विषयाश्रितमज्ञानं यद्यावरणमिष्यते

अज्ञानस्यविषयाश्रितत्वभङ्गः

युक्तिमल्लिका

विषयाश्रितमज्ञानं यद्यावरणमिष्यते ।

तर्ह्येकवृत्त्या तन्नाशे सर्वैर्दृश्येत वस्तु तत् ।। १६५ ।।

सुरोत्तमटीका

 इदानीं विषयाश्रिताज्ञानपक्षं दूषयति ।। विषयाश्रित-मिति ।। विषयाश्रितं इदं रजतमिति विपर्यये रजततया प्रतीयमाना या शुक्तिः तदावरकमज्ञानम् । शुक्त्यवच्छिन्नचैतन्याश्रितं तदावरकमज्ञानमेव शुक्त्यावरक-मज्ञानं वदन्ति । तेन च शुक्तेर्ज्ञानाभावात् । तत्र विपरीतज्ञानमिति परप्रक्रिया । विषये शुक्त्यादौ एकस्य वृत्त्या इयं शुक्तिरित्यपरोक्षज्ञानेन तन्नाशे शुक्त्यावरकाज्ञाननाशे । तत् शुक्तिशकलम् ।। १६५ ।।

सत्यप्रमोदटीका

 ‘पुङ्गतमेव हि तमः’ इति भगवत्पादोक्तिं समर्थ-यिष्यमाणः अज्ञानस्य विषयाश्रितत्वपक्षेऽतिप्रसङ्गं ‘विषयाश्रितं चेदज्ञानं निवर्तते तर्ह्येकेन ज्ञातस्य घटस्यान्यैरज्ञातत्वं न स्यादि’ति तत्वोद्योतोक्तमाह विषयेति । घटावच्छिन्नचैतन्यावरकं एव घटावरकमिति उच्यते । एकस्य पुरुषस्य वृत्त्या वृत्तिफलितज्ञातृचैतन्येन आवरकाज्ञाननाशे सर्वैः तद्वस्तु दृश्येत । न च तथा दृश्यते । किं तु इतरेषां तद्विषयकमज्ञानं अनुवर्तते एव । अतः न विषयाश्रितमज्ञानं किं तु नयनगतकाचादिवत्पुरुषगतमेवेति विपर्यये पर्यवसितव्यम् ।। १६५ ।।

युक्तिमल्लिका

विषयावरकं दीपस्तमिस्त्रं नाशयेद्यदा ।

तदा तद्वस्तु सर्वैश्च सुव्यक्तं किं न दृश्यते ।। १६६ ।।

सुरोत्तमटीका

 तत्र दृष्टान्तमाह ।। विषयावरकमिति ।। विषयावरकं तमिस्रमिति सम्बन्धः ।। १६६ ।।

सत्यप्रमोदटीका

 तत्र दृष्टान्तमाह दीप इति । तद्वस्तु समनस्केन्द्रिय-सन्निकृष्टं इति उपस्कर्तव्यम् ।। १६६ ।।

युक्तिमल्लिका

यद्यज्ञानान्तरं तत्र पुनरावरणं भवेत् ।

तर्हि केनापि तद्वस्तु न दृश्येताऽऽवृतत्वतः ।। १६७ ।।

सुरोत्तमटीका

 तत्र शुक्तिशकले अज्ञानान्तरं निवृत्ताज्ञानादज्ञानान्तरम् । केनापि प्राचीनेन ततोऽन्येन च केनापि ।। १६७ ।।

सत्यप्रमोदटीका

 परिहारं शङ्कते यदि इति । तत्र विषये । पुनः प्राचीनावरणापगमानन्तरमपि । तथा चाज्ञानान्तरेणावृतत्वान्न सर्वेषां तदैव दर्शनापत्तिरिति शङ्कितुरभिप्रायः । परिहरति तर्हि इति । केनापि प्राचीने-नान्येन वा । आवृतत्वतः अज्ञानान्तरेणेति शेषः । यत्किञ्चिदावरणसद्भावेऽपि तद्दर्शनं सर्वस्यापि दुर्घटमेवेति भावः ।। १६७ ।।

युक्तिमल्लिका

यदि ज्ञातृविभेदेन कल्प्येतावरणं घटे ।

तदा ह्यदृष्टस्य बहोः कल्प्यात्वाद्गौरवं भवेत् ।। १६८ ।।

सुरोत्तमटीका

 ज्ञातृविभेदेन एकस्य ज्ञातुः एकमावरणम् । अन्यस्य चान्यत् । एकस्यावरणनिवृत्तौ स एव तत्पश्यति । अन्यस्तु स्वावरणसद्भावान्न पश्यतीत्येवं प्रतिपुरुषवैचित्र्येणैवेत्यर्थः । घट इत्युपलक्षणम् । शुक्तावित्यपि द्रष्टव्यम् । अदृष्टस्य घटावरकांधकारादावदृष्टस्य ।। १६८ ।।

सत्यप्रमोदटीका

 नैष दोषः । अज्ञानानां प्रतिपुरुषभिन्नत्वाङ्गीकारात् । तथा चैकपुरुषसम्बन्ध्यज्ञानापगमेऽपि इतरसम्बन्ध्यज्ञानरूपावरणावस्थितेर्न सर्वेषां तदैव दर्शनप्रसङ्ग इत्याशङ्कते यदीति । समाधत्ते तदेति । प्रतिविषयं प्रतिपुरुषानेकाज्ञानसद्भावः किं स्वसमयानुरोधेन कल्पितः उत एवं लौकिकी प्रतीतिरस्ति । नाद्यः स्वसमयमात्रानुसरणस्यातिप्रसञ्जकत्वात् । समयान्तरानु-सारेण तद्विरुद्धकल्पनासौलभ्यात् । न द्वितीयः । तदभावादेव । गौरव-पराहतत्वाच्चेत्याह बहोरिति । प्रामाणिकगौरवं न दोषावहमित्यत आह अदृष्टस्येति । अप्रामाणिकस्येत्यर्थः ।। १६८ ।।

युक्तिमल्लिका

न हि तत्तद्गृहालोकैर्नाश्यतामिस्रराशयः ।

घटादिषु प्रदृश्यन्ते ततोऽप्रामाणिकं त्विदम् ।। १६९ ।।

सुरोत्तमटीका

 तदेव दर्शयति ।। नहीति ।। ततस्तस्मादिदं पुरुष-वैचित्र्येणावरणमप्रामाणिकमिति सम्बन्धः । प्रामाणिकत्वाद्गौरवं न दोष इति पराशाखण्डनायेदमुक्तम् ।। १६९ ।।

सत्यप्रमोदटीका

 अप्रामाणिकत्वमेव दृष्टान्तप्रदर्शनेनोपपादयति न हीति । आलोकैरिति राशयः इति च बहुवचनेन एकस्मिन्नावरणे नष्टेऽपि आवरणान्तरसद्भावात् ‘केनापि तद्वस्तु न दृश्येतावृतत्वतः’ इति पूर्वोक्तोऽति-प्रसङ्गः समाहितो ध्येयः । एवं तत्तद्गृहेत्यनेन ‘बहोः कल्प्यत्वाद्गौरवं भवे-दि’त्युक्तातिप्रसङ्गान्तरमपि समाहितं बोद्धव्यम् । ततः लोके एवंविधावरणा-न्तरस्य प्रतिनियतावरणानां वा कुत्राप्यदर्शनात् । इदं तदुभयकल्पनम् । नाशकतावच्छेदकरूपसाम्ये नाशकस्य व्यक्तिविशेषसम्बन्धित्वमकिञ्चित्करमिति हृदयम् ।। १६९ ।।

युक्तिमल्लिका

अतः पुङ्गतमेवेदं तमो मर्त्या हि तामसाः ।। १७० ।।

सुरोत्तमटीका

 अतः विषयाश्रिताज्ञानस्याप्रमाणिकत्वात् । इदं प्रमा-प्रतिबन्धकं तमः अज्ञानं पुङ्गतमेव ज्ञातृपुरुषनिष्ठमेव । अनेन पुङ्गतमेव हि तम इत्याचार्यवचनं सङ्गृह्णाति । तमसः पुन्निष्ठत्वे युक्तिमाह ।। मर्त्याहीति ।। हि यस्मात् मर्त्या एव तामसा इत्युच्यन्ते न तु घटो वा पटो वा तामस इति केनाप्युच्यते । अतः पुङ्गतत्वमेव तमसो युक्तमिति भावः ।। १७० ।।

सत्यप्रमोदटीका

 अतः अज्ञानस्य विषयाश्रितत्वासम्भवात् । इदं तमः सम्यग्ज्ञानप्रतिरोधकत्वसाम्यात् तम इति व्यवहारविषयः । अज्ञानम् । मर्त्याः संसारिचेतनाः तामसाः प्रकृतिसम्भवतमोगुणसम्बन्धवन्तः । तदुक्तं ‘ज्ञान-मावृत्य तु तमः प्रमादे सञ्जयत्युते’ति । न हि घटादयोऽचेतनास्तमसा निबद्धा इति सम्भवतीति भावः ।। १७० ।।

युक्तिमल्लिका

पुंसु काचादिदोषाश्च यतस्सन्ति पृथक्पृथक् ।

अतो नानात्वमप्येषामनायासेन सिद्ध्यति ।। १७१ ।।

सुरोत्तमटीका

 तमसः पुंनिष्ठत्वे च काचादिवत्प्रतिपुरुषवैचित्र्यं च कल्पनां विनैव सिद्ध्यतीत्याह ।। पुंस्विति ।। नानात्वं प्रतिपुरुषवैचित्र्यम् । एषां तमसाम् । एवं च मत्पक्षेन किंचित्कल्प्यमिति भावः ।। १७१ ।।

सत्यप्रमोदटीका

 ननु भवत्पक्षेऽपि दोषः समानः । प्रतिव्यक्ति अज्ञान-नानात्वाङ्गीकारात् । तत्रापि कल्पनागौरवदोषप्रसरादित्यत अह पुंस्विति । दोषाः अज्ञानहेतुभूताः । अतः हेतुनानात्वात् एषां कार्याणां अज्ञानानां नानात्वं प्रतिव्यक्तिनियतत्वम् अनायासेनेति । न हि सामग्रीभेदेन कार्यभेदसाधने कोऽप्यायास इति भावः ।। १७१ ।।

युक्तिमल्लिका

नाश्यनाशकयोर्ज्ञानाज्ञानयोरेकदेशता ।

तमःप्रकाशवत्सिद्धा नान्धकारोऽपि चेतने ।

दीपो वा चेतनगतस्ततस्तौ यत्र कुत्र चित् ।। १७२ ।।

सुरोत्तमटीका

 अज्ञानस्य पुंनिष्ठत्वे युक्तिमप्याह ।। नाश्यनाशक-योरिति ।। एकदेशतानाशकज्ञानवति पुरुषे नाश्याज्ञानस्यापि विद्यमान-तेत्यर्थः । नाशको दीपो यस्मिन्देशे तत्रैव विद्यमानस्य तमसो नाशदर्शनात् तमःप्रकाशवत्सिद्धेत्युक्तम् । नाश्यनाशकयोरन्धकारदीपयोः विषयघटाद्याश्रयत्व दर्शनाज्ज्ञानाज्ञानयोरपि विषयाश्रितत्वमस्तित्याशङ्कां दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यं दर्शयन्परिहरति ।। नान्धकार इति ।। दीपो वा चेतनगतो नेति पूर्वेण सम्बन्धः । ततः नाशकदीपस्य चेतनगतत्वाभावेन नाश्यतमसोऽपि पुन्निष्ठत्वस्यावश्यम्भावाभावात् तौ अन्धकारदीपौ यत्र कुत्रचित् तमस्स्थितघट-पटादिदर्शने द्वयोरपि तद्देशता । अन्धकारस्थितपुरुषादि दर्शने तु द्वयोरपि पुरुषदेशीयत्वमित्यर्थः ।। १७२ ।।

सत्यप्रमोदटीका

 अज्ञाननाशकस्य ज्ञानस्य ज्ञातृनिष्ठत्वेन तन्नाश्यस्या-ज्ञानस्यापि ज्ञातृनिष्ठत्वं युक्तिबलात्सिद्धमित्याह नाश्येत्यादिना सिद्धेत्यन्तेन । अज्ञानं ज्ञातृनिष्ठं ज्ञानसमानदेशत्वात् यथाऽऽलोकसमानदेशोऽन्धकार आलोकाश्रयघटाश्रितः । न चासिद्धिः । अज्ञानं ज्ञानसमानदेशं ज्ञान-नाश्यत्वात् । यथा आलोकनाश्योन्धकार आलोकसमानदेश इति तत्सिद्धेः । इदानीमन्धकारदृष्टान्तोक्त्या प्रसक्तां मन्दाशङ्कां परिहरति नेत्यादिना ज्ञातृपुरुष इत्यन्तेन । अन्धकारः ज्ञानप्रतिबन्धकः बहिःपदार्थसम्बन्ध्युपलब्धः । स च पदार्थः क्वचित्पुरुषदेहो वा घटादिर्वा । तथाऽज्ञानमपि बहिःपदार्थाश्रितं किं न स्यादिति चेन्मैवम् । दृष्टान्तस्य वैषम्यादित्याह नेति । तत्र नाशको दीपो विषयसम्बन्धीति तन्नाश्यस्यान्धकारस्यापि तथात्वमुपपन्नम् । ज्ञानस्य तु नियमेन ज्ञातृपुरुषाश्रितत्वात्तन्निवर्त्यस्याज्ञानस्यापि तदाश्रितत्वमेवोपपन्नमिति भावः । एतेनैवाज्ञानस्य ब्रह्माश्रितत्वमपि पराभिमतं परास्तमित्याह ब्रह्म-णीति । अज्ञानस्य ज्ञानसमानाश्रयत्वनियमात्, उत्पद्यमानज्ञानस्याज्ञान-निवर्तकस्य ज्ञातृपुरुषनिष्ठत्वेन ब्रह्मनिष्ठत्वाभावादित्याशयः ।। १७२,१७३ ।।

युक्तिमल्लिका

ज्ञानं तु ज्ञातृपुंस्येव तन्नाश्याज्ञानमप्यतः ।

वक्तव्यं ज्ञातृपुरुषे ब्रह्मणि स्यात्कथं वद ।। १७३ ।।

सुरोत्तमटीका

 ज्ञानं तु ज्ञातृपुंस्येव न तु विषये घटादौ । तस्य जडत्वेन ज्ञानाधारतायोग्यत्वात् । तुशब्दः दीपाज्ज्ञानस्य उक्तविशेषद्योतकः । अतः नाशकज्ञानस्य ज्ञातृपुरुषनिष्ठत्वनियमात् । नाश्याज्ञानं ज्ञाननाश्याज्ञानं ज्ञातृपुरुष एव वक्तव्यमिति सम्बन्धः । उक्तरीत्या नाश्यनाशकयोस्समानदेश-त्वावश्यम्भावेन नाशकज्ञानस्य पुन्निष्ठत्वनियमे नाश्याज्ञानस्यापि तन्निष्ठत्वा-वश्यम्भावात् ब्रह्मणि कथं स्यात् । ब्रह्माश्रिताज्ञानपक्षो गत इति भावः

।। १७३ ।।

युक्तिमल्लिका

ज्ञानाज्ञाने हि पुन्धर्मौ पुंस्थावेवार्थसाधकौ ।।

किं न पुंनेत्रगः काचो बाह्यार्थावरणक्षमः ।

अतस्तवानुमानं च परकैंकर्यमाचरेत् ।। १७४ ।।

सुरोत्तमटीका

 अज्ञानस्य पुंनिष्ठत्वेऽपि बाह्यविषयावरणत्वं दृष्टान्त-मुखेन घटयति ।। ज्ञानाज्ञाने इति ।। अर्थसाधकौ विषयप्रकाशनविषया-वरणाख्यफलसाधकौ । ज्ञानाख्यप्रकाश इव तत्प्रतियोगितमोऽपीदमन्तस्स्थमेव बहिः कार्यकारीति सूचनाय ज्ञानस्यापि ग्रहणम् । बाह्यार्थस्य शुक्त्यादेः । अतः ज्ञानाज्ञानयोः पुंनिष्ठत्वनियमात् । तवानुमानं प्रमाणज्ञानं स्वप्राग-भावव्यतिरिक्तस्वविषयावरणस्वदेश गतस्वनिवर्त्यवस्त्वंतरपूर्वकम् । अप्रकाशि-तार्थ प्रकाशकत्वात् । अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदित्यनुमानम् । परकैङ्कर्यं परस्य जीवनिष्ठाज्ञानवादिनः कैंकर्यं स्वदेशगतेत्युक्त्याऽज्ञानस्य ज्ञानाधारजीवाश्रितत्वस्यैव सिद्ध्या त्वदभिलषितब्रह्माश्रितत्वासिद्धेरनुमानस्य तत्ववादिनं प्रति सिद्धसाधनत्वादिति भावः । परमतेऽप्यधिष्ठानचैतन्याख्य-ज्ञानस्य कथंचिदज्ञानसमानदेशत्वसम्भवेऽपि प्रमाणज्ञानस्यान्तःकरण-वृत्तिरूपस्य जीवनिष्ठत्वावश्यंभावेनार्थान्तरत्वादिति भावः ।। १७४ ।।

सत्यप्रमोदटीका

 ननु आन्तरं विज्ञानं कथं बाह्यार्थप्रकाशनक्षमं प्रकाश्यप्रकाशकयोर्घटालोकयोः समानदेशावस्थाननियमात् । एवं आन्तरं अज्ञानं कथं बाह्यार्थावरणक्षमं आवरणाव्रियमाणयोरपि तन्नियमादिति चेत्तत्राह ज्ञानेति ।। किं सहदर्शनमात्रेण नियमोऽवसीयते उत अव्यभिचारादिसम्पत्तौ सत्याम् । नाद्यः अतिप्रसङ्गात् प्रमेयत्वादिना ह्नदेऽपि वह्निसाधनापत्तेः । न द्वितीयः । उभयत्र व्यभिचारात् । गोलकस्थस्य चक्षुरिंद्रियस्य प्रत्यासत्तिमहिम्ना बाह्यार्थप्रकाशनसामर्थ्यदर्शनात् । एवं पुरुषनेत्रस्थितकाचादेः बाह्यार्थज्ञान-प्रतिबन्धकत्वोपलम्भाच्चेत्याह किमिति । काचस्य रश्मिद्वारकेन्द्रियार्थ-सन्निकर्षविघटकत्वेनेति भावः । साक्षात्परम्परासाधारणप्रत्यासत्तिमात्रमेवा-पेक्षितम् । न तु समानदेशत्वमपीति भावः । साध्यसाधनभावेऽनुभवसिद्धे काऽत्र कथन्तेत्याशयः । तवानुमानं आत्माश्रिताज्ञानसिद्धये त्वदुपन्यस्तं, प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्यस्वदेशगतवस्त्वन्तर-पूर्वकं अप्रकाशितार्थप्रकाशकत्वात् इत्येवंरूपं अनुमानम् । परस्य अज्ञानं जीवाश्रितमेव नत्वेव ब्रह्माश्रितमिति वादिनः । कैंकर्यं अनुकूलताम् । विषयाश्रिताज्ञानसिद्ध्या प्रसक्तामर्थान्तरतां विनिवार्यात्माश्रिताज्ञानसिद्धये खलु त्वया साध्ये स्वदेशगतेति विशेषणमुपात्तम् । तत्र स्वशब्दार्थप्रमाणज्ञानस्य यो देशो ज्ञातृपुरुषो जीवस्तद्गतत्वेन सिद्ध्यदज्ञानं जीवाश्रितत्वपक्षमेव समर्थयते इति परानुकूलमेवेत्याकूतम् ।। १७४ ।।

युक्तिमल्लिका

स्वदेशगतमज्ञानं प्रमाणज्ञानतस्तव ।

सिद्ध्यत्प्रमातृपुरुषे यतस्सिद्धमभूद्बलात् ।

प्रमाता जीव एवेति जीवाज्ञानमभूद्धि तत् ।। १७५ ।।

सुरोत्तमटीका

 तदेवोपपादयति ।। स्वदेशगतमिति ।। प्रमाणज्ञानतः प्रमाणज्ञानं पक्षीकृत्य । स्वदेशगतं प्रमाणज्ञानसमानदेशगतमित्यर्थः । प्रमातृ-पुरुषे जीवे । प्रमातृपदेन प्रमावान्प्रमातेति प्रमाणज्ञानस्य जीवनिष्ठत्वं स्फोर-यति ।। तदज्ञानम् ।। १७५ ।।

सत्यप्रमोदटीका

 तदेव विशदयति स्वेति । स्वसमानेत्यर्थः । प्रमाण-ज्ञानतः सार्वविभक्तिकस्तसिः । पक्षीभूतप्रमाणज्ञान इत्यर्थः । एवकारेण ब्रह्मणः प्रमातृत्वव्यवच्छेदः । न हि ब्रह्मणः प्रमाणज्ञानं अप्रकाशितार्थ-प्रकाशकं न वा तस्य प्रागभावप्रसक्तिरस्ति अनादित्वादेवेति भावः ।। १७५ ।।