सोऽबिभेत् तस्मादेकाकी बिभेति ..
[भयजनकविरोध्यभावाद् ब्रह्मणः भयं नास्ति ]
उपनिषत्
सोऽबिभेत् तस्मादेकाकी बिभेति सहायमीक्षाञ्चक्रे यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति तत एवास्य भयं वीयाय कस्माद्ध्यभैष्यत् द्वितीयाद्वै भयं भवति ॥ २ ॥
भाष्यम्
तस्य त्वेकस्य सहसा यतो भीः समजायत ।
तस्मादद्यापि चैकस्य निर्विवेकं भयं भवेत् ॥
विममर्श ततो ब्रह्मा यस्मान्मद्वाधको नहि ।
मया सृज्या यतः सर्वे इतः पश्चात्तनो हरः ॥
अतः कस्माद्विभेमीति तस्य भीतिरपोहिता ।
विष्णोरतिप्रियत्वात्तु तदन्येषां पितृत्वतः ॥
कस्माद्भयं भवेत्तस्य समानाद्धि भयं भवेत् ।
विरोधिनोऽधिकाद्वाऽपि हीनाद्वा पारवश्यतः ॥
हीनमेव यतस्तस्य सर्वमेव जगद्वशे ।
नच जातं तदा सर्वं हरिरेव यतः परः ॥ २ ॥
भावबोधटिप्पणी
अथ भाष्यार्थः
'सोऽबिभेत्तस्मादेकाकी बिभेति' इत्येतद् व्याचष्टे - तस्येति । निर्विवेकमिति क्रियाविशेषणम् । 'सहायमीक्षाञ्चक्रे' इत्येतद् व्याचष्टे - विममर्शेति ॥यद् यस्मान्मत्तोऽन्यद्वस्त्वन्तरं किमपि नास्ति तस्मादहं प्रत्यक् चैतन्याद् द्वितीयब्रह्मरूपः कस्मान्नु बिभेमीति परकीयव्याख्यानमसत् । चैतन्यैक्यस्य अप्रामाणिकत्वादिति भावेन यन्मदन्यदित्यादि वीयायेत्यन्तं वाक्यं व्याचष्टे- यस्मादिति । पञ्चममुखच्छेत्तृत्वेन हरस्यैव बाधकत्वं स्यादित्यत आह- इत इति ॥ द्वितीयाद् वै भयं भवति नतु स्वस्मात् । द्वितीयं चाविद्याकल्पितम् इति व्याख्यानमसत् । अविद्याकल्पितत्वस्याप्रामाणिकत्वादिति भावेन. कस्मादिति वाक्यं व्याचष्टे - विष्णोरिति । द्वितीयादित्येतत् त्रेधा व्याचष्टे - समानादिति || विरोधिन इत्येतदत्रापि सम्बध्यते । पारवश्यतः हीनस्य स्वानधीनत्वतः । पारवश्यतः स्वस्य हीनाधीनत्वतो वेत्यर्थः । प्रकृते त्रयाणामप्यभावादिति पक्षधर्मता द्रष्टव्या । तत्राऽद्यस्योपपादनम्- तदन्येषां पितृत्वत इति । द्वितीयस्योपपादनम् विष्णोरिति । तस्येत्येतदत्रोभयत्रापि सम्बद्ध्यते । तृतीयमुपपादयति- हीनमेवेति । यतः सर्वं हीनं जगत् तस्यैव वशे एव न पुनः स तद्वशः तद्वा एतदवशमित्यर्थः । एवं हीनसद्भावमभ्युपेत्य तस्य स्वानधीनत्वाभावेन भयहेतुत्वं नास्तीत्युक्तम् । इदानीं हीनं नास्त्येव तदाऽनुत्पन्नत्वादित्याह– नचेति । जातं च नेति सम्बन्धः । अधिकस्य विष्णोरतिप्रियत्वेऽपि अन्यस्मादधिकाद्भयं किं न स्यादित्यत आह- हरि- रेवेति ॥ परः अधिकः ।। २ ।।