ब्रह्माप्येतीति वचनात् पूर्वब्रह्मशब्दो जीववाच्येव
[ ब्रह्मैव सन् ब्रह्माप्येति इति श्रुत्यर्थः]
भाष्यम्
ब्रह्माप्येतीति वचनात् पूर्वब्रह्मशब्दो जीववाच्येव । ययज्ञाननाशात् परिज्ञानमात्रं तदा स्वस्य ब्रह्मतां विजानातीत्येव स्यात् ।
नतु ब्रह्माप्येतीति । नहि राजपुत्रः पूर्वमात्मानमजानन् पश्चाद्राजपुत्र इति विज्ञाय राजपुत्रमप्येतीत्युच्यते । किन्तु राजपुत्रत्वेनात्मानं व्यजानादित्ये- वोच्यते। विस्मृतकण्ठमणिरपि विज्ञात इत्येवोच्यते, नतु प्राप्त इति । अतः पूर्वब्रह्मशब्दो जीववाच्येव ।
भावबोधटिप्पणी
यदुक्तं— जीवोऽपि ब्रह्मशब्दोक्त इति पूर्वब्रह्मशब्दो जीववाचीति । तदयुक्तम् । ब्रह्मशब्दस्य परब्रह्मणि मुख्यत्वादित्यत आह-- ब्रह्मेति । परब्रह्मण मुख्योऽप्ययं ब्रह्मशब्दः जीववाच्येवेत्यङ्गीकर्तव्यं परब्रह्मार्थत्वाङ्गीकारे श्रुतब्रह्म- प्राप्तिविरोधात् । नहि स्वयं ब्रह्मभूतस्य तत्प्राप्तिर्नामास्ति प्राप्तप्राप्ययोर्भेदनियमात् । मुख्यार्थविरोधे चामुख्यार्थग्रहणस्य न्याय्यत्वादिति भावः । ननु पूर्वब्रह्मशब्दस्य परब्रह्मार्थकत्वेन जीवस्य परब्रह्मत्वाङ्गीकारेऽपि न तत्प्राप्तिकथनं विरुद्धं ब्रह्मैव हि स्वाविद्यया संसरति स्वविद्यया च मुच्यत इत्यङ्गीक्रियते । तथाच पूर्वमज्ञातपरब्रह्मत्वेऽपि जीवोऽज्ञाननाशे स्वस्य विद्यमानमेव परब्रह्मत्वं जानातीत्यभिप्रायेण प्राप्तिकथनोपपत्तेः । यथा कश्चित्किल राजपुत्रो व्याधगृहे संवर्धितः पूर्वमात्मानं राजपुत्रत्वेनाजानन् पश्चाज्जानन्राजपुत्रत्वं प्राप्त इत्युच्यते यथा वा पूर्वं स्वसमीपे स्थितो विस्मृतः कण्ठमणिः पश्चाद् विज्ञातः प्राप्त इत्युच्यत इत्याशङ्कयाह— यद्यज्ञानेति । दृष्टान्तद्वयेऽपि तथालौकिकव्यवहाराभावं दर्शयति– नहीति ।। आत्मानं राजपुत्रत्वेनाजानन् विस्मृतश्चासौ कण्ठमणिश्चेति विग्रहः । ब्रह्मैवेति पूर्वब्रह्मशब्दस्य जीववाचित्वमुपपाद्योपसंहरति- अत इति ।। यतः परब्रह्मवाचकत्वे ब्रह्माप्येतीति श्रुतब्रह्मप्राप्तिविरोधोऽत इत्यर्थः ।।