यथा सोम्यैकेन मृत्पिण्डेन
[ मृत्पिण्डादिदृष्टान्ताश्च भेदानुकूलिनः भवन्ति ]
भाष्यम्
'यथा सोम्यैकेन मृत्पिण्डेन' इति सदृशविज्ञानेन सदृशान्तरं विज्ञातं भवतीत्युक्तम् । लोहमणिनेति मणिशब्दात्प्रधानविज्ञानेना- प्रधानं सर्वं विज्ञातं भवतीति ।
भावबोधटिप्पणी
स्यादेतत् । ‘सर्वं खल्विदं ब्रह्म' इति सर्वस्य प्रपञ्चस्य ब्रह्मात्मैकत्वमुक्त्वा तत्कथमित्याकाङ्क्षायां, ‘तज्जलान्' इति 'शान्त उपासीत' इति ' तज्जत्वात्तल्लत्वा- त्तदनत्वात्' इति सर्वस्य ब्रह्मोपादानत्वं प्रागुक्तम् । उपादानत्वं च न परिणामित्वेन । निर्विकारत्वश्रुतिविरोधात् । किन्तु जगदारोपाधिष्ठानत्वेन । यथा शुक्तिकायाः रजतारोपाधिष्ठानत्वम् । तद्वज्जगतो ब्रह्मोपादानत्वं प्रपञ्चयितुं षष्ठस्य पूर्वार्धः प्रवृत्तः । तत्र श्वेतकेतुं प्रत्युद्दालकेन उत ‘तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतम् अविज्ञातं विज्ञातम्' इत्येकस्य ब्रह्मणो ज्ञानेन सर्वस्य ज्ञानं भवतीत्युक्तम् । न तद्युक्तं अन्यज्ञानेनान्यज्ञानस्य क्वाप्यदर्शनाद् इत्यभिप्रायेण 'कथं नु भगवः स आदेशो भवति' इति श्वेतकेतुनाऽऽक्षिप्ते कार्यस्य उपादानादनन्यत्वान्नानुपपत्तिरित्याशयवतोद्दालकेन मृत्पिण्डादिदृष्टान्ताः कथिताः । तस्य चायमर्थः । एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृण्मयं घटादिकं मृदात्मकत्वाविशेषाद् विज्ञातं भवेदित्यादि । तथाच ब्रह्मातिरिक्तस्य जगतो मिथ्यात्वं षष्ठाद्यार्धस्य निश्चितम् । तत्कथं पूर्वार्धविरुद्धभेदपरत्वं उत्तरार्धस्योच्यते । किन्नाम तस्मादुहैवं वित् यद्यपि चण्डालयोच्छिष्टं प्रयच्छेदात्मनि हैवास्य तद्वैश्वानरे हुतं स्यात् इत्युक्तार्थस्योपपत्तये सर्वजीवानां ब्रह्मणाऽभेद एवोत्तरार्धेन प्रतिपाद्यत युक्तमिति । मैवम् । सादृश्यप्राधान्याभ्यामेवैकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तत्रैव मृत्पिण्डादिदृष्टान्तानामुक्तत्वेन उत्तरार्धस्य भेदपरत्वाङ्गीकारे पूर्वार्ध- विरोधाभावात् । ननु सादृश्यस्यैवात्र हेतुत्वेन विवक्षितत्वे दृष्टान्तत्रयं व्यर्थमिति
चेत्, विकारमिथ्यात्वस्य हेतुत्वेन विवक्षायामपि वैयर्थ्यं सममेव । दुर्गमत्वात्तत्वस्यानेकदृष्टान्तोपादानमिति चेत् सममस्मन्मतेऽपि । अस्ति चात्र विवक्षाविशेष इत्याह- यथेत्यादिना ॥ विकारविकारिणोरभेदाभावेऽपीत्यपिशब्देन द्योतयति । ननु प्रधानवाचक-पदाभावात्प्रधानविज्ञानेनेति कथमुक्तम् इत्यत उक्तम्– मणिशब्दादिति ।। लोहप्रधानसुर्वणविज्ञानेनाप्रधानं सर्वं तदन्यत् लोहमयमित्यर्थः- भवतीतीति । उक्तमित्यनुवर्तते ॥