द्वितीयाद्वै भयमिति सदृशाद्भीतिरुच्यते


 

द्वितीयाद्वै भयं भवति इति श्रुत्यर्थः

युक्तिमल्लिका

द्वितीयाद्वै भयमिति सदृशाद्भीतिरुच्यते ।

न चेद्द्वितीयाद्वचनाद्भीस्स्वस्यैव भवेद्ध्रुवम् ।

यदेकाकी न रमत इत्यस्त्यन्यार्थशून्यवाक् ।। ४६५ ।।

सुरोत्तमटीका

 ‘‘द्वितीयाद्वै भयं भवती’’ति श्रुतेस्स्वाभिमतार्थं वदन्पराभिमतार्थं तयैव दूषयति ।। द्वितीयादिति ।। अस्य गोर्द्वितीयेन भवितव्यमित्युक्तेस्सदृशो गौरेवानीयते नाश्वो न गर्दभ इति वचनेन द्वितीय-शब्दस्य सदृशे प्रयोगात् प्रतिगजादिना युद्धादिजनितदन्तभङ्गादिभयदर्शनाच्चेति भावः । न चेदुक्तश्श्रुत्यर्थो न चेत् । स्वस्य स्वतो द्वितीयमात्रस्य भयजनकत्वं वदतो वादिन इत्यर्थः । यद्यस्मात् । ‘‘एकाकी न रमत’’ इत्यनेनैत-त्प्रकरणस्थितं तस्मादेकाकी न रमत इति वाक्यं गृह्णाति । अन्यार्थशून्य-वागर्थान्तरेऽवकाशशून्यवाक् । अनेन निरवकाशैतद्वचनानुसारेण सावकाशत्व- द्वचनस्येत्युक्त एवार्थ इति सूचयति ।। ४६५ ।।

सत्यप्रमोदटीका

 अस्याः श्रुतेरर्थः ‘भयं द्वितीयाभिनिवेशतः स्यात्’ इति भागवतश्लोकेन व्याख्यातः । तत्प्रकारः गुणसौरभे विवृतः । अधिक-दोषोक्त्यै प्रस्तावयति सदृशात् इति । विरोधिन इत्यपि पूरणीयम् । अन्यथा अनुकूलात्सदृशान्मित्रादेः अधिकाद्वा गुरुपित्रादेर्भयाप्रसक्तेः । व्याख्यातं चैवमेव मायिभाष्येऽपि ‘वस्त्वन्तरं प्रतिद्वन्द्विभूतं नास्ति । तस्मिन्नात्म-विनाशहेत्वभावे कस्मान्नु बिभेमी’ति । वचनात् । ‘स वै नैव रेमे तस्मा-देकाकी न रमते स द्वितीयमैच्छत्’ इति तत्प्रकरणस्थात् निरवकाशवाक्यात् ।। ४६५ ।।

युक्तिमल्लिका

द्वितीयादाश्रमान्नृणां भयं स्याद्बहुसंसृतेः ।

अतस्तृतीयं तुर्यं वा प्रथमादाश्रमाद्व्रजेत् ।। ४६६ ।।

इति वा सा श्रुतिर्वक्ति पुण्यपापाख्ययोर्द्वयोः ।

द्वितीयाद्धि भयं दुःखं नरकाद्यन्ततस्सुधीः ।

प्रथमं धर्ममेवैकं भजेद्द्वन्द्वसहोऽन्वहम् ।। ४६७ ।।

सुरोत्तमटीका

 एवं च ‘‘द्वितीयाद्वै भयं भवती’’ति श्रुतेरनभिमतार्थ-स्यापि तयैव श्रुत्या दूषणादपि च मत्काराय श्रुतेरर्थद्वयमुक्त्वा पुनश्च सर्वानुभवसिद्धान्द्वितीयपदस्वारस्येनैव लब्धांश्च श्रुतेश्चतुर्दशार्थानाह ।। द्वितीयादित्यादिना ।। आश्रमाद्गृहस्थाश्रमात् । संसृतेः पुत्रकलत्रवित्तगेहादि-रूपसंसारान्निमित्तात् । तृतीयं वानप्रस्थाश्रमं तुरीयं यत्याश्रम् । उभयोरपि धर्महेतुत्वादिति भावः ।। ४६६,४६७ ।।

सत्यप्रमोदटीका

 इदं तु वाक्यं चतुर्दशार्थान्तरपरतया सावकाशमित्याह द्वितीयादाश्रमादित्यादिभिः । गृहस्थाश्रमादित्यर्थः । नृणाम् अजितेन्द्रि-याणाम् । ‘जितेन्द्रियस्यात्मरतेर्बुधस्य गृहाश्रमः किं नु करोत्यवद्यम्’ इत्युक्तेः । व्रजेत् वैराग्यपरिपाकानन्तरम् इति शेषः । ‘भयं प्रमत्तस्य वनेष्वपि स्यात्’ ‘यदहरेव विरजेत् तदहरेव प्रव्रजेदि’त्याद्युक्तेः ।। ‘पुण्यपापे विधूय’ ‘उभे सुकृतदुष्कृते’ इत्यादौ पुण्यस्य अभ्यर्हितत्वेन प्रथमतः परिगणना-त्तदनुसारेण निर्दिशति पुण्येति । द्वन्द्वसहः शीतोष्णादितितिक्षावान् । तद्विफलीकारीति यावत् ।। ४६६,४६७ ।।

युक्तिमल्लिका

इति वा वक्ति सत्सङ्गं शंसन्ती मोक्षकारणम् ।

द्वयोः सदसतोर्नृणां द्वितीयाद्वा भयं जगौ ।। ४६८ ।।

सुरोत्तमटीका

 मोक्षकारणं सत्सङ्गं शंसन्ती स्तुवन्ती । सदसतो-स्सत्सङ्गासत्सङ्गयोरित्यर्थः । द्वितीयादसत्सङ्गात् ।। ४६८ ।।

सत्यप्रमोदटीका

 शंसन्तीति ‘महत्सेवां द्वारमाहुर्विमुक्तेः तमोद्वारं योषितां सङ्गिसङ्गम्’ इत्यादि प्रमाणानुसारेणेति भावः ।। ४६८ ।।

युक्तिमल्लिका

एवं द्वितीयाज्जगतो भयं मृत्युर्यतो नृणाम् ।

तन्मृत्युभयभङ्गाय प्रथमं पुरुषोत्तमम् ।। ४६९ ।।

भजेदनन्यभक्तस्सन्निति वा शास्ति सज्जनान् ।

इति सामान्यवाग्वक्ति मोक्षहेतुपरंपराम् ।। ४७० ।।

सुरोत्तमटीका

 द्वितीयाज्जगतो ब्रह्मरुद्रादिजगतः । तल्लोकभूलोकादि-जगतश्च मृत्युर्भयं मृत्युरूपभयमित्यर्थः । मर्त्यो मृत्युव्यालभीत इति वचनात् । तत्तस्माद्विष्णोरन्येषां मृत्युनिवारकत्वाभावात् । विष्णोरेव प्रथमत्वोपपादनाय पुरुषोत्तममित्युक्तम् । सामान्यवाक् विशेष्यावधिभूतं कंचित्पदार्थमनुक्त्वा तूष्णीं द्वितीयादिति वागित्यर्थः । ततश्चावधेरूह्यत्वाद्यथासम्भवमूहे उक्तार्थलाभ इति भावः ।। ४६९,४७० ।।

सत्यप्रमोदटीका

 जगतः अभिनिवेशविषयाद्देहगेहादेः । प्रथमं ‘स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्वमिष्यते’ इति स्वतन्त्रतया तत्त्वसङ्ख्या-नावसरे प्रथमतः परिगणनीयम् ।। ४६९,४७० ।।

युक्तिमल्लिका

न चेद्द्वितीयाद्वचनात्स्वस्या भयमितीरितम् ।। ४७१ ।।

सुरोत्तमटीका

 विपक्षे प्रागुक्तं बाधकं सूचयति ।। न चेदिति ।। द्वितीयात्स्वापेक्षया द्वितीयात्स्वविरुद्धार्थकाद्वा वचनादेकाकी न रमत इति वचनात् । स्वस्या द्वितीयाद्वै भयं भवतीति श्रुतेरेवेत्यर्थः । भयं परस्पर-विरोधाख्यभयम् । न केवलमेतावत्किन्तु भेदप्रतिपादकद्वासुपर्णेत्यादि श्रुतिभ्यश्श्रौतयुक्तिभ्यश्च ।। ४७१ ।।

सत्यप्रमोदटीका

 भयं व्याहतिरूपम् ।। ४७१ ।।

युक्तिमल्लिका

एकद्वितीयतो भीता साऽतिभीतेति मे मतिः ।

बहूनां भेदवाक्यानां युक्तीनां च पराक्रमात् ।। ४७२ ।।

सुरोत्तमटीका

 जात्येकवचनतया द्वितीयशब्दवाच्येभ्यो बहुभ्यो भयं च स्यादित्याह ।। एकेति ।। ४७२ ।।

सत्यप्रमोदटीका

 द्वितीयात् इति समुदायैकवचनमुपेत्य व्याख्याति बहूनाम् इति । तदुक्तं शाङ्करभाष्ये ‘न केवलमुपनिषदो ब्रह्मात्मैकत्वं प्रतिपादयन्त्यः स्वार्थविघातं कर्मकाण्डप्रामाण्यविघातं च कुर्वन्ति । प्रत्यक्षादि-निश्चितभेदप्रतिपत्त्यर्थप्रमाणैश्च विरुध्यन्ते’ इति ।। ४७२ ।।

युक्तिमल्लिका

चिदचिद्रूपजगता सर्वेणैक्यं यदीष्यते ।

द्वितीयतो भयं तर्हि द्वितीयार्थाच्च पूर्वभीः ।। ४७३ ।।

सुरोत्तमटीका

 श्रुतितात्पर्यविषयतया पराभिमतैक्येऽप्यनयैव श्रुत्या विरोधमाह ।। चिदचिदिति ।। द्वितीयादचिद्रूपजगतः । मिथ्याभूतजडस्य ब्रह्मणैक्यानङ्गीकारादिति भावः । द्वितीयार्थात् प्रथमोक्तार्थादुपरि कथितार्थात् द्वितीयात् ‘‘एकाकी न रमत’’ इति द्वितीयवाक्यात् पूर्वभीः प्रथमोक्तस्य चिद्रूपजगदैक्यस्यापि भीस्स्यादिति योजना । चेतनैकाकित्वस्य स्वसमान-जातीयचेतनान्तरे सत्येव परिहारात् । न हि घटं गर्दभं वाऽऽदाय गच्छ-न्देवदत्तो नैकाकीति भावः ।।४७३ ।।

सत्यप्रमोदटीका

 इष्यते ‘सर्वं खल्विदं ब्रह्मे’ति वाक्यानुसारेण द्वितीयादित्यस्य चिदचिदात्मकाद् द्वितीयादित्यर्थो यद्यभिप्रेयते । द्वितीयतः चिदचितोर्मध्ये द्वितीयादचेतनेनैक्यात् । भयम् अपसिद्धान्तरूपम् । अचेतनस्य मिथ्यात्वेन तदैक्याङ्गीकारे सिद्धान्तविरोधः । अथ तद्दोषपरिजिहीर्षया अचेतनप्रपञ्चस्य ऐक्यं नाम ब्रह्मव्यतिरेकेणाभाव इत्येवार्थो यद्याश्रीयते तर्हि चेतनरूपप्रथमांशेऽपि तस्यैवार्थस्याश्रयणीयतापत्त्या पूर्वभीः चेतनानामपि मिथ्यात्वापत्तिः । तथा च पुनरागतः स एव अपसिद्धान्तः दुरात्मा पिशाचः इति भयम् ।। ४७३ ।।

युक्तिमल्लिका

अर्थद्वये द्वितीयार्थाद्विरम्य व्यापृतिर्भयम् ।। ४७४ ।।

सुरोत्तमटीका

 अर्थद्वये स्वरूपैक्यस्वव्यतिरेकेणाभावरूपार्थद्वये । द्वितीयार्थात्स्वव्यतिरेकेणाभावरूपार्थात् । विरम्य व्यापाराख्यभयं स्यादिति भावः ।। ४७४ ।।

सत्यप्रमोदटीका

 अर्थद्वये चेतनांश ऐक्यम्, अचेतनांशे व्यतिरेकेणा-भावः इत्यर्थद्वयाश्रयणे । ‘सकृदुच्चरितः शब्दः सकृदेवार्थमवगमयती’ति न्यायमवधीर्य क्रमेणार्थद्वयाभिधायकत्वाङ्गीकार इति यावत् । भयं चेतन-व्यापारस्याचेतनेऽङ्गीकाररूपम् ।। ४७४ ।।

युक्तिमल्लिका

मुच्यमानाणुना चैक्यमुच्यमानमनीदृशि ।

द्वितीयात्ते भयं दद्यात्तस्मादस्माद्विलक्षणात् ।। ४७५ ।।

सुरोत्तमटीका

 मुच्यमानाणुजीवेन । अनीदृशि नित्यमुक्ते व्याप्ते ब्रह्मण्युच्यमानैक्यम् । अस्मान्मुच्यमानाणुजीवात् । उक्तविधया विलक्षणा-त्तस्माद्ब्रह्मरूपाद्द्वितीयाद्द्वितीयवारोक्तात् । ते मायावादिनस्तव भयं विरोध-रूपभयं दद्यादिति योजना ।। ४७५ ।।

सत्यप्रमोदटीका

 अणुनेति अल्पज्ञत्वाल्पशक्तिपारतन्त्र्यादिसाक्षि-सिद्धधर्मोपलक्षणम् । अनीदृशि निर्दोषश्रुतिसिद्धसर्वत्राखिलसच्छक्ति-स्वातन्त्र्याशेषदर्शनादिविलक्षणधर्मोपबृंहिते । द्वितीयात् द्वितीयतया निर्दिष्टात् ब्रह्मणः । अयं मिथ्याज्ञाननिमित्तकं तमोरूपम् ।। ४७५ ।।

युक्तिमल्लिका

सत्रैविध्यं यदिष्टं ते द्वितीयाद्वै भयं तदा ।

स्यादाद्यब्रह्मणो नो चेद्द्वितीयाद्वादिनो भयम् ।। ४७६ ।।

सुरोत्तमटीका

 इष्टं विश्वसत्यत्वप्रतिपादकश्रुतिविरोधपरिहारायाभिमतम् । द्वितीयाद्व्यावहारिकसत्यत्वेनाङ्गीकृताज्जगतः । भयं ब्रह्मसत्यत्वप्रतिपादक-श्रुतीनामपि व्यावहारिकसत्यत्वपरत्वसम्भवेन ब्रह्मण एवाभावाख्यभयम् । आद्यब्रह्मणः पारमार्थिकत्वेनाङ्गीकृतब्रह्मणः । नो चेत्सत्रैविध्यं नो चेत् । द्वितीयाद्वादिनो विश्वं सत्यमित्यादि श्रुतिबलेन जगत्सत्यत्वं वदतो वादिन-स्सकाशात् । भयं तं प्रति प्रत्युत्तराभावरूपभयम् ।। ४७६ ।।

सत्यप्रमोदटीका

 यदीति । सत्रैविध्यमङ्गीक्रियते चेदित्यर्थः । द्वितीयात् व्यावहारिकसत्त्वात् । भयं श्रुत्युक्तसत्यत्वाविशेषेण ब्रह्मणोऽपि तदङ्गीकाररूपम् । नो चेत् सत्यत्वं अबाध्यत्वमेवेति चेदङ्गीकारः । भयं कथायां तत्त्ववादिभिर्निग्रहरूपम् ।। ४७६ ।।

युक्तिमल्लिका

इत्थं रज्जुभ्रमात्सर्पग्राही त्वं हा हतोऽस्यहो ।। ४७७ ।।

सुरोत्तमटीका

 रज्जुभ्रमाद्वस्तुगत्या सर्पे रज्जुरियमिति भ्रमात् । उक्त-रीत्या विचार्यमाणे विरुद्धार्थायां श्रुतावापातरमणीयार्थमादाय स्वानुकूलेति भ्रमादित्यर्थः । सर्पग्राही सर्पवत्स्वाभिलषितविरुद्धार्थश्रुतिग्राही । हतस्सर्पेण हतपुरुषवदुक्तरीत्या गृहीतश्रुत्यैव हतः ।। ४७७ ।।

सत्यप्रमोदटीका

 हा हतोऽसि त्वदुपात्तश्रुत्यैव प्रतिहतोऽसि । रज्जु-भ्रमादिति पूतनेवेति ध्वनिः । यथोक्तं ‘अनन्तमारोपयदङ्कमन्तकं यथोरगं सुप्तमबुद्धिरज्जुधीः’ इति ।। ४७७ ।।

युक्तिमल्लिका

द्वितीयाद्देहगेहादेर्भयं स्यात्तेन तं त्यजेत् ।

इत्येवार्थः श्रुतेर्वाच्यो बन्धोच्छित्त्यै दृगर्थिभिः ।

गुरुमेवाभिगच्छेदित्यादिवाक्यार्थवेदिभिः ।। ४७८ ।।

सुरोत्तमटीका

 तेन कारणेन तं देहगेहादिकं पदार्थं त्यजेत् । तत्राभि-मानं त्यजेदित्यर्थः । दृगर्थिभिरपरोक्षज्ञानार्थिभिः ।। ४७८ ।।

सत्यप्रमोदटीका

 देहगेहादेरिति ‘आत्मनो देहगेहादिद्वयशब्देन भण्यते’ इति भागवततात्पर्योक्तेः । त्यजेत् ‘उपरतः विषयालम्बुद्धिमान् ‘गुरुमेवाभिगच्छेत्’ इत्युक्तस्य गुरूपसत्तावधिकारस्य सिध्यर्थं देहगेहादौ आत्मीयतया विद्यमानत्वाभिमानं परित्यजेत् ।। ४७८ ।।

युक्तिमल्लिका

द्वितीयाद्ब्रह्मविज्ञानाद्भयं भवति संसृतेः ।

इत्यर्थो वाऽत्र तच्ल्छाघ्यस्समित्पुस्तकपाणिभिः ।। ४७९ ।।

सुरोत्तमटीका

 द्वितीयाद्बन्धोच्छित्त्यर्थं हेतुतया द्वितीयवारकथितात् । संसृतेर्भयं ध्वंसाख्यभयम् । एवं च पराभिलषितैक्यमिथ्यात्वादिकं दूषयितुं स्वमते मोक्षस्य परंपरासाधनं साक्षात्साधनं मोक्षं च प्रतिपादयितुमेव श्रुतिरियं प्रवृत्तेति भावः ।। ४७९ ।।

सत्यप्रमोदटीका

 द्वितीयात् जिज्ञासानन्तरं जायमानात् । भयम् अपसारणं व्याघुट्टनं च । संसृतेः ‘अथान्ये प्रकृती दुष्टे नृषु प्रातिस्विकं स्थिते’ इत्युक्तप्रकृतिद्वयात्मकस्य ।। ४७९ ।।

युक्तिमल्लिका

किञ्चाबिभदिति ब्रह्मभयमुक्त्वा पुनः श्रुतिः ।

तेनैकाकी बिभेतीति तत्र कारणमाह च ।। ४८० ।।

सुरोत्तमटीका

 अबिभदिति ।। सोऽबिभदिति श्रुत्या ब्रह्मभयं चतुर्मुख-ब्रह्मणो भयम् । तेनैकाकी बिभेतीत्युत्तरवाक्ये । तत्र भये । कारणमेकाकित्व-रूपकारणम् ।। ४८० ।।

सत्यप्रमोदटीका

 तेनेति । लोकन्यायप्रदर्शनार्थम् । वस्तुतस्तु चतुर्मुखेन भयप्रदर्शनं विष्णुप्रीत्यर्थमेवेति भावः । तां एकाकिताम् । सन्त्यज सत्सङ्गं सम्पाद्येति यावत् ।। ४८० ।।

युक्तिमल्लिका

तस्मादेकाकितायां च भीत्युक्त्या तां च सन्त्यज ।

द्वितीयमैच्छदिति च वचो हन्ति तवेप्सितम् ।। ४८१ ।।

सुरोत्तमटीका

 तामेकाकिताम् । द्वितीयमैच्छदिति वचस्सद्वितीय-मैच्छदिति वच इत्यर्थः ।। ४८१ ।।

सत्यप्रमोदटीका

 तां एकाकिताम् । सन्त्यज सत्सङ्गं सम्पाद्येति यावत् ।। ४८१ ।।

युक्तिमल्लिका

अनुकूलं द्वितीयं तच्छ्रुतिश्च न निषेधति ।

रक्षोभूतपिशाचादिद्वितीयं भयदं जगौ ।

कस्मान्नाहं बिभेमीति भीषकाभाववाङ्न किम् ।। ४८२ ।।

सुरोत्तमटीका

 तत्तस्मात् ब्रह्मणा स्वसहायभूतद्वितीयस्याकाङ्क्षितत्वात् । जगौ ‘‘द्वितीयाद्वै भयं भवती’’ति श्रुतिर्जगावित्यर्थः । कस्मान्न्वहं बिभेमीति श्रुतिः भीषकाभाववाग्भयकारणीभूतराक्षसाद्यभाववाक् । एवं च भयकारणी-भूतद्वितीयस्यैव ‘‘द्वितीयाद्वै भयं भवती’’ति श्रुतिरपि निषेधिका । न तु सहायभूतद्वितीयस्य । तथा सति सद्वितीयमैच्छदिति श्रुतिविरोधात् । स्वसहायभूतद्वितीयमपेक्षमाणेन कस्मान्न्वहं बिभेमि द्वितीयाद्वै भयं भवतीति निषिध्यमानं द्वितीयं स्वविरोध्येवेति भावः ।। ४८२ ।।

सत्यप्रमोदटीका

 भयजनकतावच्छेदकं रूपं हीनबलत्वाभावे सति प्रतिकूलत्वमेवेत्याह रक्ष इति । भयजनकत्वेऽपि रक्षोभूतादीनां अर्थक्रिया-कारित्वेन सुतरां सत्यत्वमेव सेत्स्यति न त्वेव त्वदभिलषितं मिथ्यात्वमित्यपि हृदयम् ।। ४८२ ।।

युक्तिमल्लिका

एकाकी चेन्न रमते तेनैच्छत्स द्वितीयकम् ।

इति वागुपसंहर्त्री संहर्त्री तव दुर्धियः ।। ४८३ ।।

सुरोत्तमटीका

 सः एकाकित्वेन भीतो ब्रह्मा ।। ४८३ ।।

सत्यप्रमोदटीका

 उपक्रमापेक्षया द्वितीयात् स्वभावतः प्रबलाद्विरुद्धा-दुपसंहारात्त्वदर्थस्योपक्रमोक्तस्य भयं इत्याशयेनाह उपसंहर्त्रीति ।। ४८३ ।।

युक्तिमल्लिका

अतः प्रकरणं मन्द हन्ति वादरणं तव ।

जिह्वारूपं प्रकृष्टं ते करणं वा निहन्त्यहो ।

भयं द्वितीयाद्वचनादित्युक्तं सूक्तमेव तत् ।। ४८४ ।।

सुरोत्तमटीका

 प्रकरणमेकार्थप्रतिपादकबहुवाक्यसमुदायः । वादरणं वादाख्ययुद्धम् । उक्तविधया त्वदभिलषितार्थस्य प्रकरणविरुद्धत्वादिमां श्रुतिं पुरस्कृत्य कथं वादं करोषीति भावः । ते जिह्वारूपं प्रकृष्टकरणं निहन्तीति योजना । प्रकरणस्य प्रकरणघातित्वमेव न्याय्यमिति भावेनेदमुदितम् । तत्तस्मात्प्रकरणस्थवाक्यैरपि विरुद्धत्वात् ।। ४८४ ।।

सत्यप्रमोदटीका

 साहित्यमुद्रया रञ्जयति अत इति । प्रकरणेत्यत्र प्रशब्दोक्तप्रकर्षस्य केवलरणरूपे वादरणे वा केवलकरणरूपजिह्वायां वाऽभावादिति भावः । प्रकृष्टमिति प्रथमान्तं पूर्वार्धे प्रकरणमित्यनेनान्वेति ।। ४८४ ।।