य एष एतस्मिन् मण्डले पुरुषस्तस्य भूरिति ..
[ भगवतो वासुदेवस्य अवयवाः]
उपनिषत्
य एष एतस्मिन् मण्डले पुरुषस्तस्य भूरिति शिर एकं शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे सुवरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षर तस्योपनिषदहरिति हन्ति पाप्मानं जहाति च य एवं वेद ॥ १ ॥ योऽयं दक्षिणेऽक्षन् पुरुषस्तस्य भूरिति शिर एकम् शिर एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे सुवरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे ते अक्षरे तस्योपनिषदहमिति हन्ति पाप्मानं जहाति च य एवं वेद ॥ २ ॥
इति सप्तमं ब्राह्मणम्
भाष्यम्
तस्य विष्णोः शिरो नाम भावनाद्भूरिति स्मृतम् ।
भावनं रक्षणं प्रोक्तं दृष्ट्या वाचा च रक्षति ॥
उत्पादनाद्भुनामा स्याद्दक्षिणो बाहुरस्य तु ।
विनाशनाद्व इत्युक्तः सव्यो बाहुः परात्मनः ।
स्वित्यानन्दस्समुद्दिष्टो वरिति ज्ञानमुच्यते ॥
मुक्तिदानेन तद्दानात्सुवरस्य पदद्वयम् ।
दक्षिणश्चैव सव्यश्च क्रमाद्वर्णद्वयोदितौ ॥
पादावस्य हि तत्प्राप्तिर्मुक्तिरित्यभिधीयते ॥
अहमेषो ह्ययत्वाज्जीवेन सह भावतः ।
असावहरिति प्रोक्तः सर्वलोकप्रकाशनात्।
तद्वेदनात्सर्वपापं हन्ति चैव जहाति च ।
कानिचिद्धन्ति पापानि कल्यादीन् स जहाति च ॥ इति प्रवृत्ते ॥
भावबोधटिप्पणी
सूर्याक्षिस्थितयोर्वासुदेवरूपयोः ध्यानार्थं तदवयवनामानि तयो रहस्यं नाम चाह – य एष इति ब्राह्मणेन ॥ तत्र तस्य भूरिति शिर इत्यादित्यक्षिस्थविष्णुशिरसो भूर्नामकत्वमुक्तं तत्र निमित्तं दर्शयंस्तद्वयाचष्टे - तस्येति || आदित्याक्षिस्थस्ये त्यर्थः। भावनं नाम किमित्यत आह- भावनमिति । भू सत्तायामिति धातुः सत्ता च रक्षणरूपैवेत्यर्थः । उत्पादनहेतुत्वेन भूशब्दवाच्यत्वस्य दक्षिणबाहोर्वक्ष्य- माणत्वादेवं व्याख्यातम् । तर्हि शिरसः कथं रक्षणहेतुत्वमित्यत आह- दृष्ट्येति ।। विष्णुर्दृष्ट्या वाचा च भक्तान् रक्षति । 'दृष्ट्यादिकं च शिरोऽन्तर्भूतमित्यर्थः । भुव इति बाहू इति वाक्यं व्याचष्टे - उत्पादनादिति ।। वा गतिगन्धनयोरिति धातोः वातेर्गत्यर्थत्वात् स नष्ट इत्यर्थे स गत इति प्रयोगात् गतिश्च विनाश इति भावेनाह– विनाशनादिति ॥ सुवरिति प्रतिष्ठेति वाक्यं व्याचष्टे - स्वित्यानन्द इति ।। तद्दानात् स्वरूपभूतानन्दज्ञानदानात् । कः पादः किं वर्णनात्मक इत्यत आह- दक्षिणचेति ॥ क्रमादेवेत्यन्वयः । दक्षिणश्च सव्यश्चेत्यस्य पादावित्यन्वयः । मुक्तिदानेनेति भगवत्पदद्वयस्य मुक्तिदातृत्वमुक्तं तत्र किं मानमित्यत आह- हि तत्प्राप्तिरिति ॥ हि यस्माद्भगवत्पदप्राप्तिर्मुक्तिरित्यभिधीयते, 'भेजे खगेन्द्रध्वज- पादमूलम्' इत्यादौ । तस्मात्पदद्वयस्य मुक्तिदातृत्वमुपपन्नमित्यर्थः । तस्योप- निषदहमित्यत्राक्षिस्थस्य जीवस्याहमिति नामोक्तमित्यसत् । जीवस्याक्षणि पृथक् शिरो बाह्वादेरभावात् । हृदि स्थितमेव तस्य रूपं जागरितेऽप्यक्ष्यादिषु विशेष- सन्निहितं भवतीत्युक्तं प्राक् । तस्मादक्षिस्थस्य विष्णोरेवाहमिति रहस्यं नामोक्तम् । तस्यार्थमाह- अहमिति । एष दक्षिणाक्षिस्थः । अहेयत्वं कथमित्यत आह- जीवेनेति ॥ तस्योपनिषदहरिति वाक्यं व्याचष्टे - असाविति || असावादित्यस्थः प्रकाशनादिति । 'अहर्दिनं प्रकाशश्च' इति वचनादित्यर्थः । 'हन्ति पाप्मानं जहाति च य एवं वेद' इति वाक्यं व्याचष्टे - तद्वेदना- दिति । तद्वेदनादेवेति सम्बन्धः । कानिचिज्जहाति चेत्यन्वयः । तदेव विवृणोति- हन्तीति ॥
खण्डार्थः
य एष प्रसिद्धः एतस्मिन् मण्डले वर्तमानः पुरुषः पूर्णषड्गुणो वासुदेवः तस्य शिरोभावनाद्रक्षणाद्भूरित्युच्यते । भूरित्यस्य शिरोनामत्वे युक्तिमाह – एकं हीति ।। हि यस्माच्छिर एकमेतद्भूरित्यक्षरं चैकमतः साम्याच्छिरसो भूरिति नामवत्त्वं उपपन्नमित्यर्थः । तस्य बाहू भुव इत्युच्येते उत्पादनाद्दक्षिणो बाहुर्भुज इत्युक्तः विनाशनात्सव्यो बाहुर्व इत्युक्त इत्यर्थः । तत्र पूर्ववद्युक्तिमाह- द्वाविति ।। तस्य प्रतिष्ठा पादः सुवरित्युच्यते । तस्य दक्षिणः पादः स्वरूपभूतानन्ददानात् स्वित्युक्तः सव्यः पादः स्वरूपभूतज्ञानदानाद्वरित्युक्त इत्यर्थः । तत्र युक्तिमाह - द्वे इति ॥ आदित्यस्थस्य विष्णोः रहस्यं नामाह-- तस्येति ॥ सर्वलोकप्रकाशनादहरिति तस्योपनिषद्रहस्यं नाम । एवंवेत्तुः फलमाह - हन्तीति । य एवं वेद स पाप्मानं सर्वं हन्ति कल्यादीन् पापप्रेरकान् सञ्जहाति चेत्यर्थः ।। ३ ।।
योऽयमित्यादिकं पूर्ववदुक्तार्थम् ॥ ४ ॥
इति सप्तमं ब्राह्मणम् ।। ७.७ ।।