मतिभेदोपि भेदे स्यान्नैकदैकस्य धीर्द्विधा
सुपर्णावेतौ इति श्लोकार्थः
युक्तिमल्लिका
मतिभेदोपि भेदे स्यान्नैकदैकस्य धीर्द्विधा ।। ४१३ ।।
सुरोत्तमटीका
निरवकाशभेदश्रुतिविरुद्धत्वाच्च सावकाशैक्यवाक्यानि न स्वार्थपराणीति वक्तुं द्वासुपर्णेत्यादि भेदश्रुतेस्सुपर्णावेताविति तत्समाख्या-स्मृतेश्च निरवकाशतामुपपादयति ।। मतिभेद इति ।। भेदे स्वरूपभेदे सति । एकदा । एकस्य धीर्द्विधा न
।। ४१३ ।।
सत्यप्रमोदटीका
‘द्वासुपर्णेति’श्रुतिः सर्वथा निरवकाशतया स्वरूप-भेदमेव वक्तीति समर्थनायोपोद्घातं रचयति मतीति । नेयं श्रुतिर्मतिभेदपरतया सावकाशयितुमर्हा । अत्र मतिभेदार्थकपदाश्रवणात् । प्रत्युत सखायाविति मत्यैक्यस्यैव बोधनात् । तुष्यत्विति न्यायेन द्वावित्यस्य मतिभेदावन्तावित्यर्था-श्रयणेऽपि स कालभेदेन विद्यमानः स्वरूपैक्यसाधकोऽभिप्रेयते उत युगपत् । नाद्यः । कालभेदेन विवदमानानां ब्राह्मणानां स्वरूपैक्यादर्शनात् । न द्वितीयो विरोधादित्याह भेदे स्यात् इति । स्वरूपभेदे सत्येव स्यात् इति भावः। विमतौ स्वरूपभेदवतो युगपदेव भिन्नमतिमत्वात् । विपक्षे हेतूच्छित्तिमाह नैकदेति । यदि स्वरूपभेदो न स्यात् एकत्वमेव स्यात् इति यावत् तर्हि एकदा युगपदेव द्विधा धीर्न स्यात् मतिभेदो न स्यादिति तर्कः उक्तो ध्येयः
।।४१३ ।।
युक्तिमल्लिका
युगपन्मतिभेदो वा युगपत्स्थानभिन्नता ।
वैलक्षण्यं च युगपद्भिन्नयोरेव नान्यथा ।। ४१४ ।।
सुरोत्तमटीका
भिन्नयोस्स्वरूपभेदसहितयोः । अन्यथा स्वरूपभेदा-भावेन ।। ४१४ ।।
सत्यप्रमोदटीका
उक्तां व्याप्तिं युगपत् स्थानभेदे, युगपत् विरुद्ध-लक्षणयोगित्वरूपवैलक्षण्ये चातिदिशति स्थानेति वैलक्षण्यमिति च ।।४१४।।
युक्तिमल्लिका
तद्भेदश्रुतिसुन्दर्यास्स्वार्थस्सूत्रायते गले ।
उक्तार्थेषु विनीतापि यद्भेदं नैव मुञ्चति ।। ४१५ ।।
सुरोत्तमटीका
तत्तस्मात् युगपन्मतिभेदादेरपि स्वरूपभेदाविनाभूतत्वात् । स्वार्थस्स्वरूपभेदः । यद्यस्मात् उक्तार्थेषु मतिभेदाद्यर्थेषु विनीता बला-त्प्रापितापि । भेदं स्वरूपभेदम् । तस्मादिति पूर्वेणान्वयः । यथा पतिमती कण्ठसूत्रं कदापि न त्यजति । एवं भेदश्रुतिरपि मतिभेदाद्यर्थकथनेऽपि स्वार्थभूतं स्वरूपभेदं नैव त्यजतीति भावः ।। ४१५ ।।
सत्यप्रमोदटीका
तत् उक्तव्याप्तित्रयबलात् । स्वार्थः स्वरूपभेदः । उक्तार्थेषु मतिभेदस्थानभेदवैलक्षण्यरूपेषु । यत् यस्मात् । भेदं स्वरूपभेदम् । गले सूत्रायते मङ्गलसूत्रवत् अप्रच्युतः दृढनिबद्ध एवावतिष्ठते ।। ४१५ ।।
युक्तिमल्लिका
सखायौ सयुजौ चेति पददाढर्््याच्चलेच्च न ।। ४१६ ।।
सुरोत्तमटीका
किं च द्वासुपर्णेति श्रुतेरर्थान्तरशङ्कैव न घटत इत्याह ।। सखायाविति ।। सखायौ एकविषयमतिमन्तौ । इदमेव हि सख्यं नाम । सयुजौ सदैकस्मिन्देहे सम्बद्धौ । चलेत् मतिभेदादौ गच्छेत् । मत्यैक्य-स्थानैक्यकथक पदद्वयबलान्मतिभेदादौ नेतुमपि न शक्येति भावः । प्रसङ्गा-त्प्राक्प्रस्तावितोऽप्ययमर्थश्श्रौतपदानां शोधन समयेऽवश्यवक्तव्यत्वात्पुनरपि प्रदर्शितः ।। ४१६ ।।
सत्यप्रमोदटीका
दाढर्््यात् सखायाविति पदस्य मत्यैक्यवाचित्वात् सगुणावित्यस्य स्थानैक्याभिधायित्वात् । न चलेत् तद्विरुद्धार्थकल्पन-स्यावकाशमेव न दद्यात् ।। ४१६ ।।
युक्तिमल्लिका
अन्योऽयमन्य इत्युक्ते द्वाविमाविति चोदिते ।
भिन्नाविमाविति प्रोक्ते किमन्योऽर्थोऽपि मान्यते ।। ४१७ ।।
सत्यप्रमोदटीका
अर्थान्तराश्रयणे सुस्पष्टपदान्तरविरोधमाह अन्य इति ।। ४१७ ।।
युक्तिमल्लिका
बद्धत्वापूर्णतात्तृत्वपूर्वैर्जीवप्रकाशकैः ।
नित्यमुक्तत्वपूर्णत्वानत्तृत्वाद्यैः परप्रियैः ।। ४१८ ।।
विरुद्धधर्मसद्रत्नैश्चूडारत्नायितैः सदा ।
अलङ्कृता भेदवाक्तु नैव स्वार्थं विमुञ्चति ।
एकास्यो वा दशास्यो वा तां न भीषयितुं क्षमः ।। ४१९ ।।
सुरोत्तमटीका
पदान्तरबलादप्यर्थान्तरशङ्कार्णत्वं च श्रुतावर्थात्सिद्धम् । स्मृतौ तु योऽविद्ययांधस्स तु नित्यबद्ध इति स्पष्टं बद्धत्वापूर्णत्वे सिद्धे । अनश्नन्नन्य इति परमात्मनः कर्मफलानशनकथनात्कर्माबद्धत्वरूपनित्यमुक्तत्वं पूर्णत्वं च श्रुतावर्थात्सिद्धम् । स्मृतौ तु विद्यामयो यस्स तु नित्यमुक्त इति विद्यादिगुणपूर्णत्वनित्यमुक्तत्वे स्पष्टमेव सिद्धे इति द्रष्टव्यम् । एकास्य-श्शिशुपालः । दशास्यो रावणः इति ध्वनिः । एकमुखवान्दशमुख स्वीकार-वान्वेति प्रकृतोपयोग्यर्थः । तां श्रुतिसुन्दरीम् । सीतामिव रुग्मिणीमिव वेति ध्वनिः ।। ४१८,४१९ ।।
सत्यप्रमोदटीका
उपपत्तिविरोधाच्च न स्वरूपैक्यमर्थः सम्भवतीत्याह बद्धत्वेति । देहजनितकर्मफलस्य पिप्पलस्य अत्तृत्वेन बद्धत्वम् । कर्मफल-सापेक्षत्त्वेन अपूर्णत्वम् । अस्वादु न एव स्वादुत्वेन अदनात् पराधीनतया अत्तृत्वं इत्येवं जीवप्रकाशकैः । अतादृशत्वात् परमात्मनः नित्यमुक्तत्वादयः धर्माः तैः । एकास्यः शिशुपालो रुक्मिणीमिव दशास्यो रावणः सीतामिवेति ध्वनिः । दशजिह्वः व्याहतभाषी मायावादी प्रकृते ।। ४१८, ४१९ ।।
युक्तिमल्लिका
ऐक्यश्रुतिस्तु मत्यैक्ये स्थानैक्ये स्वार्थमुज्खति ।
एकीभूताविमावित्यत्रैक्यं न हि तयोर्द्वयोः ।। ४२० ।।
सुरोत्तमटीका
एकीभवन्तीत्याद्यैक्यश्रुतेस्स्वरूपैक्यं विनैव प्रवृत्तिप्रकारं स्मारयति ।। ऐक्यश्रुतिस्त्विति ।। स्वार्थं स्वरूपैक्यम् ।। ४२० ।।
सत्यप्रमोदटीका
ऐक्यश्रुतिः ‘एकीभवन्ति’ इत्यादिका । उज्खति परित्यजति । लोके निरूढत्वादित्याह एकीभूताविति । ऐक्यं स्वरूपैक्यम् । तदुक्तं भगवत्पादैः ‘ऐक्यवाक् सम्यक् सावकाशा यथेष्टतः’ इति ।। ४२० ।।
युक्तिमल्लिका
अतो भेदश्रुतेरग्रे कस्य स्यात्प्रत्यवस्थितिः ।
तस्मात्क्रूरकृपाणी सा रिपुसैन्यभयङ्करी ।। ४२१ ।।
सुरोत्तमटीका
अतः ऐक्यश्रुतेस्सावकाशत्वात् । तस्मात्सावकाश-निरवकाशयोर्निरवकाशस्यैव प्रबलत्वात् ।। ४२१ ।।
सत्यप्रमोदटीका
तस्मात् निरवकाशत्वादिनिमित्तकबलवत्त्वात् ।। ४२१
।।