च कारणत्वं व्यभिचारनिरूपणेनापि प्रत्याचष्टे यादृच्छिकेति । अर्थस्य निर्बाधबोधः प्रमा । अस्मिन्निति प्रागुक्तधूमभ्रमादिनिदर्शनानि परामृशति । दृष्टीत्यनेन मणिप्रभायां मणिभ्रम उदाहर्तव्यः । यादृच्छिकेत्युपलक्षणम् । नियमेन प्रमास्वपि दोषभावप्रमयोर्व्यभिचारो ध्येयः । यथोक्तं तर्कताण्डवे ‘किञ्च करादौ चरणादिभ्रमजन्ये संशयानन्तरभाविनि नियमेन प्रमारूपे पुरुष-साक्षात्कारे विशेषप्रमारूपस्य, वह्न्यालोके धूमभ्रमजन्यायां नियमेन प्रमाया-मनुमितौ यथार्थलिङ्गपरामर्शरूपस्य, भ्रान्तविप्रलम्भकवाक्यजन्यायां नियमेन प्रमायां शाब्दप्रतीतौ यथार्थवाक्यार्थज्ञानरूपगुणस्याभावेऽपि प्रमात्वदर्शनेन व्यतिरेकव्यभिचारोऽपी’ति । अत्र गुणस्येत्युपलक्षणम् । दोषाभावस्येत्यपि विभाव्यम् । अत्रैव उक्तनिदर्शनेष्वेव ।। ४७९,४८० ।।
युक्तिमल्लिका
गुणान्तरं च सल्लिङ्गपरामर्शादिशब्दितम् ।
यतोऽत्रैव न तच्चातो न प्रमाकारणं क्वचित् ।। ४८० ।।
सुरोत्तमटीका
अत्रैव प्रमारूपयादृच्छिकानुमितावेव तद्गुणान्तरम् ।। ४८० ।।
युक्तिमल्लिका
तस्माद्द्विरूपज्ञानस्य सामग्री च द्विरूपिणी ।
सामान्या प्रायिके ज्ञाने यतस्सर्वत्र सर्वदा ।। ४८१ ।।
प्रमैव प्रायशो नॄणां क्वाचित्के तु ततोऽपरा ।
काचादिदोषजा भ्रान्तिर्न हि सर्वस्य सर्वदा ।। ४८२ ।।
सुरोत्तमटीका
तस्मादुक्तविधया प्रमाया गुणजन्यत्वाभावात् । द्विरूपज्ञानस्य प्रमाप्रमारूपज्ञानस्य सामग्री च द्विरूपिणी । ज्ञानस्य प्रमा-प्रमारूपतया द्विरूपत्वेन तृतीयज्ञानकोटेरभावात् सामग्य्रपि प्रमासामग्री भ्रम-सामग्रीचेति द्विरूपिण्येव । ननु प्रमासामग्य्रतिरिक्तज्ञानसामान्यसामग्रीमादाय त्रिरूपिणी । किं तु सामान्यसामग्री प्रमायां दोषघटितसामग्य्रप्रमाया-मित्येवालम् । सामान्यसामग्य्रा एव प्रमासामग्रीत्वमुपपादयति ।। सामान्येति ।। प्रायिके बाहुल्येन जायमाने ज्ञाने प्रमारूपज्ञाने । सामान्या ज्ञानसामान्यसामग्री युक्ता । उभयोरपि सामान्यरूपत्वेन योग्यं योग्येन संबध्यत इति न्यायादिति भावः । प्रमायां प्रायिकत्वं साधयति ।। यत इति ।। यतो नॄणां सर्वत्र सर्वदा प्रमैव भवति । नहि कोऽपि मनुष्यस्स्वस्वगृहकलत्रपुत्रवित्तादौ सर्वदा भ्राम्यति । यतः पशुपक्ष्यादयोऽपि स्वगोष्ठस्वनीडादौ न भ्रान्ता भवन्ति । अतः प्रमाया औत्सर्गिकत्वेन सामान्यरूपत्वमिति भावः । क्वाचित्के तु अति-दूरत्वादिदोषवशात्कदाचिज्जायमाने भ्रमेतु । ततस्सामान्यसामग्रीतोऽपरा दोषसहिता विशेषसामग्रीति योजना । भ्रमस्य तत्सामग्य्राश्च विशेषरूपत्वादिति भावः । भ्रमस्य क्वाचित्कत्वमुपपादयति ।। काचादीति ।। एवं च प्रमा-भ्रमयोस्सामान्यविशेषरूपयोस्तादृशसामग्रीजन्यत्वावश्यम्भावादेकत्र स्वतस्त्व-मपरत्र परतस्त्वमिति युक्त्यन्तरमेतदिति भावः ।। ४८१,४८२ ।।
सत्यप्रमोदटीका
तार्किका ज्ञानसामान्यसामग्री प्रमासामग्री भ्रमसामग्री चेति त्रिरूपां सामग्रीमाहुः । तदयुक्तम् । ज्ञानसामान्यसामग्रीप्रमासामग्रयोर-भेदस्य समर्थितत्वेन द्विरुपैव सामग्रीत्याह द्विरूपेति । हेतुगर्भं विशेषणम् । प्रमा भ्रमश्चेति ज्ञानं द्विरूपमेव । अतः तत्सामग्य्रा अपि द्विरूपत्वमेव । उपपादयति सामान्येति । प्रायिके उत्सर्गतो जायमाने । ज्ञाने प्रमारूपे । सामान्या ज्ञानसामान्यसामग्री एव हेतुः । न हि वेत्रबीजेनोत्सर्गतो जायमाने वेत्राङ्कुरेऽतिरिक्तहेत्वपेक्षाऽस्तीति भावः । क्वाचित्केऽपवादेन कदलीकाण्डजनन एव दावदहनस्यातिरिक्तस्य हेतुत्वम् । प्रमाया औत्सर्गिकत्वं सर्वानुभवसिद्ध-मित्याह प्रमैवेति । नॄणामित्युपलक्षणम् प्राणिमात्राणामिति ध्येयम् । अपवादस्य क्वाचित्कत्वमभिनीय दर्शयति काचेति । करणानां प्रामाण्य-जननशक्तेः सहजत्वं अप्रामाण्यजननशक्तेरन्याहितत्वमित्येतावन्मात्रेण स्वतस्त्व परतस्त्वविभाग इति निष्कर्षः
।। ४८१, ४८२ ।।
युक्तिमल्लिका
उत्पत्तावपि च ज्ञप्तौ तस्मात्सद्भिरुदीरितम् ।
स्वतस्त्वं परतस्त्वं च तत्वं वित्त्वस्य साधकम् ।। ४८३ ।।
सुरोत्तमटीका
प्रामाण्यस्य स्वतस्त्वसाधनमुपसंहरति ।। उत्पत्ताविति ।। प्रामाण्यस्य स्वतस्त्वमप्रामाण्यस्य परतस्त्वम् । वित्त्वस्य विदो भावो वित्त्वम् । विद्वत्त्वस्येत्यर्थः ।। ४८३ ।।
सत्यप्रमोदटीका
निगमयति उत्पत्ताविति । सद्धिः वित्त्वस्य चेत्युक्त्या उक्तं तत्त्वमनङ्गीकुर्वाणाः असन्तः अज्ञानिनश्चेत्यभिप्रैति ।। ४८३ ।।