विमतौ जीवपरमौ विरुद्धगुणवत्त्वतः
स्वमते प्रत्यक्षानुमानागमाः
युक्तिमल्लिका
विमतौ जीवपरमौ विरुद्धगुणवत्त्वतः ।
अभिन्नौ नैव तु हि न दहनाविव सर्वदा ।
सर्वानुभवसिद्धे यमनुमा भेदसाधिका ।। ८०५ ।।
सुरोत्तमटीका
स्वमतेऽनुमानप्रत्यक्षागमान्दर्शयति ।। विमता-वित्यादिना ।। व्यावहारिकभेदमादाय सिद्धसाधनता माभूदिति सर्वदाऽभिन्नौ नेत्युक्तम् । आवयोर्मते दहनतुहिनयोस्सर्वदाप्यभेदाभावस्य संप्रतिपन्नत्वात् दृष्टान्तश्च न साध्यविकलः ।। ८०५ ।।
सत्यप्रमोदटीका
अत्यन्तभेदलाभाय नञ्द्वयम् । भेदस्य पारमार्थिकत्व-सिद्धये सर्वदेति । अनुभवसिद्धेति अनुकूलतर्कसूचनम् ।। ८०५ ।।
युक्तिमल्लिका
नाहं सर्वज्ञ इत्यादि साक्षिप्रत्यक्षमस्ति हि ।
जीवेशभेदः सर्वेषां वेदेषूक्तः पदे पदे ।। ८०६ ।।
सुरोत्तमटीका
सर्वेषां साक्षिप्रत्यक्षमिति सम्बन्धः ।। ८०६ ।।
सत्यप्रमोदटीका
भेदप्रत्यक्षताप्रयोजकस्य धर्मिभूताहम्पदार्थप्रत्यक्षस्य साक्षिणा, प्रतियोगिभूतसर्वज्ञप्रतीतेश्चागमेन सिद्धत्वादिति भावः । पदे पदे ‘सन्ति च भेदे सर्वागमाः’ इति भगवत्पादैः समर्थनादित्याशयः ।। ८०६ ।।
युक्तिमल्लिका
अतस्त्रिमार्गगामित्वाद्भेदो गङ्गेव सेश्वरैः ।
धार्येयं शिरसा सर्वैः पुनाति च जगत्त्रयम् ।। ८०७ ।।
सुरोत्तमटीका
अतः प्रमाणत्रयानुसारित्वात् ।। ८०७ ।।
सत्यप्रमोदटीका
अतः प्रमाणत्रयसिद्धत्वात् । गङ्गेव त्रिपथगेव । धार्या मुमुक्षुभिः स्वीकार्या । अनन्यप्रोक्ते गतिरत्र नास्ति, प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ’ इति श्रुतेः । पुनाति चेति । ब्रह्मधर्मिकभेदस्य तत्स्वरूपत्वात् । यथोक्तं ‘स च भेदो धर्मिणः स्वरूपमेव’ इति वादावल्याम् । भेददृष्टेश्च तत्पूजा-रूपत्वात् । तथा हि भगवते ऋषभवाक्यं ‘विविक्तदृष्टिस्तदुतार्हणं मे’ इति ।। ८०७ ।।
युक्तिमल्लिका
देवानां किल मानुष्यं नाज्ञानेनैव केवलम् ।
किन्तु शापेन तन्मूलपापाद्यैर्वा भवेद्भुवि ।। ८०८ ।।
विप्राणामन्त्यजत्वं च महापापफलं किल ।
अन्त्यजानां च विष्ठायां क्रिमितापापतः किल ।। ८०९ ।।
सुरोत्तमटीका
अधुना । उच्चस्य नीचता पापफलमेव । पापञ्च स्मरण-मात्रात्सर्वेषां पापहारिणि सकलपापहरगङ्गाजनकचरणे सर्वज्ञे नारायणे मनसापि स्मर्तुं न शक्यते । अतस्तस्य नीचजीवत्वं कथं स्यादिति स्वोक्तानु-मानस्यानुग्राहकतर्कं प्रपञ्चयति ।। देवानामित्यादिना ।। तन्मूलपापाद्यैश्शाप-कारणीभूतपापाद्यैः । विदुरभीष्मादिषु तथा श्रवणात् ।। ८०८,८०९ ।।
सत्यप्रमोदटीका
ब्रह्मैव अज्ञानसम्बन्धाद्धीनयोनीः प्राप्य संसरतीति परप्रक्रियां दूषयितुं सामान्यत उच्चस्य सतो नीचत्वप्राप्तौ कारणं शापो वा पापं वेति दृष्टान्तैर्निर्धारयति देवानामिति । माण्डव्यशापाद्यमस्येव । एवकार-व्यवच्छेद्यमाह किं त्विति ।। ८०८,८०९ ।।
युक्तिमल्लिका
तस्मादुच्चस्य नीचत्वप्राप्तिः पापेन केवलम् ।
अज्ञानमात्रतस्सा चेत्स्मृत्यादीनामपार्थता ।। ८१० ।।
सुरोत्तमटीका
तस्मादुक्तन्यायात् । सा नीचयोनिः । स्मृत्यादीनां चण्डालाः कोटिजन्मसु । विष्ठायां जायते क्रिमिरित्यादिस्मृत्यादीनाम् । आदिपदेन पुराणादिकं गृह्यते । किञ्चेन्द्रद्युम्नस्यागस्त्यहेलनरूपपापेन गजत्व-प्राप्तिदर्शनात् । नारदावज्ञानेन नलकूबरमणिग्रीवयोर्वृक्षत्वप्राप्तिदर्शनात् । अहल्यायाश्च परपुरुषपरिग्रहरूपपापेन शिलात्वदर्शनाच्च । ज्ञानिनोऽ-ज्ञानित्वमपि महापापफलम् । तस्मात्पापाभावेऽप्यज्ञानादेव नीचयोनिप्राप्ति-रित्यपि रिक्तं वचः ।। ८१० ।।
सत्यप्रमोदटीका
अज्ञानमात्रतः न तु पापादिना । स्मृत्यादीनां ‘चण्डालाः कोटिजन्मसु’ इत्यादीनाम् । अपार्थता विपरीतबोधकत्वम् ।।
युक्तिमल्लिका
एवं सति श्वचण्डालपशुपक्ष्यादियोनिषु ।
अनादिकालतो भूत्वा सदा सर्वत्र संसरेत् ।। ८११ ।।
ते ब्रह्म बहुदुष्कर्मविण्मयार्णवमज्जितम् ।
परब्रह्म तवैव स्यात्तदेवत्वं न संशयः ।। ८१२ ।।
सुरोत्तमटीका
बहुदुष्कर्माण्येव विण्मयार्णवो विष्ठामयसमुद्रः । तत्र मज्जितम् । ते ब्रह्म तवैव परब्रह्म स्यात् । तदेव तद्ब्रह्मैव त्वमसि उक्तविधयाऽ-नादिकालमारभ्य पापाविलस्य तस्य ब्रह्मता आग्रहमात्रात् । जीवचैतन्यमेव तत् । तस्य च जीवाभेदो युक्त एवेति भावः ।। ८११,८१२ ।।
सत्यप्रमोदटीका
ब्रह्म तु सर्वोच्चं, चण्डालादियोनयश्चातिनीचाः । अतः त्वदभिमतब्रह्मणो बहुदुष्कर्मलेपः प्राप्तः । एवंरूपेण ब्रह्मणा मायिन ऐक्यमनुमन्यामहे इत्याह तवैव स्यादिति । यथोक्तं सुधायां जन्माधिकरणे ‘तर्हि गुणशब्दोदितसकलशुभराहित्यलक्षणमसुरत्वमेव स्यात् । तेनैक्यं च मायावादिनामनुमन्यामहे’ इति ।। ८११,८१२ ।।
युक्तिमल्लिका
अस्मद्ब्रह्म हयग्रीवमत्स्यकूर्मादिविग्रहे ।
अपि चित्सुखसम्पूर्णं सहस्रार्कसमप्रभम् ।। ८१३ ।।
अनन्तवेदवेदाङ्गपुराणस्मृतिपारगम् ।
चतुर्मुखाद्यैराराध्यं तेषां विद्योपदेष्टृ च ।। ८१४ ।।
सुरोत्तमटीका
विग्रहेऽपीति सम्बन्धः । चित्सुखसंपूर्णं निरवधिक-ज्ञानसुखसम्पूर्णम् । चित्सुखसंपूर्णमित्यादिविशेषणं मत्स्यकूर्मादिहीनयो-निष्ववतरणमपि न पापात् । तत्रापि ज्ञानानन्दबलादिशुभगुणभरितस्य वेदवेदाङ्गपारगस्य ब्रह्मादीनां च गुरोः पापासंभवात् । अतीन्द्रियं हि पापं दुःखाज्ञानादिफलबलोन्नेयम् । तदभावे तस्याप्यभावनियमात् । किंत्वानन्दो-द्रेकाद्वा देवादिषु कृपया वा दैत्यहननाख्यलीलार्थं वेति सूचनाय अनीदृशीषु तव ब्रह्मणः दुःखाज्ञाननरकयातनादि पापफलभोक्तृजीवात्मकप्रागुक्त हीन-योनिषु प्राप्तिःपापादेवेति सूचनाय च ।। ८१३,८१४ ।।
सत्यप्रमोदटीका
विग्रहेऽपि । मत्स्याद्यवताररूपेष्वपि । सम्पूर्णं ‘पूर्णमदः पूर्णमिदं’ इति श्रुतेः । तमिममखिलहेतुं जिह्ममीनं नतोस्मि इति स्मृतेश्च । अनन्तेति ‘अकथयच्च ब्रह्मसत्यव्रताय’ इति स्मृतेः । चतुर्मुखेति ‘अजेशसुरादिभिर्विमृग्यात्’ जिनं जितं तेऽखिलयज्ञभावन’ इति वराह-स्तुत्युक्तेः ।। ‘विद्योपदेष्टृ चेति’ ‘वाचो बभूवुरुशतीः श्वसतोऽस्य नस्तः’ ब्रह्मरुद्रादिदेवेषु मनुष्यपशुपक्षिषु । ज्ञानं संस्थाप्य’ इत्यादिवचनात् ।। ८१३, ८१४ ।।
युक्तिमल्लिका
यन्मन्त्रोऽपि च मर्त्यानां विद्यासिद्ध्ये नियुज्यते ।
यद्भक्त्या मुच्यते जन्तुर्यस्य मातापिता न च ।। ८१५ ।।
सुरोत्तमटीका
यन्मन्त्रः येषां हयग्रीवादीनां मन्त्रः । यस्य हयग्रीव-मत्स्यकूर्म नरसिंहादिरूपिणः । इदमपि हरेः पापनिमित्तयोनित्वाभाव-सूचनार्थम् । पापजपश्वादियोनिषु मातृपितृसाहित्यनियमस्यैव दर्शनात् ।।८१५।।
सत्यप्रमोदटीका
यन्मन्त्रः हयग्रीवादिः ।। ८१५ ।।
युक्तिमल्लिका
यत्कृपावीक्षणात्सद्यो मुक्तो निष्पापतामियात् ।
अवद्यगन्धविधुरं परक्लेशविमोचनम् ।। ८१६ ।।
सत्यप्रमोदटीका
वीक्षणात् परमप्रसादात् । अवद्येति ‘निरनिष्टे निरवद्य’ इति श्रुतेः । ‘न मां कर्माणि लिम्पन्ति’ इति स्मृतेः ।। ८१६ ।।
युक्तिमल्लिका
अनन्तरूपेष्वप्येवं यस्य शक्तिरनन्तधा ।
ततोऽधिकं परं ब्रह्म किं स्याद्वद विवेकिनाम् ।। ८१७ ।।
सुरोत्तमटीका
ततः हयग्रीवादिरूपान्नारायणात् ।। ८१७ ।।
सत्यप्रमोदटीका
शक्तिरिति ‘परेति यां प्राहुरजस्रशक्तिरि’त्युक्तेः । परं ब्रह्मेति ‘परं ब्रह्म परं धाम पवित्रं परमं भवान्’ ‘न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः’ इति गीतोक्तेः ।। ८१७ ।।
युक्तिमल्लिका
ब्रह्मादयोऽपि यद्दासा यद्दास्यं च तपःफलम् ।
तद्भक्तिरूपभावस्स्यात्तद्भावस्तु न कस्यचित् ।। ८१८ ।।
सुरोत्तमटीका
स्वधर्मनिष्ठश्शतजन्मभिःपुमान्विरिञ्चतामेतीतिस्मृतेः विदेहिरुद्रो रुद्रियं महित्वमिति श्रुतेश्च यद्दास्यं च तपःफलमित्यर्थः । नन्वैक्याभावे ब्रह्मभावाय कल्पत इत्यादिवाक्यानां का गतिरित्यत आह ।। तद्भक्तीति ।। तस्य हरेर्भक्तिरूपभावः । तद्भावस्तत्त्वम् । भावो भक्तिरिति स्मृत इति वचनात् भावनैव भक्तिरिति व्युत्पत्त्या च भावपदस्य भक्त्यर्थकत्वात् ब्रह्मणो भावाय भक्त्यै कल्पत इत्येव वाक्यार्थः । ब्रह्मत्वं प्राप्नोतीत्यर्थस्तूक्त भगवन्महिमविरुद्धत्वात् अयुक्त एव ।। ८१८ ।।
सत्यप्रमोदटीका
‘ब्रह्मभावाय कल्पते’ पूता मद्भावमागताः इत्यादे-र्गतिमाह मद्भक्तिरूपेति । ‘भावो भक्तिरि’त्यभिधानात् । यद्वा मयि भावः इत्येवार्थः । तस्मिन् प्रविश्य, तत्समीपे वा स्थितिः । ‘ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरं’ इत्युक्तेः । ‘परं ज्योतिरुपसम्पद्य’ इति च ।।८१८।।
युक्तिमल्लिका
न यत्र मायेति गिरा मायाया भगवत्पदे ।
सामान्यतो निषेधेन मायालेशोऽपि नेष्यते ।। ८१९ ।।
सुरोत्तमटीका
अधुना न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरा-सुरार्चिताः । श्यामावदाताश्शतपत्रलोचनाः पिशङ्गवस्त्रास्सुरुचस्सुपेशस इति भागवतस्थवैकुण्ठवर्णनवाक्येन यत्र माया नेति सामान्यतो मायां निषिध्य मायाभावे तत्रापरे मायानिमित्तसत्त्वरजस्तमोगुणादयः नेति किमुत किं वक्तव्यमिति मायाभावे कैमुत्याख्ययुक्तिं चोक्त्वा हरेरनुव्रता यत्रेत्यादि वाक्यशेषेण हरिभक्तानां मुक्तानां सविस्तरं वर्णितत्वात् मायानिवृत्तिकालीनो मौक्तभेदोऽयं पारमार्थिक एव न व्यावहारिक इत्याह ।। न यत्रेति ।। भगवत्पदे वैकुण्ठे ।। ८१९ ।।
सत्यप्रमोदटीका
माया ‘मायामेतां तरन्ति ते’ इत्युक्ता जड-प्रकृत्यात्मिका । यत्रेत्यस्यार्थः भगवत्पदे इति । सामान्यतः निरुपपदेन । अपरे प्रकृतिजन्माः सत्त्वादयः । ‘न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः’ इति विवरणात् । ‘श्यामावदाताः शतपत्रलोचना’ इत्युत्तरत्रोक्तो भेदः अविद्यानिवृत्त्युत्तरकालीनत्वात्पारमार्थिक एव सिद्धः ।। ८१९ ।।
युक्तिमल्लिका
सत्येकस्मिन्नपि घटे घटो नास्तीति धीर्न हि ।
अतस्सामान्यतोऽभावे प्रतियोगी न शेषभाक् ।। ८२० ।।
सुरोत्तमटीका
सामान्यनिषेधेऽपि कुतो मायालेशोऽपि नेष्यत इत्यतो युक्तिमाह ।। सत्येकस्मिन्निति ।। अतः प्रतियोगितावच्छेदकावच्छिन्न-यत्किञ्चित्सद्भावे सामान्यनिषेधस्य क्वाप्यदर्शनात् । न शेषभाक् । नावशिष्यत इत्यर्थः ।। ८२० ।।
युक्तिमल्लिका
माया नेति निषेधोऽयं सामान्याभाव एव हि ।
मुख्यस्य बाधने हि स्यादमुख्योऽर्थो न चान्यथा ।
निर्माय भगवल्लोके मुख्या निर्मायतोचिता ।। ८२१ ।।
सुरोत्तमटीका
अत्र घटो नेतिवत् यत्र माया नेति निषेधश्च सामान्य-निषेध एवेत्याह ।। मायेति ।। मुख्यानिर्मायता मायालेशस्याप्यभावरूप-निर्मायता । अतो मुख्यार्थ परित्यागेन कारणाभावमात्रं किन्तु बाधकमप्य-स्तीति भावः । भगवतो निर्मायत्वं च न यत्र श्रूयते माया लोकदृष्टिविकल्प-नेत्यादिप्रागुक्तवाक्यैरेव सिद्धम् ।। ८२१ ।।
सत्यप्रमोदटीका
सामान्यतो मुख्यमायानिषेधोऽयं यत्किञ्चित्प्रतियोगि-लेशमपि विरुणद्धीत्याह मायेति । मुख्यस्य प्रकृतिबन्धस्य । तस्यैव प्रकृत-त्वात् । न तु भगवदिच्छात्मकस्य । तस्य सत्त्वादिगुणोपादानताऽभावात् । निर्माय भगवदिति । ‘मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि’ तस्य नित्यनिर्मायतोक्तेः ।। ८२१ ।।
युक्तिमल्लिका
न यत्र सत्त्वमित्यादिनोक्तमायाफलात्यये ।
कैमुत्यायोदितो मायाभावोऽयं मुख्य एव हि ।। ८२२ ।।
सुरोत्तमटीका
कैमुत्याख्ययुक्त्या च मुख्यार्थ एव ग्राह्य इत्याह ।। न यत्रेति ।। ८२२ ।।
सत्यप्रमोदटीका
उत्तरत्र प्रकृतिकार्यगुणानामभावस्य कैमुत्येन ‘किमुतापरे’ इत्युक्तेः पूर्वत्रोक्तमायातत्कारणजडप्रकृतिरेवेत्याह नेति । माया-फलात्यये प्रकृतिजन्यगुणाभावे ।। ८२२ ।।
युक्तिमल्लिका
न चेत्तत्कार्यकामादीन्कैमुत्येन कथं क्षिपेत् ।
किमुतापर इत्यत्र यतो हेतोरसिद्धता ।। ८२३ ।।
सुरोत्तमटीका
न चेन्निर्मायत्वं मुख्यं न चेत् । ईषन्मायालेशस्यावशेषे तत्कार्यसत्त्वादेरपीषदवशेषावश्यंभावान्नेति किं वक्तव्यमिति कथं कैमुत्येन फलनिषेधं कुर्यात् । स हि अस्मिन्विप्रग्रामे शूद्रा नैव सन्तीत्युक्ते चण्डाला न सन्तीति किं वक्तव्यमित्यादाविव सर्वथा निषेध्याभाव एव युक्त इति भावः । युक्त्यन्तरं चाह ।। किमुतेति ।। इत्यत्र साध्ये । हेतोः निर्मायत्वरूपहेतोः । द्रव्यत्वाभावसाधकतया प्रयुक्तनिर्गुणत्वहेतौ गुणलेशस्याप्यवशेषेऽसिद्धिवन्माया लेशस्याप्यवशेषे निर्मायत्वहेतोरसिद्धिस्स्यादिति भावः ।। ८२३ ।।
सत्यप्रमोदटीका
भगवल्लोकः प्रकृतिकार्यबन्धादिदोषरहितः तत्कारण-प्रकृत्यभावादिति हेतोः प्रकृतिलेशावशेषोक्तौ असिद्धिः स्यादित्याह यत इति ।। ८२३ ।।
युक्तिमल्लिका
हरेरनुव्रता एव तत्रापि किल चेतनाः ।
सर्वे चतुर्भुजाभिन्ना हरिणा च परस्परम् ।। ८२४ ।।
सुरोत्तमटीका
तत्रापि निर्माय भगवल्लोकेऽपि ।। ८२४ ।।
सत्यप्रमोदटीका
हरेरनुव्रता इति जीवपरस्याभेदः, अणुव्रताः सर्वे इति बहुवचनेन सर्वपदेन च जीवानां परस्परं भेदः, विमानावलिभिरित्यनेन जडानां अन्योन्यं जीवैस्तदधिष्ठातृभिश्च भेदः वैकुण्ठस्य भगवतो निर्मायत्वोक्त्या जडेशभेदः इत्येवं पञ्चभेदसिद्धिरवगन्तव्या ।। ८२४ ।।
युक्तिमल्लिका
अतो भगवतो लोके भेदाकारादिसम्पदि ।
जीवानां च मिथो भेदे जीवबाहुल्य एव च ।
सिद्धं मायातिदूरत्वं सत्त्वं च परमार्थतः ।। ८२५ ।।
सुरोत्तमटीका
अतः निर्मायलोकवर्तित्वात् । भेदाकारादिसम्पदि । भेदो जीवभगवद्भेदः आकारो हस्तपादादिः । आदिपदेनाभरणादिकं गृह्यते । परमार्थतस्सत्त्वं चेति सम्बन्धः ।। ८२५ ।।
सत्यप्रमोदटीका
परमार्थत इति । अविद्यानिवृत्त्युत्तरकालीनत्वात् ।। ८२५ ।।
युक्तिमल्लिका
तस्मात्परममोक्षत्वं वैकुण्ठादिपुरत्रये ।
अव्यावहारिकं भेदं प्राह भागवते शुकः ।। ८२६ ।।
सुरोत्तमटीका
तस्माल्लोकस्य निर्मायत्वात् । वैकुण्ठादिपुरत्रये परम-मोक्षत्वमिति सम्बन्धः । वैकुण्ठादिपुरत्रयस्यैव परममोक्षत्वमिति यावत् । मायात्ययस्थलस्यैव परममोक्षत्वादिति भावः ।। ८२६ ।।
सत्यप्रमोदटीका
परममोक्षत्वमिति । अङ्गीकृतश्च परममोक्षेऽपि सुखादिभोगः तन्निमित्तभेदश्च औतिभिः । ‘सर्वान् कामान् समश्नुते’ इत्यादि श्रुतिभ्यो मोक्षे सुखं संवेद्यमिति (ब्र.शां,भा.३९।२८) । अत्र विस्तरः ‘भेदपराण्येव खलु ब्रह्मसूत्राणि’ (प.१७९) इत्यत्र अवगन्तव्यः ।। ८२६ ।।
युक्तिमल्लिका
अतो जीवेशभेदाद्यमभेद्यं सर्ववादिनाम् ।
माया यं नास्पृशत्तं तु कोऽन्यो मायावशस्स्पृशेत् ।। ८२७ ।।
सुरोत्तमटीका
उपसंहरति ।। अत इति ।। अमायामयत्वादित्यर्थः । आद्यपदेनाकारादिकं गृह्यते । यं भेदं मायावशः मायाधीनो वादी ।। ८२७ ।।
सत्यप्रमोदटीका
नास्पृशत् । अमायिकलोकेऽपि सत्त्वात् । अन्यः मायावादी । मायावशाः ‘माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः’ इति गीतोक्तेः । अत्र वैकुण्ठलोके प्रकृतेरभावोक्तिः बन्धकत्वेनैव न तु स्वरूपेणेति सर्वत्र विशेषोऽनुसन्धेयः । एतच्छ्लोक (भाग.) व्याख्यानावसरे न्यायसुधायां तथैव व्याख्यानात् (अ.४२१) ।। ८२७ ।।
युक्तिमल्लिका
विमतो जीवपरयोर्भेदोऽयं परमार्थसन् ।
अविद्यास्तमये सत्त्वाद्यथात्मेत्यनुमानतः ।
सत्यभेदोऽपि संसिद्ध्येद्धेतोरागमिकत्वतः ।। ८२८ ।।
सुरोत्तमटीका
भेदेऽनुमानमुक्त्वा भेदसत्यत्वेप्यनुमानमाह ।। विमत इति ।। असिद्धिं परिहरति ।। हेतोरिति ।। ८२८ ।।
सत्यप्रमोदटीका
भेदस्य पारमार्थिकत्वेऽप्यनुमानमाह विमत इति । असिद्धिं निराह आगमिकत्वत इति ।। ८२८ ।।
युक्तिमल्लिका
न वै स आत्मात्मवतामिति वाक्यमनुस्मर ।
यो दुःखं नैव भुंक्तेऽसौ दुःखी जीवः कथं भवेत् ।। ८२९ ।।
सुरोत्तमटीका
आगमिकमनुमानान्तरं च वक्तुं पीठमाचरति ।। न वै स इति ।। ८२९ ।।
सत्यप्रमोदटीका
न वा इति भुंक्ते हि दुःखं भगवान् वासुदेवः इति वाक्यशेषः । भुंक्ते इति क्रियासातत्ये लट् । तेन निर्दुःखत्वं भगवतः स्वरूप-लक्षणमुक्तं भवति । दुःखित्वं जीवस्य लक्षणं ‘स जीव इति कीर्तितः । स दुःखी’ इति श्रुतेः ।। ८२९ ।।
युक्तिमल्लिका
ब्रह्म चिज्जीवचिन्नैव दुःखाभोक्तृत्वतस्सदा ।
घटवत्पटवद्वेति स्मृतिमूलानुमा भवेत् ।। ८३० ।।
सुरोत्तमटीका
अनुमानप्रयोगं दर्शयति ।। ब्रह्मचिदिति ।। जीव-चिन्नैवेति साध्यम् । जीवचिदभिन्नो नैवेत्यर्थः । सदा दुःखाभोक्तृत्वात् । कदाचिद्दुःखाभोक्तृत्वं जीवचितोऽप्यस्तीत्यतो व्यभिचारपरिहाराय सदे-त्युक्तम् । हेतोरसिद्धिपरिहारसूचनायोक्तं स्मृतिमूलेति ।। ८३० ।।
सत्यप्रमोदटीका
एवं विरुद्धधर्माधिकरणत्वे सिद्धे अनुमानप्रयोगमाह ब्रह्मेति । सदा इति दुःखस्पृष्टेभ्यो मुक्तेभ्योऽपि भेदसिद्धिः । अङ्गीकृतं च विरुद्धधर्माधिकरणत्वहेतोर्भेदसाधकत्वं परेणापि । ‘कथमेकत्वमनयोर्घटते विपरीतयोरि’ति तदुक्तेः ।। ८३० ।।
युक्तिमल्लिका
विमतोऽनादिजीवेशभेदादिः परमार्थसत् ।
अनादित्वाद्यथा ब्रह्मेत्यस्ति शास्त्रानुमा मम ।। ८३१ ।।
सुरोत्तमटीका
भेदस्य पारमार्थिकत्वे परप्रक्रिययैव सिद्धमनुमानान्तरं चाह ।। विमत इति ।। अनादीति उपरञ्जकतया हेतुगर्भं पक्षविशेषणम् । अस्मन्मते तु घटपटादि भेदेहेतोर्भागासिद्धिपरिहाराय ।। ८३१ ।।
सत्यप्रमोदटीका
जीवेशभेदादिः पक्षः । अनादित्वविशेषणं तत्र हेतोः परेणापि स्वीकारस्फोरणार्थं आदिपदेन अविद्याचितोर्योगादिकं ग्राह्यम् । यद्यपि
‘जीवे ईशो विशुद्धा चिद् भेदस्तस्यास्तयोर्द्वयोः ।
अविद्यातच्चितोर्योगः षडस्माकमनादयः’
इति कारिकायां परेण भेदस्तस्यास्तयोर्द्वयोरिति शुद्धचिज्जीवभेदस्य शुद्ध-चिदीश्वरभेदस्य अनादित्वाभ्युपगमः ज्ञायते, तथाऽपि ‘तयोर्द्वयोरि’ति भेदेन निर्देशेन जीवेशभेदस्यापि अनादित्वमभ्युपगतप्रायमेवेति ज्ञेयम् ।। ८३१ ।।
युक्तिमल्लिका
भेदादिषट्कानादित्वं षडस्माकमनादयः ।
इति सञ्जल्पतैवोक्तं त्वयातो न कुतोऽपि भीः ।। ८३२ ।।
सुरोत्तमटीका
अतः हेतोःपरमतसिद्धत्वात् ।। ८३२ ।।
सत्यप्रमोदटीका
सञ्जल्पतेति वदता पराभिमताविद्यादिरप्रामाणिकत्वं ध्वनयति ।। ८३२ ।।
युक्तिमल्लिका
पूर्वं पूर्वं विद्यमाने यत्रेदं पूर्वता तु न ।
षोढानादिं विभजतामनादिरयमेव हि ।। ८३३ ।।
सुरोत्तमटीका
अनादित्वं च निरवधिकप्राक्कालमारभ्य विद्यमानत्वमेव न त्वादिराहित्यमात्रम् । तथा सति शशशृृङ्गादेरप्यनादित्वप्रसङ्गेन षडस्माक-मनादय इति विभागायोगात् । अतो हेतोर्नक्वापि विपक्षगामित्वम् । किन्त्वनु-कूलतर्कसहितत्वात्प्राबल्यं चास्तीत्याह ।। पूर्वं पूर्वमिति ।। आदिराहित्ये सति विद्यमानत्वमनादित्वमिति भावः ।। ८३३ ।।
सत्यप्रमोदटीका
अयमेव परमार्थसत्त्वाविनाभूतमेव । ननु पुनः शश-विषाणादिवदादिवर्जितत्वमात्रम् । अन्यथा सहपठितायाः विशुद्धचितोऽपि अनादित्वस्य तथाविधत्वप्राप्तेः ।। तदिदमुक्तं विद्यमान इति । तथा च विद्यमानत्वे सति प्रागभावाप्रतियोगित्वं अनादित्वं हेतुरिति फलितम् ।।८३३।।
युक्तिमल्लिका
सपक्षपक्षगो हेतुर्यतोऽयं न विपक्षगः ।
षण्णामक्षुण्णतद्भावादन्यानादेश्च निन्हुतेः ।। ८३४ ।।
सुरोत्तमटीका
अन्यानादेः शशशृृङ्गाद्यनादेः । निह्नुतेः त्वयैव निराकरणादित्यर्थः ।। ८३४ ।।
सत्यप्रमोदटीका
न विपक्षगः इति । शशविषाणे विपक्षे विद्यमानत्व-विशेषणस्याभावात् । षण्णां पक्षसपक्षाणाम् । अन्यानादेः अविद्यमानशश-विषाणस्य । निह्नुतेः । परेणैव उक्तरीत्या हेतुसत्त्वनिराकरणात् ।। ८३४ ।।
युक्तिमल्लिका
अनादिः कल्पितश्चेति व्याहतेः प्रथमं गृहम् ।
अतः कर्कशतर्कोऽपि धिक्करोति मतं तव ।
तस्मादुक्तं समस्तं च निरवद्यमिति स्थितम् ।। ८३५ ।।
सुरोत्तमटीका
कल्पितः अविद्याकल्पितः । तस्मात् भेदस्य प्रबला-नेकानुमानसिद्धत्वात् ।। ८३५ ।।
सत्यप्रमोदटीका
व्याहतेरिति । कल्पितः इत्युक्त्या दोषजन्म सादिरिति सिध्यति । पुनरनादिरित्युक्तौ कथं न व्याहतिरिति भावः । उक्तसमस्तं भेदपञ्चकं तस्य पारमार्थिकत्वं च ।। ८३५ ।।
युक्तिमल्लिका
अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।
अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा ।। ८३६ ।।
अनादितोऽपि सुप्तोऽज्ञो जीवो मायावशोऽवशः ।
अप्रबुद्धश्च पूर्वार्धे सुप्रसिद्धोऽभिधीयते ।
उत्तरार्धे त्वजोऽनिद्रस्स्वप्नशून्यश्च कश्चन ।। ८३७ ।।
सुरोत्तमटीका
अधुनाऽद्वैते पराभिलषितेनानादिमाययेति वाक्येनैव द्वैतं साधयति ।। अनादीत्यादिना ।। अवशः परवशः । लोकप्रसिद्धजीवपदे-नैवोक्तत्वात् सुप्तत्वादेश्च तत्रैव प्रसिद्धत्वात्सुप्रसिद्ध इत्युक्तम् । कश्चन पूर्वार्धोक्ताद्विरुद्धः कश्चिदभिधीयत इति सम्बन्धः । अनिद्राऽस्वप्नत्व योस्सुप्त-त्वस्य चैकत्रायोगादिति भावः ।। ८३६,८३७ ।।
सत्यप्रमोदटीका
‘अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।
अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा’
इति श्रुत्या भेदं साधयति अनादितोऽपीति । मायया सुप्तः प्रकृतिबद्धः । यदा प्रबुध्यते इति बन्धध्वंसस्य कादाचित्कत्वोक्तिः । अजं अनिद्रमस्वप्न-मित्यनेन भगवतो नित्यमुक्तत्वं तस्मात् विरुद्धधर्माधिकरणत्वेन भेदस्य सिद्धत्वेन तन्निषेधस्य व्याहतत्वात् द्वैतशब्दस्य द्वैतशब्दोदितद्वन्द्ववर्जित इत्येवार्थः । तथा च श्रुतिः ‘अशनायापिपासे शोकमोहौ जरां मृत्युमत्येति’ इति ।। ८३६-८३९ ।।
युक्तिमल्लिका
स च जन्मादिदूरत्वात्सदा निद्रोज्झितत्वतः ।
अस्वप्नत्वादमायत्वाद्देवो नारायणो भवेत् ।। ८३८ ।।
सुरोत्तमटीका
सः उत्तरार्धोक्तः । देवपदेन आदित्या ऋभवोऽस्वप्ना इति देवपर्यायास्वप्नपदमहिम्ना नारायण एवात्राभिधीयत इति सूचयति । विशिष्य पूर्वार्धोक्तस्यैव मायिकत्वोक्त्या तद्विरुद्धस्योत्तरार्धोक्तस्यार्थादमायत्व-मपि सिद्धमिति भावेनोक्तम् । अमायत्वादिति । अन्यथाऽत्रोक्तानिद्रत्वस्य व्याहतत्वादिति भावः ।। ८३८ ।।
युक्तिमल्लिका
अनादितोऽपि बद्धस्य सदा बन्धोज्झितस्य च ।
भवेद्भेदो यतस्तस्मात्सोऽद्वैतो द्वन्द्ववर्जनात् ।। ८३९ ।।
सुरोत्तमटीका
पूर्वार्धे स्पष्टं बद्धत्वोक्त्योत्तरार्धे सामान्यतो निद्राऽ-भावादिवाचकानिद्रादि पदैर्नित्यमुक्तत्वस्यलाभात् । अनादिकालबद्धस्य सदा बन्धोज्झितस्य चेत्युक्तम् । यतो यस्मात् । विरुद्धधर्माक्रान्तत्वादित्यर्थः । स उत्तरार्धोक्तः नारायणः । औतः द्वन्द्वसमानार्थकद्वैतशब्दोक्तशीतोष्णादि-द्वन्द्ववर्जनादेवाद्वैतपदवाच्यः न तु भेदाभावात् । तथा सत्युक्तविरुद्धधर्म-विरोधादिति भावः ।। ८३९ ।।
युक्तिमल्लिका
यो बोद्धा न स बोध्यो हि कर्तृकर्मविरोधतः ।
अतः पूर्वार्धमध्यस्थो नोत्तरार्धगतोऽपि ते ।
कर्तृकर्मविरोधाख्यसर्पस्ते ह्यप्रतिक्रियः ।। ८४० ।।
सुरोत्तमटीका
किं च तव मते कर्तृकर्मभावविरोधेनैकस्यैव बोध्यत्व-बोद्धृत्वायोगादप्यद्वैतपदस्यास्मदुक्त एवार्थो वक्तव्यो न तु साक्षादैक्यमेवे-त्याह ।। यो बोद्धेति ।। ते मते ।। ८४० ।।
युक्तिमल्लिका
बोध्यब्रह्मैक्यवादास्ते बोद्धृत्वं त्याजयन्ति हि ।
अतो द्वैतपदं चैतन्न जीवैक्यपरं तव ।। ८४१ ।।
सुरोत्तमटीका
इमं न्यायमन्यत्राप्युपदिशति ।। बोध्येति ।। ब्रह्माह-मस्मीत्याद्यैक्यवाक्येष्वपि बोध्येन ब्रह्मणा बोद्धुरपरोक्षतो ज्ञातुर्जीवस्य ये ऐक्यवादाः ते सर्वेऽपि ते तव बोद्धृत्वं शास्त्रस्य पूर्वोत्तरार्थवेत्तृत्वं त्याजयन्ति हीति सम्बन्धः । क्वचिच्छास्त्रकोणे कर्तृकर्मभावस्यैकत्रायोगं वदसि क्वचिच्च तादृशयोरेव जीवब्रह्मणोरैक्यं वदसि । अतः पूर्वोत्तरविरोधादैक्यमेकस्मिन्नपि वाक्ये न वक्तुं शक्यम् । किन्तु विवेकी चेत् अस्मदुक्तविधयैव सकलैक्य-वाक्यानामप्यर्थं वदेति भावः । अतः कर्तृकर्मभावविरोधात् ।। ८४१ ।।
सत्यप्रमोदटीका
औतमित्यस्य भेदरहितमित्यर्थस्तु पररीत्यैवानु-पपन्नः । बुध्यते इति बोधनक्रियायां जीवस्य कर्तृत्वेन ‘अजं’ इति ब्रह्मणश्च कर्मत्वेनोक्तत्वेन कर्तृकर्मभावस्य तन्मते भेदनियतत्वात् । न हि स्वनखाग्रेण स्वनखाग्रमेव छेद्यमुपलब्धमिति सदृष्टान्तं कर्तृकर्मणोरैक्यस्य परेण खण्डनात् ।।
युक्तिमल्लिका
सदा निद्रा स्वप्नजन्म शून्यास्तत्पदवाच्यताम् ।
अर्हन्त्यस्वप्ननाम्नोक्तः किं सुप्तेरुत्थितः पशुः ।। ८४२ ।।
सुरोत्तमटीका
पूर्वं कालविशेषानुक्तेः अजानिद्रादि पदानां सर्वदा-जन्मनिद्राद्य भावार्थकत्वमुक्तम् । इदानीं युक्त्यन्तरेणापि तमेवार्थमुपपादयति ।। सदेति ।। सुप्तेरुत्थितः पशुरस्वप्ननाम्ना उक्तः किं नैवोक्तः । किं तु सदा-स्वप्नवर्जितादेवा एव तत्पदवाच्याः । एवं च तत्प्रायपठिताजानिद्रादि पदा-नामपि सार्वकालिक जन्मनिद्राद्य भाव एवार्थो वक्तव्यः । तस्माद्बोद्धृबोध्यत्व विरोधवदयमपि विरोधोपरिहार्य एवेति भावः ।। ८४२ ।।
सत्यप्रमोदटीका
अविद्ययान्धो जीवः पूर्वार्धोक्तः इत्यविवादम् । तत्प्रतियोगितया अनिद्रपदेनोक्तो विद्यामयोऽस्वप्नो नारायण नित्यमुक्त एव न तु सुप्तोत्थित इत्याह सदेति ।। तथा हि भागवतं
‘योऽविद्ययान्धः स तु नित्यबद्धः
विद्यामयो यः स तु नित्यमुक्तः ।। इति ।। ८४२ ।।
युक्तिमल्लिका
बोध्यं वस्तुप्रशंसन्ती श्रुतिरेतत्परैव सा ।
नामुख्यार्थे बलान्नेया मुख्यार्थं कः परित्यजेत् ।। ८४३ ।।
सुरोत्तमटीका
युक्त्यन्तरं चाह ।। बोध्यमिति ।। एतत्परा सार्व-कालिकनिद्राद्य भावपरा उक्तार्थे लोक सम्मतार्थान्तर विन्यासं करोति ।। मुख्यार्थमिति ।। का च कनकयोर्मध्ये यथाविवेकीकनकमेव गृह्णाति । एवं मुख्यामुख्ययोरर्थयोर्मध्ये शब्दोपि बाधाभावे मुख्यमेवार्थं वदेदिति भावः
।। ८४३ ।।
सत्यप्रमोदटीका
उत्तरार्धं खलु बोध्यस्य ब्रह्मणः प्रशंसापरम् । अजं अनिद्रं इति विशेषणाभ्यां तथाऽवगमात् । अतोऽस्वप्नपदेनापि प्रशंसात्मक एवार्थो बोधनीयः । सदा स्वप्नोपलक्षितसंसृतिदूरत्वमेव तथाभूतम् । न तु स्वप्नोत्थितत्वं पशुसाधारण्यादिति उक्तत्वादित्याह बोध्यमिति । असति मुख्यार्थग्रहणे बाधके, प्रत्युत तत्परित्यागे एव बाधके च सति मुख्यार्थ-परित्यागो दुराग्रहादेवेत्याह बलादिति ।। ८४३ ।।
युक्तिमल्लिका
भेदाभावात्स्वरूपेषु सदृशाभावतोऽपि वा ।
द्वन्द्वाभावाच्च सोऽद्वैतो बोद्धृदैतस्य साधनात् ।। ८४४ ।।
सुरोत्तमटीका
पूर्वोक्तार्थ युक्तीसंकलयन्पुनरर्थद्वयं चाह ।। भेदा-भावादिति ।। सः परमात्मा ।। ८४४ ।।
सत्यप्रमोदटीका
भेदाभावादिति । न विद्यते द्वैतं भेदः यस्मिन्निति व्युत्पत्त्या ‘नेह नानाऽस्ति किञ्चन’ इति श्रुत्युक्तरीत्या स्वगतगुणरूपक्रियाऽ-वयवादिप्रतियोगिकभेदराहित्यं अर्थः । सदृशाभावत इति । न विद्यते द्वैतं सदृशं यस्येति व्युत्पत्त्या ‘न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्य’ इति स्मृत्युक्तं सर्वोत्तमत्वं अर्थः । यद्वा द्वन्द्वशब्दस्य ‘निर्द्वन्द्वो नित्यसत्त्वस्थ’ इति गीतोक्त शीतोष्णादिपरत्वे ‘असङ्गो ह्ययं पुरुषः’ इति श्रुत्युक्तो लेपाभावः अर्थः इत्येवं प्रमाणानुगुणः यथायथं अर्थः स्वीकार्यः । सर्वथा भिन्नद्वितीयवस्तुरहित इत्यर्थस्तु नाङ्गीकारार्हः । पूर्वार्धे एव बोद्धुरत एव भिन्नस्य द्वितीयस्य उक्तेरित्याह बोद्ध्रिति ।। ८४४ ।।
युक्तिमल्लिका
यथाऽधनोयमित्युक्तिस्स्वधनं प्रतिषेधति ।
न याचितधनं स्वस्मिन्गेहे गेहे धनानि वा ।। ८४५ ।।
सुरोत्तमटीका
औतशब्दस्य स्वगतभेदवर्जितत्वमेवार्थो भवेत् । न तु यत्किञ्चिद्भेदवर्जितत्वमित्यत्र निदर्शनमाह ।। यथाऽधन इति ।। याचितधनं अन्यस्माद्याचितधनम् । स्वस्मिन्ननिषेधतीति योजना ।। ८४५ ।।
सत्यप्रमोदटीका
स्वगतभेदराहित्यमर्थं निदर्शनेन द्रढयति यथेति । न विद्यते धनं यस्मिन्नित्यनेन अन्यानधीनतया स्ववृत्तिधनमेव निषिध्यते । याचितं परगेहे विद्यमानं वा न तथाभूतम् । एवं अत्रापीति भावः ।। ८४५ ।।
युक्तिमल्लिका
तथा द्वैतपदं विष्णौ स्वद्वैतं प्रतिषेधति ।
न त्वन्यतो हरेर्द्वैतं नाप्यन्यत्र स्थितं च तत् ।। ८४६ ।।
सुरोत्तमटीका
अन्यतोजीवाज्जडाच्च । अन्यत्र जीवजडेषु । तत् द्वैतम्
।। ८४६ ।।
युक्तिमल्लिका
केवलो निर्गुणस्सोऽयं देवः प्रोक्तो वचोऽन्तरे ।
नित्यमुक्तोऽमृतस्यैष सेतुश्चोक्तस्स्थलेस्थले ।। ८४७ ।।
सुरोत्तमटीका
किं च एकोदेव इत्यादि श्रुतौ हरिर्देवतया नित्यमुक्ततया च वर्ण्यते । तत्समाख्ययाऽत्रापि उत्तरार्धेऽस्वप्नपदोक्तोऽमानाख्य निद्रात्यन्ता भावार्थका निद्रापदोक्तश्च हरिरेव भवेत् । जीवश्च माया बद्धत्वदुःखित्व नर कित्वादिना श्रुत्यादौ कीर्त्यते । तत्समाख्यया जीवपदशक्तया च पूर्वार्धे जीव एवोच्यते । एवं सत्येव हि श्रुत्युक्ताबोद्धृता बोध्यता च शोभते नान्यथा । एवं च प्रतिपाद्य द्वैतस्यैव विद्यमानत्वादुत्तरार्धोक्तं भगवतोऽद्वैतत्वमपि द्विप्रकार-तयेतं ज्ञातं द्वीतं तस्य भावो द्वैतमिति व्युत्पत्त्या द्वैतपदवाच्यमिथ्याज्ञान-राहित्यादेव । अनिद्रपदोक्ता मानराहित्येन सह विपरीतज्ञानराहित्यस्यैव वक्तुं योग्यत्वात् । विरुद्धस्वभावतया सर्वत्र कथनाच्च जीवेश्वर भेदरूपद्वैताभाव-मादायनासावद्वैत इत्याह ।। केवल इत्यादिना ।। ८४७ ।।
सत्यप्रमोदटीका
समाख्याबलाच्च अजादिशब्दानां उक्त एवार्थ इति समाख्योक्तीर्दर्शयति केवल इति प्राकृतदेहरहितः इति अजत्वम् । ‘एको देव’ इति स्वप्नार्थकदिवुधातोर्निष्पन्नः देवशब्दः स्वप्नकर्तारं आह ‘स्वप्नेन शारीर-मभिप्रहृत्या सुप्तः सुप्तानभिचाकशीति’ इति श्रुतेः । तेन अस्वप्न इत्युक्तं अस्वप्नत्वम् । साक्षीति सर्वज्ञत्वोक्त्या अज्ञानराहित्यलक्षणमनिद्रत्वं इति समाख्यात्वं बोध्यम् ।। ८४७ ।।
युक्तिमल्लिका
जीवस्तु बद्धो दुःखी च जन्ममृत्युजरावशः ।
पातकी नारकी चैव श्रुत्यैवोक्तः स्थलेस्थले ।। ८४८ ।।
सत्यप्रमोदटीका
श्रुत्या
‘अहमित्येव यो वेद्यः स जीव इति कीर्तितः ।
स दुःखी स सुखी चैव स पात्रं बन्धमोक्षयोर’
इत्यादिकया । उपलक्षणं साक्षिप्रत्यक्षेणापीति ज्ञेयम् ।। ८४८ ।।
युक्तिमल्लिका
एवं विरुद्धचैतन्यद्वयं भिन्नं ह्यनादितः ।
तयोर्नैक्यं कदापि स्यान्मुक्तः सारूप्यमेत्यसौ ।। ८४९ ।।
सत्यप्रमोदटीका
कदाऽपि मुक्तावपि । सारूप्यं ‘यथोदकं शुद्धे शूद्ध-मासिक्तं तादृगेव भवति एवं मुनेर्विजानत आत्मा भवति गौतम’ इति श्रुतौ तादृगेव न तु तदेव भवतीति निरूपणात् ।। ८४९ ।।
युक्तिमल्लिका
पुनर्जन्म स्वप्नबन्धदुःखाद्यप्रियवर्जनात् ।
नित्यमुक्तोऽनित्यमुक्त इति तत्रापि चान्तरम् ।। ८५० ।।
सुरोत्तमटीका
केन सारूप्यमित्यत आह ।। पुनर्जन्मेति ।। तत्र मुक्तौ ।। ८५० ।।
सत्यप्रमोदटीका
सादृश्यं चैतावदेव न तु अत्यन्तमित्याह पुनर्जन्मेति । ‘सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च’ इति स्मृतेः । बन्धात्यन्ताभाववान् बन्धध्वंसान् इति भेदस्य तत्रापि अनुवृत्तेः । इदमुपलक्षणं अधीनत्वरूप-बन्धस्यापि सद्भावादेवेत्यपि ध्येयम् । तदुक्तं ‘योऽविद्ययान्धः स तु नित्यबद्ध’ इति ।। ८५० ।।
युक्तिमल्लिका
बन्धान्मुक्तस्ततो जीवो नित्यमुक्तः कथं ह्यसौ ।
अतो बोद्धृत्वशून्यैव बोध्यब्रह्मैक्यवाक्तव ।। ७५१ ।।
सुरोत्तमटीका
अतः उक्तरीत्या ब्रह्मैक्यायोगात् ।। ८५१ ।।
सत्यप्रमोदटीका
वाक् सर्वा परबोधनार्था । बोद्धुरेव निषेधे वाचो नैरर्थक्यमेवेत्याह अत इति ।। ८५१ ।।
युक्तिमल्लिका
यदि ब्रह्मैक्यबोद्धा त्वं कथमैक्यं भवेत्तव ।
यदि ब्रह्मैक्यबोद्धा न कथमैक्यकथा तव ।। ८५२ ।।
सुरोत्तमटीका
अत्रोभयतः पाशांरज्जुं करोति ।। यदीति ।। ब्रह्मणो बोध्यत्वेन बोद्ध्रा त्वया सहैक्यायोगादिति भावः । द्वितीयपक्षे मनसा ज्ञातस्यैव वचसा वक्तव्यत्वादिति भावः ।। ८५२ ।।
सत्यप्रमोदटीका
किञ्च त्वं ब्रह्म जानासि न वा । आद्ये कर्तृकर्मभावेन भेदस्यैवसिद्धिः । द्वितीये कथारूपव्यवहारकारणस्य व्यवहर्तव्यज्ञानस्याभावेन कथाया एवानिष्पत्तिरित्याह यदि चेति ।। ८५२ ।।
युक्तिमल्लिका
किं चैक्यं यदि मिथ्या स्यात्तर्हि भेदश्रुतिस्सती ।
विरुद्धश्रुतिदौर्बल्यात्स्वबोध्यं बोधयेद्बलात् ।। ८५३ ।।
सुरोत्तमटीका
अधुनैक्यं मिथ्या सत्यं वा द्वितीयेऽपि ब्रह्मणो भिन्न-मभिन्नं वेति विकल्प्य सर्वपक्षेऽपि दूषणमाह ।। किञ्चेति ।। विरुद्धश्रुति-दौर्बल्यात् मिथ्याभूतार्थकत्वेन स्वविरुद्धैक्यश्रुतेर्दौर्बल्यात्।स्वबोध्यं भेदं बलात्सत्यार्थप्रतिपादकत्वसत्त्वात्।। ८५३ ।।
सत्यप्रमोदटीका
दौर्बल्यात् अप्रामाण्यात् ।। बलात् व्याप्तिबलात् तदुक्तमनुव्याख्याने (४१४)
‘एकस्यासत्यतायां हि द्वयोरेव विरुद्धयोः ।
अन्यस्य सत्यतैव स्यादिति केन निवार्यते’ इति ।। ८५३ ।।
युक्तिमल्लिका
सत्यं चेद्ब्रह्मणो भिन्नमभिन्नं वा निगद्यताम् ।
भेदे तेनैव तेऽद्वैतश्रुतेस्स्याद्व्याहतिस्स्फुटा ।। ८५४ ।।
सुरोत्तमटीका
तेनैव ऐक्येनैव । द्वितीयं नास्तीति श्रुतेर्यत्किञ्चि-द्द्वितीयसद्भावे व्याघातापरिहारात् । सत्यत्वे सदद्वैतभङ्गप्रसङ्गात् । मिथ्यात्वे प्रागुक्तदोषानुषङ्गाच्च ।। ८५४ ।।
सत्यप्रमोदटीका
ऐक्यमित्यनुवर्तते । सत्यं इति पक्षे विकल्पयति भेदे इति । तेनैव ऐक्येनैव । औतश्रुतिः किमपि ब्रह्मणो भिन्नं न इति प्रतिपाद-यति । पुनः तस्माद्भिन्नं ऐक्यं अस्तीति प्रतिपादने व्याहतिः स्फुटा ।।८५४।।
युक्तिमल्लिका
प्रतीयोग्यनुयोगिभ्यां निरूप्यस्यानिरूप्यतः ।
अमतस्य मताच्छास्त्रबोध्यस्य तदबोध्यतः ।। ८५५ ।।
सुरोत्तमटीका
अनिरूप्यतः प्रतियोग्यनुयोग्यनिरूप्यात् । मतात्सर्व-सम्प्रतिपन्नात् । तदबोध्यतस्स्वप्रकाशतया शास्त्राप्रतिपाद्याच्च ब्रह्मणः ऐक्यमिति सम्बन्धः । षष्ठ्यन्तपदत्रयस्य त्वैक्यस्येत्यनेन सम्बन्धः । अमतस्यासम्प्रति-पन्नस्य । कथं स्यात् । न कथञ्चित् । उक्तविधया प्रकारत्रयेण परस्परविरुद्ध-योरैक्यब्रह्मणोरैक्यायोगादिति भावः ।। ८५५ ।।
सत्यप्रमोदटीका
अथैतद्दोषपरिहाराय ऐक्यं ब्रह्मस्वरूपमित्युपेयते इति चेद्विरुद्धधर्माधिकरणत्वात्तदपि न घटते इत्याह प्रतियोगीति । ऐक्यं ब्रह्मणा अभिन्न इत्यत्र ऐक्यं अनुयोगि ब्रह्मप्रतियोगि इत्येवम् । ऐक्यं धर्मिप्रतियोगि-निरूप्यम् । ब्रह्म तु अनिरूप्यम् । ऐक्यं वेदान्तज्ञानात्प्राणमते । ब्रह्म तु स्वप्रकाशतया मतम् । तदबोध्यतः अज्ञेयत्वोपगमात् । इदमुपलक्षणम् । अपर्यायशब्दवाच्यत्वं ह्यन्यतरापरिशेषः इत्यादिकं ग्राह्यम् ।। ८५५ ।।
युक्तिमल्लिका
ऐक्यमैक्यस्य घटते कथं युक्तिविदां मते ।
तवापि न विरुद्धैक्यं लक्षणापेक्षिणः क्वचित् ।। ८५६ ।।
सुरोत्तमटीका
विरुद्धयोरैक्यं तवापि मतं नेत्याह ।। तवेति ।। लक्षणापेक्षिणः सर्वज्ञासर्वज्ञयोर्जीवब्रह्मणोरैक्यायोगेन तत्त्वंपदयोर्जहदजह-ल्लक्षणापेक्षिणः ।। ८५६ ।।
सत्यप्रमोदटीका
‘ऐक्यं तयोर्लक्षितयोर्न वाच्ययोर्निगद्यतेऽन्योन्य-विरुद्धधर्मिणोः’ इति तदुक्तेः ।। ८५६ ।।
युक्तिमल्लिका
विरुद्धांशपरित्यागे न सा जीवेश्वरैकता ।
रुणद्धि शैवश्रुत्युक्ता जीवेश्वरभिदा श्रुतिम् ।
सा चेन्नास्ति तदाभेदश्रुतेः किं प्रतिबन्धकम् ।। ८५७ ।।
सुरोत्तमटीका
नन्वत्रापि सप्रतियोगिकत्वादिविरुद्धधर्मत्यागेनैक्यमुच्यत इति चेत् । तत्राह ।। विरुद्धांशेति ।। जीवप्रतियोगिकत्वब्रह्मानुयोगिकत्व-परित्यागे । सा एकता जीवेश्वरैकता न । सैव जीवब्रह्मणोरेकतैव । एवपदेन मुण्डितां यां काञ्चन एकतां व्यवच्छिनत्ति । जीवब्रह्मणोरैक्यस्यैव सत्यत्वे ब्रह्मस्वरूपत्वे च भेद श्रुतेर्विरोधः । जीवब्रह्मनिरूपितैक्यस्य चाभावे यस्य कस्यचिदैक्यस्यैव सत्यत्वे च जीवब्रह्मणोरेकत्वनिषेधकभेदश्रुतेर्न कोऽपि प्रतिमल्लः । जीवब्रह्मभेदवादिनापि ब्रह्मणि ब्रह्मैक्यस्याङ्गीकारादिति भावः । किं प्रतिबन्धकम् । न किञ्चिदित्यर्थः । न हि यस्य कस्यचिच्चेतनस्य शिष्टत्वं चोरत्वाक्रान्तचेतनशिरश्छेदस्य विरोधीति भावः ।। ८५७ ।।
सत्यप्रमोदटीका
परित्यागे नेति पदच्छेदः । सा चिच्चितोरेकता । सैव जीवेश्वरैकतैव । किमित्याक्षेपे । यत्प्रतिबन्धकं जीवेश्वरैक्यं न स श्रुत्यर्थः । श्रुत्युक्तं चिदैक्या न तत्प्रतिबन्धकं भिन्नविषयकत्वादिति भावः ।। ८५७ ।।
युक्तिमल्लिका
अतो जीवेश्वराभेदो ह्यात्मभिन्नो मृषैव ते ।
यत्किञ्चिदैक्यस्यैक्ये वा सत्त्वे वा न परस्य भीः ।। ८५८ ।।
सुरोत्तमटीका
एतदेव विशदयन्नुक्तार्थे दृष्टान्तावप्याह ।। अत इत्यादिना ।। अतः प्रतियोग्यनुयोगिभ्यामनिरूपितैक्यस्यैव सत्यत्वाद्यङ्गी-कारात् । जीवेश्वराभेदः जीवेश्वरनिरूपिताभेदः ।। ८५८ ।।
सत्यप्रमोदटीका
अतः उक्तभेदकार्याणां निर्विशेषब्रह्मवादिना त्वया निर्वाहयितुमशक्यत्वात् ऐक्यस्य ब्रह्मस्वरूपत्वायोगात् ।। ८५८ ।।
युक्तिमल्लिका
स्वरूपैक्ये सति घटे पटादिभ्यो न किं भिदा ।
स्वरूपैक्ये सति परस्वरूपाद्भिन्नतापि न ।। ८५९ ।।
सत्यप्रमोदटीका
स्वस्य स्वस्वरूपेणैक्यं नान्यप्रतियोगिकं भेदं विरुण-द्धीत्येतन्निदर्शनेन अन्वयव्यतिरेकाभ्यां द्रढयति स्वरूपेति ।। ८५९ ।।
युक्तिमल्लिका
ताभ्यां व्यावर्तितैक्यस्याप्यैक्यपक्षो न शोभते ।
तदेव ह्युपलक्ष्यत्वं न चेच्छुष्कैक्यमापतेत् ।। ८६० ।।
सुरोत्तमटीका
ताभ्यामुपलक्षणभूताभ्यां जीवेश्वराभ्यां व्यावर्तितस्य तवैक्यस्याव्यावर्तित ब्रह्मणैक्यायोगादिति भावः । तदेव व्यावर्त्यत्वमेव । न चेद्व्यावर्त्यत्वमपि न चेत् । शुष्कैक्यमापतेत् । तच्च न विरुद्धमित्युक्तम् ।।८६०।।
सत्यप्रमोदटीका
ताभ्यां जीवेश्वराभ्यां व्यावर्तितं उपलक्षितं यद् ऐक्यं तस्य ब्रह्मणैक्यपक्षोऽपि न शोभते पूर्वं दूषितपक्षानतिरेकात् इत्याह न देवेति धर्मिप्रतियोगिभावेन व्यावर्त्यत्वमेव । न चेत् चिन्मात्रैक्यं चेत् । शुष्कैक्यं सर्वाङ्गीकृतं चिच्चितोरैक्यम् । तच्चाविरुद्धमित्युक्तम् । तदुक्तं अनुव्याख्याने ‘न व्यावृत्त्या प्रयोजनम् । व्यावृत्तस्याविशेषत्वे’ इति ।। ८६० ।।
युक्तिमल्लिका
एवं च कथमैक्यं स्यादव्यावृत्ते परात्मनि ।
व्यावर्त्याव्यावर्त्यताभ्यामेव यत्तौ विरोधिनौ ।। ८६१ ।।
सुरोत्तमटीका
एवं ऐक्यस्य व्यावर्त्यत्वाख्योपलक्ष्यत्वे सति । ऐक्यं तस्यैक्यस्यैक्यम् । तौ ऐक्यपरमात्मानौ ।। ८६१ ।।
सत्यप्रमोदटीका
ऐक्यं ऐक्यब्रह्मणोः ऐक्यम् । धर्मिप्रतियोगिसापेक्षत्व-निरपेक्षत्वाभ्यामेव तौ ऐक्येश्वरौ विरुद्धधर्माधिकरणौ ।। ८६१ ।।
युक्तिमल्लिका
किं चैकं ब्रह्म तद्भावो ह्यैक्यं शब्दविदां मते ।
तयोश्च धर्मधर्मित्वात्कथमैक्यं विरुद्धयोः ।। ८६२ ।।
सुरोत्तमटीका
किञ्च यादृशतादृशमैक्यं भवतु तस्य सत्यत्वं ब्रह्मणैक्यं च तव मते न घटत इत्याह ।। किञ्चेति ।। तयोश्च ऐक्यपरमात्मनोः धर्म-धर्मित्वात् एकस्य धर्मत्वादपरस्य धर्मित्वादित्यर्थः । विरुद्धयोः धर्मधर्मि-भावेनैक्यानर्हयोः ।। ८६२ ।।
सत्यप्रमोदटीका
तद्भावः एकस्य भावः । भावार्थप्रत्ययो हि धर्म-धर्मिभावं आह । स च निर्विशेषैक्यवादे दुर्घट इति भावः ।। ८६२ ।।
युक्तिमल्लिका
एवं च नैक्यमैक्यस्य तदभावेन तत्त्वता ।
अतत्त्वावेदकं शास्त्रममानं तज्जितं परैः ।। ८६३ ।।
सुरोत्तमटीका
ऐक्यं ब्रह्मैक्यम् । तदभावे ऐक्याभावे । तत्तस्मात् ऐक्यप्रतिपादक शास्त्रस्यामानत्वात् ।। ८६३ ।।
सत्यप्रमोदटीका
तदभावे ब्रह्मणैक्याभावे तद्भिन्नत्वे इति यावत् । तत् ऐक्यबोधकाभिमतशास्त्रस्यामानत्वात् ।। ८६३ ।।
युक्तिमल्लिका
विरुद्धैक्ये तु सार्वज्ञपूर्वधर्मा जिजृम्भिरे ।
निर्गुणोक्तेस्तदेकत्वगुणे नाताडयन्मुखम् ।
स्वाभेदसम्भवाद्भिन्नगुणाभावार्थतां ददुः ।। ८६४ ।।
सुरोत्तमटीका
विरुद्धयोरैक्यं परो न वदत्येव । कश्चिदौद्धत्याद्वदति चेत्तस्याप्युत्तरमाह ।। विरुद्धैक्य इति ।। पूर्वपदेन भेदसर्वेश्वरत्वादयो गृह्यन्ते । जिजृम्भिरे स्वमिथ्यात्वकारणाभावाद्विरुद्धयोस्सिंहदेवदत्तयोरिव मुख्यैक्या-योगाच्च विकसिता अभूवन्नित्यर्थः । ननु निर्गुणोक्तिसद्भावात्कथं गुणानां जृम्भणमित्यत आह ।। निर्गणोक्तेरिति ।। तदेकत्वगुणेन तस्य ब्रह्मणः जीवादेकत्वाख्यगुणेन । मायावाद्यभिमत भावरूपैक्याख्य गुणमध्यपतिता-नस्मान्कथं निषेधसीति मुखमुद्रणं चक्रुरिति भावः । अपौरुषेय वाक्यत्वा-द्भिन्नगुणाभावरूपार्थेऽवकाशं ददुरित्याह ।। स्वाभेदेति ।। स्वेषां ब्रह्मणा सहाभेदस्स्वाभेदः । तत्सम्भवात् । निषेधबहिर्भावसम्भवात् । (यद्वा स्वेषा-मैक्यवद्धर्मधर्मिभावेऽप्यभेदसम्भवात् । अभिन्नैक्यानिषेध्यातद्वदस्मद निषेधस्य सम्भवात्)भिन्नगुणार्थतां ददुरित्यन्वयः ।। ८६४ ।।
सत्यप्रमोदटीका
जिजृम्भिरे त्वयैव तदनिराकरणात् । निर्गुणं एकं चेति व्याहतम् । एकत्वगुणेनैव गुणवत्त्वात् । तद्वदेव सार्वज्ञादिगुणवत्त्वस्या-प्युपपत्तेः तथा च ‘एवं धर्मान्पृथक् पश्यंस्तानेवानुविधावती’ति श्रुत्युक्तदिशा धर्माणां सत्त्वं पृथक्त्वाभावः विशेषबलेन धर्मधर्मिभावादिव्यवहारः इत्येव युक्ततममित्याह स्वाभेदेति ।। ८६४ ।।
युक्तिमल्लिका
जडं जगच्च सत्यं स्यात्तदैक्यं चैकतैक्यवत् ।
मिथ्याश्रुतेस्तु भेदेनासत्त्वमर्थोस्त्वभेदिषु ।
तदभावे तु नैक्यस्याप्यैक्यमित्यतिसङ्कटम् ।। ८६५ ।।
सुरोत्तमटीका
तदैक्यं जडजगदैक्यम् । एकतैक्यवत् ऐक्यस्यैक्यवत् । यथा विरुद्धयोरैक्यब्रह्मणोरैक्यमुच्यते तथा जडब्रह्मणोरैक्यमुच्यतामिति भावः। अथवा ऐक्यं तावच्चेतनधर्मत्वान्न चेतनः । तदैक्यवत् अचेतनजगदैक्यमपि कुतो नोच्यत इत्यर्थः । ननु जडस्यापि सत्यत्वे ब्रह्माभिन्नत्वे च मिथ्याश्रुतेः का गतिरित्यत आह ।। मिथ्येति ।। अभेदिषु अभेदवत्सु जडेषु । तदभावे जडजगदैक्याभावे । द्वयोरप्यचेतनत्वाविशेषादिति भावः ।। ८६५ ।।
सत्यप्रमोदटीका
तदैक्यं च सत्यं स्यादित्यनुवर्तते । अयं भावः । ऐक्यं तावद्विरुद्धधर्माधिकरणं जडं च । तादृशस्यापि सत्यत्वं ब्रह्मणैक्यं चेदुपेयते तर्हि जगतोऽप्यविशेषाश्रयाभावोऽभ्युपगम्यतामिति । एवं च सर्वं खल्विदं ब्रह्मेति श्रुतिः सर्वशब्दस्यासङ्कुचितार्थकत्वेनानुकूलिता स्यात् । ‘नेह नानास्ति इति श्रुतिस्तु भिन्नत्वेनासत्त्वं बोधयतु । न चेदैक्यस्य सत्यत्वं ब्रह्मणैक्यं च न स्यादित्युभयथाऽप्यतिसङ्कटमिति ।। ८६५ ।।
युक्तिमल्लिका
यदि चेतनसम्बन्धाच्चितोरैक्यं च चिद्भवेत् ।
तदा जडं जगच्चित्स्यान्न्यायसाम्यान्न चेन्न च ।। ८६६ ।।
सुरोत्तमटीका
चित्सम्बन्धादैक्यस्यापि चित्त्वेऽज्ञानादिजडस्यापि तत्स्यादित्याह ।। यदीति ।। ८६६ ।।
सत्यप्रमोदटीका
नैष दोषः । ऐक्यस्य चित्सम्बन्धित्वेन चित्त्वमेव । अतः तस्य सत्यत्वं ब्रह्मणैक्यं चाविरुद्धमिति चेद्धन्त तर्हि न्यायसाम्या-ज्जगतोऽपि तथाभावाभ्युपगम आपद्यते इत्याह यदीति ।। ८६६ ।।
युक्तिमल्लिका
विरुद्धैक्यं चान्ततस्तत्स्थानैक्ये पर्यवस्यति ।
सविशेषब्रह्मवादे नायं दोषो भविष्यति ।। ८६७ ।।
सुरोत्तमटीका
तर्हि भवतां मतेऽपि सापेक्षभेदसार्वज्ञादिधर्माणां कथं ब्रह्मण्यभेद इत्याशङ्क्य नायमस्माकं दोष इत्याह ।।सविशेषेति।।८६७ ।।
सत्यप्रमोदटीका
स्वमते तत्त्वमस्यादिवाक्यस्य गतिमाह विरुद्धेति । अन्ततः मुख्यार्थासम्भवे अमुख्यवृत्त्या । ‘आनन्दं’ ब्रह्मणः’ इत्यादिकस्यापि गतिमाह सविशेषेति ।। ८६७ ।।
युक्तिमल्लिका
भेदहीनेऽपि भेदस्य कार्यं स कुरुते यतः ।
सतस्सापेक्षभेदस्याप्यभेदो भेदिता च नः ।। ८६८ ।।
सुरोत्तमटीका
सः विशेषः । भेदिता अभेदेऽपि भेदभेदिभाव इत्यर्थः ।। ८३८ ।।
सत्यप्रमोदटीका
भेदिता धर्मधर्मिभावेन भेदव्यवहारः ।। ८६८ ।।
युक्तिमल्लिका
भेदस्य भिन्नतावादी तत्सत्यत्वं वदेद्यदा ।
तदा किं दूषणं तस्य सदद्वैतं यतोऽस्य न ।। ८६९ ।।
निर्विशेषब्रह्मवादे सापेक्षनिरपेक्षयोः ।
जीवैक्यब्रह्मणोरैक्ये दोषस्यास्यास्ति नौषधम् ।। ८७० ।।
सुरोत्तमटीका
भेदस्य भिन्नतावादी तार्किकः । तस्य जगत्सत्य-त्ववादिनः ।। ८६९,८७० ।।
सत्यप्रमोदटीका
भिन्नतावादी भेदिनोर्भिन्नतावादी तार्किकः ।किमिति अपसिद्धान्ताभावेऽपि अनवस्थादोषः वज्रलेप इति भावः।। ८६९,८७० ।।
युक्तिमल्लिका
तस्माद्भेदश्रुतेरग्रे नैक्यश्रुतिशतस्य ते ।
स्वार्थस्य साधने शक्तिः किमुतान्यस्य बाधने ।। ८७१ ।।
सुरोत्तमटीका
तस्मात् उक्तरीत्या ऐक्यस्य विकल्पासहत्वात् । अन्यस्य भेदस्य ।। ८७१ ।।
सत्यप्रमोदटीका
ते श्रुतिशतस्य तव मते मिथ्याभूतस्य श्रुतिशतस्य वन्ध्यासुतवचस इव साधकबाधकत्वायोगात् ।। ८७१ ।।
युक्तिमल्लिका
किं चैकमेवाद्वितीयं नेहनानेति च श्रुतिः ।
सर्वं ब्रह्मेति वा क्व् स्याद्यदिविश्वस्य बाधिका ।। ८७२ ।।
सुरोत्तमटीका
प्रकारान्तरेणाप्यैक्यश्रुतीनां दूषणमाह ।। किं चेति ।। विश्वस्य बाधिका ब्रह्मव्यतिरेकेणासत्त्वरूपमर्थमादाय विश्वमिथ्यात्वपरा स्यादित्यर्थः ।। ८७२ ।।
सत्यप्रमोदटीका
बाधिका मिथ्यात्वप्रतिपादनपरा ।। ८७२ ।।
युक्तिमल्लिका
तदाभेदपरैवाभून्नाभेदपरता श्रुतेः ।
अबाध्यबाध्ययोर्भेदो यतोऽवश्यमपेक्षितः ।। ८७३ ।।
सुरोत्तमटीका
भेदपरा जगद्भेदपरा । कुत इत्यत आह ।। अबाध्य-बाध्ययोरिति ।। ८७३ ।।
सत्यप्रमोदटीका
अबाध्यबाध्ययोः ब्रह्मविश्वयोः । एवं अभेदप्रति-पादनेऽपि भेदोऽवर्णनीयः । तदुक्तं वादावल्याम् । ‘तद्विरुद्धः तद्भिन्नः तदभावो वा नञर्थो वाच्यः । पक्षत्रयेऽपि दुष्परिहरो भेदः । भेदाभाव-ग्राहिणाऽपि प्रतियोगिविलक्षणतया स्वविषयो व्यवस्थाप्यः’ इति ।। ८७३ ।।
युक्तिमल्लिका
जीवभेदे त्वभेदाप्त्या बाध्यत्वाशास्तु वा तव ।
अभेदो यस्य नैव स्यात्तद्भेदः केन बाध्यते ।। ८७४ ।।
सुरोत्तमटीका
नन्वस्ति भेदः सोऽपि व्यावहारिकतया बाध्य इति चेत्तत्राह ।। जीवभेद इति ।। अभेदाप्त्या भेदविरुद्धैक्याप्त्या । तव मते यस्य जडस्य । तद्भेदः जडब्रह्मभेदः । केन कारणेन । तवापि मते मुक्तौ जीवैक्य-प्राप्त्या जीवभेदमात्रस्य बाधोऽस्तु । जडैक्य प्राप्तेरेवाभावात् उक्तरीत्या श्रुतिसिद्धस्य जडभेदस्य ब्रह्मवत्पारमार्थ्यमेवाभूत् । बाधकत्वेनाभिमतत्व-न्महावाक्यानामुक्तरीत्या भेदसाधकत्वस्यैव प्राप्तेरिति भावः ।। ८७४ ।।
सत्यप्रमोदटीका
किं च तिष्ठतु जीवब्रह्मभेदः । जडभेदबाधनस्य तु काऽपि श्रुतिरीष्टे । त्वया जडब्रह्माभेदबोधकत्वस्य कुत्रापि श्रुतावनङ्गीकारात् इत्याह जीवेति ।। ८७४ ।।
युक्तिमल्लिका
विश्वबाधेऽपि विश्वस्माद्यो भेदो ब्रह्मणि स्थितः ।
धर्म्यभिन्नस्य तस्यालं कथं बाधायते श्रुतिः ।। ८७५ ।।
सुरोत्तमटीका
ननु धर्मिणो विश्वस्य बाधे तद्धर्मभूतभेदस्य कथमवशेष इति शङ्कां द्वेधा परिहरति ।। विश्वेति ।। धर्म्यभिन्नस्येति वदता ब्रह्म-व्यतिरेकेणासत्त्वप्रतिपादिकापि श्रुति र्न बाधिकेति सूचयति ।। ८७५ ।।
सत्यप्रमोदटीका
किञ्च भेदमात्रबाधनं नाद्वैतश्रुतेः सम्भवति ब्रह्म-धर्मिकविश्वप्रतियोगिभेदस्य बाधासम्भवादित्याह विश्वेति । तत्र हेतुमाह धर्मिति ।। ८७५ ।।
युक्तिमल्लिका
धर्मिनाशेऽपि भेदोऽयमविनाशी मते तव ।
तद्बाध्यजगतो भेदोऽप्यबाध्यस्स्यात्सुखेन ते ।। ८७६ ।।
सुरोत्तमटीका
तत्तस्मात् । अन्योन्याभावस्य नित्यत्वाङ्गीकारात् । ते मते ।। ८७६ ।।
सत्यप्रमोदटीका
अन्योऽन्याभावस्य त्वया नित्यत्वाङ्गीकाराच्चैवं इत्याह । तवेति ।। ८७६ ।।
युक्तिमल्लिका
अभावद्वैतवादे तेनान्योन्याभावबाधिका ।
श्रुतिरेषा युक्तबाधो युक्तो नायुक्तबाधनम् ।। ८७७ ।।
सुरोत्तमटीका
अस्मिन्पक्षेऽप्यद्वैतवाक्यस्याबाधकत्वं द्वेधोपपादयति ।। अभावद्वैतेति ।। अयुक्तबाधनम् । बाध्याबाध्यभेदस्यावश्यकतया युक्तिविरुद्धं तद्बाधनमित्यर्थः । नहि घटो नास्तीति निषेधतायुक्तिप्राप्तस्तदभावोऽपि निषेद्धुं शक्यत इति भावः ।।८७७ ।।
सत्यप्रमोदटीका
अभावधर्मानाद्वैतं घ्नन्ति इति मण्डनमिश्रमतमनु-रुध्याह ते इति । तादात्म्याभावस्यैव भेदत्वादिति भावः । किञ्च बाध्यत्वा-बाध्यत्वरूपविरुद्धधर्माधिकरणत्वेन उपपत्तिसिद्धः बाध्याबाध्ययोर्भेदो न बाधार्ह इत्याह नेति । अयुक्तं उपपत्तिविरुद्धं च तद्बाधनं चेति विग्रहः ।। ८७७ ।।
युक्तिमल्लिका
न चेज्जीवोऽपि बाध्यस्स्यादतो भेदो न चाल्यते ।
भेदमिथ्यात्वानुमाने ततोऽत्र व्यभिचारिणि ।। ८७८ ।।
सुरोत्तमटीका
न चेत् युक्तबाधनमेव न चेत् । अयुक्तमपि बाधनं क्रियते चेदित्यर्थः । ब्रह्मव्यतिरेकेण किमपि नास्तीति वाक्यस्य जगदभाव-वज्जीवाभावेऽपि न्यायप्राप्तत्वात् । जीवाभावे कस्य मुक्तिस्स्यादिति युक्ति-विरोधेन हि तद्बाधो न क्रियते । तस्मादिहापि नायुक्तबाधनमिति भावः । अतः भेदबाधस्य युक्तिविरुद्धत्वात् । ततः युक्तभेदस्य सत्यत्वात् । अत्राबाध्ये जगतो भेदे ।। ८७८ ।।
सत्यप्रमोदटीका
न चेत् उपपत्तिविरुद्धमपि बाधनमङ्गीक्रियते चेत् । जडवज्जीवस्याप्यसत्त्वे मोक्षाभावः स्यादिति खलूपपत्तिविरोधस्तथा सति वाच्यः । स च त्वयैवाकिञ्चित्करः कृत इति भावः ।। ८७८ ।।
युक्तिमल्लिका
यद्यभेदपरैवेयं श्रुतिस्सर्वा मते तव ।
तदा जगदबाध्यं स्यान्मिथ्यात्वाशा गता तव ।
अबाध्या भेदमापन्नः कथं बाध्यो भविष्यति ।। ८७९ ।।
सुरोत्तमटीका
श्रुतीनां मिथ्यात्वपरत्वे दोषमुक्त्वा ऐक्यपरत्वेऽपि दोषमाह ।। यदीति ।। ८७९ ।।
सत्यप्रमोदटीका
यदीति । उक्तं च परेण ‘सत्त्वाच्चावरणस्ये’ति सूत्रभाष्ये ‘अनन्यदेवकारणात् कार्यमि’त्यवगम्यते । यथा च कारणं ब्रह्म त्रिषु कालेषु सत्त्वं व्यभिचरति एवं कार्यमपि जगत् त्रिषु कालेषु सत्त्वं न व्यभिचरतीति । (भे.प.ब्र.सू.पु.२१८) ।। ८७९ ।।
युक्तिमल्लिका
व्यतिरेकेण चासत्त्वमसत्त्वं चेत्स्मरोदितम् ।
सत्त्वमव्यतिरेकेण यदि तर्हि न बाध्यता ।। ८८० ।।
सुरोत्तमटीका
व्यतिरेकेणासत्त्वं असत्त्वमैक्यं चेत् जगत्सत्यत्व-मापतेदित्युक्तम् । एतद्भिया व्यतिरेकेणासत्त्वम् । असत्त्वं चेत् जगन्मिथ्यात्वं चेत् उदितं तद्भेदसत्यत्वं स्मरेति सम्बन्धः । अव्यतिरेकेण सत्त्वं ऐक्येन सत्त्वमित्यर्थः ।। ८८० ।।
सत्यप्रमोदटीका
व्यतिरेकेणेति । केनापिरूपेण कालत्रयेऽप्यसतः जगतो ब्रह्मव्यतिरेकेणाभावः इति विशेषरूपेण निषेधायोगात् । (भे.प.२१९) यथाकथञ्चिज्जगतो बाधेऽपि तत्प्रतियोगिकस्य ब्रह्मधर्मिकस्य भेदस्य धर्मि-स्वरूपस्य बाधासम्भवादिति दूषणं स्मारयति स्मरेति ।। ८८० ।।
युक्तिमल्लिका
सर्वैक्यं सर्वबाधं वा सेयं श्रौतपदावली ।
वदेज्जीवैकता वार्ता नैषु वाक्येषु शोभते ।। ८८१ ।।
सुरोत्तमटीका
एषु सर्वं ब्रह्मेत्यादिषु । प्रथमपक्षे जगत्सत्यत्वस्थैर्यं द्वितीयपक्षे भेदस्य स्थैर्यम् । एवं च पक्षद्वयेऽपि तव हानिरेव । अतो नेमानि वाक्यानि त्वया पुरस्कर्तव्यानि । त्वदभिलषितजीवमात्रैक्यस्य वार्ताप्यत्र नास्तीति भावः ।। ८८१ ।।
सत्यप्रमोदटीका
श्रौतपदावली । सामानाधिकरण्येन असङ्कुचितजीव-जडात्मकस्य सर्वस्य ब्रह्मैक्यबोधिनी । यद्वा तद्व्यतिरेकेणासत्त्वबोधतात्पर्यकत्वे सर्वस्य बाधबोधिनी । जीवैकतेति सर्वशब्दार्थ विभज्य जीवस्याभेदं, जडस्य बाध्यत्वं इति वार्ता । न शोभते सकृदुक्तः शब्दः सकृदेवार्थमवगमयतीति न्यायविरोधादिति भावः ।। ८८१ ।।
युक्तिमल्लिका
तत्त्वमस्यादिवाक्ये स्यात्कथा तस्याः कथञ्चन ।
नञा छिन्नपदा सान्यैर्न त्वदर्थे पदं क्षिपेत् ।। ८८२ ।।
सुरोत्तमटीका
तस्याः जीवैकतायाः । कथं च नेति वदता श्वेतकेतु-मात्रैक्य प्रतिपादिका स्यात् कथञ्चित् । सा च न त्वदभिलषितसकलजीवैक्य प्रतिपादनायालमिति सूचितम् । अन्यैः तत्ववादिभिः । पदं तदिति पदम् ।।
सत्यप्रमोदटीका
कथा वार्तामात्रम् । कथञ्चन श्वेतकेतुजीवमात्रैक्य-बोधकत्वेन । ‘अतत्त्वमसीति नवकृत्वोपदेशः सदृष्टान्तकः’ इति तत्त्व-निर्णयोक्तिं हृदि कृत्वाऽऽह नञेति । छिन्नपदापदच्छेदे कृते सति । अन्यत्र छिन्नपादेति ध्वनिः ।। ८८२ ।।
युक्तिमल्लिका
तन्महावाक्यराशेस्ते मिथ्यात्वैक्यपरत्वयोः ।
भेदस्य सत्यता विश्वसत्यता वा भवेद्ध्रुवम् ।। ८८३ ।।
सुरोत्तमटीका
तत्तस्मात्कारणात् ।। ८८३ ।।
सत्यप्रमोदटीका
मिथ्यात्वपरत्वे मिथ्यासत्ययोः भेदसत्यत्वम् । ऐक्यपरत्वे ब्रह्मवत्सत्यत्वं इति विवेकः ।। ८८३ ।।
युक्तिमल्लिका
जीवैक्यमात्रवाक्प्रायः श्रुतौ न श्रूयते क्वचित् ।
सर्वस्यैक्ये मृषात्वे वा नोक्तदोषद्वयौषधम् ।। ८८४ ।।
सुरोत्तमटीका
प्राक्सूचितमर्थं विशदयति ।। जीवेति ।। जीवैक्यमात्र-वाक् सकलजीवैक्य प्रतिपादकवाक् तत्त्वमसि, अहं ब्रह्म सोऽहमस्मीत्यादि-वाक् तस्य तस्यैकैकजीवस्यैवाभेदमात्रे त्वयापि वक्तुं शक्यते । जडजगदसङ्गृह्य सर्वजीवांश्च सङ्गृह्य तवापेक्षितमैक्यं न कापि श्रुतिर्वक्तीति भावः ।। ८८४ ।।
सत्यप्रमोदटीका
मात्रेति जडप्रपञ्चाज्जीवान् पृथक्कृत्य तन्मात्रेत्यर्थः
।। ८८४ ।।
युक्तिमल्लिका
क्वचिज्जीवैक्यवाक्तत्तद्धर्माणां सत्यतां दिशेत् ।
विशिष्टैक्येन चेन्मिथ्याभूतधर्मभिदां दिशेत् ।। ८८५ ।।
सुरोत्तमटीका
सर्वैक्यप्रतिपादकवाक्येषूक्तदोषं एकजीवैक्यप्रतिपादक-वाक्येऽप्यतिदिशति ।। क्वचिदिति ।। कोण इत्यर्थः । तत्तद्धर्माणां तस्य जीवस्य तस्य ब्रह्मणश्च धर्माणाम् । विशिष्टैक्ये सर्वज्ञत्वाल्पज्ञत्वादिविरुद्धधर्म-विशिष्टयोरैक्ये । न चेत् विशिष्टैक्यं न चेत् । विरुद्धधर्माणां मिथ्यात्वमुक्त्वा चिन्मात्रैक्यमुच्यते चेदित्यर्थः ।। ८८५ ।।
सत्यप्रमोदटीका
परेणानङ्गीकृतत्वेऽपि सम्भावितत्वेन विकल्पः । सत्यतां दिशेत्
‘निर्दोषश्रुतिसाक्षिभ्यां प्रमिते ब्रह्मजीवयोः ।
सर्वशक्त्यल्पशक्तित्वे मिथ्येति च न युज्यते’
इत्युक्तदिशेति भावः । न चैवं विरुद्धधर्माधिकरणत्वयुक्तिविरोधः । अभेद-श्रुत्या युक्तेराभासीकरणात् । न चेदिति । धर्माणां मिथ्यात्वमुक्त्वा चिन्मात्रैक्यमुच्यते चेदित्यर्थः ।। ८८५ ।।