ऐकात्म्यं नाम यदिदं केचिद् ब्रूयुरनैपुणाः
[ ऐक्यं न शास्त्रप्रतिपाद्यम् ]
भाष्यम्
ऐकात्म्यं नाम यदिदं केचिद् ब्रूयुरनैपुणाः ।
शास्त्रतत्त्वमविज्ञाय तथावादबला जनाः ॥
कामक्रोधाभिभूतत्वादहङ्कारवशं गताः ।
याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः ॥
ब्रह्मस्तेना निरानन्दाः अपक्कमनसोऽशिवाः।
वैगुण्यमेव पश्यन्ति न गुणानि नियुञ्जते ॥
तेषां तमः शरीराणां तम एव परायणम् ॥
अन्य ईशस्तथाऽन्योऽहमिति ज्ञानं विपश्चिताम् ।
आधिक्यज्ञानमीशस्य यतोऽन्यत्वेन युज्यते ॥
‘यतः स्वरूपतश्चान्यो जातितः श्रुतितोऽर्थतः ।
कथमस्मि इत्येव सम्बन्धः स्यादसंहितः ।।'
भावबोधटिप्पणी
ऐक्यज्ञानिनां निन्दितत्वाच्च न जीवेश्वरैक्यं श्रुत्यर्थ इत्यभिप्रेत्याह- ऐकात्म्यमिति || एकश्चासावात्मा च एकात्मा तस्य भाव ऐकात्म्यं सर्वात्मनां ब्रह्मैक्यमिति यावत् । यदैकात्म्यं नामेदम् अनैपुणा अविद्यमाननैपुणाः केचिद्धूयुः । एवं वचने किं मूलम् इत्यत आह - शास्त्रेति ।। अहं ब्रह्मास्मीति शास्त्राणां तत्वम् अभिप्रेतार्थम् अविज्ञाय ब्रूयुः । कथमविज्ञानमात्रेण तदुक्तिरित्यत उक्तम्- तथेति ।। ऐक्यप्रतिपादकसदृशो यो बादः एकविभक्तिमत्त्वादिरूपः सः बलमेषां ते तथोक्ताः । अहं ब्रह्मास्मीति वाक्यानाम् अभिप्रेतार्थमविज्ञाय आपातत: प्रतीत एवार्थे भ्रान्ता इत्यर्थः । सर्वेषामविद्यमानं शास्त्रतत्वाज्ञानादिकमेतेषामेव किन्निमित्तमित्यत उक्तम्– कामेति ।। यथोक्तम् ‘इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत' इति । ननु 'द्वा सुपर्णा' इत्यादिषु शास्त्रेषु विरोधिषु सत्सु कथमैक्यं ब्रूयुरित्यत आह- याथातथ्यमिति । भेदपराणां शास्त्राणां याथातथ्यमविज्ञाय शास्त्रदस्यवः तानि शास्त्राण्यतत्वावेदकानि इति मन्यमाना इत्यर्थः । एवमैक्यं मन्यमानाः ब्रह्मस्तेनाः । कामादीनामागन्तुकत्वात् मूलकारणमाह- निरानन्दा इत्यादि ॥ एतेनाधमस्वरूपयोग्यतां लक्षयति । तथाऽपि सर्वज्ञत्वाल्पज्ञत्वादिविरुद्धमैक्यं कथं ब्रूयुरित्यत आह- वैगुण्यमेवेति || जीवब्रह्मणोस्तत्वतो निर्गुणत्वमेव पश्यन्तो गुणानि सार्वज्ञादिगुणान् न नियुञ्जते तत्स्वरूपेण न योजयन्ति । एवम्भूतानां फलमाह— तेषामिति । तमोगुणप्रचुरशरीराणां तमो नरकविशेषः परायणं प्राप्यम् । ऐकात्म्यं न चेत् किन्तर्हि तत्वमित्यत उक्तम्– अन्य इति । ननु विष्णुसर्वोत्तमत्वज्ञानस्य मोक्षहेतुत्वाद् भेदः कुतो ज्ञेय इत्यत
आह- आधिक्यज्ञानमिति । अन्यत्वेन अन्यत्वज्ञानेनेत्यर्थः । नन्वहं ब्रह्मास्मीत्यादिना स्फुटमैक्यं प्रतिभासते अतस्तद्बलाद् भेदशास्त्रादेरतत्वा- वेदकत्वादिकल्पनं युक्तमेवेत्यत आह- यत इति || स्वरूपतः परिमाणभेदतः जातितो जीवत्वादिजातिभेदतः श्रुतितो द्वा सुपर्णेत्यादेः अर्थतः प्रयोजन- भावाभावाभ्यां यतः स भगवानन्यः प्रतीयते। अतः सोऽस्मीति सम्बन्धोऽन्वयोऽ- संहितो योग्यः कथमेव स्यात् ? । अहं ब्रह्मास्मीत्यादीनां वाक्यानामैक्यपरत्वे निश्चिते अन्येषामतत्वावेदकत्वकल्पनं युक्तं स्यात् । नचैवम् । अनुमानागमविरोधेन प्रतीतान्वययोग्यताविरहात् । ' सिंहो देवदत्तः' इत्यादौ योग्यताविरहस्य आकाङ्क्षासन्निधिबाधकत्वस्योपलम्भात्। अन्यथाऽन्योन्याश्रयात् । भेदवाक्यादे- रतत्वावेदकत्वादौ सिद्धे योग्यतादिसम्पत्त्याऽहमादिवाक्यानाम् ऐक्यार्थतानिश्चयः । सति तस्मिन्नतत्वावेदकत्वादिनिश्चय इति ।