स एष संवत्सरः प्रजापतिः ..

[चन्द्रान्तर्गतप्राणोपासनम् ]

उपनिषत्

स एष संवत्सरः प्रजापतिः षोडशकलस्तस्य रात्रय एव पञ्चदशकला ध्रुवैवास्य षोडशी कला ॥ २० ॥

स रात्रिभिरेवाच पूर्यते अप च क्षीयते । सोऽमावास्यां रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते । तस्मादेतां रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव देवताया अपचित्यै ॥ २१ ॥

भाष्यम्

वायुः प्रजापतिः सोऽसौ चन्द्रसंस्थो विशेषतः ।

रात्रौ रात्रौ क्षयादस्य पूरणाद्रात्रिनामकाः ॥

कलाः पञ्चदश प्रोक्ता ध्रुवैवास्य तु षोडशी ।

अकलोsपि स चन्द्रस्य कलाभिः प्रोच्यते तथा ॥

सोऽमावास्यां यतो रात्रौ प्राणभृत्सु व्यवस्थितः ।

 कल्यावेशादल्पदोषः कृकलासबधोऽपि सन् ॥

तस्यां रात्रौ महादोषो देवतावेशतो भवेत् ।

वायुः संवत्सरः प्रोक्तो वत्सो विष्णोरसौ यतः ॥

सम्यगेव रतिं याति.........................

भावबोधटिप्पणी

स एष संवत्सरः प्रजापतिः षोडशकलः' इत्यत्र संवत्सरः प्रजापतिरित्यनुवादेन षोडशकलत्वं विधीयत इत्यनुपपन्नम् । प्रागनुक्तत्वेनानुवादासम्भवादिति भावेनात्र वाक्यभेदमङ्गीकृत्य ' स एष प्रजापतिः' इति वाक्यं व्याचष्टे - वायुरिति । प्रजापतिः प्रजानां पालक इत्यर्थ: । ' स एष षोडशकलःइति वाक्यं चन्द्राभेद उच्यत इति प्रतीतिनिरासाय व्याचष्टे - सोऽसाविति || अबपेक्षया विशेषत इत्यर्थः । रात्रीणामेव कलात्वमुच्यत इति प्रतीतिनिरासाय 'तस्य रात्रय एव पञ्चदश कला:' इत्येतद् व्याचष्टे - रात्रिनामका इति ॥ अस्य वायोः पञ्चदश कला रात्रिनामकाः प्रोक्ता इति सम्बन्धः । तत्र निमित्तप्रदर्शनपरंस रात्रिभिरेवा च पूर्यते अप क्षीयते' इति वाक्यं व्याचष्टे -- रात्राविति । एकैकस्याः कलायाः एकैकस्यां रात्रौ क्षयपूरणे अभिप्रेत्य रात्रौ रात्राविति वीप्सा । 'ध्रुवैवास्य षोडशी कला' इति वाक्यं व्याचष्टेध्रुवैवेति ॥ षोडशी कला त्विति सम्बन्धः । ननु वायोरकलत्वात् कथं षोडशकलत्वोक्तिरित्यत आह- अकलोऽपीति । सः वायुः । चन्द्रस्य स्वाधिष्ठानस्य । तथा षोडशकल इति प्रोच्यते । यद्वा, वायोरागमापायिकला- शून्यत्वादध्रुवकलावत्त्वं कथमुच्यत इत्यत आह- अलोऽपीति ॥ अध्रुवकलारहितोऽपीत्यर्थः । सोऽमावास्याम्' इत्यादि ' तस्मादेतां रात्रिं प्राणभृतं प्राणं न विच्छिन्द्यात्' इत्यन्तं वाक्यं व्याचष्टे - सोऽमावास्यामिति । अतः प्राणिवधो न कर्तव्य इति शेषः । अपि कृकलासस्येत्यत्रापिपदोक्तकैमुत्यं स्पष्टयंस्तद्व्याचष्टेकल्याबेशादिति || ' स एष संवत्सरः' इति वाक्यं व्याचष्टे - वायुरिति ॥ २१ ॥

Load More