ऐक्यं च निर्गुणत्वं च न श्रौतं नापि युक्तिमत्

ऐक्यं निर्गुणत्वं च न मोक्षः

युक्तिमल्लिका

ऐक्यं च निर्गुणत्वं च न श्रौतं नापि युक्तिमत् ।। ४२७ ।।

सुरोत्तमटीका

 एवं सति स्वाघटितघटकशक्त्या स्वस्य जीवैक्यं निर्गुणत्वं च कुतो भगवान्न घटयतीत्यत आह ।। ऐक्यमिति ।। शक्तोऽपि भगवांच्छ्रुत्यादिप्रमाणसिद्धमेवार्थं घटयेत् । न त्वप्रामाणिकं शशशृृङ्गमपि घटयेत् । ऐक्यादिकं च शशशृृङ्गवदप्रामाणिकं प्रमाणविरुद्धं चातस्तदपि न घटयतीति भावः ।। ४२७ ।।

सत्यप्रमोदटीका

 अल्पशक्तिना जीवनैक्यं ऐश्वर्यादिगुणहीनत्वं निर्गुणत्वं च अप्रमिते सर्वशक्तिमत्त्वेश्वरत्वरूपस्वमाहात्म्यविघटके च । अत एतान्न घटयेदेवेत्याह ऐक्यमिति । विवृतमेतद्गुणसौरभे (श्लो.९९६–१००१) ।। ४२७–४२९ ।।

युक्तिमल्लिका

रुणद्धि यद्धि घटकशक्तीशत्वे महाप्रभोः ।

घटयेन्नेदृशानर्थकरमर्थं स बुद्धिमान् ।। ४२८ ।।

सुरोत्तमटीका

 युक्त्यन्तरं चाह ।। रुणद्धीति ।। यदैक्यादिकं घटक-शक्तीशत्वे अघटित घटकशक्तिमीशत्वं रुणद्धीति सम्बन्धः । अर्थं स्वशक्ती-शत्वनाशकमैक्यनिर्गुणत्वादिकं नीचजीवैक्यघटने कृते सति स्वस्यापि नीचत्वापत्त्येशत्वहानेः निर्धर्मकत्वरूपनिर्गुणत्वघटने चाघटितघटकशक्ति-रूपधर्मस्यैव लोपप्रसङ्गात्तदुभयं न घटयतीति भावः ।। ४२८ ।।

युक्तिमल्लिका

दुःखं सन्धित्सतो यत्सा शक्तिः प्रच्यवते बहिः ।। ४२९ ।।

सुरोत्तमटीका

 अत एव स्वात्मनि दुःखमपि न घटयेदित्याह ।। दुःखमिति ।। यद्यस्माच्छक्तश्च दुःखीचेत्यस्य परस्परं विरुद्धत्वादघटित-घटकोऽपि भगवान् स्वमहिमाऽघातकं किन्तु सुतरां स्वमहिमसम्पादकं च यद्भवति तदेव घटयेत् । न तु स्वानर्थकरमैक्यादिकम् । न हि रिपूदरविदारण-समर्थनखरो नरहरिस्स्वोदरविदारणं कुरुते ।। ४२९ ।।

युक्तिमल्लिका

यस्सर्वेश्वरतागुप्त्यै सेहे विप्रपदा हतिम् ।

स्वमहिमि्न महांस्तस्य भरः स्तोत्रर्थकारिणः ।। ४३० ।।

सुरोत्तमटीका

 स्वमहिमानं भगवान्कदापि न जहातीत्येतद्भगवच्चरित्रे-णैवानुभावयति ।। य इति ।। विप्रपदाहतिं भृगुमुनेः पादघातम् । स्तोत्रर्थ-कारिण इति हेतुगर्भविशेषणम् । स्वमहिमि्न तात्पर्याभावे स्वस्तोतॄणां मोक्षादिपुरुषार्थं कुतो दत्त इति भावः ।। ४३० ।।

सत्यप्रमोदटीका

 गुप्त्यै अज्ञजनेष्वपि प्रख्यापनार्थम् । सेहे तन्निमित्तकविकारवान्नाभूत् । महान् भरः महातात्पर्यम् । ‘न तादृशी प्रीतिरीड्यस्य विष्णोर्गुणोत्कर्षज्ञातरि यादृशी स्यात्’ इत्युक्तेः ।। ४३० ।।

युक्तिमल्लिका

साऽयोध्याख्या हरिपुरी रत्नगोपुरमण्टपा ।

श्रीरेव नगराकारा सेवते स्वपतिं किल ।

भक्ता परममुक्तास्ते नित्यमुक्तो हरिः प्रभुः ।। ४३१ ।।

सुरोत्तमटीका

 सा या सनकादिभिरगम्या । तेऽपि भगवत्परिचर्यां कुर्वतः ।। ४३१ ।।

सत्यप्रमोदटीका

 सेवते ‘स्वयमिन्दिरैव पतिमानकरी गृहकर्म यत्र कुरुते सुतरामि’त्युक्तेः ।। ४३१ ।।

युक्तिमल्लिका

तस्माज्जीवेश्वराभेदो जीवाभेदोऽद्वितीयता ।

निराकारत्वमज्ञत्वं निर्गुणब्रह्म यत्तव ।। ४३२ ।।

अप्रामाणिकमेवेदं सर्वमासीन्न संशयः ।

उक्ते परममोक्षेऽस्मिन्यन्नाभूत्कुत्र तद्भवेत् ।। ४३३ ।।

अतो दुराशां सन्त्यज्य भज कृष्णपदाम्बुजम् ।

गर्ते वा पत मध्ये ते स्थितिर्लज्जाऽतुरस्य न ।। ४३४ ।।

सुरोत्तमटीका

 तस्मात्परममोक्षस्थल्यामपि हरेर्मुक्तसेव्यत्वमनोहराकार-वत्त्वादिमहिमदर्शनात् । अज्ञत्वमज्ञानावृतत्वम् । यदैक्यादिकम् ।। गर्तेऽन्धन्त-मसि ।। ४३२–४३४ ।।

सत्यप्रमोदटीका

 तस्मात् मुक्तावपि भेदादेः गुणानां चानुवृत्तेः ।। गर्ते पूयासृङ्मूत्रविष्ठाकृमिकुलकलिले तमसि । लज्जाऽऽतुरस्येति । तदुक्तं चन्द्रिकायाम् ‘औतिभिर्व्याक्रियते कथमद्वैतदूषकम् । सूत्रजातं स्वसिद्धान्ततया लज्जां विनैव तु’(१.२,५) इति ।। ४३२–४३४ ।।

युक्तिमल्लिका

एवं च सुखरूपेण चक्षुषा सुखरूपिणाम् ।

मुक्तं पश्यति मुक्तोऽन्यः सुखरूपेण जिघ्रति ।। ४३५ ।।

घ्राणेन सुखरूपत्वाद्घ्रेयमेवं सुखात्मना ।

मनसैव विजानीयाद्विज्ञातारं हरिं प्रभुम् ।। ४३६ ।।

इत्येव यत्र त्वस्येति श्रुतिः स्वार्थमुपाददे ।

यतस्सुखं कमित्याहुश्शब्दतत्वविशारदाः ।। ४३७ ।।

सत्यप्रमोदटीका

 ‘केन कं पश्येत्’ इत्यादिश्रुतिं तर्कमुद्रां विनाऽपि मुक्तिस्वरूपसमर्थनपरतया योजयति एवं चेति ।। आहुः ‘कं ब्रह्म’ इत्यादि श्रौतप्रयोगबाहुल्यात् ।। ४३५–४३७ ।।

युक्तिमल्लिका

अन्यार्थस्य महामोक्षेऽप्येतस्मिन्वैष्णवे पदे ।

उक्तरीत्या बाधितत्वादयोग्यं तज्जहौ श्रुतिः ।। ४३८ ।।

विस्तरस्त्वस्य सर्वस्य मूलशास्त्रमहार्णवे ।

द्रष्टव्यश्चित्तशुद्ध्यर्थमेतावच्चर्चितं मया ।। ४३९ ।।

सुरोत्तमटीका

 तत्तस्मात् ।। ४३८–४३९ ।।

सत्यप्रमोदटीका

 अन्यार्थस्य निर्विशेषभावरूपस्य ।। मूलशास्त्र-महार्णवे ‘अस्वातन्त्र्यादिवेत्युक्तं न द्वैताभावतः क्वचित्’ इत्याद्यनुव्याख्यान-तट्टीकासु (४२१) ।। ४३८,४३९ ।।

युक्तिमल्लिका

अतो योग्योरुसौभाग्यापेक्षी मुक्तोऽनुमीयते ।

मुक्तत्वान्नित्यमुक्तोऽसौ यथा स्वानन्दनिर्भरः ।। ४४० ।।

सुरोत्तमटीका

 मुक्तस्य स्वयोग्यसकलसौभाग्योपेतत्वेऽनुमानमप्याह ।। अत इति ।। असौ भगवान् ।। ४४० ।।

सत्यप्रमोदटीका

 अत इति ‘कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि’ इति मुमुक्षुप्रार्थनात् । नित्यमुक्ते नित्यप्राप्तस्यैव प्रेप्सा । अन्यस्य कादा-चित्की । इति विवेकः ।। ४४० ।।

युक्तिमल्लिका

तस्माच्छून्यत्वमोक्षाय नाकाङ्क्षा जायते नृणाम् ।

अनाकाङ्क्षितमोक्षाय न परोक्ता भवेच्छ्रुतिः ।। ४४१ ।।

तस्माच्छुभजनाकीर्णा दिव्यभोगवती स्थितिः ।

मुक्तिरुक्तश्रुतिशतैरप्याम्नानादिति स्थितम् ।। ४४२ ।।

सुरोत्तमटीका

 तस्माद्युक्तिविरुद्धत्वात् । अनाकाङ्क्षितमोक्षाय अनपेक्षित- मोक्षप्रतिपादनायेत्यर्थः । विरक्तं प्रति वाणिज्योपदेशवदनाकाङ्क्षित बोधकस्य वाक्यस्य परं प्रत्यप्रामाण्यप्रसङ्गात् ।। ४४१,४४२ ।।

सत्यप्रमोदटीका

 नेति । ‘सुखहानौ हि को मोक्षाय यतेत्पुमान्’ इत्यनु-व्याख्यानोक्तेः(४२१) ।। आम्नानात् असकृत्प्रतिपादनात् ।। ४४१,४४२ ।।

युक्तिमल्लिका

यत्र मुक्तौ मुक्तवर्गाद्धरेर्द्वैतमिव प्रभोः ।

द्वैतोपमो विशेषश्च भवति स्वगुणादिना ।। ४४३ ।।

मुक्तानां च मिथस्सर्वेशाच्च द्वैतमिवाञ्जसा ।

द्वैतोपमो विशेषश्च भवति स्वगुणादिभिः ।। ४४४ ।।

तत्रैव मोक्षे वैकुण्ठपूर्वके स्वं विजानते ।

परान् जानन्ति भोगांश्च भुञ्जतेऽनुभवन्ति च ।। ४४५ ।।

स्वानन्दमपि ते बह्वीभवन्त्येकीभवन्ति च ।

यानैश्चरन्ति श्लिष्यन्ति क्रीडन्ति च हसन्ति च ।।४४६।।

यत्र मोक्षे सर्वमात्मैवाभूदन्यन्न किञ्चन ।

न द्वैतं न विशेषो वा तत्र ज्ञातृत्वमेव न ।। ४४७ ।।

सुरोत्तमटीका

 भेदकार्यकारित्वेन भेदोपमो यो विशेषस्तत्समर्थन-परतयापि यत्र त्वस्येति वाक्यं योजयति ।। यत्रेति ।। ४४३–४४७ ।।

सत्यप्रमोदटीका

 द्वैतमिवेत्यनेन भेदोपमो भेदकार्यकारी विशेष उच्यते । गुणादिभिरित्यत्रादिपदेन इन्द्रियादिकं ग्राह्यम् ।। स्वं विजानते इत्यनेन कर्तृकर्मभावघटकविशेषोक्तिः ।। ४४३–४४७ ।।

युक्तिमल्लिका

दूरेऽभूद्भोक्तृता तस्मादविद्यास्तमयो न सः ।

विद्याऽस्तमय एवाभूत्स्वज्ञानं च यतोऽस्य न ।। ४४८ ।।

सुरोत्तमटीका

 दूरे इति । भोग्यवस्तुसामान्याभावात् क्रियासामान्या-भावाच्चेति भावः ।। स मोक्षः अस्य मुक्तस्य ।। ४४८ ।।

सत्यप्रमोदटीका

 विद्याऽस्तमय इति । स्वपरविषयकत्वात् । ‘अविषयत्वे ज्ञानत्वमेव न स्यादि’ति भगवत्पादोक्तेः ।। ४४८ ।।

युक्तिमल्लिका

नापि दुःखस्य विध्वंसस्सुखस्य ध्वंस एव सः ।

एकाकी रमते नासौ कथं कामांश्च सोऽश्नुते ।। ४४९ ।।

सुरोत्तमटीका

 सुखध्वंसमेवोपपादयति ।। एकाकीति ।। अनेन तस्मादेकाकी न रमत इति श्रुतिं सूचयति । सोऽश्नुते सर्वान्कामानिति श्रुतिसूचनाय सोऽश्नुत इत्युक्तम् ।। ४४९ ।।

सत्यप्रमोदटीका

 नापीति । ‘मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेदि’ति वचनाद्दुःखस्योद्रेक एवेति भावः । ध्वंस एवेति सुखसाधनस्य द्वितीयस्याभावात् निर्विशेषे ज्ञाने सुखविषयकत्वरूपविशेषाभावाच्चेति भावः ।। ४४९ ।।

युक्तिमल्लिका

इत्याक्षिपन्ती शून्यत्वमोक्षं सर्वानपेक्षितम् ।

वैकुण्ठाख्यं महामोक्षं यत्र द्वैतमिवेति वाक् ।

निरणीनयदेवेयं यतो नावर्तते यतिः ।। ४५० ।।

सुरोत्तमटीका

 यतो वैकुण्ठलोकात् । यत्र नारायणस्साक्षाद्यतो नावर्तते यतिरिति वाक्यसूचनायेत्थमुक्तम् । किञ्च ‘‘नास्ति विष्णोः परं स्थानं नास्ति विष्णोः परं ध्यानं नास्ति मोक्षो ह्यवैष्णव’’ इति वासुदेवसहस्रनामस्थ-रुद्रवाक्येन विष्णुसम्बन्धरहितमोक्षस्य दूषिततया तत्सम्बन्धे सकलसम्पत्समेत-वैकुण्ठस्यैव परममोक्षत्वाद्यत्रत्वस्येति वाक्यमुक्तविधया विशेषसमर्थनपरतया योजनीयम् ।। ४५० ।।

सत्यप्रमोदटीका

 आक्षिपन्ती प्रामाणिकभोगपरित्यागम् अप्रामाणिक-निर्विशेषशून्यात्मकत्वं चेत्यनिष्टद्वयमापादयन्ती । यत इति ‘यद्गत्वा न निवर्तन्ते तद्धाम परमं मम’ इति गीतावचनात् ।। ४५० ।।

युक्तिमल्लिका

विशेषवीक्षितात्मेति यतो भागवते रमा ।

विशेषाणां चाधिपतिं गृणीते स्वपतिं स्फुटम् ।। ४५१ ।।

सुरोत्तमटीका

 अपि च ‘‘ओं नमो भगवते हृषीकेशाय सर्वविशेष-वीक्षितात्मन आकूतीनां चित्तानां चेतसां विशेषाणामधिपतय’’ इति भागव-तस्थरमावाक्ये स्पष्टं भगवति विशेषस्य समर्थितत्वात्तत्परैवेयं श्रुतिरित्याह ।। विशेषेति ।। विशेषवीक्षितात्मा विशेषबलेनेत्यर्थः । वीक्षितः स्वरूपभूत-वीक्षणकर्ताऽऽत्मा स्वरूपं यस्य स तथोक्तः ।। ४५१ ।।

सत्यप्रमोदटीका

 ‘ॐ नमो भगवते हृषीकेशाय सर्वविशेषवीक्षितात्मने आकूतीनां चित्तानां चेतसां विशेषाधिपतये’ इति रमास्तोत्रं (५.१८.१६)  विशेषेति । ‘स आत्मानमेवावेदहं ब्रह्मास्मीति’ इति श्रुत्युक्तद्रष्टृदृश्यभाव-रूपभेदव्यवहारापादकविशेषाख्यशक्तीत्यर्थः । विशेषाणां पदार्थशक्तीनाम् ।। ४५१ ।।

युक्तिमल्लिका

अतो हरौ विशेषोऽस्ति तन्नियम्यश्च देहिषु ।

कथं नाभूद्विशेषोऽयं यो विशिष्यैव गीयते ।

अतो द्वैतमिवेत्युक्तो द्वैतप्रतिनिधिर्हि सः ।। ४५२ ।।

सुरोत्तमटीका

 अतस्स्पष्टस्मृतिसिद्धत्वात् । यो विशेषः ।। ४५२ ।।

सत्यप्रमोदटीका

 गीयते कण्ठोक्त्यैव प्रतिपाद्यते ।। ४५२ ।।

युक्तिमल्लिका

सारूप्यं चैव सालोक्यं सामीप्यं योग एव च ।

मुक्तिश्चतुर्विधा प्रोक्ता भेदापेक्षा हि साऽखिला ।। ४५३ ।।

कुचोद्यकृदवद्यार्थी दृश्यमर्थं न पश्यति ।

किं योगार्थकधातूत्थां सायुज्याख्यां विदुः खलाः ।। ४५४ ।।

युजिर्योगे सहयुजौ सयुजौ शब्दविन्मते ।

तयोर्भावश्च सायुज्यं कथमैक्यमिहोच्यते ।। ४५५ ।।

सुरोत्तमटीका

 अधुना सायुज्यशब्दस्य शब्दशक्त्यैवैक्यपरतां निराकर्तुं सायुज्यस्थाने योगशब्दप्रयोगोपेतस्मृतिवाक्यस्यार्धमेव पूर्वार्द्धं कुर्वं श्चिकीर्षितं प्रतिजानीते ।। सारूप्यमिति ।। दृश्यं द्रष्टुं योग्यम् । सायुज्याख्यां सायुज्यशब्दम् ।। धातुमेव पठन्शब्दनिष्पत्तिं दर्शयति ।। युजिर्योग इति ।। इह सम्बन्धार्थकतया सर्वजनप्रसिद्धधातुनिष्पन्नशब्दे ।।४५३–४५५ ।।

सत्यप्रमोदटीका

 योगः सायुज्यम् । मुक्तिप्रभेदप्रमाणेनैव मुक्तानां मिथो भेदसिद्धिमाह चतुर्विधेति । ‘सालोक्यं च सरूपत्वं सामीप्यं योगमेव च’ इति भाष्योदाहृतगारुडवचनानुसारेण सिद्धेन सायुज्यशब्दस्य सम्बन्ध-वाचकयोगशब्दपर्यायत्वेनैव सायुज्यभाजां परमात्मनो भेदसिद्धिरित्याह युजिरिति ।। ४५३–४५५ ।।

युक्तिमल्लिका

उक्तं पुरैव यद्व्याप्तिं वक्त्यैक्यपदमित्यपि ।

मुख्यत्वान्यत्वार्थकं च तत्किलातो हतोऽस्यहो ।

अतस्सयुक्ततैवासीत्सायुज्यं न त्वभिन्नता ।। ४५६ ।।

सुरोत्तमटीका

 तत् ऐक्यपदम् । अतस्सायुज्यपदस्यैक्यपदस्य च भेदार्थकत्वात् ।। ४५६ ।।

सत्यप्रमोदटीका

 पुरैव गुणसौरभे (श्लो.५२४–५७) व्याप्तिं व्याप्त्यैक्यम् ।। ४५६ ।।

युक्तिमल्लिका

इहाच्युताङ्गगा देवा यन्मुक्तौ च तदङ्गगाः ।

सारूप्यं चैव सामीप्यं सालोक्यं च हरेर्बहिः ।

सदा हर्यङ्गसङ्गस्तु सायुज्यमिति सिद्ध्यति ।। ४५७ ।।

सुरोत्तमटीका

 इह संसारे । अङ्गगाः विश्वरूपस्य हरेर्हस्तपादाद्य-वयवाश्रिताः । यद्यस्मात् । यच्छब्दबलादेव तस्मादिति लभ्यते । इदमेव पदद्वयमावर्तयित्वा सारूप्यमित्यादियोजना कर्तव्या ।। ४५७ ।।

सत्यप्रमोदटीका

 देवाः अङ्गावबद्धाः । यस्मादङ्गाज्जाताः इहापि संसारे यदङ्गे स्थिताः मुक्तावपि तदङ्गस्थिता एव भवन्ति इत्याह इहेति ।। ४५७ ।।

युक्तिमल्लिका

नित्यमुक्ताऽपि तस्य श्रीर्नित्यं वक्षसि लक्ष्यते ।

अनित्यमुक्तः को मुक्तो तदैक्यं प्राप्नुयाद्वद ।। ४५८ ।।

सुरोत्तमटीका

 मुक्तानां भगवदैक्याभावे कैमुत्यं दर्शयति ।। नित्येति ।। वक्षसि लक्ष्यते नत्वैक्यं प्राप्तेति भावः ।। ४५८ ।।

सत्यप्रमोदटीका

 वक्षसीति ‘स्वस्याः स्त्रियस्त्रिजगतो जनको जनन्या वक्षो निवासमकरोत्परमं विभूतेः । श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेन यत्र स्थितैधयत साधिपतींस्त्रिलोकान्’ इत्युक्तेः । अनित्यमुक्तः कादाचित्कमुक्तः ।। ४५८ ।।

युक्तिमल्लिका

प्रलये न लयो यस्याः प्रोद्भवे चास्ति नोद्भवः ।

प्रकृतिः किल या देवी नित्यमुक्ता कथं न सा ।। ४५९ ।।

सुरोत्तमटीका

 लक्ष्म्या नित्यमुक्तत्वमुपपादयति ।। प्रलय इति ।। यस्या लक्ष्म्याः । अस्य जगतः । प्रकृतिः प्रलयेऽप्युर्वरितप्रकृत्यभिमानित्वा-त्प्रकृतिपदवाच्या ।। ४५९ ।।

सत्यप्रमोदटीका

 प्रलय इति यथोक्तं सूत्रभाष्ये (३.३.४२) ‘द्वा-वेतावनादिनित्यौ अनादियुक्तौ नित्यमुक्तौ अनादिकृतौ नित्यकृतौ योऽयं परमो या च प्रकृतिः’ इत्यादि ।। ४५९ ।।

युक्तिमल्लिका

आद्यः कल्पो यतो ब्राह्मो यद्ब्रह्मप्रलयो लयः ।

अतो रमारमेशौ द्वौ सर्गप्रलयवर्जितौ ।। ४६० ।।

सुरोत्तमटीका

 आद्यसर्गान्तिमप्रलययोः प्रतिपादकशब्दार्थपर्यालोचन-यापि ब्रह्मण एव प्रलयो न तु रमारमेशयोरित्याह ।। आद्य इति ।। प्रथमं ब्रह्मण एवोत्पत्तिमत्त्वाद्ब्राह्मसंज्ञः । यद्यस्मात् । ब्रह्मप्रलयो ब्रह्मप्रलयनामको लयो महाप्रलयः । अतो ब्रह्मण एव सर्गप्रलयावधिभूतत्वात् ।। ४६० ।।

सत्यप्रमोदटीका

 सर्गप्रलययोश्चतुर्मुखब्रह्मनामपूर्वकत्वस्यैव प्रमितत्वा-दपि रमारमेशयोरनादिनित्यत्वसिद्धिरित्याह आद्य इति

।। ४६०–४६२ ।।

युक्तिमल्लिका

यौ हि सर्वलये सन्तौ तयोरन्तो न यौक्तिकः ।

अतः प्रागसतस्सत्तासम्बन्धश्च न यौक्तिकः ।। ४६१ ।।

ययोः सृष्टिश्च नष्टिश्च न श्रुता नापि यौक्तिकी ।

लक्ष्मीनारायणौ तौ द्वौ नित्यमुक्तौ न संशयः ।। ४६२ ।।

सुरोत्तमटीका

 सन्तौ विद्यमानौ । अन्तो नाशः । अतः प्रलयेऽपि विद्यमानत्वात् ।। ४६१,४६२ ।।

युक्तिमल्लिका

अतस्त्वां शब्दमर्यादा बाधते बुधसंसदि ।

उक्तरीत्याऽर्थमर्यादाऽप्यनर्थं कुरुते वद (तव) ।। ४६३ ।।

सुरोत्तमटीका

 शब्दमर्यादा सायुज्यादिशब्दमर्यादा । अर्थमर्यादा नित्यमुक्तलक्ष्म्या अप्यैक्याभावरूपार्थमर्यादा ।। ४६३ ।।

सत्यप्रमोदटीका

 त्वाम् ऐक्यवादिनम् । शब्दमर्यादा सायुज्यं सालोक्यं इत्यादिरूपमुक्त्यभिधायकशब्दनिर्वचनेनैव स्पष्टं प्रतीयमानभेदार्थ-रूपा । अर्थमर्यादा मोक्षस्य परमपुरुषार्थरूपगौरवम् । अन्यथा मोक्षस्य शून्यत्वलक्षणानर्थत्वापत्तेः

।। ४६३ ।।

युक्तिमल्लिका

प्रागुक्तश्रुतयश्च त्वां निघ्नन्त्यज्ञ पदे पदे ।

अतो मुक्ताश्रयो ब्रह्मरुद्राद्युत्कृष्टचेतनः ।। ४६४ ।।

सुरोत्तमटीका

 प्रागुक्तश्रुतयः ‘‘सह ब्रह्मणे’’त्यादिश्रुतयः । श्रुतय इत्युपलक्षणम् । ‘‘भेजे खगेन्द्रध्वजपादमूलमि’’त्यादिस्मृतयोऽपि ग्राह्याः । उपसंहारव्याजेन द्विप्रकारकसहस्रनामस्थभगवन्नामद्वयं मुक्तावपि भेदे प्रमाण-यति ।। अत इति ।। मुक्ताश्रय इत्यनेन मुक्तानां परमागतिरिति नाम सूचितम् । ब्रह्मरुद्राद्युत्कृष्टचेतन इति वासुदेवसहस्रनामस्थनाम

।। ४६४ ।।

सत्यप्रमोदटीका

 श्रुतयः ‘उपसंक्रम्य’ इत्यादयः ‘योगमन्नमयाद्यै-र्यत्फलत्वेनास्य शंसति’ इत्यनुव्याख्यानोक्ताः । ‘मुक्तानां परमा गतिः’ इति सहस्रनामपठितम् अभिधानं च ।। ४६४ ।।