जनको ह वैदेह आसाञ्चक्रे
षष्ठोऽध्यायः
अथ षडाचार्यब्राह्मणम्
[ याज्ञवल्क्यं प्रति जनकस्य उपसत्तिः ]
उपनिषत्
जनको ह वैदेह आसाञ्चक्रे । अथ ह याज्ञवल्क्य आवव्राज । तं होवाच याज्ञवल्क्य किमर्थमचारीः पशूनिच्छन्नण्वन्तानिति उयुभयमेव सम्राड् इति होवाच ॥ १ ॥
भाष्यम्
अणुर्भगवांस्तद्विषयान्निर्णयान् वक्तुं वा ।
भावबोधटिप्पणी
आगतानामृषीणां मध्ये यो ब्रह्मिष्ठस्तस्य गुरुत्वेन वरणाय हि तद्विवेकार्थमृषिभिः कथा कारिता जनकेन । कथया च याज्ञवल्क्यः श्रेष्ठो निश्चितस्तदनन्तरं जनको याज्ञवल्क्यं गुरुत्वेन वव्रे चेत्याहानेनाध्यायेन । यद्वा, पञ्चमाध्याये विद्यापरीक्षाहेतुभूतया विजिगीषुकथया ब्रह्मस्वरूपं निर्धारितम् । इदानीं गुरुशिष्ययोर्याज्ञवल्क्यजनकयोः वादरूपकथया ब्रह्मस्वरूपनिर्धारणायायमध्यायः प्रवर्तते । पशूनिच्छन् अण्वन्तानित्युभयमेव सम्राळिति होवाचेत्येतत् पशूनण्वन्तानित्युभयमिच्छन् इति योजनया याज्ञवल्क्यवचनमिति प्रतीयते । तदयुक्तम् । याज्ञवल्क्यस्य स्वयं ज्ञानित्वेनान्यस्मादण्वन्तेच्छाभावादित्यतः पशूनिच्छन्नण्वन्तानित्येतज्जनकस्यैव वाक्यमिति सूचयन्नपेक्षिताध्याहारेणा- ऽण्वन्तानित्येतद् व्याचष्टे– अणुरिति । तद्विषयानित्यनेनाणोरन्ता अण्वन्ता इति विग्रहः षष्ठी च कर्मणीत्युक्तं भवति । अन्तानित्यस्यार्थो निर्णयानिति वक्तुं चेति शेषोक्तिः ।