जीवो ह्यज्ञानकल्प्यस्ते सोऽज्ञानस्य कथं मही

परमते अज्ञानस्य जीवाश्रितत्वभङ्गः

युक्तिमल्लिका

जीवो ह्यज्ञानकल्प्यस्ते सोऽज्ञानस्य कथं मही ।

न हि भार्यैव भर्तारं सूते यत्नशतैरपि ।। ८३ ।।

सुरोत्तमटीका

 अन्योन्याश्रयमुपपादयति ।। जीव इति ।। हि यस्मात्तव मते यो जीवः अज्ञानकल्पितः सः अज्ञानस्य मही आश्रयः कथम् । तत्र दृष्टान्तः ।। नहि भार्येति ।। भार्या भर्त्रा धर्तुं योग्या भर्तुरुत्तरकालीनेति यावत् ।। ८३ ।।

सत्यप्रमोदटीका

 विवरणोक्तान्योन्याश्रयदूषणमाह जीव इति । तदुक्तं विवरणे ‘पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवती’ति । मही आश्रयः । कल्प्यः कार्यः, अत एवोत्तरकालीनः । अर्थान्तरं न्यस्यति नेति । अत्र भर्तृभार्याशब्दौ पूर्वोत्तरकालीनपरौ ।। ८३ ।।

युक्तिमल्लिका

जीवसिद्धौ तदाधारमज्ञानं ते प्रसिद्ध्यति ।

अज्ञानसिद्धौ तत्कल्प्यो जीवस्सिद्ध्येन्न चान्यथा ।। ८४ ।।

सुरोत्तमटीका

 अन्योन्याश्रयप्रकारं दर्शयति ।। जीवसिद्धाविति ।। अन्यथा अज्ञानं विना । अस्मद्वत्स्वाभाविकजीवानङ्गीकारादिति भावः ।।८४।।

सत्यप्रमोदटीका

 तदाधारमिति बहुव्रीहिः । ते इत्यनेन स्वभावा-ज्ञानवादे स्वमतेऽनुपपत्त्यभावं ध्वनयति ।। ८४ ।।

युक्तिमल्लिका

यद्यज्ञानं विनैव स्याज्जीवोऽनादिस्स्वतस्तदा ।

सत्यो जीवेशभेदस्स्यात्तस्मादज्ञानकल्पितः ।

जीवोऽवश्यं त्वया वाच्यः कथं नान्योन्यसंश्रयः ।। ८५ ।।

सुरोत्तमटीका

 अन्यथा नेत्येतद्विवेचयति ।। यद्यज्ञानमिति ।। स्वत-स्स्वभावतः । ईश्वरस्यैवाज्ञानवशाज्जीवभावानुक्तौ स्वभावत एव सत्त्वे परस्परनिरपेक्षतयाऽनादितस्स्वभावत एव सतोरुभयोरपि कालाकाशयोरिव सत्यो भेदः कथं न सिद्ध्येदिति भावः । जीवस्य ब्रह्मभावे हि भेदस्य बाधः परेण वक्तव्यः । तदज्ञानाकल्पितस्य च तद्भावो घटस्य पटभाव इव कदापि न स्यात् । तस्मादबाधितो भेद इत्यर्थः । तस्माद्भेदकस्य तव मते आवश्य-कत्वात् । नन्वन्तःकरणाद्युपाधिना जीवो भविष्यति । अतः कथमन्योन्याश्रय इति चेत् । न । तस्याप्यज्ञानकल्पितत्वेनान्योन्याश्रयस्य चक्रकस्य वाऽ-परिहारात् ।। ८५ ।।

सत्यप्रमोदटीका

 ननु जीवाश्रितत्वेनाज्ञानस्य तदधीनत्वेऽपि जीवस्या-ज्ञानाधीनत्वाभावान्नान्योन्याश्रय इत्यतो नैवं त्वन्मते सम्भवतीत्याह यदीति ।। तदा अज्ञानकार्यत्वानङ्गीकारे । सत्य इति । जीव इति सम्बध्यते । स्यादिति च । अज्ञानतत्कार्यत्वान्यतरत्वस्यैव मिथ्यात्त्वोपगमादिति भावः । अस्तु जीवोऽपि सत्यः किं तत इत्यतः सत्यः स्यात् इति आवृत्त्या योजनीयम् । भेद इत्यनेन सम्बध्यते । ईशवत्सत्यस्य जीवस्य ततो भेदावश्यंभावात् । तथा चापसिद्धान्त इत्याशयः । तथा च यदि जीवोऽज्ञानकल्पितो न स्यात्तर्हि सत्यः स्यात् ततश्च जीवेशभेदः सत्यः स्यात् इति तर्कः अभिप्रेतः । विपर्यय-पर्यवसानमाह तस्मादिति । फलितमाह कथमिति ।। ८५ ।।

युक्तिमल्लिका

जीवोपाधिरविद्यैव लये सुप्तौ च वर्तनात् ।। ८६ ।।

सुरोत्तमटीका

 किञ्चाविद्यैव जीवोपाधिस्तवमते नान्तःकरणमित्याह ।। जीवोपाधिरिति ।। लये प्रलये सुप्तौ च वर्तनात् अविद्याया विद्यमानत्वात् । अन्तःकरणादेस्तदाऽभावाच्चेत्यर्थः ।। ८६ ।।

सत्यप्रमोदटीका

 ननु जीवोपाधिरन्तःकरणमङ्गीक्रियते नाज्ञानम् । तेन नान्योन्याश्रय इत्यत एवं तर्हि उपाधिखण्डनोक्तरीत्या चक्रकापत्तिः । अज्ञाने सति तत्कार्यमन्तःकरणं तेन तदुपाधिको भेदः, तेन च भिन्नाश्रिताज्ञानमिति । एवं दोषे सत्येव दोषान्तरं चाह जीवेति । एवकारेणान्तःकरणादिव्यवच्छेदः । तत्र हेतुर्लयेति । अन्तःकरणाद्यभावेऽपि लये सुप्तौ च त्वन्मते जीवभावानुवृत्तेः। न ह्युपाधिनिवृत्तावौपाधिकमवतिष्ठते । जीवभावनिवृत्तौ मुक्ताविव पुननिर्मूल-संसारप्रत्यावृत्त्यनुपपत्तिः ।। ८६ ।।

युक्तिमल्लिका

अनादित्वेनानवस्थादोषस्य स्यात्क्वचिच्छमः ।

अन्योन्याश्रयदोषस्तु क्षोण्यां शून्यप्रतिक्रियः ।

यदङ्कुराद्धि यद्बीजं किं तद्बीजात्तदङ्कुरः ।। ८७ ।।

सुरोत्तमटीका

 अनवस्थातोऽप्यन्योन्याश्रयः प्रबलदोष इत्याह ।। अनादि त्वेनेति ।। क्वचित्प्रामाणिकत्वे सतीत्यर्थः । शमः परिहारः । बीजाङ्कुरानवस्थायाः प्रामाणिकत्वेन सर्वैरदोषत्वाङ्गीकारात् । शून्याप्रतिक्रिया-परिहारो यस्य सः । तदेव दर्शयति ।। यदङ्कुरादिति ।। यस्मादङ्कुरात् यद्बीजं कलमादिबीजं तद्बीजात् तदङ्कुरजन्यतद्बीजात् स चासावंकुरश्च तदङ्कुरः भवति किं नेत्यर्थः । अतो परिहार्योऽन्योन्याश्रय इति भावः ।। ८७ ।।

सत्यप्रमोदटीका

 अथापि स्यात् । जीवाज्ञानयोरनादित्वमाश्रीयते । ‘षडस्माकमनादयः’ इति पूर्वाचार्यवचनात् । अतो नान्योन्याश्रयः । नाप्य-नवस्था । बीजाङ्कुरन्यायेन तस्या अदोषत्वोपपत्तेः । अनवस्थितासिद्धकारणा-पेक्षायां खलु मूलक्षयकारिण्यास्तस्या दोषत्वम् । अत्र च मिथ्याभूतस्या ज्ञानस्य जीवाश्रितत्वलक्षणं मूलं अहमज्ञ इति प्रमितम् । अतः कथमत्र दोषो भवेदित्यत आह अनादित्वेनेति स्यादप्येवं कथञ्चिदनवस्थानिस्तारः । अन्योन्याश्रयस्तु दुष्परिहर इत्याह अन्योन्येति । न चानादित्वोपगमेन तत्परिहारः । अत्र प्रष्टव्यम् । किमेवं वदता जीवाज्ञानयोः कुत्रापि विषयेऽ-न्योन्यापेक्षोच्यते उत नेति । न तावद् द्वितीयः । जीवब्रह्मविभागस्या-विद्यकत्वेन तदधीनत्वं, अविद्यायाश्च जीवाश्रितत्वेन जीवाधीनत्वमित्येवं त्वत् सिद्धान्तानवक्लृप्तेः । अतोऽन्योन्यापेक्षाप्युपेयैव । न हि सर्वथा तदनपेक्षं तदधीनम् । अत आद्यः पक्ष एव स्वीकार्यः । तथा चागतः स एव दुरात्माऽन्योन्याश्रयः । तदुक्तं न्यायामृते ‘अज्ञानस्य जीवाश्रितत्वभङ्गे’

अविद्याजीवयोर्यत्र व्यपेक्षा तन्निरोधकः ।

 अन्योन्यसंश्रयो नो चेदन्योन्याधीनताहतिः ।। इति ।

एवं चान्योन्यप्रयुक्तत्वस्याविकलत्वात्स्यादेव स दोषः । न चानादित्वेनो-त्पत्तिज्ञप्त्यप्रतिबन्धकत्वात्कथं दोषत्वमिति वाच्यम् । प्रयुक्तेः प्रतिबन्धेनापि दोषत्वस्यावश्यकत्वात् । तदुक्तं तत्रैव,

 यद्युत्पत्तिज्ञप्तिमात्रप्रतिबन्धाददोषता ।

 तर्हि स्याच्चैत्रमैत्रादेरन्योन्यारोहणादिकम् ।। इति

तदेतदुक्तं ‘क्षोण्यां शून्यप्रतिक्रियः’ इति । कुत्रापि अशक्यनिस्तार इति भावः । इदं चानवस्थाया अदोषत्वमभ्युपेत्योक्तम् । वस्तुतस्तु बीजाङ्कुरस्थले तददोषत्वेऽपि प्रकृते दोषत्वमेव । तदुक्तं क्वचिदिति । अयं भावः । न तद्वदिह दोषनिस्तारः । तत्र बीजाङ्कुरयोः कार्यकारणभावः प्रमितः । न चेयं जीवाज्ञान-परम्परा प्रमिता । सत्यभेदेनैवोपपत्तेः । अन्यदपि वैषम्यमाह यदिति । तद्वदिहाज्ञानजीवयोर्व्यक्तिभेदाभावात् । तथा सति पुनश्चक्रकाद्यापत्तेः ।। ८७ ।।

युक्तिमल्लिका

तस्मादविद्याप्रत्यक्षं मन्ये पाण्डित्यशून्य ते ।

पूर्वोत्तरप्रमेयस्याविद्याया एव साधकम् ।। ८८ ।।

सुरोत्तमटीका

 अज्ञानप्रत्यक्षदूषणमुपसंहरति ।। तस्मादिति ।। पाण्डित्यशून्येति परं प्रति संबुद्धिः । पूर्वोत्तरप्रमेयस्य जीवप्रत्यक्षस्य ब्रह्मण्या-नयनात् । अविद्यायाः पूर्वोत्तरप्रमेयज्ञानाभावरूपाज्ञानस्येत्यर्थः । अहमज्ञ इति प्रत्यक्षस्य त्वन्निष्ठपूर्वोत्तरप्रमेयानभिज्ञतैव विषय इति भावः ।। ८८ ।।

सत्यप्रमोदटीका

 निगमयति तस्मादिति । अविद्याप्रत्यक्षं त्वया ब्रह्मण्या-नेतुमुपक्रान्तं ‘अहमज्ञ’ इति जीवप्रत्यक्षम् । जीवभेदस्य मिथ्यात्वोपष्टम्भेन त्वदज्ञानस्य ब्रह्माश्रितत्वसाधनदुःसाहसं त्वयोपक्रान्तम् । तदसम्भवश्चोप-पादितः । अतस्त्वदुपक्रमः तवैव सत्यमेवाज्ञानं समसाधयदिति भावः ।। ८८ ।।