अथ वंशः पौतिमाष्यो गौपवनात्

अथ वंशः पौतिमाष्यो गौपवनात् ।

गौपवनः पौतिमाष्यात् ।

पौतिमाष्यो गौपवनात्।

गौपवनः कौशिकात् ।

कौशिकः कौंडिन्यात् ।

कौंडिन्यः शांडिल्यात् ।

शांडिल्यः कौशिकाच्च गौतमाच्च ॥ १ ॥

गौतमः आग्निवेश्यादाग्निवेश्यः गार्ग्याद् ।

गार्ग्यो गार्ग्याद् ।

गार्ग्यो गौतमात्।

गौतमः सैतवात् ।

सैतवः पाराशर्यायणात् ।

पाराशर्यायणो गार्ग्यायणाद् ।

गार्ग्यायण उद्दालकायनाद् ।

उद्दालकायनो जाबालायनाज्जाबालायनो माध्यंदिनायनान्माध्यंदिनायनः सौकरायणात् ।

सौकरायणः काषायणात् ।

काषायणः सायकायनात् ।

सायकायनः कौशिकायनेः॥ २ ॥

कौशिकायनिः घृतकौशिकात्

घृतकौशिकः पाराशर्यायणात् ।

पाराशर्यायणः पाराशर्यात् ।

पाराशर्यो जातूकर्ण्यात् ।

जातूकर्ण्यः आसुरायणाच्च यास्काच्च आसुरायणस्त्रैवर्णेस्त्रैवर्णिः औपबन्धनेरौपन्धनिरासुरेः आसुरिर्भारद्वाजात् भारद्वाजः आत्रेयात् आत्रेयो माण्टेः माण्टिर्गौतमात् गौतमो वात्स्यात् वात्स्यः शांडिल्यात् शांडिल्यः कैशोर्यात् काप्यात् कैशोर्यः काप्यः कुमारहारितात् कुमारहारितो गालवात् गालवो विदर्भी कौंडिन्यात् विदर्भीकौंडिन्यो वत्सनपादो बाभ्रवात् वत्सनपाद्बाभ्रवः पथः सौभरात् पन्थाः सौभरो अयास्यात् आंगिरसादयास्य आंगिरस आभूतेस्त्वाष्ट्रादाभूतिस्त्वाष्ट्रो विश्वरूपात् त्वाष्ट्रात् विश्वरूपस्त्वाष्ट्रोऽश्विभ्यामश्विनौ दधीच आथर्वणात् दध्यंग्ङाथर्वणो दैवादथर्वा दैवो मृत्योः प्राध्वंसनात् मृत्युः प्राध्वंसनः प्रध्वंसनात् प्रध्वंसन एकऋषेः एकऋषिर्विप्रचित्तेः विप्रचित्तिः व्यष्टेः व्यष्टिः सनारोस्सनारुः सनातनात् सनातनः सनकात् ।

सनकः परमेष्ठिनः।

परमेष्ठी ब्रह्मणो ब्रह्म स्वयम्भुब्रह्मणे नमः ॥ ३ ॥

॥ इति बृहदारण्यके षष्ठोऽध्यायः ॥

॥ इति वंशब्राह्मणम् ॥ ६-६ ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्बृहदारण्यकोपनिषद्भाष्ये षष्ठोऽध्यायः ॥

अवरेभ्योऽपि शृण्वन्ति परमाश्च क्वचित् क्वचित् । लीलयैव न चैतेषां परमत्वं विहीयते ॥ इति च ॥