अथ सन्त्येव चैतन्यभागास्ते सर्वदेहगाः


 

बहुजीववादनिरासः

युक्तिमल्लिका

अथ सन्त्येव चैतन्यभागास्ते सर्वदेहगाः ।

तेषां ब्रह्मविभेदस्तु मृषेति यदि मन्यसे ।। ५३४ ।।

सर्वत्र निष्क्रियं ब्रह्म निश्छिद्रं वर्तते किल ।। ५३५ ।।

नानादेहगतान्येतान्यनन्तान्यत्यणूनि च ।

चैतन्यान्यादितस्सन्ति सञ्चरन्ति पृथक्पृथक् ।। ५३६ ।।

अन्यतोऽनुद्धतांशानामनादिपरिवर्तिनाम् ।

अणूनां सक्रियाणां च बहूनां क्लेशभोगिनाम् ।। ५३७ ।।

सदा सर्वत्र पूर्णेन निश्छिद्रस्थिरमूर्तिना ।

एकेन निर्विकारेण क्लेशानां दूरवर्तिना ।। ५३८ ।।

भेदो मृषेति यद्वाक्यं यच्छास्त्रं तत्कृते कृतम् ।

बधिरास्तत्र शिष्यास्स्युरुन्मत्ता वा न बुद्धिमान् ।। ५३९ ।।

सुरोत्तमटीका

 तर्हि बहुजीववाद एवास्तु । तथाप्यनादिरपि जीव-ब्रह्मभेदो मृषैवेत्यङ्गीक्रियत इति शङ्कामनूद्य जीवस्वभावं ब्रह्मस्वभावं च वर्णयन्नेव धिक्करोति ।। अथेति ।। आदितः अनादिकालमारभ्य । तत्कृते भेदमिथ्यात्वकृते । तत्र शास्त्रे । उक्तरीत्या बहुधाविरुद्धधर्माक्रान्तजीव-ब्रह्मभेदमृषात्वं न कोऽपि प्रेक्षावांच्छृणुयादिति भावः ।। ५३४-५३९ ।।

सत्यप्रमोदटीका

 बहुजीववादमुपक्षिप्य दूषयति । अथेति । सत्येवेति । तेन गमनागमनाद्युपपत्तिः । तर्हि एकीभवन्तीति श्रुतिविरोध इत्यत आह भेदस्तु मृषेति ।। एवमप्युक्तसर्वदोषानिस्तार एवेत्याह सर्वत्रेति । अनादीनां तत एव ब्रह्मवत्सत्यानां भेदकधर्माणां अङ्गीकारः भेदस्य त्वनङ्गीकारः व्याहतः । तत्प्रतिपादकं शास्त्रं प्रेक्षावद्भिस्तिरस्कारमेवार्हतीत्याह पञ्चभिः । तत्र जीवगता धर्माः अणुत्वं सक्रियत्वं बहुत्वं क्लेशभोगित्वं इत्यादयः । ब्रह्मगतास्तु सदा सर्वत्र पूर्णत्वं निश्छिद्रत्वं एकत्वं स्थिरमूर्तित्वं निर्विकारत्वं क्लेशातिदूरत्वं इत्यादयः । न च धर्माणामपि मिथ्यात्वम् । अनादित्वेन स्वभावत्वात् । स्वभावहानौ स्वरूपहानिप्रसङ्गात् । तदुक्तं–

निर्दोषश्रुतिसाक्षिभ्यां प्रमिते ब्रह्मजीवयोः ।

 सर्वशक्त्यल्पशक्तित्वे मिथ्येति च न युज्यते’ इति ।। ५३४-५३९ ।।

युक्तिमल्लिका

मृषा भेदं घटव्योम प्रचलेत्तत्र तत्र किम् ।

जलेन जलपङ्केन लिप्यते किं दिने दिने ।। ५४० ।।

सुरोत्तमटीका

 उक्तविरुद्धधर्माणां भेदमृषात्वेऽसम्भवं तात्विकभेदे सत्येव सम्भवं च दृष्टान्तमुखेन दर्शयति ।। मृषाभेदमिति ।। जलेन घटस्थ-जलेन । जलपङ्केन घटस्थजलपङ्केन । एवमेव व्याप्तशुद्धब्रह्मचिदात्मकत्वे जीवस्य न कोऽपि विकारस्स्यात् । निर्विकारगगनैकदेशे घटाकाशे घटादाविव तदुपाधितो व्यावहारिकविकारस्याप्यदर्शनादिति भावः ।। ५४० ।।

सत्यप्रमोदटीका

 अस्तु वा भेदो मृषा तथाऽपि जीवेषु चलनादिकं क्लेशलेपादिकं च नैवोपपद्यते इति सदृष्टान्तमाह मृषेति ।। ५४० ।।

युक्तिमल्लिका

किन्तु स्वभावभिन्नानां रेणूनां गगनादिना ।

तत्र तत्र क्रिया नास्ति विक्रिया च ततस्ततः ।। ५४१ ।।

निष्क्रियब्रह्मभागाश्चेत्सक्रियत्वं न कर्हिचित् ।

निष्क्रियाकाशभागास्ते सक्रियाः केन वा कृताः ।। ५४२ ।।

सुरोत्तमटीका

 गगनादिना स्वभावभिन्नानामिति सम्बन्धः ।। भेद-मृषात्वे इदं तु सर्वथाऽनुपपन्नमित्याह ।। निष्क्रियेति ।। ५४१,५४२ ।।

सत्यप्रमोदटीका

 अतः गगनादिना रेणूनामिव स्वभावभेदाङ्गीकार एव एकत्र क्रियाऽभावः अपरत्र तत्सद्भाव इत्यादिविरुद्धधर्मोपपत्तिरित्याह किं त्विति ।। ५४१, ५४२ ।।

युक्तिमल्लिका

तज्जीवेश्वरभेदो वा मूकता वा गतिस्तव ।

स्फोटो यन्नाक्रियेणैक्ये ताल्वोष्ठपुटसम्पुटे ।। ५४३ ।।

सुरोत्तमटीका

 तत्तस्मात् निष्क्रियसक्रिययोरभेदायोगात् । निष्क्रियेणैक्ये मूकतामुपपादयति ।। स्फोट इति ।। यद्यस्मात् । स्फोटो विभागः । निष्क्रिय-ब्रह्मणैकीभूतजीवस्यापि निष्क्रियत्वावश्यम्भावात् ताल्वोष्ठपुटविभागोपयुक्त-चैतन्यांशानां (चैतन्यात्मकतत्प्रकाशानां च) क्रियाऽयोगेन जडोष्ठयोरपि कदापि विभागो न स्यादिति भावः ।। ५४३ ।।

सत्यप्रमोदटीका

 भेदमिथ्यात्वे परस्परविरुद्धयोरिति न्यायेन अभेदो-न्मज्जनापत्त्या निष्क्रियेण ब्रह्मणैक्यमापन्नस्य जीवस्यापि निष्क्रियत्वे ताल्वोष्ठ-पुटविदारणरूपमुखव्यादानाभावेन मूकीभावापत्तिरिति भावेनाह तदिति ।।

युक्तिमल्लिका

व्यावहारिकतोक्तिस्ते स्पर्धते पदमञ्जरीम् ।

बाधश्चेदस्ति तर्ह्यर्थ नास्तितैवेति किं तया ।

बाधश्चेन्नास्ति ते शास्त्र नास्तितैवेति किं तया ।। ५४४ ।।

सुरोत्तमटीका

 ननु सर्वथा भेदाभावोनोच्यते किं तु व्यावहारिक-भेदोऽप्यस्तीति शङ्कामपहसति ।। व्यावहारिकतोक्तिरिति ।। पदमञ्जरीं स्पर्धते । उभयथापि व्यर्था पदमञ्जरीति वचनात् पदमञ्जरीवदुभयथा व्यर्थेत्यर्थः । तदेव दर्शयति ।। बाधश्चेति ।। तया व्यावहारिकतया । शास्त्रनास्तिता ऐक्य-शास्त्रनास्तिता । अबाधितभेदाङ्गीकारेण सदद्वैतभङ्गप्रसङ्गादिति भावः ।।५४४।।

सत्यप्रमोदटीका

 व्यावहारिकेति व्यावहारिकं बाध्यमिति चानर्थान्तरम् । तदुक्तं मायिभिः ‘बाध्यविषये च व्यावहारिकमित्यस्याद्वैतिपरिभाषामात्र सिद्ध-त्वात्’ इति । सत्यं च अबाध्यम् । तथा च व्यावहारिकसत्यमित्यस्य अबाध्यं बाध्यं चेत्यर्थकत्वापत्त्या व्याहतिरेव । शास्त्रस्य बाध्यत्वे वन्ध्यासुतवचस इवासाधकत्वम् । अबाध्यत्वे सदद्वैतभङ्गः इत्याह बाधश्चेदिति । तदुक्तं भगव-त्पादैः ‘मिथ्यात्वं यदि दुःखादेस्तद्वाक्यस्याग्रतो भवेदि’त्यादि ।। ५४४ ।।

युक्तिमल्लिका

सर्वानुभवसिद्धस्य मर्यादारक्षकस्य च ।

जीवेश्वरादिभेदस्य मृषा त्वं केन हेतुना ।। ५४५ ।।

यथानुभवमेवार्थस्सदा सर्वत्र तिष्ठतु ।

जीवोजीवोस्तु सर्वत्र जडमस्तु जडं सदा ।। ४४६ ।।

ईशस्सर्वत्र चेशोस्तु यथापूर्वमिति श्रुतिम् ।

उपेक्ष्य लोकसंहारः क्रियते केन हेतुना ।। ५४७ ।।

सुरोत्तमटीका

 तस्मादनादिकालमारभ्य परिवर्तमानजीवेश्वरादि भेदस्य सर्वव्यवहारनिर्वाहकस्याऽऽविपालगोपालमप्यनुभवेनाद्याप्यबाधितस्य यथापूर्वमकल्पयदिति श्रुत्या पूर्वं पूर्वं यथा तथैव सर्वदा जगत्सृष्टिरित्यर्थ कथि-कयाऽनुगृहीतस्य च निर्निमित्तं मृषात्वकल्पनेन कुतो व्यत्यास इति वदन्युक्ति-चर्चामुपसंहरति ।। सर्वानुभवेत्यादिना ।। ५४५-५४७ ।।

सत्यप्रमोदटीका

 मर्यादेति । तदुक्तं वादावल्यां ‘यदि भेददर्शनं न स्यात्तर्हि सकलव्यवहारविधुरः परः प्रसज्येतेति ।। यथानुभवमिति । ‘बल्येवानु- भवस्त्वत्र’ इति ब्रह्मतर्कवचनतः अनुभवस्य बलवत्त्वेनान्यतो बाधायोगादिति भावः ।

जगत् प्रवाहः सत्योऽयं पञ्चभेदसमन्वितः ।

 न क्वाप्यनीदृशं विश्वं तत्तत्कालानुसारतः’

इत्युक्तेः । याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः इति श्रुतेश्च । श्रुतिं ‘धाता यथापूर्वमकल्पयदि’ति श्रुतिम् । संहारः मिथ्यात्वापादनम् ।। ४४५-४४७ ।।

युक्तिमल्लिका

न ह्यनादिभवेप्यस्य व्यत्ययोऽर्थस्य कस्यचित् ।

इदानीं न कुतो भाविकाले व्यत्यास इष्यते ।। ५४८ ।।

सुरोत्तमटीका

 अस्यार्थस्य जीवेश्वरादिभेदरूपार्थस्य । भाविकाले भविष्यत्काले ।। ५४८ ।।

सत्यप्रमोदटीका

 कुत इति । तदुक्तं न्यायामृते भाविबाधकशङ्का-निरासभङ्गे

ओतुकार्यशङ्केव स्वक्रियादिविरोधतः ।

 भाविबाधकशङ्का न युक्ताऽध्यक्षे श्रुताविव’ इति ।। ५४८ ।।

युक्तिमल्लिका

निर्दुःखस्वसुखप्राप्त्या मुक्तिश्चैक्यं विना भवेत् ।। ५४९ ।।

सुरोत्तमटीका

 ऐक्याभावे का मुक्तिरित्यस्य मुक्तस्तु धौतमणिवदिति संसारादुद्धार एव मुक्तिरित्येकमुत्तरं दत्तम् । प्रकारान्तरेणाप्युत्तरमाह ।। निर्दुःखेति ।। ननु सर्वं खल्विदं ब्रह्मेति श्रुत्या सर्वाद्वैतकथनात् उक्तविधया सर्वानुभवसिद्धस्यापि भेदस्य मृषात्वं कल्प्यत इति चेन्न । गङ्गायां घोषस्सिंहो देवदत्त इत्यादि लौकिकवाक्यैर्वा । यजमानः प्रस्तरः आदित्यो वै यूप इत्यादि वैदिकवाक्यैर्वा प्रत्यक्षसिद्धार्थबाधस्य क्वाप्यदर्शनात् । प्रत्युत प्रत्यक्षबाधित स्वार्थपरित्यागेनार्थान्तरे वृत्तेरेव दर्शनात् । सर्वं खल्विदं ब्रह्मेति वाक्यस्यापि सर्वानुभवबाधितसर्वाद्वैताख्यार्थपरित्यागेन राजैव राष्ट्रमितिवत्सर्वस्य ब्रह्माधीनत्वार्थ एव वृत्तेरुचितत्वात्।।५४९ ।।

सत्यप्रमोदटीका

नन्वेवं ‘परेऽव्यये सर्व एकीभवन्ती’ति श्रुत्या मुक्तावेकीभावोक्तेः का गतिरिति चेत् च्विप्रत्ययेन स्वरूपैक्यस्य बाधितत्वेन निर्दुःखत्वस्वयोग्यसुखरूपत्वादिना सादृश्यैक्यमेवेत्याह निर्दुःखेति ।।५४९।।