अथ हैनं कहोलः कौषीतकेयः पप्रच्छ

अथ कहोळब्राह्मणम्

उपनिषत्

अथ हैनं कहोलः कौषीतकेयः पप्रच्छ । याज्ञवल्क्येति होवाच । ।यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तमेव मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः कतमो याज्ञवल्क्य सर्वान्तरो योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति ।

एतं वै तमात्मानं विदित्वा ब्राह्मणः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति ।

या ह्येव पुत्रैषणा सा वित्तैषणा । या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः । तस्मात् ब्राह्मणः पांडित्यं निर्विद्य बाल्येन तिष्ठासेद् । बाल्यं च पांडित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः स ब्राह्मणः केन स्याद्येन स्यात् तेनेदृश एवातोऽन्यदार्तम् । ततो ह कहोलः कौषीतकेय उपरराम ॥ १ ॥

॥ इति कहोलब्राह्मणम् ॥ ५ ॥

भाष्यम्

देव साक्षादिति पुनः प्रश्नो मुक्तानामपि भगवतो भेदोऽस्तीति ज्ञाप - यितुम् । यदेव ब्रह्म तदन्ये ब्रह्मरुद्रादयो मुक्ता अपि यन्नैव  भवन्ति कदाचन । तमे मे व्याचक्ष्व मुक्तजीववैलक्षण्येन सहेति द्वितीय एव शब्दार्थः ।

भावबोधटिप्पणी

ननु यदुषस्तेन पृष्टं तदेव कहोलोऽपि पृच्छति । तदयुक्तम् । जनसंसद्येव याज्ञवल्क्येन प्रेरकत्वाज्ञेयत्वादिभगवल्लक्षणस्योक्तत्वेन उत्तरस्य जातत्वादित्यत आह- यदेवेति । एतेन किञ्चिद्विशेषकथनाय पूर्वोक्तप्रश्नप्रतिवचनयो-रनुवादोऽयमिति व्याख्यानमपहस्तितम् । तस्य गत्यन्तराभाव एवाऽश्रयणीयत्वात् । ननु कथमनेन वाक्येनायमर्थो ज्ञायते । अवधारणद्वयबलादिति चेन्न । तस्य य एवाऽत्मा उषस्तेन पृष्टस्तमेवाहं पृच्छामीति विद्यैक्यद्योतनार्थत्वादिति चेन्नः। विद्यैक्ये ब्राह्मणभेदानुपपत्तेरिति भावेन तद्वयाचष्टे - यदेव ब्रह्मेति ॥ यदेवेत्येवकारव्यावर्त्यकथनं तदन्य इति । ननु यदेव ब्रह्म नत्वन्यदिति ज्ञापनाय यदेव साक्षादपरोक्षाद्ब्रह्म तं मे व्याचक्ष्वेत्येतावता पूर्तेर्द्वितीय एवशब्दो व्यर्थ इत्यत आह- मुक्तजीववैलक्षण्येनेति । द्वितीय एवशब्दार्थ इति । आत्मस्वरूपापेक्षया द्वितीयो मुक्तवैलक्षण्यरूप एवशब्दार्थ इत्यर्थः । यद्वा बुद्ध्या विवेकेन यो द्वितीयएवशब्दस्तस्यार्थ इत्यर्थः । तं मे व्याचक्ष्वेत्येवोक्ते वस्तुगत्या यदेव ब्रह्म नत्वन्ये तं तत्स्वरूपं व्याचक्ष्वेति परमात्मस्वरूपस्यैव प्रश्नविषयत्वं स्यान्न मुक्तवैलक्षण्यस्य । अन्यथा साक्षादपरोक्षत्वादीनामपि प्रश्नविषयत्वापत्तेः । तथाच परिहारे मुक्तवैलक्षण्योक्तिरसङ्गता स्यात् । अत एवकारः प्रयुक्तः । तथाच तमेव न स्वरूपमात्रं किन्तु इतरव्यावृत्तं मुक्तवैलक्षण्यसहितमिति प्रश्नवाक्यार्थ इति भावः ।

Load More