यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं ..

बृहदारण्यकोपनिषद्भाष्यम्

शिशुब्राह्मणम्

यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद सप्त ह द्विषतो भ्रातृव्यानवरुणद्ध्ययं वाव शिशुर्योऽयं मध्यमः प्राणस्तस्येदमे वाधानमिदं प्रत्याधानं प्राणः स्थूणा अन्नं दाम ॥१॥

आधानमवस्थानं सूक्ष्मशरीरम् । प्रत्याधानं विधानं स्थूलशरीरम् । प्राणो नारायणः स्थूणा ।

वायुर्गोवत्सरूपेण सर्वप्राणिषु संस्थितः । सूक्ष्मदेहो गृहं तस्य वितानं स्थूल उच्यते ॥ अन्नं दामात्मकं तस्य स्थूणा तु भगवान् हरिः । ध्यायत्येवं हि यो वायुं श्रोत्रादीन् मनसा सह ॥ बुद्धिं च सप्तशत्रून् स विषयेष्वभिधावतः । असुरान् सन्निरुध्यैव वेत्ति नारायणं परम् ॥

तमेताः सप्ताक्षितय उपतिष्ठन्ते तद्या इमा अक्षंल्लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तोऽथ या अक्षन्नापस्ताभिः पर्जन्यो या कनीनिका तयाऽदित्यो यत्कृष्णं तेनाग्निर्यच्छुक्लं तेनेन्द्रोऽधरयैनं वर्तन्या पृथिव्यन्वायत्ता द्यौरुत्तरया नास्यान्नं क्षीयते य एवं वेद ॥२॥

दक्षिणाक्षिस्थितं वायुं सप्तदेवा उपासते । अक्षीणज्ञानमनसः सदाशिवापुरःसराः ॥ उपास्यमानं तैर्देवैर्मोक्षार्थे वायुमीश्वरम् । स्थूणया विष्णुना सार्धं यो विद्यात् सोऽन्नमश्नुते ॥ अक्षीणमेव मुक्तः सन् सर्वदुःखविवर्जितः ।

तदेष श्लोको भवति अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहतं विश्वरूपं तस्यासत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदानेत्यर्वाग्बिलश्चमस ऊर्ध्वबुध्न इतीदं तच्छिर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपमिति । प्राणा वै यशो विश्वरूपं प्राणानेव तदाह तस्याऽऽसत ऋषयः सप्त तीरे इति प्राणा वा ऋषयः प्राणानेतदाह वागष्टमी ब्रह्मणा संविदानेति वाग्घ्यष्टमी संवित्ता ॥ ३ ॥

विश्वरूपं यशश्चेति नाम्ना विष्णू रमा तथा ॥ वायुश्च संस्थिता नित्यं सर्वेषां दक्षिणाक्षिगाः । पूर्णत्वाद्विश्वतो विष्णो रमायाः स्त्रीषु पूर्णतः ॥ वायोर्जीवेषु पूर्णत्वाद्यशोज्ञानसुखात्मकाः । प्राणाश्चैते प्रणेतृत्वात् ऋषयो रुद्रपूर्वकाः ॥

इमावेव गौतमभरद्वाजावयमेव गौतमोऽयं भरद्वाज इमावेव विश्वामित्रजमदग्नी अयमेव विश्वामित्रोऽयं जमदग्निरिमावेव वसिष्ठ कश्यपावयमेव वसिष्ठोऽयं कश्यपो वागेवात्रिर्वाचो ह्यन्नमद्यतेऽत्रिर्ह वै नामैतद्यदत्रिरिति सर्वस्यैतस्यात्ता भवति सर्वमस्यान्नं भवति य एवं वेद ॥ ४ ॥

॥ इति शिशुब्राह्मणम् ॥

गौतमो नाम रुद्रस्तु सर्वज्ञत्वात् प्रकीर्तितः । भरद्वाजस्तु पर्जन्यो वाजमन्नं भरेद्यतः ॥ वृष्ट्यैव विश्वामित्रख्य आदित्यो यत्प्रकाशनात् । विश्वं विज्ञापयन्नित्यमग्निस्तु जमदग्निकः ॥ जातं मितं चात्ति यस्माद्वसिष्ठाख्यस्तु वासवः । वसतामुत्तमो यस्मात् पृथ्वी कश्यपनामिका ॥ मेघवृष्टं पिबेद्यत्कं शयानैव हि सा सदा । द्यौरत्रिरिति सम्प्रोक्ता तत्स्थैर्हि हुतमद्यते ॥ श्रोत्रदिङ्ग्नासिकाबाहुदक्षिणाक्षिषु संस्थिताः । द्वितीयेन तु रूपेण देवा एते शिवादयः ॥ एवमेषां तु नामानि वेत्ति यः सर्वभुग्भवेत् । उपास्ते वायुमेवैकं सस्थूणं ब्रह्मवेदिना । ब्रह्मनामा सदा वायुरेनां वेत्ति विशेषतः ॥ इति तां वेद यो विद्वान् सर्वात्ता स भविष्यति ॥ इति नारायणीये ॥

॥ इति शिशुब्राह्मणम् ॥ ४२ ॥