सिद्धं पश्यति चेद्ब्रह्म जगन्न भ्रमजं तव ।

ब्रह्मणोभ्रान्त्यनुपपत्तिः
युक्तिमल्लिका

सिद्धं पश्यति चेद्ब्रह्म जगन्न भ्रमजं तव ।

कल्पयित्वैव पश्येच्चेत्सर्वं स्यात्सार्वकालिकम् ।

आ मुक्तेः कल्पकाज्ञानब्रह्मचैतन्ययोस्स्थितेः ।। ११९ ।।

सुरोत्तमटीका

 ब्रह्मणः अज्ञानाख्यदोषं परिहृत्य तत एव परिहृतमपि भ्रान्तिलक्षणदोषं युक्त्यन्तरेणापि परिहरति ।। सिद्धमिति ।। तव ब्रह्म सिद्धं पूर्वं विद्यमानं जगदिति सम्बन्धः । भ्रमजं ब्रह्मणो भ्रमजन्यम् । कल्पयित्वैव प्रागविद्यमानं जगत् स्वभ्रान्त्या कल्पयित्वैवेत्यर्थः । सर्वं जगत्सार्वकालिकं कल्पनानन्तरं सदा विद्यमानं स्यात् । तदेवोपपादयति ।। आमुक्तेरिति ।। कल्पकयोः दोषरूपतया भ्रमरूपतया च कल्पकयोः जगत्संपादकयोरज्ञान-ब्रह्मचैतन्ययोः । अज्ञानं च ब्रह्मचैतन्यं चेति विग्रहः ।। ११९ ।।

सत्यप्रमोदटीका

 अज्ञाननिवर्तकसार्वज्ञाश्रये ब्रह्मणि अज्ञानस्य तज्जन्यस्य भ्रमस्य चावस्थानासम्भव उपपादितः । विकल्पासहत्वाच्चैवमित्याह सिद्धमिति । तथा हि भ्रमः सादिरुतानादिः । आद्यं निराह सिद्धं पश्यति चेदिति । भ्रमः सादिश्चेदित्यर्थः । भ्रमात्पूर्वं जगतः सिद्धत्वे भ्रमस्य सादित्वं प्राप्नोत्येवेत्याशयः । किं तत इत्यत आह जगन्न भ्रमजमिति स्यादिति शेषः । तव अर्थज्ञानात्मको भ्रम इत्यङ्गीकर्तुः । मते इति पूरणीयम् । भ्रमापूर्वं सिद्धस्य शुक्तिकाशकलस्येव जगतः सत्यत्वं स्यात् । न हि तत्पूर्वं विद्यमान-स्तत्कल्पितश्चेति सम्भवति । व्याहतेरेवेति भावः । द्वितीयं निराह कल्पयि-त्वैवेति । अज्ञानब्रह्मचैतन्ययोरिव तत्प्रयोज्यकल्पनाया अनादित्वमङ्गीक्रियते चेदित्यर्थः । सर्वं कालादृष्टादिकं जगत् । सार्वकालिकं नित्यम् । आ मुक्तेरिति । इदं च मुक्तौ परमते अज्ञाननाशमुपेत्योक्तम् । वस्तुतस्तु ‘अनादिभावरूपस्य विज्ञानविलापनाऽसम्भवाच्च ब्रह्मवदि’ति वादावल्युक्त्यनु-सारेण मुक्त्यभिमतानन्तरमपीत्यर्थः । तथा च मोक्षासम्भव एवेति भावः । आङोऽभिविधिर्वाऽर्थः ।। ११९ ।।

युक्तिमल्लिका

अतो दैनन्दिनलयः कल्पान्तप्रलयोऽपि वा ।

कथं स्यात्तस्य नित्यस्य दर्शनस्य न हि क्षयः ।। १२० ।।

सुरोत्तमटीका

 अतः कल्पकसद्भावात् । दैनन्दिनलयः चतुर्मुखस्य दिने दिने जायमानो लयः । कल्पान्तप्रलयः ब्रह्मकल्पप्रलयः । तस्य कल्पकस्य नित्यस्य ब्रह्मस्वरूपतया नित्यस्य दर्शनस्य चैतन्यरूपजगद्भ्रमस्य क्षयो नहीति सम्बन्धः । हीत्यनेन भ्रान्तिसिद्धं वस्तुभ्रमनिवृत्त्यैव निवर्तते । नान्यथेति सूचयति ।। १२० ।।

सत्यप्रमोदटीका

 आपाद्यं चेदं प्रामाणिकलयादिपरित्यागरूपतयाऽ-निष्टमित्याह अत इति । वाशब्देनोक्तदिशा मोक्षः समुच्चीयते । हिर्हेतौ । तत एव तदात्मकस्य जगतः अपि न क्षय इति सिध्द्यति ।। १२० ।।

युक्तिमल्लिका

भ्रमकल्प्यं हि सर्वं ते कालादृष्टादिकं जगत् ।

भ्रमस्य नित्यसिद्धत्वात्किं किं न स्यात्सदा तव ।। १२१ ।।

सुरोत्तमटीका

 कालादृष्टादिसाधारणकारणाभावान्न भ्रमस्य सदातनत्व-मिति शङ्कां परिहरन्नुपसंहरति ।। भ्रमकल्प्यमिति ।। ते मते कालादृष्टादिकं सर्वं जगद्भ्रमकल्प्यं हि । भ्रमस्य च नित्यसिद्धत्वात्किं किं न स्यात् । सर्वमपि स्यादित्यर्थः । जगदिव कालादृष्टादिकमपि भ्रमेणैव कल्पनीयं चेत् तदपि यावद्भ्रममनुवर्तमानमस्त्येवेति कथं तदभाव इति भावः ।। १२१ ।।

सत्यप्रमोदटीका

 कालादृष्टादिनाशादस्तु जगतो नाश इत्यतो मोक्तं विस्मार्षीरित्याह सर्वमिति ते इति च । तव मते भ्रमस्यार्थज्ञानात्मकत्वेन भ्रमस्य नित्यत्वे कथं कालादृष्टादिकस्य भ्रमात्मकस्यार्थस्यापि नाशः सम्भवी ।तस्यापि जगदन्तःपातित्वादेवेत्याशयः।।१२१ ।।