नैवेह किञ्चनाग्र आसीत् मृत्युनैवेदमावृतमासीद् ..
- नैवेह किञ्चनाग्र आसीत् मृत्युनैवेदमावृतमासीद् अशनाया हि मृत्युस्तन्मनोऽकुरुतात्मन्वी स्यामिति । सोऽर्चन्नचरत् तस्यार्चत आपोऽजायन्तार्चतो ह वै मे कमभूदिति तदेवार्कस्यार्कत्वं कंह वा अस्मै भवति य एवमेतदर्कस्यार्कत्वं वेद ॥ १ ॥
- आपो वा अर्कस्तद्यदपांशर आसीत् तत्समहन्यत । सा पृथिव्यभवत् । तस्यामश्राम्यत् । तस्य श्रान्तस्य तप्तस्य तेजो रसो निरवर्तताग्निः ॥ २ ॥
- स त्रेधाऽऽत्मानं व्यकुरुतादित्यं तृतीयं वायुं तृतीयं अग्निं तृतीयम् । स एष प्राणस्त्रेधा विहितस्तस्य प्राची दिक् शिरोऽसौ चासौ चेर्मावथास्य प्रतीची दिक् पुच्छमसौ चासौ च सक्थ्यौ दक्षिणा चोदीची च पार्श्वे, द्यौः पृष्ठमन्तरिक्षमुदरमियमुरस्स एषोऽप्सु प्रतिष्ठितो यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥३॥
- सोऽकामयत द्वितीयो म आत्मा जायेतेति स मनसा वाचं मिथुनं समभवदशनायां मृत्युस्तद्यद्रेत आसीत् स संवत्सरोऽभवन्न ह पुरा ततः संवत्सर आस तमेतावन्तं कालमबिभर्यावान् संवत्सरस्तमेतावतः कालस्य परस्तादसृजत । तं जातमभिव्याददात् स भाणमकरोत् सैव वागभवत् ॥ ४ ॥
- स ऐक्षत यदि ह वा इमभिमंस्ये कनीयोऽन्नं करिष्य इति स तथा वाचा तेनात्मनेदं सर्वमसृजत यदिदं किञ्चर्चो यजूंषि सामानि च्छन्दां सि यज्ञान् प्रजाः पशून् । स यद्यदेवासृजत तत्तदत्तुमध्रियत सर्वं वा अत्तीति तददितेरदितित्वं सर्वस्यैतस्यात्ता भवति सर्वमस्यान्नं भवति य एवमेतददितेरदितित्वं वेद ॥ ५ ॥
- सोऽकामयत भूयसा यज्ञेन भूमो यजेयेति । सोऽश्राम्यत् स तपोऽतप्यत तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत् । प्राणा वै यशो वीर्यं तत्प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत तस्य शरीर एव मन आसीत् ॥ ६ ॥
- सोऽकामयत मेध्यं म इदं स्यादात्मान्व्यनेन स्यामिति । ततोऽश्वः समभवत् यदश्वत् तन्मेध्यमभूदिति तदेवाश्वमेधस्याश्वमेधत्वम् । एष ह वा अश्वमेधं वेद य एनमेवं वेद ॥ ७ ॥
- तमनवरुध्यैवामन्यत । तं संवत्सरस्य परस्तादात्मन आलभत । पशून् देवताभ्यः प्रत्यौहत् । तस्मात् सर्वदैवत्यं प्रोक्षितं प्राजात्पत्यमालभन्त । एष ह वा अश्वमेधो य एष तपति तस्य संवत्सर आत्माऽयमग्निरर्कस्तस्येमे लोका आत्मानस्तावेतावर्काश्वमेधौ । सो पुनरेकैव देवता भवति मृत्युरेव अप पुनर्मृत्युं जयति नैनं मृत्युराप्नोति मृत्युरस्यात्मा भवत्येतासां देवतानामेको भवति ॥ ८ ॥
नैवेह किञ्चनाग्र आसीत् मृत्युनैवेदमावृतमासीद् ..
बृहदारण्यकोपनिषद्भाष्यम्
अश्वमेधब्राह्मणम्
नैवेह किञ्चनाग्र आसीत् मृत्युनैवेदमावृतमासीद् अशनाया हि मृत्युस्तन्मनोऽकुरुतात्मन्वी स्यामिति । सोऽर्चन्नचरत् तस्यार्चत आपोऽजायन्तार्चतो ह वै मे कमभूदिति तदेवार्कस्यार्कत्वं कंह वा अस्मै भवति य एवमेतदर्कस्यार्कत्वं वेद ॥ १ ॥
सर्वसंहारकं विष्णुं देवीं जीवांस्तथैव च । कालं त्रिगुणसाम्यं च कर्माणि प्राणमिन्द्रियम् ॥ संस्कारं चैव वेदांश्च नर्ते किञ्चिल्लये त्वभूत् ॥ इति ब्रह्मतर्के ।
लयकाले परमात्मनैवावृतमासीत् ।
अशनं जगदेतद्यन्नयत्यात्मेच्छया हरिः । अशनाया ततः प्रोक्त उदन्या कर्मनामकः ॥ इति ब्राह्मे ।
अन्यत्र नेतृत्वप्रतीतावपि श्रुतिप्रसिद्धेः स एव नेतेत्याह अशनाया हि मृत्युरिति ॥ तत्तत एव मनोऽकुरुत यतः स्वयमेवासीन्नान्यत् । आत्मवान् स्यामित्यैच्छत् । शरीरवान् त्स्यामिति । अप्सृष्ट्यर्थं मनोऽकुरुत ।
ऐच्छद्विष्णुरदेहः सन् देहवान्त्स्यामिति प्रभुः । यतो देह इदं सर्वं तस्य विष्णोरदेहिनः ॥ तद्वशत्वात् स्वयं देवश्चिदानन्दशरीरकः । सोऽत्मानमर्चन्नचरदप्सृष्ट्यर्थं जनार्दनः ॥ यत्कुर्वन् यत्सृजेदीशस्तद्भवेद्धि तदात्मकम् । अतोऽर्चतो यतो जाता आपोऽतोऽर्चनसाधनाः ॥ अन्यथा कर्तुमीशोऽपि क्रीडया तत्तदात्मकम् । कर्तुं तत्तत्प्रवृत्तिः संस्तत्करोति स्वयं प्रभुः ॥ इति ब्रह्माण्डे ।
मे सर्वाहेयस्य विष्णोः ।
अस्मच्छब्दगतैर्विष्णुर्वाच्यः सप्तविभक्तिभिः । सर्वाहेयत्वतस्त्वेकः सर्वस्य प्रतियोगितः ॥ युष्मच्छब्दाभिधेयश्च तच्छब्दैश्च परोक्षतः । स एव बहुरूपत्वाद् बहुशब्दाभिधानवान् ॥ जीवेस्थितेन रूपेण हृद्गतेन द्विधोच्यते । भिन्नोऽपि सर्वजीवेभ्यः सर्ववस्तुभ्य एव च ॥ पूर्णानन्दादिरूपस्य कुतोऽल्पसुखिनैकता ॥ इति ब्रह्मतर्के ।
उदकं सुखहेतुत्वात् कमित्येवाभिधीयते । तदेव ह्यर्चतो जातमतोऽर्क इति कीर्त्यते ॥ इति व्यासनिरुक्ते ।
अर्चतो जातं सुखसाधनं चेत्यर्क इत्यर्थः । कं सुखमस्मै भवति ।
अपां हि सुखहेतूनां वेद विष्णोर्जनिं हि सः । स मुक्तः सुखभागेव स्याद्विष्णोस्तु प्रसादतः ॥ इति माहात्म्ये ॥ १
आपो वा अर्कस्तद्यदपांशर आसीत् तत्समहन्यत । सा पृथिव्यभवत् । तस्यामश्राम्यत् । तस्य श्रान्तस्य तप्तस्य तेजो रसो निरवर्तताग्निः ॥ २ ॥
अर्कशब्दस्यादित्ये प्रसिद्धत्वादप्शब्दोऽपि तत्रेत्याशङ्कां निवर्तयितुमापो वा अर्क इति पुनर्वचनम् । नादित्येऽर्कशब्दः किन्त्वप्स्वेवार्कशब्द इत्यर्थः । शरो मण्डः ।
फेनरूपस्तु यो मण्डो जलस्यासौ सुसंहतः । पृथिवीत्वं समापन्नस्तस्यां शिश्ये जनार्दनः ॥ ततः स चिन्तयामास स्यादग्निरिति देवराट् । तच्चिन्तनात् समुत्पन्नो वायुरग्न्यभिधानवान् ॥ अग्रजत्वादग्रणीत्वाद्वायोरग्नित्वमिष्यते ॥ इति प्रवृत्ते ॥
शक्तिविस्रंसने चापि शयने चापि कीर्तितः । श्रमशब्दो हरेर्नैव शक्तिविस्रंसनं क्वचित् ॥ अतो हरेः श्रमो नाम शयनं सम्प्रकीर्तितम् ॥ इति ब्रह्मतर्के ।
तस्यामश्राम्यदिति साधिकरणत्वाच्च शयनं युक्तम् । न हि पृथिव्यां श्रमो नामान्तःकरणधर्मो युज्यते । अधिकरणपरम्पराकल्पनं च क्लिष्टकल्पनम् ।
सृष्ट्वा स पृथिवीं विष्णुः शेतेऽनन्तेऽब्धिमध्यगः । तस्यां पृथिव्यां श्वेताख्ये द्वीपे मुक्तैरुपासिते ॥ इति मुक्तिसंहितायाम् ।
तप्त आलोचनायुक्तस्तस्मात् कार्र्यार्थकामना । तप्तता तु हरेरुक्ता कुतो दुःखं हरेः प्रभोः ॥ इति ब्रह्मतर्के ।
तेजोरसः जगतः सामर्थ्यसारभूतः ॥ २ ॥
स त्रेधाऽऽत्मानं व्यकुरुतादित्यं तृतीयं वायुं तृतीयं अग्निं तृतीयम् । स एष प्राणस्त्रेधा विहितस्तस्य प्राची दिक् शिरोऽसौ चासौ चेर्मावथास्य प्रतीची दिक् पुच्छमसौ चासौ च सक्थ्यौ दक्षिणा चोदीची च पार्श्वे, द्यौः पृष्ठमन्तरिक्षमुदरमियमुरस्स एषोऽप्सु प्रतिष्ठितो यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥३॥
वायुरग्निरिति प्रोक्तो ह्यग्रणीत्वादथाङ्गिनाम् । नेतृत्वाददनाच्चापि तस्य स्रष्टा जनार्दनः ॥ स वायुर्वायुरूपेण जगत्पाति शरीरगः । आदित्यस्थेन रूपेण जगद्याति प्रकाशयन् ॥ अग्निस्थेन तु रूपेण हूयते सर्वयष्टृभिः । आदाय यात्यायुरिति स एवादित्य उच्यते ॥॥ तत्सम्बन्धात्तु तन्नाम सूर्यस्याग्नेस्तथैव च । स एष कूर्मरूपेण वायुरण्डोदके स्थितः ॥॥ विष्णुना कूर्मरूपेण धारितोऽनन्तधारकः । अस्य पादा हि चत्वारो ह्यण्डोदे कोणसंस्थिताः ॥ उरस्तु भूमिसंश्लिष्टमतिरिच्य भुवं पुनः । पार्श्वतः पृष्ठतश्चैव शिरश्चोदकसंस्थितम् ॥ आकाशमुदरे तस्य द्यौः पृष्ठे संस्थिता विभोः । एवंविद्वांस्तु यत्रैति तत्रैव प्रतितिष्ठति ॥ इति प्रभञ्जने ।
स्थानेच्छा चेत् तत्रैव प्रतितिष्ठति । उपास्ते कूर्मरूपं यो वायुं संस्थितिमाप्नुयात् । इच्छया विनिवृत्तिं वा लोकं चावृत्तिवर्जितम् ॥ इत्यध्यात्मे ।
स एष प्राणस्त्रेधा विहित इति वचनाच्च वायुः । बिभर्त्यण्डं हरिः कूर्मस्त्वण्डे चाप्युदकं महत् । उदके कूर्मरूपस्य वायुः पुच्छं समाश्रितः ॥ वायोः पुच्छं समाश्रित्य शेषस्तु पृथिवीमिमाम् । बिभर्ति तस्यां च जगदिदं सर्वं प्रतिष्ठितम् ॥ इति वैभवे ।
वायोस्तु कूर्मरूपस्य पूर्वतश्चोदके मुखम् । आग्नेयेशानगौ बाहू पादौ निर्ऋतिवायुगौ ॥ इति प्रकृष्टे ॥ ३ ॥
सोऽकामयत द्वितीयो म आत्मा जायेतेति स मनसा वाचं मिथुनं समभवदशनायां मृत्युस्तद्यद्रेत आसीत् स संवत्सरोऽभवन्न ह पुरा ततः संवत्सर आस तमेतावन्तं कालमबिभर्यावान् संवत्सरस्तमेतावतः कालस्य परस्तादसृजत । तं जातमभिव्याददात् स भाणमकरोत् सैव वागभवत् ॥ ४ ॥
आत्मा, ब्रह्मा मे द्वितीयो जायेतेत्यकामयत । वायुरेव ब्रह्मा भवतीति दर्शयितुं वायोः सृष्टिः प्रथममुक्ता ।
वायुरेव यतो ब्रह्मपदं नियमतो व्रजेत् । सहैव जननेऽप्यस्मात्पूर्वं वायोर्जनिं वदेत् । क्वचित्तु ब्रह्मणः पूर्वं प्राधान्यात् तत्पदस्य च ॥ इति ब्रह्मतर्के ।
आत्मा विरिञ्चः सुमनाः सुधौतश्चेति कथ्यते । ब्रह्मा चतुर्मुखश्चेति पूर्वजो यः प्रजापतिः ॥ इति शब्दनिर्णये ।
स मनसा स्वेच्छया वाचं श्रियं देवीं मिथुनं समभवत् । मम द्वितीयो जायेत ब्रह्मेति भगवान् परः । वेदाभिमानिनीं देवीं श्रियं समभवत् प्रभुः ॥ स्वेच्छयैव यतः शक्तिस्तां विनाऽपि हरेः सदा । ततः संवत्सरो नाम ब्रह्मा समभवत् प्रभोः ॥ तं गर्भमुदरे बिभ्रद्यावत्संवत्सरं रमा । तं जातमत्तुं स्वमुखं विदार्य पुरुषोत्तमः ॥ श्रुत्वा रावं पुनस्तस्य व्यदधात् सृष्टये प्रभुः ॥ इति कारणविवेके ।
बिन्दुलोपेनाशनाया मृत्युरित्यर्थः । अशनाया हि मृत्युः इत्युक्तम् । सर्वाशननेतेत्यर्थे बिन्दुः । आधिक्येऽधिकमिति सूत्रात् । सम्यगात्मनो वत्सभूतान् देवादीन् रमयतीति संवत्सरः ।
ब्रह्मणो भाणिति वचो निःसृतं भयतो मुखात् । तस्याभिमानिनी देवी तदैवोत्था चतुर्मुखात् ॥ वागीश्वरीति तामाहुर्वाचं चापि सरस्वतीम् ॥ इति भावतत्त्वे ।
तदभिमानित्वात् सैव वागित्युच्यते । भारूपो णरूपश्चेति भगवान् भाण् । तद्व्यञ्चकत्वाद् भणनं वाक् ॥ ४ ॥
स ऐक्षत यदि ह वा इमभिमंस्ये कनीयोऽन्नं करिष्य इति स तथा वाचा तेनात्मनेदं सर्वमसृजत यदिदं किञ्चर्चो यजूंषि सामानि च्छन्दां सि यज्ञान् प्रजाः पशून् । स यद्यदेवासृजत तत्तदत्तुमध्रियत सर्वं वा अत्तीति तददितेरदितित्वं सर्वस्यैतस्यात्ता भवति सर्वमस्यान्नं भवति य एवमेतददितेरदितित्वं वेद ॥ ५ ॥
अभिमंस्ये लीनं करिष्ये चेत् ।
मानं ज्ञानं लयश्चैव मर्यादा चैव कथ्यते । उत्पादनं च सङ्ख्यानं बलं च क्वचिदुच्यते ॥ इति शब्दनिर्णये ।
वेदाभिमानिनः सर्वास्तथा यज्ञाभिमानिनः । गायत्र्यामसृजद् ब्रह्मा स्वभार्यायां प्रजास्तथा ॥ इति प्रकाशिकायाम् ।
यद्यद्ब्रह्माऽसृजत् पूर्वं तत्तदत्ति जनार्दनः । अदितिर्नाम तेनासौ भगवान् पुरुषोत्तमः ॥ उपास्ते यः परं देवमेवमत्तीति सर्वदा । स्वयोग्यतानुसारेण सर्वात्ताऽसौ भवत्युत ॥ ब्रह्मरुद्रसुपर्णानां सर्वात्तृत्वं विशेषतः । प्रायेणात्तृत्वमिन्द्रादेरन्येषां दर्शनादिकम् ॥ बहुलस्येति योग्यत्वभेदादत्तृत्वमिष्यते ॥ इति मान्यसंहितायाम् ।
आत्मनो यादृशा भोगा भोक्तुं योग्या हि तादृशान् । भोक्ता विष्णुरिति ध्यायेत् सर्वात्तृत्वं हरेः स्मरेत् ॥ देवतानां च सर्वेषां सर्वात्तिध्यानमिष्यते ॥ इति प्रवृत्ते ॥ ५ ॥
सोऽकामयत भूयसा यज्ञेन भूमो यजेयेति । सोऽश्राम्यत् स तपोऽतप्यत तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत् । प्राणा वै यशो वीर्यं तत्प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत तस्य शरीर एव मन आसीत् ॥ ६ ॥
इच्छतो विष्णुयजनं ब्रह्मणः साधनास्मृतेः । श्रमात् तापाच्च देहं तं त्यक्तुमिच्छा बभूव ह ॥ इच्छया चाप्युदक्रामत् प्राणैः सह पितामहः । यशोवीर्यनिमित्तत्वात् प्राणास्तन्नामकाः स्मृताः ॥ अत्यल्पे चापि सञ्जाते श्रमेऽपि न तदिच्छया । तापे प्राणा निःसरन्ति सा च क्रीडा विभोः स्मृता ॥ बृंहमाणं शरीरं तु पुनर्दृष्ट्वा पितामहः । प्रवेष्टुं तच्छरीरं च कामयामास स प्रभुः ॥
सोऽकामयत मेध्यं म इदं स्यादात्मान्व्यनेन स्यामिति । ततोऽश्वः समभवत् यदश्वत् तन्मेध्यमभूदिति तदेवाश्वमेधस्याश्वमेधत्वम् । एष ह वा अश्वमेधं वेद य एनमेवं वेद ॥ ७ ॥
पुनस्तस्मिन् प्रवेशाय शवरूपस्य मेध्यताम् । ऐच्छत् तेनैव देही स्यामिति तस्मिन् विवेश च ॥ तस्मिन् प्रविश्य स ब्रह्मा द्वितीयं वपुरग्रहीत् । दृष्ट्वोपायं महायज्ञेऽथाश्वाकारं पितामहः ॥ श्वैतीभावात् परं यस्मात् तज्जज्ञेऽतोऽश्वनामकम् । यदर्थं श्वेततामाप तद्देहो मेध्यतामपि ॥ अश्वमेधः स यज्ञोऽभून्नाम्ना तेन तदा कृतः । श्वैतीभावं गते देहे पुनर्मेध्ये यतः स्थितः ॥ अतोऽश्वमेधनामाऽसौ ब्रह्मा शुभचतुर्मुखः । अश्वो भूत्वा यतो मेध्यः सोऽभवत् तेन वा स्मृतः ॥ मेधो यज्ञः समुद्दिष्टो याज्ञीयं मेध्यमुच्यते । शुद्धं मेध्यमथापि स्यादेवंविद्योऽश्वमेधवित् ॥
तमनवरुध्यैवामन्यत । तं संवत्सरस्य परस्तादात्मन आलभत । पशून् देवताभ्यः प्रत्यौहत् । तस्मात् सर्वदैवत्यं प्रोक्षितं प्राजात्पत्यमालभन्त । एष ह वा अश्वमेधो य एष तपति तस्य संवत्सर आत्माऽयमग्निरर्कस्तस्येमे लोका आत्मानस्तावेतावर्काश्वमेधौ । सो पुनरेकैव देवता भवति मृत्युरेव अप पुनर्मृत्युं जयति नैनं मृत्युराप्नोति मृत्युरस्यात्मा भवत्येतासां देवतानामेको भवति ॥ ८ ॥
॥ इति अश्वमेधब्राह्मणम् ॥ २ ॥
तमश्वरूपमात्मानमनिवारितवद्विभुः । चारयामास रूपेण तदन्येन पुमात्मना ॥ सर्वस्मिन् भुवने चाब्दं तदन्ते परमात्मने । स्वस्मिन् स्थिताय सङ्कल्प्य यज्ञ आलभतात्मवान् ॥ अजादिकान् पशूनन्यदेवस्थपरमात्मने । कर्तृत्वेन पशुत्वेन यत्फलं तदशेषतः ॥ मम स्यादिति मन्वानः सोऽश्वरूपमधारयत् । अबुद्धिपूर्वमरणात् स्वर्गश्चापि पशोर्भवेत् ॥ ज्ञानपूर्वमृतेः पुंसः किमु वक्तव्यमित्यजः । एवं सूर्योऽप्यश्वमेधनामा संवत्सराभिधः ॥ सूर्ये स्थितो यतो ब्रह्मा ह्यश्वमेधाभिधः स्वयम् । सूर्ये ततत्वात् सूर्यात्मा ब्रह्मासौ परिकीर्तितः ॥ अग्नौ स्थितो यतः सोऽर्कस्तस्मादग्निरितीर्यते । ब्रह्मातता यतो लोकास्तदात्मानस्ततो मताः ॥ ब्रह्मसूर्याग्निलोकेषु व्याप्तैका देवता हरिः । तादृशं नृहरिं ज्ञात्वा पुनर्मृत्युं जयन्नसौ ॥ सदैव वर्तते ब्रह्मा पुनर्मृत्युर्मृतिः स्मृता । नैनं मृत्व्यात्मको मृत्युः प्राप्नोति हरिसेवनात् ॥ यस्मान्नृसिंहो मृत्योश्च मृत्युरात्माऽस्य वै भवेत् । आततत्वात् तथात्तृत्वादात्मासौ ब्रह्मणः स्मृतः ॥ आदानादात्तनिर्माणादात्तज्ञानात् तथैव च । एतासां देवतानां च ब्रह्मेशत्वेन वर्तते ॥ नृसिंहस्य सदा ज्ञानाद्ध्यानाच्च तदनुग्रहात् ॥ इति महासंहितायाम् ।
भूयःशब्दः पूर्णत्ववाची । परमेश्वरं परिपूर्णं यजेयेति । अश्वदित्यश्वोऽभवत् तदेव रूपं मेध्यं यज्ञ आलभनीयं चाभवदित्यश्वमेधः । तमनवरुध्येवामन्यतेत्यादिवाक्यशेषादश्वभावः प्रतीयते । अश्वद् बृंहितं पश्चान्मेध्यं चाभूद्यस्य शरीरं सोऽश्वमेध इति च । निरोधमकृत्वा चारयिष्यामीत्यमन्यत । स्वेच्छयैव स्वरूपान्तरत्वादश्वरूपस्य ॥