स यत्रायमात्मा बल्यं न्येत्य सम्मोहमिव ..

बृहदारण्यकोपनिषद्भाष्यम्

शारीरब्राह्मणम्

स यत्रायमात्मा बल्यं न्येत्य सम्मोहमिव न्येत्यथैनमेते प्राणा अभिसमायन्ति । स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति । स यत्रैव चाक्षुषः पुरुषः परांग् पर्यावर्ततेऽथारूपज्ञो भवति ॥ १ ॥

सर्वेषां बलकारित्वाद् बल्यो विष्णुः प्रकीर्तितः । तं यदा प्राप्य जीवात्मा मृतेः पूर्वं विमुग्धताम् ॥ याति विष्णुं तदा देवा यान्ति तेजःस्वरूपिणः । तानादाय हरिश्चक्षुःस्थानाद्धृदयमाव्रजेत् ॥ तदा न किञ्चिज्जानाति जीवो ब्रह्मसमाश्रितः ॥ इति च ॥

एनं बल्यमभिसमायान्ति । पराक् स्थितश्चाक्षुषो भगवान् प्रत्यक्परावर्तते । इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन् पुरुषः इत्यादिश्रुतेः ॥

एकीभवति न पश्यतीत्याहुरेकीभवति न जिघ्रतीत्याहुरेकीभवति न रसयत इत्याहुरेकीभवति न वदतीत्याहुरेकीभवति न शृणोतीत्याहुरेकीभवति न मनुत इत्याहुरेकीभवति न स्पृशतीत्याहुरेकीभवति न विजानातीत्याहुस्तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वाऽन्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनुत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति सविज्ञानो भवति स विज्ञानमेवान्ववक्रामति तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च ॥ २ ॥

हृदये संस्थितो जीवो विशेषेण हरिस्तथा । चक्षुरादिषु रूपाणि जाग्रत्काले तयोः सदा ॥ बहूनि सन्ति तान्येव यदैकीभावमाप्नुयुः । हृदयस्थेन रूपेण तदा जीवो न किञ्चन ॥ जानातीति विदुः प्राज्ञास्तदा विष्णोः स्वतेजसा । द्योतते हृदयाग्रं च तेन द्वारेण केशवः ॥ निष्क्रामेज्जीवमादाय प्राण एनमनुव्रजेत् । प्राणमन्ये तथा देवा विद्या कर्म च योग्यता ॥ इति महामीमांसायाम् ॥

कर्माभिमानी गरुडो ब्रह्मा ज्ञानाभिमानवान् । पूर्वप्रज्ञा योग्यता स्याद्रमा तदभिमानिनी ॥ एतेऽपि विष्णुं गच्छन्तमनुयान्ति सदैव हि । वायुर्ज्ञानात्मकश्चैव प्राणात्मक इति द्विधा ॥अनुयाति हृषीकेशं सर्वैर्देवैः समन्वितः ॥ इति च ॥

देवलोके चिरं रत्वा यस्तु मुक्तिं व्रजिष्यति । स तु तद्देवताद्वारेणोत्क्रामति न संशयः ॥ विष्णोर्लोकं परं गच्छन्नुत्क्रामेन्मूर्ध्न एव तु । तथैव ब्रह्मणो लोकं सुषुम्नाया विभेदतः ॥ इत्यध्यात्मे ॥

सविज्ञानो भवति । जीवेन सहितो भवति । सविज्ञानं जीवमेवान्ववक्रामति । जीवमारुह्य गच्छति भगवान् प्राज्ञेनात्मनाऽन्वारूढ इति ह्युक्तम् । यो विज्ञाने तिष्ठन् य आत्मनि तिष्ठन् इत्युभयोर्जीवाभिप्रायेण हि पाठः । शारीरश्चोभयेऽपि हि भेदेनैनमधीयते इति भगवद्वचनम् । विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र इति च ॥

एष आत्मा निष्क्रामतीति जीवांगीकारे शरीरं निहत्याविद्यां गमयित्वाऽन्यन्नवतरं कल्याणतरं रूपं कुरुते इत्यादिकमयुक्तं स्यात् । न हि जीवः शरीरं निहत्याविद्यां गमयति रूपान्तरं वा करोति । न च सर्वमयत्वं जीवस्य । ब्रह्मेति विशेषणाच्च ॥

तद्यथा तृणजलायुका तृणस्यान्तं गत्वा अन्यमाक्रममाक्रम्यात्मानमुपसंहरत्येवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वाऽन्यमाक्रममाक्रम्यात्मानमुपसंहरति ॥ ३ ॥

यथा तृणजलूकैवं भगवान् पुरुषोत्तमः । जीवस्य सूक्ष्मरूपं तु प्राप्य स्थूलं परित्यजेत् ॥ इदं शरीरं भूतेषु विलापयति केशवः । अविद्यां चैव जीवस्य गमयेज्ज्ञानसर्जनात् ॥

तद्यथा पेशस्करी पेशसो मात्रामुपादायान्यन्नवतरं कल्याणतरं रूपं तनुत एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वा अन्यन्नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वाऽन्येषां वा भूतानाम् ॥ ४ ॥

स्वर्णकारो यथा स्वर्णमलमग्नौ निहत्य च । शुद्धेन तेन चात्मेष्टं कुरुते रूपमंजसा ॥ एवं स भगवान् विष्णुर्जीवस्वर्णस्य यन्मलम् । अविद्याकामकर्माद्यमात्माग्नौ नाश्य सर्वकृत् ॥ स्वेच्छया कुरुते रूपं यद्योग्यं तस्य मुक्तिगम् । पितृजीवस्य पित्र्यं स गान्धर्वं तस्य चैव हि ॥ दैवं तु देवजीवस्य प्राजापत्यं प्रजापतेः । ब्रह्मणो ब्राह्ममेवेति नित्यानन्दस्वरूपकम् ॥ न योग्यतां विना क्वापि पूर्वप्रज्ञाश्रुतेः क्वचित् । यदा मुक्तो भवेद् ब्रह्मा तदा ब्रह्मा स मुख्यतः ॥ एवं प्रजापतिश्चैव तथैवान्येऽपि सर्वशः । यथा हि स्वर्णरूप्याद्यं मलहानौ हि तद्भवेत् ॥ पूर्वं तु योग्यतामात्रं द्विजत्वं बालके यथा ॥ इत्यादि च ।

न ह्यमुक्तानां कल्याणतरत्वम् । न च मृगादीनां कल्याणत्वमपि । मरणमात्रं चेदत्रोच्यते तदा कल्याणतरमिति विशेषणं व्यर्थमेव स्यात् । पूर्वोक्तश्रोत्रियावृजिनाकामहतदेवादीनां चात्रोक्तिः । पूर्वाननुभूतत्वान्नवतरं च भवति ।

अल्पतेजस्तथैवाल्पं जीवरूपं हि संसृतौ । तथैव सुमहत्तेजः करोति भगवान् महत् ॥ अतो नवतरं चैतद्ब्रह्मादीनां करोत्यजः ॥ अन्येषां वा भूतानां मनुष्यादीनाम् । नासुरादीनां भविष्यतीति च ।

मयं तु मानुषं स्वर्णं पीतं गान्धर्वमेव च । इंद्रगोपनिभं नाम्ना जाम्बूनदमिति स्मृतम् ॥ दैवं चामीकरं नाम प्रोद्यदादित्यसन्निभम् । नैजो विशेषः स्वर्णानामेतेषां सर्वदैव च ॥ नाग्न्यादिनापि समतां यान्ति तानि कथञ्चन । एवं मानुषगन्धर्वपितृदेवाः प्रजापतिः ॥ ब्रह्मेति क्रमशो जीवा विशिष्टा उत्तरोत्तरम् । स्वभावेनैव मुक्तानां स्वभावो व्यक्तिमाव्रजेत् ॥ इत्यादि च ।

स यत्राणिमानं न्येति तस्य ह वै तस्य हृदयस्याग्रं प्रद्योतते तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वा विमुक्ताः तेनैति ब्रह्मवित् पुण्यकृत्तैजसश्च इत्येवमादेश्च मुक्तविषयमेवैतत् । मुक्तविषयत्वेन चैतत्प्रकरणं सूत्रयामास भगवान् । तदोकोग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् इत्यादिना ।

न चान्या मुक्तिरस्तीत्यत्र किञ्चिन्मानम् । सोऽश्नुते सर्वान् कामान् ब्रह्मणा विपश्चिता । एतमानन्दमयमात्मानमुपसङ्क्रम्येमांल्लोकान् कामान्नी कामरूप्यनुसञ्चरन् ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाच स तत्र पर्येति जक्षन् क्रीडन् रममाणः स य एवंविदेवं पश्यन्नेवं मन्वानस्तस्य सर्वेषु लोकेषु कामचारो भवति स एकधा भवति त्रिधा भवति

पञ्चधा सप्तधा पुनश्चैकादश स्मृतः

न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत् कामयते तत्तत्सृजते

यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम ॥

तदा विद्वान् पुण्यपापे विधूय निरंजनः परमं साम्यमुपैति

परं भूयःप्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥

न वर्तते यत्र रजस्तमस्तयोः सत्वं च मिश्रं न च कालविक्रमः । न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ॥

श्यामावदाताः शतपत्रलोचनाः पिशंगवस्त्राः सुरुचः सुपेशसः ॥

इत्यादिश्रुतिस्मृतीतिहासपुराणेषु तेषां निर्गुणमुक्तिविषयत्वेन प्रसिद्धेष्वेव स्थलेषु मुक्त्यनन्तरं भोगोक्तेश्च ।

अशरीरक्रिया गौणदेहादेस्ते ह्यभावतः । चिदानन्दशरीरादेः सदेहाद्या विमोक्षिणः ॥ अनिन्द्रिया अनाहारा अनिष्पन्दा सुगंधिनः ॥ इत्यादेश्च ।

स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयोः वायुमयः आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयस्सर्वमयस्तद्यदेतदिदंमयोऽदोमय इति यथाकारी यथाचारी तथा भवति साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा भवति पापः पापेनाथो खल्वाहुः काममय एवायं पुरुष इति स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते ॥ ५ ॥

मयट् प्राचुर्ये स्वरूपे च ।

आत्माऽयमाततत्वाद्धि ब्रह्म पूर्णगुणत्वतः । दूरस्थत्वात् स इत्युक्तः समीपस्थो ह्ययं स्मृतः ॥ पूर्णज्ञानस्वरूपत्वाद् विज्ञानमय ईर्यते । सर्वमन्तृस्वरूपत्वात् स एवोक्तो मनोमयः ॥ बलपूर्णस्वरूपत्वात् स प्राणमय ईरितः । सर्वद्रष्टृस्वरूपत्वाच्चक्षुर्मय इतीर्यते ॥ सर्वश्रोतृस्वरूपत्वात् स श्रोत्रमय ईरितः । सर्वाधारात् सुगन्धत्वात् पृथिवीमय उच्यते ॥ सर्वतृप्तिकरत्वाच्च विष्णुरापोमयः स्मृतः । सर्वकर्तृस्वरूपत्वाच्छ्रुतो वायुमयो हरिः ॥ अवकाशप्रदातृत्वादाकाशमय ईर्यते । पूर्णतेजःस्वरूपत्वात् तेजोमय उदाहृतः ॥ सृष्ट्यादीच्छास्वरूपत्वात् स्मृतः काममयो हरिः । सर्वदुष्टप्रतीपत्वात् स हि क्रोधमयो मतः ॥ सुखादिधर्मरूपत्वाज्ज्ञेयो धर्ममयः प्रभुः । अप्राकृतस्वरूपत्वादनेतन्मय एव च ॥ अपार्थिवो हरेर्गन्धो न तृप्तिश्चाप्यबात्मिका । नाग्नेयं तस्य तेजोऽपि न च वायुर्बलं हरेः ॥ श्रोत्राद्या नास्य चाकाशो मनस्तत्त्वं न तन्मनः । बुद्धितत्त्वं न तद्बुद्धिर्नाहमस्याहमुच्यते ॥ महदात्मकं न तच्चितं प्रकृतिर्नास्य चेतना । प्रकृत्यादिगुणा यस्मात् तद्गुणप्रतिबिम्बकाः ॥ अतः सर्वमयो विष्णुः सर्वाद्यत्वादतन्मयः । चिदानन्दात्मकास्तस्य गुणाः सर्वगुणात्मकाः ॥ सर्वदाऽतः सर्ववैलक्षण्यमेषां प्रकीर्तितम् । क्रोधः क्षमात्मको यस्य चिदानन्दात्मकस्तथा ॥ अन्यक्रोधसमः क्रोधस्तस्य विष्णोः कथं भवेत् । एवं सर्वगुणास्तस्य सर्वेभ्योऽपि विलक्षणाः ॥ पूर्वप्रज्ञानुसारेण विमुक्तस्तमुपेष्यति । अनादिकालसम्बद्धा या प्रज्ञा विष्णुसंश्रया ॥ पूर्वप्रज्ञेति सा प्रोक्ता ब्रह्मादेस्तारतम्यतः ॥ इत्यादि महामीमांसायाम् ।

वर्तमानं यतो विष्णोर्वशे तस्मादिदम्मयः । अतीतानागतं यस्मात् तद्वशेऽतो ह्यदोमयः ॥ प्राधान्ये च मयट् प्रोक्तः स्वरूपे च यतो भवेत् । इदंरूपोऽप्यदोरूपस्ततो नित्यत्वतो हरिः ॥ अस्य तस्य प्रधानस्य नित्यपूर्णबलत्वतः ॥ इत्यादि च ।

यथा पूर्वं तथेदानीमिति विष्णुस्तदुच्यते । यथा बाह्ये तथैवान्ते ततो यदिति चोच्यते ॥ यथेदानीं तथा नित्यं यस्मादेष भविष्यति । अत एतदिति प्रोक्तो वासुदेवो जगत्पतिः ॥ स यथा करोति पुरुषं तथैवायं भविष्यति । साधुर्भवति साधुं चेत् करोति पुरुषोत्तमः ॥ पापो भवति पापं चेत् स करोति जनार्दनः । तत्प्रेरितेन पुण्येन पुण्यो भवति मानवः ॥ तत्प्रेरितेन पापेन तथा पापः पुमान् भवेत् । आहुश्च तत्कामाधीनं जीवमेनं सदैव हि ॥ तत्कामादस्य कामः स्याद्यथाकामस्तथा भवेत् । कामानुसारिणी निष्ठा कर्मनिष्ठानुसारतः ॥ फलं कर्मानुसारेण विष्णोः काममयस्ततः । जीवोऽयं सर्वदैव स्यान्नान्यथा तु कथञ्चन ॥ इत्यादि च ।

जीवेश्वराभेदांगीकारे सुषुप्त्युत्क्रान्त्योर्भेदेन इति सूत्रविरोधः । प्राज्ञेनात्मनाऽन्वारूढः प्राज्ञेनात्मना सम्परिष्वक्तः इत्यादि श्रुतिविरोधश्च । न च व्यावहारिकभेदो नाम कश्चिदस्तीत्यत्र किञ्चिन्मानम् । भ्रान्तिभेदत्वे श्रुतिसिद्धत्वमेव न स्यात् । न हि निर्दोषश्रुतिवाक्यसिद्धं भ्रान्तमिति युक्तम् । उन्मत्तवाक्यवत् सर्ववेदस्याप्रामाण्यप्रसक्तेः । न च स्वविषयस्य भ्रमत्वादन्यदप्रामाण्यं नाम किञ्चित् । तन्मते ह्युन्मत्तवाक्यविषयस्याप्यनिर्वचनीयत्वमेव

सत्यः सो अस्य महिमा गृणे शवः । त एते सत्याः कामाः इत्यादिश्रुतिभिर्भगवद्गुणानां सत्यत्वमेव ज्ञायते । सत्यमेनमनुविश्वे मदन्ति रातिं देवस्य गृणतो मघोनः इति सर्वजीवानां भगवदनुजीवनं च सत्यमित्येवोच्यते । तदा कथं जीवभेदस्यासत्यता । न च सर्वविध्यर्थक्रियासिद्धस्य कुत्रचिद् बाधो दृष्टः । न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत् कामयते तत्तत्सृजते इति मुक्त्यनन्तरमपि तदधीनत्वप्रतीतेश्च । न भेदस्यासत्यता । न हि संसारावस्थायामक्षीणकर्मता भवति । न च मुख्यार्थं परित्यज्यामुख्यो युक्तः । अतः सत्य एव भेदः । स भगवान् यथाकारी तथा कारयति यथाचारी यथा चारयति तथा भवति । स भगवान् यथा कामो भवति तथा कामो जीवो भवति । इत्थं कामोऽस्य भूयादिति भगवदिच्छावशादस्य कामो भवतीत्यर्थः । क्रतुरितीत्थं करिष्याम्येवेति निश्चयरूपः कामः । स भगवदिच्छया हि भवति । कामेन मे काम आगात् इति च श्रुतिः ॥

तदेष श्लोको भवति ।

तदेव सक्तः सह कर्मणैति लिंगं मनो यत्र निषिक्तमस्य ।

प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् ॥

तस्माल्लोकात् पुनरेत्यस्मै लोकाय कर्मण इति नु कामयमानोऽथाकामयमानो योऽकामो निष्काम आप्तकामः आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येति ॥ ६ ॥

अयोग्यकामराहित्यान्मुक्तो निष्काम उच्यते । अ इत्युक्तः परो विष्णुस्तत्कामोऽकाम ईरितः ॥ तथा कामयमानः स योग्यकामस्य चापि तु । कादाचित्कसमुद्भूतेर्भगवत्कामनां विना ॥ कामितस्याखिलस्याप्तेराप्तकामश्च मुक्तिगः । चिदानन्दात्मकं रूपं कामत्वेन भविष्यति ॥ यतस्तेनैवाप्तकाम इति मुक्तोऽभिधीयते । मुक्तस्य न पुनः प्राणा उत्क्रामन्ति कदाचन ॥ जीवोऽपि ब्रह्मशब्दोक्तो जडाद्गुणबृहत्वतः । प्राप्नोति परमं ब्रह्म प्रलये प्रलये सदा ॥ मअन्यदा स्वेच्छया विष्णोः स्वरूपाद् बहिरेष्यति । स्वेच्छयाऽन्तर्बहिर्वैवं रमते मुक्त आत्मवान् ॥ इत्यादि च ।

न चामुक्तस्य कथञ्चिदाप्तकामता मुख्यतः ।ब्रह्माप्येतीतिवचनात् पूर्वब्रह्मशब्दो जीववाच्येव । यद्यज्ञाननाशात् परिज्ञानमात्रं तदा स्वस्य ब्रह्मतां विजानातीत्येव स्यात् । न तु ब्रह्माप्येतीति । न हि राजपुत्रः पूर्वमात्मानमजानन् पश्चाद् राजपुत्र इति विज्ञाय राजपुत्रमप्येतीत्युच्यते । किन्तु राजपुत्रत्वेनात्मानं व्यजानादित्येवोच्यते । विस्मृतकण्ठमणिरपि विज्ञात इत्येवोच्यते न तु प्राप्त इति । अतः पूर्वब्रह्मशब्दो जीववाच्येव ॥

तदेष श्लोको भवति ।

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।

अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति ॥

तद्यथाऽहिर्निलयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेतेऽथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः ॥ ७ ॥

अथ मर्त्योऽमृतो भवति । अथ मुक्त्यनन्तरं न कदाचिन्मृतिरस्य भविष्यतीत्यर्थः । मुक्त एव परे ब्रह्मणीच्छया प्रविशति निःसरति च । दर्शनादीन् ब्रह्मणो भोगांश्च करोति । स्वरूपभूताः कामा मुक्तानां भवन्तीत्यतो हृदि श्रिता इति विशेषणम् । हृदयस्यैव मोचनात् तत्स्थाः कामा मुक्तानामपगच्छन्तीति युक्तमेव । न ह्यमुक्तस्य कदाचित् सर्वे कामा मुच्यन्ते । सुप्त्यादावप्यभिभव एव वासनाया विद्यमानत्वात् । वासनाया हि पुनरुद्भवः ॥

यावद्विमुच्येत् पुरुषस्तावत् कामा हृदि श्रिताः । चित्ताभावाद्विमुक्तस्य स्युः कामास्तद्गताः कुतः ॥ स्वरूपभूतचित्तेन कामाद्याः स्युः सुखात्मकाः । दुःखात्मकाः प्राकृता वा मुक्तानां न कथञ्चन ॥ इति ब्रह्मतर्के ॥

अयं जीवोऽथ मुक्त्यनन्तरमेवाशरीरो भवति । अमृतः कदाऽपि न मृतः । प्राणाख्यं परब्रह्मैव । कतम एको देव इति प्राण इति । स ब्रह्मेत्याचक्षते इत्यादिश्रुतेः । तेज एव च । तेज इति श्रीः ॥

अन्येषाममृतत्वं तु भवेद् विष्णोः प्रसादतः । नित्यामृतः स भगवान् श्रीश्च नान्यः कथञ्चन ॥ इति नारदीये ॥

प्राणस्तु भगवान् विष्णुः सर्वनेतृत्वतो विभुः । तेजस्तु सर्वतेजस्त्वाच्छ्रीरेव समुदाहृता ॥ इति च ॥

तदेते श्लोका भवन्ति ।

अणुः पन्था विततः पुराणो मां स्पृष्टोऽनुवित्तो मयैव ।

तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वो विमुक्ताः ॥ ८ ॥

तत्प्राप्तेः सुखहेतुत्वात् पन्था इति हरिः श्रुतः । अणुश्च विततश्चासौ यतोऽन्तर्बहिरेव च ॥ श्रिया स्पृष्टः श्रीपतित्वादनु वित्तस्तथैव च । तस्य प्रसादात् संयान्ति तल्लोकं सर्वमोक्षिणः ॥ ऊर्ध्वः स भगवान् सर्वविशिष्टो यत्सदैव हि ॥

तस्मिञ्च्छ्लुक्लमुत नीलमाहुः पिंगलं हरितं लोहितं च ।

एष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित् पुण्यकृत् तैजसश्च ॥ ९ ॥

रूपमाहुः पञ्चविधं तस्य विष्णोर्महात्मनः ॥ शुक्लं तु वासुदेवाख्यमनिरुद्धं तु नीलकम् । संकर्षणं पिंगलं च प्रद्युम्नं हरितं स्मृतम् ॥ नारायणं लोहितं स्यात् पञ्चरूपाण्यजे हरौ । पञ्चभेदविभिन्नो यस्त्वभिन्नोऽपि स्वरूपतः ॥ स पन्था ब्रह्मणा ज्ञातः पद्मजेनैव सन्ततम् । परब्रह्मस्वरूपज्ञो महातेजः श्रियस्तथा ॥ सम्यक्स्वरूपविज्ञानात् तैजसत्वेन कीर्तितः । भगवत्कर्मकर्तृत्वात् पुण्यकृच्चाभिधीयते ॥ एवंविधोऽपि तस्यैव प्रसादाद्याति तां गतिम् । अतः पन्थास्समुद्दिष्टो भगवान् केशवः स्वयम् ॥ स्वगताखिलभेदेन विहीनोऽपि स सर्वदा । सर्वेषां व्यवहाराणां भेदोत्थानां स ईश्वरः ॥ अभिन्नोऽपि ह्यतो भिन्नः पञ्चभेदादिना मृषा ॥

अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते ।

ततो भूय इव ते तमो य उ विद्यायां रताः ॥ १० ॥

अन्यथोपासका येऽस्य ते यान्ति ह्यधरं तमः ॥ ततः किञ्चिद्विशेषेण दुर्ज्ञानस्याविनिन्दकाः । सम्यगाचार्यवचनमवज्ञाय विरोधिनि ॥ सत्वबुद्धिं यतः कुर्युरतस्तेऽधिकपापिनः । अप्राप्तत्यागिनः प्राप्तनिष्ठाहीनो हि दोषवान् ॥

अनन्दा नाम ते लोका अन्धेन तमसाऽऽवृताः ।

तांस्ते प्रेत्याभिगच्छन्त्यविद्वांसो बुधो जनाः ॥ ११ ॥

नित्यदुःखस्वरूपत्वादनन्दं तत्तमो मतम् । बोधके विद्यमानेऽपि ये विदुर्न परं हरिम् ॥ तेऽपि यान्ति तमो घोरं नित्योद्रिक्तासुखात्मकम् ॥ इत्यादि च ।

बुधः सकाशेऽप्यविद्वांस इत्यर्थः ।

बोधनाज्ज्ञानवान् भुत् स्यात् तत्सकाशाच्च ये हरिम् । न विदुस्ते तमो यान्ति सर्वदुःखात्मकं परम् ॥

आत्मानं चेद्विजानीयादयमस्मीति पूरुषः ।

किमिच्छन् कस्य कामाय शरीरमनुसंज्वरेत् ॥ १२ ॥

यदि जीवः परात्मानमयमस्मीति वेदितुम् । योग्यः शरीरच्छेदादेः कथं दुःखी तदा भवेत् ॥ दुःखी शरीरसम्बन्धाज्जीवो विष्णोः प्रसादतः । अदुःखी विप्लुडानन्दं मुक्त एव च भोक्ष्यति ॥ नित्यमुक्तः पूर्णसुखः स्वतंत्रः पुरुषोत्तमः । परतंत्रः कथं जीवो योग्यः सोऽस्मीति वेदितुम् ॥ तस्मात् सोऽस्मीति नैवायं विजानीयात् कदाचन । तदीयोऽस्मीति जानीयात् सर्वदैव बुधस्ततः ॥ इति च ॥

यस्यानुवित्तः प्रतिबुद्ध आत्मा अस्मिन् सन्दोघे गहने प्रविष्टः ।

स विश्वकृत् स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ १३ ॥

यस्य ज्ञातो नित्यबुद्धो भगवान् पुरुषोत्तमः । तस्य लोकः स एवैको यो लोकः परमात्मनः ॥ स हि विष्णुः परो वायोरपि कर्ता प्रकीर्तितः । विश्वो वायुः समुद्दिष्टः पूर्णत्वाज्जीवसङ्घतः ॥ तदन्यस्यापि सर्वस्य कर्तैको विष्णुरेव हि । प्रविष्टो गहने देहमध्ये सन्दोहनामनि ॥ तज्ज्ञानी याति तं लोकं तत्प्रसादाच्च वर्तते ॥

इहैव सन्तोऽथ विद्मस्तद्वयं न चेदवेदीर्महती विनष्टिः ।

य एतद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ १४ ॥

यदैतमनुपश्यन्त्यात्मानं देवमंजसा ।

ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥ १५ ॥

यस्मादर्वाक् संवत्सरोऽहोभिः परिवर्तते ।

तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् ॥ १६ ॥

न वत्सराश्च नाहानि यस्य नित्याविकारतः ॥ ज्योतिषां ज्योतिरचलं तद्देवाः समुपासते ॥

यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः ।

तमेव मन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम् ॥ १७ ॥

प्राणश्चक्षुस्तथैवान्नं मनः श्रोत्रं च पञ्चमम् ॥ मूलप्रकृतिसंयुक्तं यद्गतं प्रतिपूरुषम् ॥

प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रम् ।

मनसो ये मनो विदुस्ते निचिक्युर्ब्रह्म पुराणमग्र्यम् ॥ १८ ॥

मनसैवानुद्रष्टव्यं नेह नानास्ति किञ्चन ।

मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १९ ॥

तस्य रूपगुणाद्येषु न कश्चिद्भेद इष्यते ॥ तद्भेददर्शी संयाति मृत्योर्मृत्य्वभिधं तमः ॥

एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् ।

विरजः पर आकाशादज आत्मा महान् ध्रुवः ॥ २० ॥

तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।

नानुध्यायेद् बहून् शब्दान् वाचो विग्लापनं हि तत् " इति ॥ २१ ॥

तस्मादेकप्रकारेण द्रष्टव्यो भगवान् हरिः ॥ परिमाणविहीनत्वादप्रमेय इतीरितः ॥

इत्यादिवचनादप्रमेयत्वमवाच्यत्वममनोविषयत्वं च सर्वात्मना न । मनसैवानुद्रष्टव्यमित्युक्तत्वात् ।

न च केनाप्यवाच्यस्य लक्षणा दृष्टा । क्षीरमाधुर्यविशेषादेरपि तत्तच्छब्देनैव वाच्यत्वात् ।

विशदं क्षीरमाधुर्यं गुडे तीक्ष्णं घृते स्थिरम् इत्यादि च ॥

न च निर्गुणस्य सत्वमेवास्ति । गुणभेदादीनामपि सन्त्येव गुणाः । न चानवस्था स्वनिर्वाहकत्वात् ॥

अवाच्यममनोगम्यमगुणं चेत् कुतोऽस्ति तत् । तस्मादेवं वदन् वस्तुशून्यतामर्थतो वदेत् ॥ गुणाश्च गुणिनः सर्वे स्वेनैव गुणिनो गुणाः ॥" इत्यादि च ।

स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानेष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनैतमेव विदित्वा मुनिर्भवत्येतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्त्येतद्ध स्म वैतत् पूर्वे विद्वांसः प्रजां न कामयन्ते । किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक इति ते ह स्म पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति या ह्येव पुत्रैषणा सा वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतः स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यते अशीर्यो न हि शीर्यते असंगो न हि सज्जते असितो न व्यथते न रिष्यत्येतमु हैवैते न तरत इत्यतः पापमकरवमित्यतः कल्याणमकरवमित्युभे उ हैवैष एते नैनं कृताकृते तपतः ॥ २२ ॥

 

सर्वमस्य वशे यस्माद्धरिः सर्ववशी ततः । सर्वस्य ब्रह्मरुद्रादेरन ईशान एव च ॥ गुणाधिकः पालकश्चेत्यतोऽधिपतिरीरितः ॥ "इति च ॥

भूत एवाधिपतिर्नास्याधिपत्यमादिमत् । नित्यबोधात्मकत्वाद्यो मुनिः प्रोक्तो जनार्दनः । तं विद्वांश्च मुनिर्नाम बोधस्तस्याप्यमुख्यतः । यं विदित्वा विमुक्ताश्चायुक्तकामविवर्जिताः ॥ उत्पत्तिलयहीनाश्च नित्यानन्दैकभोगिनः । आनन्दभिक्षां विष्णूत्थां चरन्त्यज्ञानवर्जिताः ॥ स एष मोक्षदो विष्णुर्यत्कल्याणं कृतं मया। पापं कृतं मयेत्येतन्न कदाचित् करिष्यति ॥ कृते मया पुण्यपापे इति यच्चेतनात्मनाम् ।तत्सर्वमत एवोक्तं विष्णोः सर्वेश्वरेश्वरात् ॥ तीर्णो हि वर्तते नित्यं पुण्यपापे जनार्दनः । नैनं कदाचित् तपतः पुण्यपापे जनार्दनम् ॥ इति च ॥

तदेतदृचाभ्युक्तम् ।

एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान् ।

तस्यैव स्यात् पदं वित्तं विदित्वा न लिप्यते कर्मणा पापकेनेति॥ २

तस्मादेवंवित् शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्यति सर्वमात्मानं पश्यति

नैनं पाप्मा तरति सर्वं पाप्मानं तरति

नैनं पाप्मा तपति सर्वं पाप्मानं तपति

विपापो विरजोऽविचिकित्सो ब्राह्मणो भवत्येष ब्रह्मलोकः सम्राड् इति होवाच याज्ञवल्क्यः

सोऽहं भगवते विदेहान् ददामि मां चापि सह दास्यायेति ॥ २४ ॥

शान्तिस्तु भगवन्निष्ठा दमो मदविनिग्रहः । हृदिस्थविष्णौ सन्तोषः सदैवोपरमः स्मृतः ॥ तितिक्षा द्वन्द्वसहता क्षमा क्रोधासमुत्थितिः ॥इति शब्दनिर्णये ॥

सर्वः पूर्णः समुद्दिष्टस्तथा ज्ञेयो जनार्दनः । रागसन्देहपापानि तथा जानंस्तरिष्यति ॥ नित्यं हि रागपापादेर्मुक्तो यत्पुरुषोत्तमः । वेदाख्यब्रह्मणान्यत्वाद्विष्णुर्ब्राह्मण उच्यते ॥ पूर्णत्वाज्ज्ञानरूपत्वाद् ब्रह्मलोकश्च स प्रभुः ॥

स वा एष महानज आत्माऽन्नादो वसुदानो विन्दते वसु य एवं वेद ॥ २५ ॥

स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्माभयं वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेद ॥ २६ ॥

॥ इति शारीरब्राह्मणम् ॥ ६-४ ॥

न मरिष्यतीति ह्यमरो न मृतो यत्ततोऽमृतः ॥ ब्रह्मायमाप्तकामत्वादेवं यो वेद तं परम् । आप्तकामोऽभयश्चैव भवेद् विष्णोरनुग्रहात् ॥ इति च ।

परमार्थेऽविचिकित्सो ब्राह्मणो भवतीति नित्यमेव तथा भवतीत्यर्थः ।

अभूद्भविष्यति भवत्येवमाद्यपदानि तु । नित्यभावाभिधायीनि यत्र वाच्या हरेर्गुणाः ॥ इति शब्दनिर्णये ॥