स यो ह वै मनुष्याणां राद्धः समृद्धो भवत्यन्येषामधिपतिः

[मुक्तेषु आनन्दतारतम्यं विद्यते]

उपनिषत्

स यो ह वै मनुष्याणां राद्धः समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मानुष्यकैर्भोगैः सम्पन्नतमः स मनुष्याणां परम आनन्दोऽथ ये शतं मनुष्याणामानन्दाः स एकः पितॄणां जितलोकानामानन्दोऽथ ये शतं पितॄणां जितलोकानामानन्दाः स एको गन्धर्वलोक आनन्दोऽथ ये शतं गन्धर्वलोक आनन्दाः स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्तेऽथ ये शतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतोऽथ ये शतमाजानदेवानामानन्दाः स एकः प्रजापतिलोकः आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतोऽथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतोऽथैष एव परम आनन्द एष ब्रह्मलोकः सम्राडिति होवाच याज्ञवल्क्यः सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूहीत्यत्र ह याज्ञवल्क्यो बिभयाञ्चकार मेधावी राजा सर्वेभ्यो माऽन्तेभ्य उदरौत्सीदिति ॥ ३३ ॥

भाष्यम्

अन्येभ्यस्तु विमुक्तेभ्य आनन्दश्चक्रवर्तिनाम् ।

मुक्तानां तोद्रिक्तिः पितॄणां तेभ्य एव च ।

तेभ्योऽप्यृषीणां मुक्तानां कर्मदेवाभिधायिनाम् ।

तेभ्यश्च मुक्तदेवानां तेभ्यश्श्रोमापतेस्तथा ।

तस्माच्च ब्रह्मणस्त्वेवं मुक्तस्य गरुडादपि ।

एष एव ततो विष्णुः पूर्णानन्दः प्रकीर्तितः ।

यस्य ब्रह्माऽपि मुक्तः सन् विप्लुण्मात्रं समश्नुते ॥ इति च ॥

भावबोधटिप्पणी

'स यो मनुष्याणां राद्ध' इति प्रकरणं संसारिपरमिति प्रतीतिनिरासाय व्याचष्टे-- अन्येभ्य इति ।। अन्येभ्यो मनुष्योत्तमेभ्यः शतोद्रिक्त इत्यन्तं मूलानुक्तम् । अथ ये शतं मनुष्याणामानन्दाः स एकः पितॄणामानन्दः इत्यस्यार्थमाहपितॄणामिति ।। तेभ्यश्चक्रवर्तिभ्यः पितॄणामानन्दः शतोद्रिक्त इति सम्बन्धः । अनेन श्रुतौ मनुष्यशब्दश्चकवर्तिपर इत्युक्तं भवति । तदुत्तरकक्ष्यमाहतेभ्योऽपीति || ऋषीणां विश्वामित्रब्रह्मपुत्रव्यतिरिक्तानाम् । ननु श्रुतौ पितृभ्यो गन्धर्वाणां शताधिकत्वमुच्यते अत्र तु ऋषीणां क्वचित्तु आजानदेवानां तत्कथमेतदिति चेन्न । गन्धर्वाणां ऋषीणामाजानदेवानां च साम्यात् । यथोक्तं पुरस्तात्- 'तुम्बुरुप्रमुखा ये च तथोर्वश्यादिका अपि । विश्वामित्रब्रह्मपुत्रानुते चाप्यृषयोऽखिलाः । कार्तवीर्यादिराजभ्यो देवभृत्याः शतावराः । आजानदेवास्ते प्रोक्ता:' इति । अथ ये शतं गन्धर्वलोक आनन्दाः स एकः कर्मदेवानामानन्दः इत्यस्यार्थमाह- कर्मदेवेति । तेभ्यः ऋषिभ्यः । अथ ये शतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्द इत्यंशं व्याचष्टे - तेभ्यश्वेति ॥ अथ ये शतं आजानदेवानामानन्दाः स एकः प्रजापतिलोक आनन्दः इत्यस्यार्थमाह- तस्मादिति ॥ श्रुतौ प्रजापतिशब्देन गरुडोऽपि ग्राह्य इति भावेनोक्तं गरुडादपीति । अथैष एव परम आनन्द इति वाक्यमेष एवेत्यनेन ब्रह्मलोकशब्दप्रकृतचतुर्मुखपरामर्श इति प्रतीतिनिरासाय व्याचष्टे-- एष एवेति ।। विष्णोरप्रकृतत्वात्कथं तत्परामर्श इत्यत एतस्यैवानन्दस्यान्यानि भूतानीति वाक्ये प्रकृतत्वात्परामर्शोपपत्तिरिति भावेन तत इत्युक्तं हेतुं विवृणोति- यस्येति ॥

Load More