सत्वं रजस्तम इति गुणा जीवस्य नैव मे

मुकुन्दस्यनित्यमुक्तत्वसमर्थनम्

युक्तिमल्लिका

सत्वं रजस्तम इति गुणा जीवस्य नैव मे ।

इति त्रिगुणशून्यत्वं स्वस्योक्त्वा हरिरञ्जसा ।

स्वाधीनगुणतो बन्धो जीवस्यैवेति शंसति ।। २६१ ।।

सुरोत्तमटीका

 बद्धोमुक्त इति ह्याख्या गुणतो मे न वस्तुत इति भागवते कृष्णेन स्वस्यैव बद्धत्वमुक्तत्वकथनात् कथं नित्यमुक्तत्वमित्याशङ्कां परिहर्तुमाह ।। सत्वं रजस्तम इत्यादिना ।। इति तस्मिन्नेव प्रकरणे भगव-द्वचनेन स्वस्यांजसा त्रिगुणशून्यत्वमुक्त्वा । नैवेत्यवधारणाभिप्रायः ।। अंजसेति ।। अनेन व्यावहारिकगुणाः सन्ति परमार्थतो न सन्तीत्यादि-कुत्सितयोजना निरस्ता वेदितव्या । कथञ्चिद्गुणसद्भावेनैवेत्यवधारणायोगादिति भावः । ततः किं प्रकृत इत्यत आह ।। स्वाधीनेति ।। पूर्वोक्तवाक्येन स्वस्मिन्गुणाभावावधारणान्मे गुण इति वाक्येऽपि मदधीनगुणत इत्यर्थो वक्तव्य इति भावः । सत्वं रजस्तम इति गुणा जीवस्येति वचने गुणाधारतया जीवस्यैव श्रवणाद्बद्धो मुक्त इत्यस्मिन्नेव श्लोके न मे बन्धो न मोक्षणमिति स्वस्य बन्धाभावश्रवणाच्च । बन्ध इत्युपलक्षणम् । मुक्तिरित्यपि द्रष्टव्यम् । बन्धस्यौपाधिकत्वे तन्निवृत्तिलक्षणमुक्तिरप्यौपाधिकी ज्ञानानन्दरूपतया स्वाभाविकमुक्तेः पूर्वमपि विद्यमानत्वात् । अत उभयोरपि गुणाधीनत्वमिति बोध्यम् । जीवस्यैवेति पदमनुवर्तनीयमिति भावेनोक्तम् । जीवस्यैवेति ।।

सत्यप्रमोदटीका

 यदि तर्हि बद्धमुक्तौ जीवेशौ भिन्नौ कथं भागवते श्रीकृष्णः ‘बद्धो मुक्त इति ह्याख्या गुणतो मे न वस्तुनः’ इति स्वस्यैवैकस्य बद्ध इति मुक्त इति च आख्याद्वयमाहेति शङ्कां परिहरति सत्त्वमित्यादिना, न मिथ्यात्वमिति स्थितमित्यन्तेन (श्लो.३०९) अत्र गुणशब्देन बन्धकाः प्रकृतिगुणा एव विवक्षिताः पूर्वं तेषामेव प्रकृतत्वात्, ‘गुणाः प्रकृतिसम्भवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययमि’ति तेषामेव बन्धकत्वेन स्मृतौ प्रमितत्वाच्चेति भावेन पूर्वश्लोकमुदाहरति सत्त्वमिति । गुणाः बन्धापादका इति शेषः । जीवस्य संसारिणः । मे नैव मम कदापि बन्धकतया न स्थिताः । उपयुक्तमुक्त्वा बद्धो मुक्त इति श्लोकस्य तदनुगुमर्थमाह स्वाधीनेति । तेन मे इत्यत्र षष्ठी तदधीनत्वार्थक इति ज्ञापयति । ‘सन्ति च एकशतं षष्ठ्यर्थाः । ते च स्वस्वामिभावादय’ इति कैयटोक्तेः ।। अञ्जसेत्येवकारार्थः । तेननैव मे’ इति बन्धात्यन्ताभावार्थः स्फोर्यते ।। २६१ ।।

युक्तिमल्लिका

बद्धो मुक्त इति ह्याख्या गुणतो मे न वस्तुतः ।

गुणस्य मायामूलत्वान्न मे मोक्षो न बन्धनम् ।। २६२ ।।

मदधीनगुणाज्जीवे बद्धाख्या न स्वभावतः ।

इति पूर्वार्धवाक्यार्थो मे धनाज्जीवतीतिवत् ।। २६३ ।।

सुरोत्तमटीका

 उपयुक्तप्रमेयमुक्त्वा श्लोकार्थमाह ।। मदधीनेति ।। मे मम धनाज्जीवतीतिवत् । यथा मे धनाज्जीवतीत्येवार्थो लभ्यते न तु मदङ्गाश्रितधनादिति । तथा मे गुणत इत्युक्तेऽपि मदधीनगुणादित्येवार्थो लभ्यते । अन्यथा प्रागुक्तवचनविरोधादिति भावः । न वस्तुत इत्यस्यार्थो न स्वभावत इति ।। सदा वस्तुं शीलमस्यास्तीति अस्तीति व्युत्पत्या वस्तुपदेन स्वभाव एवोच्येत इति भावः । सत्वादि गुणवशाद्बद्धाख्येत्युक्ते बन्धस्यौपाधि-कत्वमेव लभ्यते । न मिथ्यात्वमिति भावः । पूर्वार्धवाक्यार्थः पूर्वार्धरूप-वाक्यस्यार्थः । इदमुक्तं भवति । मे गुणतः मदधीनसत्वादिगुणतः जीवस्य बद्धो मुक्त इत्याख्याहि । न वस्तुतः न स्वभावत इति पूर्वार्धस्यार्थो न तु मे ममैव गुणतस्सत्वादिगुणवशाद्बद्धो मुक्त इत्याख्या न तु वस्तुतः तत्वत इति मायावाद्यभिलषितार्थ इति । कथञ्चित् बन्धमात्रस्य मिथ्यात्वसम्भवेऽपि बन्ध-निवृत्तिरूपमुक्तत्वस्य मिथ्यात्वासम्भवेन न वस्तुत इत्यस्यास्मदुक्तरीत्यैवार्थ-स्त्वयापि वक्तव्य इति परोक्तार्थे दूषणान्तरं च द्रष्टव्यम् । अस्मन्मते तु बन्धस्य बन्धध्वंसदशायामभावेन बन्धध्वंसस्य च बन्धशायामभावेन उभयोरप्य- सदातनत्वादस्वाभाविकत्वमिति न कश्चित्क्षुद्रोपद्रवः

।। २६२,२६३ ।।

सत्यप्रमोदटीका

 न वस्तुतः न स्वभावतः । जीवस्यापि भगवदधीन-प्रकृतिगुणासादितो बन्धः न स्वाभाविकः । येन तन्निवृत्त्यनुपपत्तिः । किं नाम प्रामादिकः । ‘प्रमादं वै मृत्युमहं ब्रवीमि तथाऽप्रमादादमृतत्वं ब्रवीमि’ इति भारतोक्तेः । बन्धध्वंसोऽपि आगन्तुकत्वान्न स्वभावः । स्वस्वामिभावार्थे षष्ठीप्रयोगं निदर्शयति मे धनादिति ।। २६२,२६३ ।।

युक्तिमल्लिका

स्वस्यैव गुणतो बन्ध इत्यर्थस्तूक्तवाक्यतः ।

उत्तरार्धोत्तरश्लोकपर्यालोचनया च न ।। २६४ ।।

सुरोत्तमटीका

 परोक्तार्थे प्रागुक्तदूषणमनुवदन् पुनरपि दोषद्वयमाह ।। स्वस्यैवेति ।। उक्तवाक्यतः सत्वं रजस्तम इति गुणा जीवस्य नैव म इत्युक्तवाक्यतः गुणस्य मायामूलत्वान्न मे मोक्षो न बन्धनमिति उत्तरार्धस्य एकस्यैव ममांशस्येत्युत्तरश्लोकस्य च पर्यालोचनया ।। २६४ ।।

सत्यप्रमोदटीका

 परोक्तस्यार्थस्य कृष्णस्यैव बन्ध इत्यस्यान्तरङ्ग-विरोधानाह ।। उक्तवाक्यत इति । ‘नैव मे’ इत्युक्तवाक्यात् । उत्तरार्धेति । ‘गुणस्य मायामूलत्वादि’त्याद्युत्तरार्धेत्यर्थः । उत्तरश्लोकेति । ‘एकस्यैवे’त्या-द्युत्तरश्लोकेत्यर्थः ।। २६४ ।।

युक्तिमल्लिका

मायामूलगुणाभावान्न मे मोक्षो न बन्धनम् ।

इत्युत्तरार्धे यत्कृष्णस्स्वस्य बन्धं निषेधति ।। २६५ ।।

सुरोत्तमटीका

 उत्तरार्धपर्यालोचनाप्रकारमाह ।। मायामूलेति ।। माया-मूलगुणाभावादित्यनेन गुणस्य सत्वादिगुणस्य मायामूलत्वात् मायैव प्रकृतिरेव मूलं यस्य सः तत्त्वात् । तस्य च गुणस्य मायारहिते मय्यभावादित्यर्थ उक्तो भवति । यद्यपि मूले गुणस्य मायामूलत्वमात्रमुक्तम् । न तु तस्य गुणस्य स्वस्मिन्नभावः । तथापि न बन्धनमित्युक्तबन्धाभावघटकतया गुणाभावोप्यर्थत उक्त एवेति द्रष्टव्यम् । मे मम बन्धनं बन्धोऽपि न मोक्षोपि न । प्रकृतिमूला हि गुणाः । अप्राकृते मयि प्रकृतिमूलगुणाभावेन बन्धो बन्धान्मोक्षश्च कथं स्यादित्यर्थः । मायामूलत्वादिति हेतुगर्भं विशेषणम् । गुणस्य मायामूलत्वात् मायायाश्च मायां व्युदस्य चिच्छक्त्येति श्रुत्या मय्यभावात् तन्मूलगुणाभावः । गुणाभावे तन्मूलबन्धाभावः । बन्धाभावे च प्रतियोगिसत्तापूर्वकबन्धध्वंसाख्य-मोक्षाभावश्च । अतो नित्यमुक्त एवाहम् । जीवस्तु बद्ध इति भावः । अन्यथा नित्यमुक्तो नित्यबद्ध एक एवेति मे मतिरिति पूर्वाध्यायान्ते उद्धवेनोक्त-पूर्वपक्षस्येदमुत्तरं कथं स्यात् । मम पक्षेतु मुक्तावपि स्वामिभृत्यभावसद्भावेन भक्त्यादिबन्धसद्भावान्नित्यबद्धत्वं जीवस्य कृष्णस्य तु नित्यमुक्तत्वमेव । अतस्त्वदुक्तपूर्वपक्षो न घटत इति योजनासम्भवात् । अत एव वक्ष्यति

अथबद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते ।

विरुद्धधर्मिणोस्तात स्थितयोरेकधर्मिणीति ।

एवं चोत्तरार्धे स्वस्य भगवता स्पष्टं बन्धमोक्षाभावकथनात् । पूर्वार्धे बद्धमुक्ताद्याख्या भगवदधीनगुणवशाज्जीवस्येत्युच्यते । न तु स्वस्यैव । तथा सति पूर्वार्धस्य उत्तरार्धेन सह विरोधादिति भावः । गुणस्य मायामूलत्वात् मायिकत्वात् मिथ्यात्वात् । मे परमार्थतो बन्धमोक्षादिकं नास्तीति पराभि-प्रेतार्थस्तु वस्तुतः परमार्थतो मे बद्धो मुक्त इत्याख्या नेति पूर्वार्धेपि कथित-त्वात् पुनरुक्तं स्यात् । एतादृशबन्धमोक्षाभावस्य जीवेऽपि सम्भवात् स्थल-द्वयेऽपि मे इत्यस्य वैयर्थ्यापत्तेश्चायुक्तः । गुणस्य मिथ्यात्वे गुणतो मे बद्धो मुक्त इत्याख्येति गुणनिमित्तकबन्धादिशब्दानां स्वस्मिन्ननुशासनायोगाच्च । गुणतः गुणभ्रान्तितः आख्यामात्रमित्यर्थकथने श्रुतहान्यश्रुतकल्पनाप्रसङ्गः । अत एव परमार्थतो बन्धमोक्षाभावः अपरमार्थतो बद्धत्वमुक्तत्वाख्येत्यपि परास्तम् । परमार्थतः अपरमार्थत इति पदद्वयस्याश्रुतत्वात् । अपारमार्थिक-रजतत्वेन शुक्ते रजताख्याया अदर्शनेनायुक्तं च । व्यावहारिकत्वमादाय बद्धत्वादिघटनायां च बन्धशून्यत्वाद्युक्तेरयोगात् । न हि व्यावहारिकघटत्ववति घटे घटत्वशून्यताऽपि कथ्यते । व्यवहारत इत्यस्याश्रुतत्वेनाश्रुतकल्पनाया अपरिहाराच्च । एकस्यैव व्यावहारिकत्वपारमार्थिकत्वाभ्यां गुणभावाभावकल्पना गुणा जीवस्य नैव म इति वदतो ग्रन्थकारस्यानभिप्रेता च । अतो यत्किञ्चि-देतत् । यत् यस्मात् ।। २६५ ।।

सत्यप्रमोदटीका

 उत्तरार्धविरोधं परस्य विविनक्ति । मायेति । ‘मायां तु प्रकृतिं विद्यात्’ इति श्रुत्या प्रकृतीत्यर्थः । तन्मूलत्वात् तदुपादानकत्वात् । मे प्रकृतिनियामकस्य प्रकृतिबन्धनिरसनसमर्थस्य मम । बन्धः न ‘गुणेभ्यश्च परं वेत्ती’ति गीतोक्तेः । अत एव न मोक्षः न बन्धध्वंसः बन्धात्यन्ता-भाववत्त्वात् ।। २६५ ।।

युक्तिमल्लिका

एकस्यैव ममांशस्य जीवस्यैवं महामते ।

बन्धोस्याऽविद्ययानादिर्विद्यया च तथेतरः ।। २६६ ।।

सुरोत्तमटीका

 अधुना उत्तरश्लोकपर्यालोचनाप्रकारमाह ।। एकस्यैवेति ।। २६६ ।।

सत्यप्रमोदटीका

 उत्तरश्लोकमुदाहृत्य तदर्थवर्णनपूर्वकं तद्विरोधं परस्य समर्थयते एकस्येति । अंशस्येत्यस्य भिन्नांशस्येत्यर्थः । ‘ममैवांशो जीवलोके जीवभूतः सनातनः’ इति गीतोक्तेः । तत्र परेणापि भिन्नांश इत्येव व्याख्यानात् । तथा भामत्यामपि ‘ब्रह्मांश इव तन्त्रतया न त्वंश इति तात्पर्यार्थ’ इति विवृतेः । स्वरूपांशस्येत्यर्थस्तु अशक्यशङ्कः । अत्रैव एव-शब्देन जीव एवेत्यवधारणात् । तेन न पुनः स्वरूपांशस्य कृष्णस्येत्यर्थ-लाभात् । जीवाख्यखगस्येति । तेन मूले जीवस्येति समुदायैकवचनं, अन्यतरसुपर्णत्वेनैकीकरणादिति भावः ज्ञाप्यते । इतर इत्यस्यार्थकथनं बन्धान्मोक्षः इति ।। बन्धध्वंस इति हृदयम् ।। २६६, २६७ ।।

युक्तिमल्लिका

स्वभिन्नांशस्य जीवाख्यखगस्यैकस्य केवलम् ।

बन्धश्च बन्धान्मोक्षश्च न स्वस्येत्याह स प्रभुः ।। २६७ ।।

सुरोत्तमटीका

 श्लोकार्थमाह ।। स्वभिन्नांशस्येति ।। ममांशस्येत्यर्थ-कथनं स्वभिन्नांशस्येति । जीवानां बहुत्वादेकस्येत्येतत्कथमुपपद्यत इत्यत उक्तं जीवाख्यखगस्येति । सुपर्णावेतौ सयुजौ सखायावित्युत्तरपद्ये खगद्वयतया वर्णितयोर्जीवपरयोर्मध्ये एकस्य जीवाख्यखगस्येत्यर्थः । परमाख्यखगभिन्न-खगत्वेन जीवानामेकीकरणादेकस्येत्युक्तमिति भावः ।

अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते ।

विरुद्धधर्मिणोस्तात स्थितयोरेकधर्मिणीति

उत्तरश्लोके सुपर्णावेतौ सयुजौ सखायावित्युत्तरश्लोके च स्पष्टं जीव-परयोर्भेदकथनादस्मिन्पद्ये च ममांशस्येत्यंशत्वकथनाद्वाक्यद्वयपर्यालोचनया भिन्नांशस्येत्युक्तम् । अस्मिंश्च पद्ये एकस्य जीवस्यैवेति बन्धमोक्षयोर्जीवेऽव-धारणात् स्वस्मिन्निवारणाच्च भिन्नांशस्येत्युक्तम् । स्वरूपांशत्वे तु जीवस्यैव नमे इति कथं विभाग इति भावः । इदं च विशेषणं बन्धस्यैवोपाधिकत्वे हेतुगर्भम् । सार्वकालीनस्वभिन्नांशत्वघटकस्यानन्दादिसादृश्यस्येवास्वाभावि-कत्वादिति हेतोस्सूचनात् । एकेत्यस्यार्थः केवलमिति । केवलं जीवस्यैव न स्वस्येत्यर्थः । अत एवोक्तं स प्रभुर्नस्वस्येत्याहेति । तथा चोत्तरश्लोके जीवस्यैवाविद्यया बन्धः विद्यया मोक्ष इत्युभयोरपि स्पष्टं जीवनिष्ठत्वकथना-त्पूर्वश्लोकेऽपि बन्धमोक्षयोर्जीवनिष्ठतैव यथा भवति तथा योजनीयमिति भावः ।। २६७ ।।

युक्तिमल्लिका

एवमित्यनुवादेन यथा जीवस्य बद्धता ।

पूर्वश्लोकेऽपि भवति तथैवार्थं वदेद्बुधः ।। २६८ ।।

सुरोत्तमटीका

 उत्तरपद्यादस्मात्पूर्वपद्ये जीवस्येति विशेषणाकर्षणाय युक्त्यन्तरमप्याह ।। एवमित्यनुवादेनेति ।। उत्तरपद्ये जीवस्येति विशेषणा-त्पूर्वपद्येऽपि जीवस्यैव बन्धमोक्षावित्यस्यार्थस्याकथने उत्तरश्लोके एवमिति परमार्शायोगात् । अत एवास्मात्पद्यात्पूर्वपद्ये जीवस्येति विशेषस्याकर्षणमपि न्याय्यमिति भावः ।। २६८ ।।

सत्यप्रमोदटीका

 मूले एवमित्यनेन बोधितमर्थं विशदयति एवमितीति । पूर्वश्लोके बद्धो मुक्त इति पूर्वश्लोके । तथैव जीवस्यैव बद्धमुक्ताख्ये यथा भवतस्तथैव । अत्रत्यजीवस्येति पदस्य तत्राप्याकर्षणेनेति भावः ।। २६८ ।।

युक्तिमल्लिका

अतो जीवस्य बद्धत्वं मुक्तत्वं च परात्मनः ।

नित्यमुक्तत्वमेवेति पद्यद्वन्द्वेन सिद्ध्यति ।। २६९ ।।

सुरोत्तमटीका

 एतेनान्यदपि लब्धमित्याह ।। अत इति ।। अतो बन्धस्य कादाचित्कमोक्षस्य च जीवैकनिष्ठत्वकथनाज्जीवस्य बद्धत्वं मुक्तत्वं बन्धान्मुक्तत्वं च । जीवस्य जीवस्यैव न परमात्मनः । परमात्मनः नित्य-मुक्तत्वमेव पद्यद्वन्द्वेन उक्तश्लोकद्वयबलेनेत्यर्थः । कादाचित्कमोक्षस्य जीवैक-निष्ठत्वकथनादुत्तरश्लोके परिशेषात्परमात्मनो नित्यमुक्तत्वम् । पूर्वश्लोकेतु न मे मोक्षोन बन्धनमिति स्पष्टं नित्यमुक्तत्वकथनेन पद्यद्वन्द्वबलात्परमात्मनो नित्य-मुक्तत्वं च सिद्ध्यतीति भावः ।। २६९ ।।

सत्यप्रमोदटीका

 एकस्यैवेति श्लोके जीवस्येति स्पष्टं कथनात् गुणा जीवस्य इति अभ्यासात् जीवस्य बद्धत्वं, बन्धान्मुक्तत्वं च सिद्ध्यति । एवं ‘न मे मोक्षो न बन्धनं’ ‘नैव मे’ इति बन्धस्य सर्वथा निषेधे परमात्मनो नित्यमुक्तत्वं च सिद्ध्यति । एतदाह पद्यद्बन्द्वेनेति ।। २६९ ।।

युक्तिमल्लिका

सखायौ द्वौ सुपर्णौ च देहनीडकृतास्पदौ ।

खादत्येकः पिप्पलान्नं निरन्नोऽप्यन्य ईश्वरः ।। २७० ।।

बलेन भूयान्स विभुर्नित्यमुक्तस्ततोऽपरः ।

जीवो बद्धोऽविद्ययान्धः पूर्वो विद्यामयः किल ।। २७१ ।।

इति पूर्वोक्तमेवार्थं स्पष्टमाह पुनः प्रभुः ।

अतः पूर्वोक्तवाक्यार्थोऽप्यस्मदुक्तो न चापरः ।। २७२ ।।

सुरोत्तमटीका

 अधुना पूर्वोक्तार्थदृढीकरणाय

सुपर्णावेतौ सयुजौ सखायौ यदृच्छया कृतनीडौ च वृक्षे ।

एकस्तयोः खादति पिप्पलान्नमन्यो निरन्नोऽपि बलेन भूयान् ।

आत्मानमन्यं च स वेद विद्वानपिप्पलादो न तु पिप्पलादः ।

योऽविद्ययांऽधस्सतु नित्यबद्धो विद्यामयो यस्सतु नित्यमुक्त

इत्युत्तरश्लोकद्वयार्थं सङ्गृह्याह ।। सखायौ द्वाविति ।। स विभुःनित्यमुक्त इत्युत्तरेणान्वयः । ततो नित्यमुक्तात्परमात्मनः अपरः अन्यः । बद्धः अविद्ययांऽध इति पदच्छेदः । योऽविद्ययांऽधस्सतु नित्यबद्ध इत्यस्य प्रतिपद-मिदम् । पूर्वः परमात्मा विद्यामयः निरवधिकज्ञानस्वरूपः । विद्यामयो यस्सतुनित्यमुक्त इत्यस्यार्थ कथनमिदम् । प्रभुः कृष्णः । पूर्वोक्तं बद्धो मुक्त इति ह्याख्येति पूर्वपद्योक्तं जीवस्य बद्धत्वमुक्तत्वं स्वस्य नित्यमुक्तत्वं च । योऽविद्ययांऽधस्सतु नित्यबद्ध इति जीवस्य विभज्य नित्यबद्धत्वकथनात् विद्यामयो यस्सतु नित्यमुक्त इति परमात्मनो नित्यमुक्तस्य च विविच्य कथनात् स्पष्टमित्युक्तम् । अतस्स्पष्टतया जीवपरयोर्बद्धत्वमुक्तत्वकथनात् पूर्वोक्तवाक्यार्थः बद्धो मुक्त इति ह्याख्येति पूर्वोक्तवाक्यार्थः अस्मदुक्तः जीवस्य बद्धमुक्तता परमात्मनो नित्यमुक्तता यथा भवति तथा अस्मदुक्तः । अपरः परमात्मन एव बद्धत्वं च मुक्तत्वं च यथा भवति तथा परोदीरितः प्रतिवाद्युक्तः । अस्मदुक्तार्थस्य पूर्वोत्तरानुगुणत्वात् । परोदीरितस्य च पूर्वोत्तरविरुद्धत्वादिति भावः ।। २७०-२७२ ।।

सत्यप्रमोदटीका

 एतावता जीवस्यैव बन्धमोक्षौ । तौ च पारमार्थिकौ । हरिस्तु नित्यमुक्तोऽन्य एवेति समर्थितम् । न वस्तुत इत्यस्य न स्वभावत इत्यर्थः । मायामूलत्वादित्यस्य प्रकृत्युपादानकत्वादिति चार्थः सन्दर्भशुद्ध्या समर्थितः । एतेन यदुक्तं गौडपादकारिकायां

न बद्धो न च साधकः ।।

 न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता’

इति बद्धत्वमुक्तयोरपारमार्थिकत्वं तदपहसितं वेदितव्यम् । अपारमार्थिकत्वे तस्य सर्वान्प्रत्यविशिष्टत्वेन ‘एकस्यैव जीवस्य’ इति ‘मे नैवेति’ च विभागेन कथनानुपपत्तेः । उभयोरपि मायिकत्वे ‘बन्धोऽस्याविद्ययाऽनादिर्विद्यया च तथेतर’ इति तयोः विद्याऽविद्याहेतुकत्ववर्णनासङ्गतेः । बन्धस्य मिथ्यात्वे बद्ध इत्याख्याया एवासम्भवाच्च । न हि शुक्तिरूप्यस्य रूप्यं आख्येति कोऽपि स्वस्थात्माऽभिदधीत । एवं अन्तरङ्गविरोधैरेवापास्तमपि परोक्तमर्थं बहिरङ्ग-विरोधैरपि प्रत्याख्यातुं, द्वासुपर्णेति श्रुत्युपबृम्हणपरौ उत्तरौ भागवतश्लोका-वर्थतोऽनुवदति द्वाभ्यां सखायाविति ।

सुपर्णावेतौ सयुजौ सखायौ यदृच्छया कृतनीडौ च वृक्षे ।

 एकस्तयोः खादति पिप्पलान्नमन्यो निरन्योऽपि बलेन भूयान् ।।

 आत्मानमन्यं च स वेदविद्वानपिप्पलादो न तु पिप्पलादः ।

 योऽविद्ययान्धः स तु नित्यबद्धो विद्यामयो यः स तु नित्यमुक्तः’ ।।

इति श्लोकावत्र व्याचिख्यासितौ । चराचरात्तुरन्नमयस्यापि निरन्नत्वं शुभैकात्तृत्वात् अदनात्प्राप्यप्रयोजनाभावात् अदने पारवश्याभावाच्चेति पूर्वमुक्तम् । मुक्तस्य सुपर्णजीवस्य स्वरूपदेहनीडे स्थितत्वं विशेषबलेन । भोगार्थं कदाचिदचिद्देहग्रहणे तदास्पदत्वेन वा । संसारिणस्तु स्पष्टम् । ईश्वरः नित्यमुक्त इति योजना । अन्यः अन्यमिति च श्रुत्या विरुद्धधर्माधिकरण-त्वोपपत्त्या च सतात्पर्यं भेदबोधकत्वात्स्पष्टमित्युक्तम् । अपरः गौडपादादि-परोक्तः ।। २७०-२७२ ।।

युक्तिमल्लिका

नित्यमुक्तो नित्यबद्ध एक एवेति मे मतिः ।

इत्थं बद्धस्य मुक्तस्य चैक्यशङ्काकृदुद्धवम् ।। २७३ ।।

मुहुः प्रबोधयन्कृष्णः कथं वक्ति तदेकताम् ।

अतस्सिद्धान्तपद्येऽस्मिन्द्वितामेव वदेत्कृती ।। २७४ ।।

सुरोत्तमटीका

 उद्धवकृतपूर्वपक्षस्य परिहारतया कृष्णस्य सिद्धान्ततापि अस्मदुक्तार्थ एव स्यात् । नान्यथेत्याह ।। नित्यमुक्त इति ।। ऐक्यशङ्कां करोतीत्यैक्यशङ्काकृत् । स चासावुद्धवश्च तम् । तदेकतां नित्यबद्धनित्य-मुक्तयोरेकताम् । अतः सिद्धान्तपूर्वपक्षयोरेकप्रकारतायोगात् । द्वयोर्भावः द्विता तां नित्यमुक्तनित्यबद्धयोर्भेदमित्यर्थः ।। २७३,२७४ ।।

सत्यप्रमोदटीका

 आस्तां सूक्ष्मेक्षिकया विमर्शः । उद्धवकृतः ‘एक एवे’ति पूर्वपक्ष एव भिन्नावेव जीवेशौ इति तद्व्यावर्तकं सिद्धान्तं गमयतीत्याह नित्येति । द्वितां भेदम् । कृती कुशलः । नहि पूर्वपक्षमेव सिद्धान्ततया कोऽपि कुशल आचष्ट इति भावः

।। २७३, २७४ ।।

युक्तिमल्लिका

एतावित्यतिदेशेन पूर्वं च प्रस्तुतिर्द्वयोः ।

अबद्धबद्धयोर्वाच्या तच्छोच्या कृष्ण(बन्ध)बद्धवाक् ।। २७५ ।।

सुरोत्तमटीका

 युक्त्यन्तरं चाह ।। एताविति ।। सुपर्णावेतावित्युत्तरपद्ये एतौ पूर्वोक्तावित्यतिदेशेन । पूर्वं पूर्वश्लोकेऽपि । अबद्धबद्धयोर्नित्यमुक्त-नित्यबद्धयोः । अस्मिन्पद्ये नित्यबद्धनित्यमुक्तौ विविच्य कथयित्वा एता-वित्यस्यैवार्थस्य पूर्वपद्येऽतिदेशात् तत्रापि नित्यबद्धनित्यमुक्तयोर्विभागेनैव प्रस्तुतिरवश्यं वाच्येति भावः । तत्तस्मात् उक्तनिमित्तात् । कृष्णबद्धवाक् कृष्णो बद्ध इति वाक् ।। २७५ ।।

सत्यप्रमोदटीका

 एतौ इत्यादिश्लोकद्वये नित्यबद्धनित्यमुक्तावुच्येते इति तावदविवादम् । ‘योऽविद्ययान्धः स तु नित्यबद्धो विद्यामयो यः स तु नित्यमुक्त’ इति विविच्य सुस्पष्टं तयोः कथनात् । एताविति च सर्वनामशब्दः प्रकृतपरामर्शकः । अतो द्वयोरपि पूर्वं प्रस्तुतिर्वाच्या । यदि परोक्तप्रकारेण कृष्णस्यैकस्यैव बद्धत्वं मुक्तत्वं चेत्यर्थो ‘बद्धो मुक्त इति ह्याख्या’ इति पूर्वत्रोक्तो भवेत् तर्हि तस्यैतयोरिति द्विवचनान्तेन पदेन परामर्शो न श्लिष्येत् । तत् तस्मात् । कृष्णबद्धवाक् कृष्णस्य बद्धत्ववर्णनपरा परापव्याख्या । शोच्या । तमोहेतुत्वेन तिरस्कार्या ।। २७५ ।।

युक्तिमल्लिका

द्वयोरेकस्येति चार्थस्सुस्थोऽभूत्तत एव मे ।

भिन्नांशता च तद्भेदस्यान्ते(ते) स्वेनैव कीर्तनात् ।। २७६ ।।

सुरोत्तमटीका

 ततः सुपर्णावेताविति श्लोकार्थस्य पूर्वप्रस्तुतत्वादेव । एकस्यैव ममांशस्येति श्लोके द्वयोः खगयोरेकस्य जीवाख्यखगस्येत्यर्थः प्रागुक्तोऽर्थः । भिन्नांशता ममांशस्येत्यत्रोक्तभिन्नांशता । अन्ते उत्तरपद्यद्वये । अथबद्धस्य मुक्तस्य सुपर्णावेताविति च पद्यद्वय इत्यर्थः । तेनैव कृष्णेनैव । प्रागंशत्वमुक्त्वा तस्यैवांशस्यांशिना स्वेन सह भेदस्यापि कथनात् भिन्नांशत्वं लभ्यत इति भावः ।। २७६ ।।

सत्यप्रमोदटीका

 एतेनैव विस्पष्टश्लोकद्वयेन प्रागुक्तं सर्वमपि प्रमेयजातं संवादेन दृढीकृतमित्याहाष्टभिः द्वयोरित्यादिना । तत एवेति ।। ‘सुपर्णावेतौ’ इति द्वौ प्रकृत्य ‘एकस्तयोरि’ति जीवस्योक्त्या प्रागेकस्यैव ममांशस्येत्युक्तोऽपि द्वयमध्ये एको जीव एवेत्यर्थः सुस्थोऽभूदित्यर्थः । भिन्नांशता इति चार्थः, सुस्थोऽभूदिति पूर्वेणान्वयः । अन्ते ‘वैलक्षण्यं वदामिते’ ‘अन्यो निरन्नोऽपि’ इत्यत्र । स्वेनैव कीर्तनात् इति । तेन ‘ममांशस्ये’ति प्रागुक्तांशपदं भिन्नांश-परमित्यत्र नास्माकमुपपादनक्लेश इति भावः ।। २७६ ।।

युक्तिमल्लिका

अत्रोक्तो नित्यमुक्तश्च न मे मोक्षो न बन्धनम् ।

इत्याह यः पुरा युक्त्या स एव स्यान्न संशयः ।। २७७ ।।

सुरोत्तमटीका

 विद्यामयो यस्सतु नित्यमुक्त इति सामान्येनोक्तं नित्य-मुक्तत्वं कृष्णस्य कथं लभ्यत इत्यत आह ।। अत्रोक्त इति ।। अत्रास्मिन् पद्ये । यः पुरा पूर्वश्लोके न मे मोक्षो न बन्धनमिति कादाचित्कबन्धमोक्ष-रहिततया नित्यमुक्ततां म इति स्वस्याह स च कृष्ण एवेति । अत्रापि नित्यमुक्ततया सामान्येनोच्यमानः स एव कृष्ण एव । युक्तया नित्यमुक्त-द्वयस्याप्रामाणिकत्वयुक्त्या ।। २७७ ।।

सत्यप्रमोदटीका

 अत्र ‘विद्यामयो यः स तु नित्यमुक्त’ इत्यत्र । यः श्रीकृष्णः । युक्त्या गुणमूलमायाऽतीतत्वयुक्त्या । इत्याह बन्धतद्ध्वंसौ प्रतिषिध्य बन्धात्यन्ताभाववत्त्वं नित्यमुक्तत्वमाह । स एव । स इत्यावर्तते । यः आह सः श्रीकृष्णः एव । सः ‘स तु नित्यमुक्त’ इत्यत्रत्यतच्छब्द-परामर्शविषयः ।। न संशयः अन्यथा स इति शब्दस्याप्रकृतपरामर्श-कत्वापत्तेरित्याशयः।। २७७ ।।

युक्तिमल्लिका

बन्धस्य नित्यतोक्तिश्च तथा मुक्तेश्च नित्यता ।

पुरा परोक्ततन्मिथ्याऽर्थत्वं युक्त्या न्यवारयत् ।। २७८ ।।

सुरोत्तमटीका

 पूर्वं न वस्तुत इति बन्धस्य यन्मिथ्यात्वमुक्तं तदप्युत्तर-श्लोके मुक्तत्वेन सहोक्तबन्धनित्यत्वाख्ययुक्तिविरुद्धमित्याह ।। बन्धस्येति ।। तथा बन्धसमानयोगक्षेमतया मुक्तेर्नित्यता परस्यापि न बहुकालीनत्वापेक्षया । अतस्तया सह पठिता बन्धस्य नित्यताऽपि नापेक्षिकी किं तु ब्रह्मवत्सार्व-कालीनत्वापेक्षयैव । अतः युक्त्या नित्यस्य मिथ्यात्वासम्भवाख्ययुक्त्या तस्य बन्धस्य परोक्तमिथ्यार्थत्वं परेण प्रतिवादिनोक्तमिथ्यार्थत्वं मिथ्यात्वमिति यावत् ।। २७८ ।।

सत्यप्रमोदटीका

 नित्यतोक्तिः नित्यबद्ध इत्यनेन नित्यता नित्यमुक्त इत्यनेनोक्ता ।। तथेत्युक्त्या यथेति लभ्यते । यथा मुक्तेर्नित्यताऽनुपचरिता तथा बन्धस्याप्यनुपचरिता नित्यतोक्तिरिति भावः । पुरा न वस्तुन इत्यत्र । परोक्तं तस्य बन्धस्य मिथ्यार्थत्वं मिथ्यात्वम् । युक्त्या । बन्धः त्रैकालिकनिषेधा-प्रतियोगी, अनादित्वे सति नित्यत्वात् ब्रह्मवत् इत्यनुमानेन । न विशेषणा-सिद्धिः बन्धोऽस्याविद्ययाऽनादिरिति पूर्ववाक्येन तत्सिद्धेः । यद्वा तन्मिथ्यार्थत्वं गौडपादोक्तं तयोर्बन्धमोक्षयोरुभयोर्मिथ्यात्वम् । युक्त्या बन्धमोक्षौ न मिथ्या नित्यत्वात् ब्रह्मवत् इति युक्त्या ।। २७८ ।।

युक्तिमल्लिका

तवापि मुक्तेर्मिथ्यात्वं कथमर्थो भवेद्वद ।

पदद्वयनिबद्धैकरज्ज्वा प्राप्तिर्द्वयोरपि ।। २७९ ।।

सुरोत्तमटीका

 न वस्तुतः न परमार्थत इत्यर्थः परेणापि वक्तुं न शक्यत इत्याह ।। तवापीति ।। परमतेऽपि मुक्तेस्सत्यत्वादिति भावः । पदद्वये पादयुगे निबद्धैकरज्ज्वा द्वयोः पादयोः एवं च बन्धमुक्तिरूपार्थद्वय-सम्बद्धेन न वस्तुत इत्यनेनोभयोरपि मिथ्यात्वप्राप्तिर्भवेदिति भावः ।। २७९ ।।

सत्यप्रमोदटीका

 किञ्च ‘न वस्तुतः’ इत्यस्य अपरमार्थत इत्यर्थः परेणापि नाश्रयितुमुचितः । तथा सति पूर्वोक्तबद्धमुक्ताख्ययोरुभयोरप्य-पारमार्थिकत्वप्राप्तेः । बन्धवन्मोक्षस्यापि निवृत्त्युपगमे संसारस्य पुनरुत्थान-प्रसङ्गेन शास्त्राणां निष्प्रयोजनत्वापत्तिः । न च वाच्यं ‘न वस्तुतः’ इति अपारमार्थिकत्वविधानं बद्ध इत्यनेनैव सम्बध्यते न मुक्त इत्यनेनेति । असम्भवादित्याह पदद्वयेति । पूर्वमुभयोरुद्दिष्टत्वेन तयोरन्यतरपरित्यागस्या-लौकिकत्वात् । निदर्शयति निबद्धैकरज्वेति । आकर्षण इति शेषः । द्वयोरपि बद्धः मुक्त इति द्वयोरप्याख्ययोः । अन्यत्र पादयोः ।। २७९ ।।

युक्तिमल्लिका

यादृच्छिकस्य पङ्कस्य क्षालनं च यदृच्छया ।

वस्तुस्वभावतो नेति मम त्वर्थो निराकुलः ।। २८० ।।

सुरोत्तमटीका

 न वस्तुतः स्वभावत इत्यर्थेनायं दोष इत्याह ।। यादृच्छिकस्येति ।। यादृच्छिकस्य यदृच्छया धवलवस्त्रे पतितस्य । एवं अस्वाभाविकबन्धमोचनमप्यस्वाभाविकमिति भावः ।। २८० ।।

सत्यप्रमोदटीका

 ननु भवत्पक्षेऽपि समानो दोषः । ‘न वस्तुत इत्यस्य अस्वाभाविक इत्यर्थः खलु भवदभिमतः । तस्य बन्धमात्रसम्बन्धित्व-सम्भवेऽपि मोक्षसम्बन्धासम्भवात् । ‘स्वरूपेण व्यवस्थितिः’ इति मोक्षस्य स्वाभाविकत्वाङ्गीकारात् इत्यत आह यादृच्छिकस्येति । सत्यमेवं । मोक्षे स्वरूपेणावस्थितिरिति । मोक्षस्तु बन्धध्वंसरूपेऽयावदात्मभावित्वात् अस्वा-भाविक इति । पङ्कसम्बन्धो यथा वस्त्रस्यास्वाभाविकस्तथा पङ्कक्षालनमपि कादाचित्कत्वादस्वाभाविकं इति यथा तथैवेत्याह पङ्कस्येति ।। २८० ।।

युक्तिमल्लिका

यत्प्राङ्नैव म इत्याह तेन सोऽवास्तवं च तत् ।

स्वस्मिन्निषेधतीशाने स्वस्य जीवस्य चेत्यपि ।। २८१ ।।

नेति ब्रवीति स्वानिष्टं जीवो मच्छक्तितोऽग्रहीत् ।

इति वक्तुं स पद्येस्मिन्प्राह मे गुणतस्त्विति ।। २८२ ।।

सुरोत्तमटीका

 यद्यस्मात्प्राक् प्रागुक्तसत्वं रज इति श्लोकार्धे मे नैवेत्याह तेन कारणेन अवास्तवं च तत् भवबन्धनं ईशाने स्वस्मिन्निषेधति । अतः औपाधिकबन्धमादायापि बद्धो मुक्त इति श्लोकार्धे जीव एव प्रतिपाद्यो न भगवान् । नैवेत्यवधारणेन स्वाभाविकस्य वा अस्वाभाविकस्य वा बन्धस्य भगवतो व्यावर्तनात् । स्वस्य स्वात्मकस्य जीवस्य । स्वतो गुणनिमित्तकबन्ध-रहितमपि ब्रह्म जीवभावं प्राप्य बन्धमनुभवतीति यन्मायिनोच्यते तदपि नेत्यर्थः । येन केनापि प्रकारेण बन्धेऽङ्गीक्रियमाणे सति मे नैवेति सावधारण-निषेधायोगात् । अतः ब्रह्मणोऽत्यन्तभिन्नो जीव एवास्वाभाविकबन्धा-द्याधारतया प्रतिपाद्य इति भावः । इतोऽप्येकस्येत्यत्र ऐक्यमर्थो नेति सूचितम् । स्वानिष्टं बन्धनम् । मच्छक्तितः मदधीनगुणसामर्थ्यात् । स कृष्णः । अस्मिन्पद्ये ।। २८१,२८२ ।।

सत्यप्रमोदटीका

 ‘नैव मे’ इति सावधारणनिषेधेन ईश्वरस्य स्वाभाविकोऽस्वाभाविको वा कोऽपि बन्धो नास्तीत्यवगम्यत इत्याह यस्मादिति । यत्किञ्चिद्विशेषसत्त्वेऽपि सामान्यनिषेधानुपपत्तेरिति भावः । ईशाने इति हेतुगर्भविशेषणम् । न हि बन्धस्य ईशः तद्वशश्चेति सम्भवति । व्याघातात् । यच्चोक्तं जीवबन्ध एवेशबन्धस्तयोरभेदादिति तदपि निराह स्वस्य जीवस्य चेत्यपीति । नेति ब्रवीतीत्युत्तरेणान्वयः । भेदस्यात्र सोपपत्तिकं व्यवस्थापनादिति ध्येयम् । जीवः स्वानिष्टं प्रकृतिबन्धं मम परमचेतनस्य शक्तितः अग्रहीत् इति वाक्यान्तरं । तेन चेतनस्य स्वप्रकाशस्य सतो जीवस्यापि कथमचेतनात् स्वतःप्रवृत्तिविधुरात् प्रकृतिबन्धादनिष्टमिति चोद्यं निरस्तम् । मे गुणतः इत्यस्य मदधीनगुणत इत्यर्थत्वेन परमचेतनस्य स्वतन्त्रस्याचिन्त्यशक्त्योपोद्बलितशक्तिकत्वेन तदुपपत्तेः । तदुक्तं ‘दैवी ह्येषा गुणमयी’ति ।। ‘स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवेत्’ इति च  ।। २८१,२८२ ।।

युक्तिमल्लिका

तेनैव वक्ति स्वाधीनमनिष्टं स्वस्य नेत्यपि ।

मोहं चासुरजीवानां संमुग्धोक्त्याऽकरोत्प्रभुः ।। २८३ ।।

सुरोत्तमटीका

 तेनैव जीवस्यानिष्टदायकसत्वादिगुणानां स्वाधीनत्वेनैव । स्वाधीनमनिष्टं बन्धरूपम् । अस्वतन्त्रस्य जीवस्य भगवदधीनगुणनिमित्तक-दुःखं स्यात् । स्वतन्त्रस्य दुःखदायकगुणानामपि नियामकस्य कथं तद्दुःखं स्यादिति भावः । नन्वेवं चेन्मदधीनगुणाज्जीवस्य बद्धाद्याख्येति स्पष्टं किमिति नावादीदित्यत आह ।। मोहं चेति ।। २८३ ।।

सत्यप्रमोदटीका

 तेनैव ‘नैव मे’ इत्युक्तबन्धात्यन्ताभावोऽपि स्वस्य प्राक् प्रतिज्ञातः समर्थित इत्याह तेनैवेति । सम्मुग्धोक्त्या मदधीनगुणतः इति स्पष्टोक्तिं विना मे इति सम्बन्धसामान्यवाचकषष्ठ्युक्त्या । उक्तेः संमुग्धत्वं नाम, षष्ठ्याः न स्वातन्त्र्यरूपसम्बन्धोऽर्थः किं त्वाश्रितत्वमेवेत्येवंरूप-मोहजनकत्वम् ।। २८३ ।।

युक्तिमल्लिका

स्वातन्त्र्यगुणतो बद्धाद्याख्यां व्याख्यान्ति मे बुधाः ।

बन्धादिवस्तुतस्तत्तन्नाम बन्धोज्ज्ञितस्य मे ।

नेति विद्वत्प्रसिद्धिं च सूचयन्शंसति प्रभुः ।। २८४ ।।

सुरोत्तमटीका

 बद्धो मुक्त इति श्लोकस्य प्रकारान्तरेण व्याख्यानं करोति ।। स्वातन्त्र्यगुणत इति ।। स्वातन्त्र्यगुणतः जीवनिष्ठबन्धादौ यद्भगवतस्स्वातन्त्र्यं तदाख्यगुणतः मे बुधाः बद्धदुःख्याद्याख्यां व्याख्यान्ति । तदधीनत्वादर्थवदित्यादिसूत्रेषु । बन्धवान्बद्धः दुःखवान्दुःखीति बन्धादि-सम्बन्धमात्रवाचकाः खल्विमे शब्दाः । ते च जीवे चेद्बन्धादिनाऽऽधाराधेय-भावसम्बन्धं ब्रूयुः । परमात्मनि चेत् बन्धादिना नियम्यनियामकभावसम्बन्धं ब्रूयुः । यथा राजा जयीत्यत्र भटनिष्ठजयनियामकतया राज्ञि जयिशब्दप्रयोगः । एवं जीवनिष्ठबन्धादिनियामकतया भगवति बद्धदुःख्यादिशब्दप्रयोगादिति भावः । बन्धादिवस्तुतः बन्धादिवस्त्वाधारतयेति यावत् । तत्तन्नाम बद्धदुःख्यादिनाम नेति शंसतीति सम्बन्धः । ह्याख्येति मूलस्थितहिशब्दस्यार्थं विद्वत्प्रसिद्धिं विदुषां व्यासादीनां प्रसिद्धिं सूचयन् ।। २८४ ।।

सत्यप्रमोदटीका

 एवं तर्हि सतामपि मोहः सम्पत्स्यते इति तत्राह स्वातन्त्र्येति ।। व्याख्यान्ति बन्धोऽस्यास्तीति बद्धः इति हि तच्छब्द-निरुक्तिः । अस्य इत्यत्र षष्ठी गुणान्प्रति स्वातन्त्र्यमेव वक्ति न तु पुनस्तद्गतत्वं इत्येवमिति भावः । बुधाः ‘स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् । स्वातन्त्र्यं तत्र मुख्यं स्यात्’ इति वृत्तितारतम्यज्ञानिनः । बन्धादि-वस्तुत इत्येकं पदम् । बन्धाद्याश्रयतयेत्यर्थः । आदिपदेन दुःखादिकं ग्राह्यम् । तत्तन्नाम बद्धः दुःखी इत्यादिनाम । विदुषां तदधीनत्वादर्थवदिति नय-तात्पर्यज्ञानां । प्रसिद्धिं ‘सा योगादेव लभ्यते’ इत्युक्तप्रयोगबाहुल्यम् । अनेन मूले ‘गुणत’ इत्यत्रत्यगुणपदं स्वातन्त्र्यगुणपरं इत्युक्तं भवति ।। २८४ ।।

युक्तिमल्लिका

आख्यापदस्य चाख्यानमेवं सत्येव शोभते ।

मोक्षो बन्धनमित्येव नो चेदूचे कुतोऽन्ततः ।। २८५ ।।

सुरोत्तमटीका

 आख्यापदस्य नामधेयपर्यायाख्यापदस्याख्यानं प्रयोगः । बद्धादिनामवाच्यविचार्थकत्वे आख्यापदं सार्थकमन्यश्राव्यर्थमित्यर्थः । नो चेत् नामविचारोनोचेत् । अर्थाभावकथन एव तात्पर्यं चेदित्यर्थः । अन्ततः बन्धादिवस्त्वभावकथनोत्तरार्धे । मोक्षो बन्धनमित्येव आख्यापदं विनेत्यर्थः ।। २८५ ।।

सत्यप्रमोदटीका

 एवं सति स्वातन्त्र्यं निमित्तीकृत्य पदप्रवृत्तिवर्णने सति । नो चेत् एतदभिप्रायाभावे ।। २८५ ।।

युक्तिमल्लिका

अस्वतन्त्रस्य जीवस्य बद्धाद्याख्या तु वस्तुतः ।

इति सूचयता चात्र मुक्तामुक्तद्वितोदिता ।। २८६ ।।

सुरोत्तमटीका

 स्वतन्त्रस्य मे वस्त्वाधारत्वनिमित्ताख्या नेत्युक्ते अर्था-ज्जीवस्य तदाधारत्वनिमित्ताऽऽख्येति लाभात्सूचयतेत्युक्तम् । अत्र पूर्वार्धे । अस्वतन्त्रजीवस्य बन्धाधारत्वकथनात् स्वतन्त्रस्य परमात्मनः कदापि तदभावकथनाच्चेति भावः ।। २८६ ।।

सत्यप्रमोदटीका

 सूचयता वस्तुतः आधारत्वनिमित्तेन मे नेति विशिष्य निषेधेन शेषविध्यनुज्ञापकन्यायेन अस्वतन्त्रस्य जीवस्य तेनैव निमित्तेन बद्धपदप्रवृत्तिविषयत्वं इति ज्ञापयता । मुक्तामुक्तद्विता नित्यमुक्तस्येशस्य नित्यबद्धस्य जीवस्य च भेदः ।। उदिता ज्ञापिता ।। २८६ ।।

युक्तिमल्लिका

मायाया अपि मूलं मे स्वातन्त्र्याख्यगुणो यतः ।

अतो मायामयो बन्धस्तद्ध्वंसो वा कथं मम ।

इति तत्रैव हेतुं च व्यनक्तीति मतिर्मम ।। २८७ ।।

सुरोत्तमटीका

 यतो मे स्वातन्त्र्याख्यगुणः मायाया अपि मूलं नियामकमित्यर्थः । एवं वदता गुणस्य स्वातन्त्र्यगुणस्य मायामूलत्वात् माया-नियामकत्वादित्यर्थ उक्तो भवति । अतः बन्धकमायाया अपि स्वातन्त्र्याख्य-मद्गुणाधीनत्वात् । तत्र बन्धबन्धध्वंसाख्यवस्तुकृतत्वाभावेन वस्तुत इति पूर्वार्धोक्तार्थे हेतुतया उत्तरार्धस्य सम्बन्ध इति भावः ।। २८७ ।।

सत्यप्रमोदटीका

 ‘गुणस्य मायामूलत्वात्’ इत्येतत् बन्धकानां सत्वादि-गुणानां प्रकृत्युपादानकत्वादित्यर्थतया पूर्वं व्याख्यातम् । इदानीं मायाया मूलं इति तत्पुरुषाश्रयणेन रीत्यन्तरेण व्याख्याति । मम स्वातन्त्र्यगुणस्य प्रकृति-नियामकत्वात् तन्निमित्तको बन्धो नास्ति प्रतियोग्यभावात्तज्जन्यध्वंसोऽपि नास्तीति ।। २८७ ।।

युक्तिमल्लिका

स्वस्यैव नित्यमुक्तत्वं वक्ष्यन्नादौ श्रुतीरिताम् ।

बद्धाद्याख्यामात्मनीत्थमन्वर्थामकरोद्ध्रुवम् ।। २८८ ।।

सुरोत्तमटीका

 ननु स्वस्मिन्बद्धाद्याख्यायास्स्वातन्त्र्यनिमित्तकत्वकथने को हेतुरित्यत आह ।। स्वस्यैवेति ।। वक्ष्यन् विद्यामयो यः स तु नित्यमुक्त इति वक्ष्यन् श्रुतीरितां सबद्धस्सदुःखी नामानि सर्वाणि यमाविशन्तीत्यादि-श्रुत्युक्ताम् । अन्वर्थाम् अनुकूलार्थाम् । नित्यमुक्तस्य श्रुत्युक्ताबद्धाद्याख्या कथमित्यतो बन्धादिनियामकत्वमादायेत्यनुकूलार्थ कथनाय बद्धोमुक्त इति पद्यमुपोद्घातेन प्रवृत्तमिति भावः ।। २८८ ।।

सत्यप्रमोदटीका

 नित्यमुक्तत्वमेवेति योजना । न तु कदाचिज्जीववद् बद्धत्वमपि । येन ‘स बद्ध’ इति श्रुत्युक्तं परस्य बद्धत्वं तत्कालीन-बन्धाश्रयत्वेन शक्योपपादनं स्यादित्यर्थः । कथं तर्हि श्रौततत्पदनिर्वाहो हरावित्यत आह इत्थमिति । स्वातन्त्र्येण निमित्तेनेत्यर्थः । एतेनोत्तरत्र वक्ष्यमाणनित्यमुक्तत्वे बाधकपरिहारोऽपि स्वातन्त्र्यगुणत इति व्याख्यानेन कृतोऽवधेयः ।। २८८ ।।

युक्तिमल्लिका

भ्रान्तत्वे दोषमूलत्वं वदेन्न गुणमूलताम् ।

बद्धाख्यां गुणतश्शंसंस्तद्धियं तु गुणोद्भवाम् ।

अभिप्रैति न दोषोत्थां गुणजन्या च धीः प्रमा ।। २८९ ।।

सुरोत्तमटीका

 न वस्तुत इत्यस्य परोक्तमिथ्यात्वार्थकत्वे दूषणान्तर-माह ।। भ्रान्तत्व इति ।। भ्रान्तत्वे बन्धस्य भ्रान्तिकल्पितत्वे दोषमूलत्वं वदेत् । न तु गुणत इति गुणमूलताम् । बन्धस्य गुणमूलत्वे तत्प्रतीतेरपि परम्परया गुणमूलत्वापरिहारादिति भावः । बद्धाख्यां बद्ध इत्याख्याम् । तद्धियं बद्ध इति धियम् । बन्धस्य बद्धाख्यायाश्च गुणमूलत्वे समानन्यायत्वा-त्परम्परया तद्बुद्धेरपि गुणमूलत्वमिति भावः । गुणजन्या च धीः प्रमा । तार्किकरीत्या गुणजन्या अस्माकं तु दोषाभावादिगुणे सत्येव प्रायो जायमाने-त्यतः गुणजन्येत्युक्तम् ।। २८९ ।।

सत्यप्रमोदटीका

 यद्वा मे श्रुत्युक्ता बद्ध इत्याख्या गुणमूलत्वात् दोषमूलत्वाभावादिति यावत् प्रमाणम् । एवं तत एव तज्जन्या धीश्च प्रमा । यतः ज्ञानसाधनस्य प्रामाण्यं तज्जन्यज्ञानस्य प्रमात्वं न जातु व्यभिचरति । एतेन बन्धस्य बन्धनियामकत्वस्य च भ्रान्तिकल्पितत्वं परोक्तं परास्तम् । तथात्वे तज्ज्ञानस्य भ्रमत्वं दोषजन्यत्वं च स्यात् न त्वेवात्रोक्तं गुण-मूलत्वमिति भावः । अत्र प्रमाया गुणजन्यत्वोक्तिस्तार्किकरीत्या । गुणस्य क्वाचित्कस्यान्यथासिद्धस्य च न प्रमाजनकत्वमिति प्रागेवोपपादनात् ।। २८९।।

युक्तिमल्लिका

इत्थं प्रमाया विषयः प्रमिनन्तीति च श्रुतौ ।

श्रुतो बन्धः कथं मिथ्या सत्त्वं हि ज्ञानदो गुणः ।। २९० ।।

सात्विकाश्च सुरर्ष्याद्यास्तद्बन्धो न भ्रमोद्भवः ।

एवं च तद्वद्दुःखात्मा बन्धोऽन्यत्र कथं भ्रमः ।। २९१ ।।

सुरोत्तमटीका

 इत्थं पूर्वोक्तरीत्या प्रमाया विषयः । श्रुतः प्रमाविषय-त्वेन श्रुतः। गुणमूलत्वकथनादर्थात्प्रमाविषयत्वं प्राप्तः । श्रुतौ तु साक्षाच्छ्रुत इत्यर्थः। अतः परोदीरितबन्धमिथ्यात्वरूपार्थो न घटत इति भावः । प्राक्प्रमाजनकगुणपरतया योजना कृता । सामान्यतः श्रुतगुणपदस्य तत्रापि नेतुं शक्यत्वात् । इदानीं गुणपदस्य सत्वादिगुणपरतायामपि बन्धस्य प्रमाविषयत्वमानयति ।। सत्वं हीति ।। हिशब्देन सत्वात्संजायते ज्ञानमिति गीतावाक्यं सूचयति । ननु रजस्तमसोस्संशयविपर्ययहेतुत्वात् कथं गुणजन्यत्वे प्रमाविषयत्वमित्यत आह ।। सात्विकाश्चेति ।। सुर ऋष्याद्युत्तमाधिकारिणः सात्विकाः सत्वगुणप्रधानाः । तत् सत्वगुणप्रधानब्रह्मादिज्ञानविषयत्वा-त्सत्वगुणजन्यज्ञानविषयत्वादिति यावत् । एवमुक्तप्रकारेण दुःखादिरूपबन्धस्य ब्रह्मादिप्रमाविषयत्वात्तद्वत् ब्रह्मादिबन्धवत् । दुःखात्माबन्धः अन्यत्रासुरा-दिष्वपि कथं भ्रमः । भ्राम्यत इति भ्रमः । भ्रमविषयः । उत्तमाधिकारिभिरनु-भूयमानदुःखात्मकबन्धस्य सत्वगुणजन्यज्ञानविषयत्वेन प्रमाविषयत्वा-वश्यम्भावात् तत्समानतया सर्वत्रापि विद्यमानो बन्धः प्रमाविषय एव । दुःखादिरूपबन्धमात्रे तेषामपि धीः प्रमैव । रजस्तमोनिमित्तभ्रमस्तु परापरतत्वविषय एवेति भावः ।। २९१ ।।

सत्यप्रमोदटीका

 इत्थं प्रमायाः । नित्यनिर्दोषसाक्षिरूपायाः दुःखादि-बन्धविषयिण्याः प्रमायाः विषयः । इत्थं श्रुतौ नित्यनिर्दोषायां श्रुतौ । इत्थं निरवकाशतया । श्रुतः प्रतिपादितः । प्रमिनन्तीति । अनेन ‘विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वां’ इति श्रुतिं सङ्गृह्णति । कथं मिथ्येति । निर्दोषश्रुतिसाक्षिभ्यां प्रमितेरिति भावः । अबभिमानिदेवतोप-लक्षितसात्त्विकसुरर्ष्यादिज्ञानविषयत्वाद्बन्धः सत्य इत्युक्तम् । तदुपपादन-परतयाऽपि गुणत इति वाक्यं योजयति सत्त्वमिति । अत्र गुणशब्देन सत्त्वगुण एव ग्राह्यः । तस्यैव त्रिषु प्रधानत्वेन प्रथमोपस्थितेः । तदुक्तं भागवते ‘तम-सस्तु रजस्तस्मात्सत्त्वं यद्ब्रह्मदर्शनमि’ति ।। सत्त्वगुणस्य यथार्थज्ञानजनकत्वं तु ‘सत्त्वं यद्ब्रह्मदर्शनमि’त्युदाहृतप्रमाणेन सिद्धम् । सुरर्ष्यादिकाः सुरर्षाद्याः सत्त्वगुणप्रचुरा इति च सुप्रसिद्धम् । अतः बन्धः, न भ्रमोद्भवः, न भ्रान्ति-विषय इति यावत् । सात्त्विकदेवताज्ञानविषयत्वात् ब्रह्मवत् इत्यनुमानेऽ-त्राभिप्रेते नासिद्धिर्नाप्यप्रयोजकतेति भावः ।। ज्ञानानामुत्सर्गत एव प्रामाण्यम् । सात्त्विकदेवतासम्बन्धिताविशेषणं तु अपवादाभावज्ञापनायैव । तेनासुरसाक्षि-विषयस्यापि दुःखादिबन्धज्ञानस्य धर्म्यंशे प्रमात्वं, अयाथार्थ्यं तु तद-निर्वचनीयत्वादिप्रकारांश एवेत्याह एवं चेति । तद्वत् उत्पत्तौ धर्म्यंशे दोषाभावात्, ज्ञप्तौ बाधकाभावादेव च ।। २९०, २९१ ।।

युक्तिमल्लिका

प्रमातारोऽपि बन्धस्य प्रमिन्वन्ति न ते हरिम् ।

अतो ह्यविद्यया बन्ध इत्युक्तं न मृषात्वतः ।

इत्थं भागवते प्रोक्तं कृष्णेनैवोद्धवं प्रति ।। २९२ ।।

सुरोत्तमटीका

 एतदेव विशदयति ।। प्रमातारोऽपीति ।। बन्धस्य बन्धमात्रस्य प्रमातारोऽपि ते दैत्याः हरिं न प्रमिन्वन्ति । हरेस्सर्वज्ञत्व-सर्वेश्वरत्वादौ प्रमावन्तो न भवन्ति । अतस्तन्निष्ठरजस्तमसोः परमात्मतत्वप्रमा प्रतिबन्धकत्वेनैवोपयोगो न तु तैरनुभूयमानदुःखप्रमां प्रति प्रतिबन्धकत्वेनापीति भावः । अतः दुःखादिरूपबन्धस्य प्रमाविषयत्वनियमात् । अविद्यया बन्ध इत्युक्तेऽपि परमात्मविद्याभावेनैव बन्ध इत्यर्थो लभ्यते । न तु मृषात्वत इति । सत्वगुणेन भ्रमजनकरजस्तमसोः पराभावे कारिते ज्ञानसामान्यसामग्रीत एव प्रमा जायते । तदपेक्षयैव सत्वगुणस्य प्रमाजनकत्वोक्तिः । न तु साक्षात्प्रमां प्रत्येव सत्वगुणस्योपयोगः । अतो न प्रामाण्यपरतस्त्वशङ्का । किं च सुखदुःखादिविषये साक्षिणो याथार्थ्यनियमात् कदापि न तत्र भ्रान्तित्वम् । तस्मान्नियमेन प्रमाविषयो दुःखरूपो बन्धः कथं मिथ्यार्थस्स्यात् । अतो न वस्तुत इत्यस्य न परोदीरितमिथ्यात्वार्थकत्वम् । यद्वा गुणस्य मायामूलत्वात् निर्मायस्य मे गुणतोऽपि तमोयोग्यमोक्षयोग्यजीववत् बद्धो मुक्त इत्याख्या न मध्यमजीववत् वस्तुतः स्वरूपभूतसुखदुःखस्वभावतः मे मम बन्धः गुणतो मोक्षश्च न । अतोऽहं नित्यमुक्त एव जीवा एव बन्धमोक्षपात्रीभूता इत्यर्थः । अथवा गुणस्य मन्निष्ठज्ञानानन्दाद्यलौकिकगुणसमुदायस्य मायामूलत्वात् न मूलममूलं माया प्रकृतिरमूलमकारणं यस्य स तथोक्तः । तस्य भावस्तत्त्वा-दित्यर्थः । प्रकृत्यजन्यत्वेनाप्राकृतत्वादिति यावत् । किं च गुणस्य कृष्णावतारादिषु दुर्जनैर्मयि प्रतीयमानदुःखमोहादिगुणस्य मायामूलत्वात् ‘‘निरनिष्टो निरवद्य’’ इति श्रुतिबाधितत्वेन भ्रान्तिमूलत्वात् । अलौकिकार्थे प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतमिति वचनेन श्रुतेरेव प्रबलत्वात् तद्बाधितप्रतीतेर्भ्रमत्वस्यैवौचित्यादिति भावः । मे गुणतः ज्ञानादिदिव्यगुणतः बद्ध इत्याख्या न । अप्राकृतत्वेन तेषामबन्धकत्वादिति भावः । गुणतः भ्रान्तप्रतीतदुःखादिगुणतश्च मे बद्ध इत्याख्या न । तेषां दुर्गुणानां श्रुति-बाधितत्वेन मय्यभावादेवेति भावः । विद्यमानगुणानामबन्धकत्वात् । बन्ध-कत्वेनाभिमतदुर्गुणानां मय्यभावेन कथं चिदपि मम बद्ध इत्याख्या न युक्ते-त्युक्तं भवति । किञ्च मे गुणतः ज्ञानादिशुभगुणतः मुक्त इत्याख्यापि न । तेषां गुणानां मयि सर्वदा विद्यमानत्वेन तेभ्यो मुक्तत्वासम्भवात् । गुणापाये ऐक्यमिति शङ्कानिरासार्थमिदम् । गुणतः दुःखादिदुर्गुणतश्च मुक्त इत्याख्या तद्गुणप्रध्वंसवानित्याख्या न । प्रध्वंसस्य प्रतियोगिसत्तापूर्वकत्वनियमात् प्रतियोगिनश्च मय्यभावात् । अथवा गुणतः दुःखादिगुणतोऽपि मुक्त इत्याख्या न । सर्वव्यापिनो मम तदन्तरपि विद्यमानत्वेन सर्वथा तन्मोचनवानित्याख्या नेत्यर्थः । दुःखादिगुणानां मय्यभावेऽपि दुःखादि गुणेष्वहं तिष्ठामीति यावत् । एवं च वस्तुतः महदहंकारादिचतुर्विंशति तत्वाख्यवस्तुतः तदुपादानकदेहादि-वस्तुतश्च मे बन्धनं चतुर्विंशतितत्वमध्ये निविष्टस्य तदुपादानकदेहान्तरेषु निविष्टस्य च तन्निमित्तकजननमरणदुःखादिरूपसंसारो मम नेत्यर्थः । अत्रापि गुणस्य मायामूलत्वादित्येव हेतुः । मायापदेन प्रकृतिकार्यत्वात् महदादि-चतुर्विंशति तत्वानि देहाश्च कथ्यन्ते । तत्रापि गुणस्य मयि विद्यमानज्ञाना-नन्दादिगुणस्य तदमूलत्वात् तदनुपादानकत्वात् । मयि विद्यमानज्ञानानन्दादि गुणानां तदजन्यत्वेन तन्निमित्तकबन्धनवत्त्वं शङ्कार्हमपि न । तदुपादानक-दुःखादीनां च तेषु तेषु जीवेष्वेव विद्यमानत्वेन मयि तस्य दुःखादिगुणस्य मायामूलत्वात् अनश्नन्निति श्रुतिमजानतो माया वादिनो भ्रान्त्यैकमूलत्वात् मम तदुभयवस्तुकृतबन्धनं कथं स्यात् । किं तु गुणस्याप्रधानस्य जीवस्यैव मायामूलत्वात्प्रकृतिमूलत्वात् प्राकृतदेहवत्त्वादिति यावत् । बन्धनं युक्तमिति भावः । किञ्च वस्तुतः उक्तद्विविधवस्तुतः मोक्षोऽपि मोचनं तत्परित्याग इति यावत् । मे न । तन्निमित्तकदुःखादेरौपनिषदे मयि प्राप्तुमशक्यत्वेन तद्भीतेर-भावात् । श्रौतसर्वव्यापित्वलक्षणाय तन्नियामकतया तेषु प्रविश्यैव तिष्ठामीति भावः । एवं च येन केनापि प्रकारेण मम बन्धबन्धध्वंसयोरुभयोरप्यभावेन नाना देहेष्वपि वर्तमानोऽहं नित्यमुक्त एव । जीवस्तु देहादिनिमित्तकदुःखं वा अस्वातन्त्र्यं वा अनुभवन् नित्यबद्ध एव । तस्मान्नित्यबद्धो नित्यमुक्त एक एवेति मे मतिरित्युद्धवकृतपूर्वपक्षो न युक्त इति पूर्वाध्यायेन सुसंगतोऽयमर्थः । अथवा मे गुणतः मम ज्ञानानन्दादिगुणतः बद्धो मुक्त इत्याख्या न । मे वस्तुतः मम चतुर्भुजादिदेहवैकुण्ठादिगेह लक्ष्म्यादिवनिताख्यवस्तुतश्च मे बन्धनं मोक्षश्च न । देहगेहादिवस्तु वा तन्निमित्तसुखाद्यनुभवो वा संसार इति लोके दृष्टम् । मयि तदुभयमपि न संसारहेतुरिति भावः । तत्र हेतुर्गुणस्य मायामूलत्वादिति । गुणस्य मन्निष्ठज्ञानानन्दादिगुणस्य ज्ञानानन्दादिगुणात्म-कस्य देहवैकुण्ठलक्ष्म्याख्यवस्तुनश्च । मायाऽमूलत्वात् मायामूलत्वाभावा-दित्यर्थः । प्रकृतिमूलदेहगेहादिकं तज्जन्यसुखादिकं च लोके संसार इति प्रसिद्धम् । मम गुणा वस्तूनि च श्रुतिस्मृतिष्वप्राकृततया प्रसिद्धाः । अतः कथं तैस्संसार इति भावः । यद्वा गुणतः संसारत्वेनाभिमतजीवदेहजन्या-नित्यज्ञानसुखादिगुणतः मे बद्धो मुक्त इत्याख्या न । तद्धेतुभूतप्राकृतदेह-गेहादिवस्तुतश्च मे बन्धनं मोक्षश्च न । अत्रापि हेतुर्गुणस्य मायामूलत्वादिति । गुणस्यानित्यज्ञानानन्दादिगुणस्य त्रिगुणात्मकतया गुणपदवाच्यस्य देहगेहादेश्च मायामूलत्वात्प्रकृतिमूलत्वात् । प्रकृतेश्च मायां व्युदस्य चिच्छक्त्या ‘‘पुरुषः प्रकृतेः पर’’ इति भागवतवाक्यान्मत्तोति दूरत्वात्तदुपादानक प्राकृतगुण-देहादिनिमित्तबन्धस्ततो मोक्षश्च मम कथं स्यादिति भावः । तर्हि कस्य बन्धमोक्षावित्यत्रेदमेवोत्तरम् । गुणस्य ज्ञानानन्दादिगुणरूपस्य मे भक्तस्य योग्यजीवस्य मायामूलत्वात् मायाप्रकृतिर्मूले आदौ यस्य सः । आदावित्युक्त्या अन्ते तद्ध्वंसोऽप्यस्तीति ध्वनितम् । तस्य भावस्तत्त्वं तस्मादित्यर्थः । गुणतः बन्धकगुणतः बद्धो मुक्त इत्याख्या । वस्तुतः बन्धकवस्तुतः बन्धनं मोक्षश्च । प्राग्बन्धनं पश्चात्तद्ध्वंसश्च भवतीति नञं विहाय योजनीयम् । अतः कादाचित्कमुक्तत्वात् मुक्तावपि मदधीनत्वाख्यसुखरूपबन्धबद्धतया नित्य-बद्धयोग्यजीवस्यापि यदा मे नैक्यं तदा किमु वाच्यं सदानिष्टरूपदुःखबद्धतया मुक्त्यनर्हयोर्मध्यमाधमजीवयोरैक्यं नेति पूर्वपक्षोत्तरतया श्लोकस्यार्थः ।। २९२।।

सत्यप्रमोदटीका

 प्रमातारः अपि । बन्धरूपधर्म्यंशे यथार्थज्ञान-वन्तोऽपि ते आसुरसाक्षिणः । हरिं न प्रमिन्वन्ति बन्धनियामकत्वादिना न जानन्ति । नञो विरोधोऽप्यर्थः । वैपरीत्येन नैर्गुण्येन जानन्ति । अतः तेषां स्वरूपज्ञानस्यायाथार्थ्यनियमो न विरुध्यते । अतो हीति । बन्धं प्रति अज्ञानविपर्यययोर्निमित्तत्वादेवेत्यर्थः । मृषात्वतः । अविद्योपादानकत्वरूप-मिथ्यात्वतः । कृष्णेनेति वक्तुः उद्धवमिति श्रोतुः, प्रोक्तमित्यत्रत्यप्रेत्युपसर्गेण प्रसङ्गस्य चानुकूल्यान्युक्तानि । इत्थमित्यनेनास्य श्लोकस्य बहुतराभिप्रायान्तर-गर्भितत्वं द्योत्यते । तथा हि । निर्मायस्य मे उत्तमाधजीवयोरिव प्रकृतिगुणतो वा मध्यमजीवस्येव वस्तुतः स्वभावगुणेन वा बन्धमोक्षौ न । यद्वा आनन्दादिगुणानाममायिकत्वान्मे न बन्धः । दुर्जनैरारोपितदुःखादिदुर्गुणानां मायामूलत्वात् भ्रान्तिमूलत्वात् न बन्धः । अथवा आनन्दादिगुणतः मुक्त इत्याख्या न, तेषां मत्स्वरूपत्वात् । यद्वा दुःखादिदुर्गुणतः मुक्तः तत्प्रध्वंसवान् इत्याख्या न । मम नित्यमुक्तत्वात् । यद्वा दुःखादिदुर्गुणतो वा, गुणभूतादप्रधानात् वस्तुतः परमार्थात्प्रपञ्चाद्वा मुक्तः तेषु स्थितिरहित इत्याख्या न । सर्वव्यापित्वात् । तत्र स्थितावपि गुणतः सार्वज्ञसर्वशक्ति-स्वातन्त्र्याख्यगुणतः बद्ध इत्याख्या लेपो नैव । आरोपितस्तु लेपादिदुर्गुणः परेषां मायामूलः भ्रान्तिमूल इत्युक्तम् । गुणस्य अप्रधानस्य जीवस्य तु मायामूलत्वात् प्रकृतिबद्धत्वाद्बन्धमोक्षौ । अथवा ज्ञानानन्दादिगुणतः वैकुण्ठादिवस्तुतो वा तेषां मायाऽमूलत्वात् अप्राकृतत्वान्मम न बन्धः । प्रकृतेर्हि बन्धः । अहं तु ‘पुरुषः प्रकृतेः परः’ इति प्रकृतेरतिदूर इति भावः । गुणस्य अप्रधानस्य सात्त्विकजीवस्य तु मायामूलत्वात् मूले आदौ प्रकृतिसम्बन्धात् पश्चात्तद्ध्वंसाच्च बन्धमोक्षौ सम्भवतः । मुक्तस्याप्युत्त-मजीवस्य यदा नित्यमुक्तेन मया नैक्यं किमु तदा मुक्त्ययोग्यमध्यमाधमजीव-जातस्य तत्प्रत्याशेति हृदयम् ।। २९२ ।।

युक्तिमल्लिका

अजोऽनुबद्धस्सगुणैर्न वेद त्वां गुणात्परम् ।। २९३ ।।

सुरोत्तमटीका

 परोदीरितार्थेऽन्तरंगं बाधकं स्वोक्तार्थे साधकं चोक्त्वा बहिरंगमपि तदाह ।। अजोऽनुबद्ध इति ।। अनेन अजोऽनुबद्धस्सगुणैरजाया गुणात्परं वेद न ते स्वरूपमित्यक्रूरस्तुतावुक्तश्लोकार्थं संगृह्णाति । अत्र हि चतुर्मुखस्य त्रिगुणबद्धत्वं कृष्णस्य त्रिगुणातीत्वमुच्यते । तदा किं वाच्यं जीवानां बद्धत्वं परमात्मनश्च नित्यमुक्तत्वमिति भावः । तत्रत्यमेव पद्यान्तरं पठति ।। सत्वमिति ।। अत्रापि ब्रह्मादिस्थावरांतसर्वजीवानां सत्वादि गुणत्रयबद्धतोच्यते । पद्यान्तरं पठति ।। भगवन्निति ।। अत्रापि गुणमूल-मायामोहितत्वं जीवानां कथ्यते । पद्यद्वयस्यापि परमात्मनस्स्तुति रूपतया अर्थात्प्राथमिकश्लोकसमाख्यया च कृष्णस्य तदभावोऽपि लभ्यते । अतः पद्यत्रयेऽपि मुक्तामुक्तभेद एवोच्यत इति भावः । तदेव विशदयति ।। इत्यक्रूरेणेति ।। २९३-२९६ ।।

सत्यप्रमोदटीका

 अत्रैवार्थेऽक्रूरस्तुतिरूपश्लोकत्रयं भागवतदशमस्कन्धस्थं सङ्गृह्णाति अज इत्यादिना त्रिभिः । अजः चतुर्मुखः । अत्र चतुर्मुखस्य गुणानुबद्धत्वोक्त्या कैमुत्येन सर्वजीवानां तथात्वं, कृष्णस्य गुणात्परत्वलक्षण-नित्यमुक्तत्वं स्पष्टम् ।। २९३ ।।

युक्तिमल्लिका

सत्वं रजस्तम इति भवन्ति प्रकृतेर्गुणाः ।

एषु हि प्राकृताः प्रोक्ता आब्रह्मस्थावरादयः ।। २९४ ।।

भगवन् जीवलोकोऽयं मोहितस्तव मायया ।

अहं ममेत्यसद्ग्राहो भ्राम्यते कर्मवर्त्मसु ।। २९५ ।।

सत्यप्रमोदटीका

 सत्त्वं इति श्लोके सर्वेषां जीवानां प्रकृतिबद्धत्वं भगवन्निति श्लोके तदभ्यासेन तत्तात्पर्यं चावगम्यते । अर्थात् स्तुतिबलेन समाख्यया च कृष्णस्य तदत्यन्ताभावश्च ।। २९४, २९५ ।।

युक्तिमल्लिका

इत्यक्रूरेण निर्णीतः कृष्णो बन्धोज्ज्ञितः प्रभुः ।

जीवान्सर्वान्गुणैर्बद्धान्मायाबद्धांश्च शंसता ।। २९६ ।।

सत्यप्रमोदटीका

 निर्णीतः । सर्वजीवानां बन्धं प्रति कृष्णस्य स्वातन्त्र्योक्त्या स्वयं गुणात्परत्वोक्त्या च । मायाबद्धान् भगवदिच्छया प्रकृत्या च बद्धान् ।। २९६ ।।

युक्तिमल्लिका

मायामयोऽयं गुणसम्प्रवाहस्ते न विद्यते ।

इति शक्रेण कथितं कृष्णं प्रत्येव सादरम् ।। २९७ ।।

सुरोत्तमटीका

 वाक्यान्तरमप्याह ।। मायामय इति ।। अनेन मायामयोऽयं गुणसंप्रवाहो न विद्यते तेऽग्रहणानुबन्धः इति वचनं संगृह्णाति ।। अस्यार्थः अग्रहणानुबन्धः अग्रहणमज्ञानं अनुबध्नातीत्यनुबन्धो घटको यस्य सो ग्रहणानुबन्धः । अयं जीवेषु परिदृश्यमानः ते न विद्यते । क अज्ञानमूल-बन्धश्च सर्वज्ञे त्वयि न विद्यत इति भावः । हेतुपूर्वकं बन्धनिषेधात्सादर-मित्युक्तम्।।२९७ ।।

सत्यप्रमोदटीका

 ‘मायामयोऽयं गुणसम्प्रवाहो न विद्यते तेऽग्रहणानु-बन्धः’ इति श्लोकोत्र सङ्गृहीतः । गुणसम्प्रवाहः तन्निमित्तको लेपः । अग्रहणानुबन्धः भगवदपरोक्षाभावनिमित्तकः । ‘एवंविदि पापं कर्म न श्लिष्यत’ इति तदधिगमनये ज्ञानिनो लेपाभावोक्तेः । परमात्मा तु सर्वज्ञः स्वविषयकनित्यापरोक्षवान् इति कथं तस्य लेपसम्भावनाऽपीति भावः । तदुक्तं भाष्ये ‘सर्वज्ञाल्पज्ञताभेदादि’त्यादि ।। २९७ ।।

युक्तिमल्लिका

प्रागुक्तवाक्यतोऽपि द्वौ मुक्तामुक्तौ प्रसाधितौ ।। २९८ ।।

सुरोत्तमटीका

 प्रागुक्तवाक्यतः सुपर्णावेतावित्यादिप्रागुक्तवाक्यतः

।। २९८ ।।

सत्यप्रमोदटीका

 प्रागुक्तेति । सुपर्णावेतावित्यादिवाक्येत्यर्थः । मुक्तामुक्तौ । नित्यमुक्तनित्यबद्धौ । प्रसाधितौ सोपपत्तिकं समर्थितो ।।२९८।।

युक्तिमल्लिका

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।

उदासीनवदासीनमसक्तं तेषु कर्मसु ।। २९९ ।।

सुरोत्तमटीका

 गीतावाक्येनापि कृष्णस्य नित्यमुक्ततां जीवानां बद्धता च साधयति ।। न च मामिति ।। पद्यद्वयस्य फलितमाह ।। इतीति

।। २९९-३०१ ।।

सत्यप्रमोदटीका

 उक्तार्थे गीतावाक्यमपि प्रमाणयति न चेति । तानि ‘वर्त एव च कर्मणि’ इत्युक्तदिशा मया नित्यं क्रियमाणानि । न निबध्नन्ति । न लिम्पन्ति । ‘नानवाप्तमवाप्तव्यं’ इत्युक्त्या स्वप्रयोजनसाधकानि न भवन्ति । क्रियासातत्ये लट् । तेन नित्यमुक्तत्वसिद्धिः ।। २९९ ।।

युक्तिमल्लिका

सत्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।

निबन्ध्नति महाबाहो देहे देहिनमव्ययम् ।। ३०० ।।

सत्यप्रमोदटीका

 देहिनं स्वभिन्नप्राकृतदेहसम्बन्धवन्तम् । परमात्मा त्वतथाभूत इति न तस्य बन्धः ।। ३०० ।।

युक्तिमल्लिका

इति कृष्णेन गीतायां कर्माबद्धत्वमात्मनः ।

जीवानां गुणबद्धत्वं चोक्तं वाक्यद्वयेन हि ।। ३०१ ।।

सत्यप्रमोदटीका

 फलितमाह इतीति ।। ३०१ ।।

युक्तिमल्लिका

सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् ।

परान्तकाले सर्वेऽपि विमुच्यन्ते परामृतात् ।। ३०२ ।।

सुरोत्तमटीका

 श्रुत्यापि भगवतो नित्यमुक्तत्वं साधयति ।। सोऽमृत-स्येति ।। अनेन भागवतवचनेन उताऽमृतत्वस्येशानो यदन्नेनातिरोहति इति श्रुतिमुपादत्ते । श्रुतेरप्यर्थनिर्णायकत्वात् स्मृत्युदाहरणम् । यद्यस्मात् अन्नेन अन्नम् । द्वितीयार्थे तृतीया । अन्नपदोदितं मर्त्यं संसारिजीवं अतिरोहति अत्यगात् अतिक्रम्य वर्तते । तान्स्ववशीकृत्य स्वयं राजवत्तिष्ठतीत्यर्थः । तत्तस्मात् अमृतत्वस्य अमृतस्य । देवान्नभूतामृतव्यावृत्त्यर्थमाह ।। उभय-स्येति ।। मरणादिसंसारभयरहितस्य मुक्तस्येत्यर्थः । जात्येकवचनमिदम् । तथा च मुक्तानामिति लभ्यते । ईशानः स्वामी । संसारिणामीश्वरत्वा-न्मुक्तानामपीश्वर एव । न हि कोऽपि प्रेक्षावान् स्वाधीनं स्वसमं कुरुते । अतस्संसारिनियामकत्वान्मुक्तानामपि नियामकत्वमिति सहेतुकं हरेर्मुक्ता-धीश्वरत्वमनया श्रुत्या लभ्यत इति भावः । श्रुत्यन्तरमप्याह ।। परान्तकाल इति ।। अनेन ते ब्रह्मलोके तु परांतकाले ‘‘परामृतात्परिमुच्यन्ति सर्वे’’ इति श्रुतिमर्थतो गृह्णाति । तत्तस्मात् श्रुतिस्मृतिभिर्नित्यमुक्ततया कथनात् । मुक्तत्वनित्यमुक्तत्वाभ्यां मुक्तावपि भेदं साधयितुमाह ।। मुक्ताश्चेति ।। मुक्ताश्च मुक्ता एव न तु परात्मवन्नित्यमुक्ताः । अतस्तदापि मुक्तिदशाया-मपि । राट् राजा । मुक्तेष्वप्य विद्यमाननित्यमुक्तत्वाख्यमहामहिमवत्त्वादिति भावः।। ३०२-३०४ ।।

सत्यप्रमोदटीका

 ‘स’ इति भागवतवाक्यं ‘उतामृतत्वस्येशानो यदन्नेना तिरोहती’ति श्रुतिविवरणपरं सोपपत्तिकं परमात्मनो मुक्ताधिपतित्वमाह । परमात्मा संसारबन्धमुक्तानामधिपतिः । संसारबन्धमोचकत्वात् । यो यद्बन्ध-विमोचकः स तद्बन्धविमुक्ताधिपतिः । यथा निगडबन्धविमोचको राजा निगडबन्धमुक्ताधिपतिः इति सामान्यव्याप्तिः । विपक्षे परमात्मनः प्रेक्षावत्त्वहा- निरतिप्रसङ्गः । स्वाधीनबन्धाद्विमोचनं यदि स्वाधिपत्यप्रच्यावकं तर्हि प्रेक्षावान्न मोचयेदेवेति भावः । ‘ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे’ इति श्रुत्यन्तरं परामृतपदेनैव नित्यमुक्तत्वं प्रतिपादयत्सङ्गृह्णति परेति ।। ३०२ ।।

युक्तिमल्लिका

परामृतपदेनात्र नित्यमुक्तस्स्फृटोदितः ।

श्रुतयस्स्मृतयश्चैव मुक्तामुक्तद्वितां जगुः ।। ३०३ ।।

तन्मुकुन्दः परब्रह्म नित्यमुक्तत्वतः प्रभुः ।

मुक्ताश्च, नित्यमुक्ता न, नित्यमुक्तस्तदाऽपि राट् ।। ३०४ ।।

सत्यप्रमोदटीका

 द्वितामेव न तु परोक्तदिशा ‘न वस्तुतः’ इति श्लोके वाऽन्यत्र वा क्वाप्येकत्वमित्यर्थः ।। ३०४ ।।

सत्यप्रमोदटीका

 तत् तस्मात् । मुकुन्दाख्यो विष्णुरेव परब्रह्म नित्य-मुक्तत्वात् व्यतिरेकेण बद्धवत् । न च मुक्तजीवे व्यभिचारः शङ्क्यः, तत्र हेतोरेवाभावात् इत्याह मुक्ताश्चेति ।। ३०४ ।।

युक्तिमल्लिका

तदधीनत्वबन्धेन भक्तिबन्धेन वा हरेः ।

मुक्तोऽपि बद्धो यत्तस्मान्नित्यबद्धोऽप्यसौ भवेत् ।। ३०५ ।।

सुरोत्तमटीका

 मुक्तौ बन्धाभावात् कथं जीवानां नित्यबद्धत्वमित्यत आह ।। तदधीनत्वेति ।। ३०५ ।।

सत्यप्रमोदटीका

 यद्वा बन्धस्त्रिविधः । संसारः, पारतन्त्र्यं, भक्ति-श्चेति । तत्राद्यस्य मुक्ताभिमतजीवे अभावेऽपि अन्त्ययोरविकलत्वात् अत्र च बन्धसामान्याभावस्यैव हेतुत्वेन विवक्षणात् तस्य च यत्किञ्चिद्विशेषसत्त्वेऽपि दुर्वचत्वात्तत्र मुक्तत्वमेव नास्ति दूरे नित्यमुक्तत्वमित्याह तदिति । एतेन श्रीतत्वे व्यभिचारोऽपि परास्तो वेदितव्यः । तत्रापि अन्त्ययोः बन्धयो नित्यसद्भावेन नित्यबद्धत्वस्यैव प्राप्त्या हेतोरेवाभावादित्याशयात् । एतदप्याह असौ अपीति । अक्षरपुरुषोऽपीत्यर्थः । नन्वेवं बन्धशब्देन भक्तिबन्धस्य विवक्षणे कृष्णे हेतोरसिद्धिरापन्ना । तस्यापि सज्जनकृतभक्तिबन्धनवशत्वात् । तदुक्तं ग्रन्थकृतैवान्यत्र ‘कर्मन्दीश्वरभक्तिबन्धनवश’ इति । मैवम् । स्वकर्तृक-भक्तेरेवात्र बन्धशब्दार्थतया विवक्षणात् । न हि कृष्णस्य सर्वोत्तमस्य सास्तीति तात्पर्यम् ।। ३०५ ।।

युक्तिमल्लिका

नित्यसंसारिसद्भावोऽप्यनेनैव प्रसिद्ध्यते ।

तदा यथाश्रुतो वाक्यस्यार्थस्स्वस्थो भविष्यति ।। ३०६ ।।

सुरोत्तमटीका

 प्रकारान्तरेण जीवस्य नित्यबद्धतामाह ।। नित्येति ।। अनेन जीवस्य नित्यबद्धत्वकथनेन । प्रसिद्धबन्धेनैव कश्चित्यबद्धोऽप्यस्तीति भावः ।। ३०६ ।।

सत्यप्रमोदटीका

 यद्वा बन्धशब्दः यथाश्रुतसंसारबन्धपर एव । नित्यबद्धशब्द एव नित्यसंसारिसद्भावसाधनेनार्थवान् । हेतुस्तु स्वतो बन्धात्यन्ताभावाधिकरणत्वमिति न मुक्तजीवे न वा श्रीतत्त्वे व्यभिचार इति न कोऽपि दोषः । अत्यन्ताभावपदेन स्वतःपदेन च क्रमेण तयोर्व्यभिचार-वारणादित्याशयः ।। ३०६ ।।

युक्तिमल्लिका

एवं च नित्यमुक्तस्य नित्यबद्धस्य चैकता ।

कदा स्यात्तौ यतो धर्मौ विरुद्धौ सार्वकालिकौ ।। ३०७ ।।

सुरोत्तमटीका

 एकता नित्यबद्धो नित्यमुक्त एक एवेत्युद्धवेना-शङ्कितैक्यम् । धर्मौ नित्यबद्धत्वनित्यमुक्तत्वाख्यधर्मौ सार्वकालिकौ उभयोरपि नित्येति नित्यत्वकथनादनाद्यनन्तकालीनौ ।। ३०७ ।।

युक्तिमल्लिका

अतो मिथ्यात्वकथनेऽप्याशा देशान्तरं गता ।

ब्रह्मवद्वा मोक्षवद्वा यन्नित्यं तत्कथं मृषा ।। ३०८ ।।

सुरोत्तमटीका

 अतः बन्धस्यापि नित्यत्वोक्तेः ।। ३०८ ।।

सत्यप्रमोदटीका

 नित्यमुक्तस्य ‘विद्यामयो यस्स तु नित्यमुक्त’ इत्युक्तस्य परस्य । नित्यबद्धस्य ‘योऽविद्ययाऽन्धः स तु नित्यबद्ध’ इत्युक्त-जीवस्य । एकता ‘एक एवेति मे मतिः’ इत्युद्धवेन पूर्वपक्षिता । कदा स्यात् न कदाऽपि । विरुद्धधर्माधिकरणयोर्दहनतुहिनयोरिव तदसम्भवादिति भावः । विरुद्धधर्मयोर्निवृत्तौ उत्तरत्रैक्यं भविष्यतीत्यतोऽत्र प्रष्टव्य किं निवृत्तिशब्देन नाशोऽभिप्रेयते बाधो वेति । नाद्य इत्याह सार्वकालिकौ इति । इदं चाभ्युपे-त्योक्तम् । पूर्वं भिन्नयोरत्तग्त्रापि कथमपि अभेदासम्भवादेव । न हि भिन्न-मभिन्नतां यातीति हि नियमः । अत एव न द्वितीय इत्याह अत इति ।। नाश एव नास्ति मिथ्यात्वं तु दूरे इति भावः ।। देशान्तरं शशविषाणादिकम् । तथा च प्रयोगः बन्धो, न मृषा, नित्यत्वात् ब्रह्मवत् मोक्षवद्वा इति ।। न मोक्षः साधनविकलः संसारस्य पुनरुत्थानप्रसङ्गात् । न वा साध्यविकलः शास्त्राणामानर्थक्यप्रसङ्गात् ।। ३०८ ।।

युक्तिमल्लिका

अनादिगुणसम्बन्धात्तेनौपाधिकतैव हि ।

अवास्तवत्वं प्रागुक्तं न मिथ्यात्वमिति स्थितम् ।। ३०९ ।।

सुरोत्तमटीका

 तर्हि न वस्तुत इत्यस्य कोर्थ इत्यत्र प्रागुक्तमेवार्थं स्मारयन्नुपसंहरति ।। अनादीति ।। तेन नित्यबद्ध इति जीवनिष्ठबन्धस्य नित्यत्वकथनेन ।। ३०९ ।।

सत्यप्रमोदटीका

 अनादिगुणसम्बन्धात् ‘षडस्माकमनादय’ इति त्वदङ्गीकृतादनादिभावरूपत्वहेतोः । सिद्धेनेति शेषः । तेन नित्यबद्ध इति कथितेन च नित्यत्वेन । बन्धस्य प्रागुक्तं ‘न वस्तुतः’ इत्यत्र निरूपितं अवास्तवत्वं अनौपाधिकतैव अस्वाभाविकत्वमेव । एवकारव्यवच्छेद्यमाह न मिथ्यात्वमिति । इति स्थितमिति सार्वकालिकस्य ब्रह्मवद्बाधासम्भवादिति भावः ।। ३०९ ।।

युक्तिमल्लिका

स्वयं दुःखी परस्यापि दुःखमाकांक्षते खलः ।

ब्रह्म संसरतीत्युक्तमन्यथा केन हेतुना ।। ३१० ।।

सुरोत्तमटीका

 नीतिविरुद्धं च भगवतो बद्धत्वकथनमित्याह ।। स्वयं दुःखीति ।। अन्यथा पूर्वोक्तखलस्वभावाभावे ।। ३१० ।।

सत्यप्रमोदटीका

 लोकनीत्याऽपि खलस्वभावं मायावादिनि सङ्गमयति स्वयमिति । आकाङ्क्षते इति । न तु तावता परस्य दुःखसिद्धिरिति भावः । संसरति जीवभावमाप्येति शेषः । यदाऽपरस्य संसारिण एकस्यापि स्वमात्रवृत्तिदुःखाकाङ्क्षा खलत्वहेतुस्तदा किमु वाच्यं नित्यमुक्तस्य परात्मनो युगपत्सकलसंसारिगतदुःखानुसन्धानाकांक्षा सकलसंसार्यैक्यं ब्रुवतो मायावादिन इति भावः । केन हेतुना । आसुरस्वभावं विना । तदुक्तं गीतायां ‘तान्विद्ध्यासुरनिश्चयानि’ति ।। ३१० ।।

युक्तिमल्लिका

बद्धस्त बद्ध एव स्याद्राज्ञो बद्धत्वकीर्तनात् ।

यथा मुकुन्दबन्धोक्त्या बन्धनिर्बन्धभुग्जनः ।। ३११ ।।

सुरोत्तमटीका

 नीत्यन्तरविरोधं चाह ।। बद्धस्त्विति ।। बद्धत्वकीर्तनात् निगडबद्धत्वकीर्तनात् ।। ३११ ।।

सत्यप्रमोदटीका

 यथा मुकुन्दस्य मोक्षप्रदत्वान्नित्यमुक्तस्य परमात्मनः संसारिजीवैक्यकथनेन दुःखादिबन्धोक्त्या जनः ईश्वरोऽहमिति ब्रुवाण आसुर-जनः । बन्धनिर्बन्धभुक् इह पुनरसुरयोनिप्राप्तिः अन्ते तमोरूपाधमगति-प्राप्तिरित्येवं अनर्थभाग्भवति, तथा लोकेऽपि बद्धस्तु निगडबद्धश्चोरादिरपि । असूयया यदि राजानं प्रति त्वमपि चोरो बद्ध एवेति ब्रूयात्तर्हि स तादृशः खलः राज्ञो निन्दया बद्ध एव भवति । आमरणं पूर्वतोऽपि कठिणतरबन्ध-भाजनमेव भवतीति भावः । अत्र लोकनीतिव्युत्पादनाय मायावादिन एव दृष्टान्तीकरणेन तस्य तमःप्राप्तेः सुप्रसिद्धतां द्योतयति । तदुक्तं गीतायां ‘आसुरी योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्’ इति ।। ३११ ।।

युक्तिमल्लिका

यद्यबद्धस्स वै बद्धो नित्यमुक्तत्वगीर्वृथा ।

बन्धमिथ्यात्वतस्सा चेद्बद्धः को नाम सिद्ध्यति ।। ३१२ ।।

सुरोत्तमटीका

 अबद्धः स वै बद्ध इत्यस्य अबद्धः मुक्त एव समुकुंदः यदि बद्ध इति योजना । शुद्धं ब्रह्मैव संसारबद्धं चेदित्यर्थः । सा नित्यमुक्त-त्वगीः ।। ३१२ ।।

सत्यप्रमोदटीका

 सर्वथा मायावादे बद्धमुक्तव्यवस्था न सम्भवतीत्याह यदीति । अत्र विचारणीयं, बन्धः सत्यो मिथ्या वेति । आद्ये आह अबद्धः सः इति । नित्यमुक्तत्वेन प्रसिद्धः परः बद्धो वै जीवगतबन्धस्य सत्यत्वेन तदैक्यनिमित्तेन बद्ध एव न कदाऽपि तस्य मुक्तत्वप्रत्याशा संसारिणां सदा सद्भावादिति भावः । तथा च नित्यमुक्तत्वगीः शास्त्रे ‘विद्यामयो यः स तु नित्यमुक्त’ इति वाक् वृथा अप्रमाणं । सा चेत् तद्धटनाय सा गीः बन्धमिथ्यात्वपरा अङ्गीक्रियते चेत् । बद्धः को नाम सर्वोऽपि मुक्त प्राप्त्या ‘योऽविद्ययान्धः स तु नित्यबद्धः’ इत्युक्तो बद्धो न कोऽपीति भावः । उभयथा बद्धमुक्तव्यवस्थाऽनुपपत्तिरेवेति भावः ।। ३१२ ।।

युक्तिमल्लिका

अनुत्तीर्णस्स्वयं पङ्कात्किमन्योत्तारको भवेत् ।

यदि बद्धं परं ब्रह्म कस्स्याद्बन्धस्य मोचकः ।। ३१३ ।।

सुरोत्तमटीका

 नीत्यन्तरविरुद्धं च ब्रह्मणो बद्धत्वकथनमित्याह ।। अनुत्तीर्ण इति ।। ३१३ ।।

सत्यप्रमोदटीका

 स्वयं यो यद्बन्धवशगः न स तस्मात्तदन्योत्तारकः यथा स्वयं पङ्कनिमग्नः पङ्कादिति सामान्यव्याप्त्यवष्टब्धतर्कबलेनापि परमात्मनो नित्यमुक्तत्वं साधयति अनुत्तीर्ण इति । भवति च बन्धान्मोचकः अतो नित्यमुक्त इति पर्यवसातव्यम् ।। ३१३ ।।

युक्तिमल्लिका

दरिद्रदर्शनेन स्यान्नैव दारिद्र्यनाशनम् ।

धनिनोऽघृणिनो दूरादाराद्वा दर्शनेन किम् ।। ३१४ ।।

सुरोत्तमटीका

 हरेर्बद्धत्वे तद्दर्शनादन्यस्य बन्धनाशनं न स्यादित्यत्र दृष्टान्तमाह ।। दरिद्रेति ।। दयादिगुणाभावे शुद्धस्यापि तस्य दर्शनं न बन्धनाशकमित्यत्र दृष्टान्तमाह ।। धनिन इति ।। अघृणिनः घृणा कृपा अस्यास्तीति घृणी घृणी न भवतीत्यघृणी तस्येत्यर्थः ।। ३१४ ।।

सत्यप्रमोदटीका

 यस्य कस्यचिद्दर्शनेन न मुक्तिः किं तु स्वयं मुक्त-स्यैवेत्यत्र लौकिकदृष्टान्तमाह दरिद्रेति । तद्दाने तद्वत्त्वं प्रयोजकमिति भावः । दरिद्रस्य धनवत्त्वाभावेन धनदानेन न परदारिद्य्रनाशकत्वम् । एवं तर्हि अप्रसन्नस्य धनिनो दर्शनेन किं दारिद्य्रनाशनं नेत्याह अघृणिन इति ।। अप्रसन्नस्येत्यर्थः । आरादिति समीपादित्यर्थः । ‘आराद्दूरसमीपयोरि’त्यभि- धानेऽपि दूरादित्यस्य पृथग्ग्रहणात् । दूरत्वं सामीप्यं वा अप्रयोजकम् । प्रसन्नतैव प्रयोजिकेति भावः । प्रसन्नस्य प्रभोर्दर्शनामेव फलप्रदमिति व्युत्पादितं लोकन्यायं प्रकृते सङ्गमयति । तस्मादिति । शुद्धः स्वयं नित्यमुक्तः । भगवान् मोचनसमर्थः । अशुद्धं प्रागस्वाभाविकबन्धयुतम् । योग्यचेतनं स्वभावतः मुक्तियोग्यम् । श्रवणादियुतं भक्तं जिज्ञासोत्थज्ञानजन्य-परमभक्तिशालिंन । प्रीतः परमप्रसन्नः शुद्धीकरिष्यति मोचयति । तदुक्तं भगवत्पादैः ‘यथा दृष्ट्या प्रसन्नः सन् राजा बन्धापनोदकृत् । एवं दृष्टः स भगवान् कुर्याद् बन्धविभेदनं’ इति । अतः संसारदशायां भगवतो भिन्नत्वात् । शुद्धौ अपि मुक्तिदशायां अपि । सः जीवः । शुद्धान्तरं नित्यशुद्धात्परात्मनः विलक्षणः भवेत् अवतिष्ठते ।। ‘प्रागवस्थायां येन भेदेन विशिष्टस्तेनैव मोक्षेऽपी’ति वादावल्युक्तेः ।। ३१४,३१५ ।।

युक्तिमल्लिका

तस्माच्छुद्धस्स भगवानशुद्धं योग्यचेतनम् ।

श्रवणादियुतं भक्तं प्रीतश्शुद्धीकरिष्यति ।

इति वाच्यमतश्शुद्धौ सोऽपि शुद्धान्तरं भवेत् ।। ३१५ ।।

सुरोत्तमटीका

 तस्माद्बद्धस्य निर्गुणस्य च दर्शनेन बन्धनाशायोगात् । भगवान्दयालुत्वादिगुणवान् । अतः नित्यशुद्धेन भगवता मध्ये शुद्धीकरणात् । सः शुद्धीकृतो जीवः शुद्धान्तरं नित्यशुद्धाद्भगवतः भिन्नं शुद्धम् । न तु भगवद्रूपतया शुद्धम् ।। ३१५ ।।

युक्तिमल्लिका

यद्यन्य एव मलिनः पटो धौतपटान्तरात् ।

स धावनेऽपि धौतोऽन्यः पटस्स्यात्क्वाभिदा तयोः ।। ३१६ ।।

सुरोत्तमटीका

 तत्र युक्तिमन्यापदेशेनाह ।। यदीति ।। प्राङ्मलिनः यदि स्वमालिन्यदशायां धौतपटान्तरादन्य एव तदा सपटः धावनेऽपि क्षालनेऽपि धौतः शुद्धः । अन्यः प्राक्शुद्धपटात् तयोः प्राक्छुद्धः पश्चाच्छुद्धपटयोरभिदा अभेदः क्व न क्वापीत्यर्थः । एवं सदा शुद्धस्य हरेः प्रसादान्मध्ये शुद्धी-कृतोऽपि जीवश्शुद्धान्तरमेव स्यात् । न तु तदभिन्न इति दृष्टान्तमुखेन फलिता युक्तिरिति द्रष्टव्यम् ।। ३१६ ।।

सत्यप्रमोदटीका

 अत्रार्थे प्रत्यक्षं दृष्टान्तमाह यद्यन्य इति । अस्य पटस्य मालिन्यावस्थायां शुद्धपटान्तराद्विद्यमानो भेदः शुद्धीकरणानन्तर-मप्यनुवर्तत एव ।। ३१६ ।।

युक्तिमल्लिका

अतस्साधर्म्यमेवाह मुक्तानां हरिरात्मना ।

पेटीस्थानेकपटवत्सायुज्यमपि युक्तता ।। ३१७ ।।

सुरोत्तमटीका

 अतः नित्यमुक्तकादाचित्कमुक्तयोरभेदायोगात् । साधर्म्यं जननमरणदुःखाद्यभावेन समानधर्मतामाह ‘‘मम साधर्म्यमागता’’ इति गीतायाम् । तर्हि सायुज्यमोक्षे अभेदस्स्यादित्यत आह ।। पेटीस्थेति ।। पेट्यां पेटिकायां स्थितानेकधौतपटवत् युक्तता सदा सम्बन्धविशेषः ।। ३१७ ।।

सत्यप्रमोदटीका

 निगमयति अत इति । आह गीतायाम् । ‘मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति चे’ति जनन-मरणादिदुःखाभावमात्रेण सादृश्यमित्यर्थः । तथा हि श्रुतिः यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।। एवं मुनेर्विजात आत्मा भवति गौतमे’ति । सायुज्यमपि सदा सम्बन्धविशेष एवेत्यत्र निदर्शनं पेटीस्थेति ।। ३१७ ।।