तद्योऽहं सोऽसौ
[' अतत्वमसि' इत्येतदभेदनिराकरणपरम् ]
भाष्यम्
'तद्योऽहं सोऽसौ' 'अहं ब्रह्मास्मि' इत्यादिवाक्यानां सम्यगर्थापरिज्ञानाद् भ्रान्तिप्राप्तोऽभेदोऽतत्त्वमसीति नवकृत्वो निराक्रियते । ' तद्धैक आहुरसदेवेदमग्र आसीत्' एकमेवाद्वितीयं कुतस्तु खलु सौम्यैवं स्यात्कथमसतः सज्जायेत’ इत्यादिना 'असद्वा इदमग्र आसीदसतः सदजायत' इत्यादि श्रुत्यर्था - परिज्ञानोत्थभ्रमो यथा निवार्यते । एवमतत्त्व-मसीति वाक्येनापि । स आत्मेति शब्दाच्च । आत्मशब्दस्य परमात्मनि मुख्यत्वेऽपि जीवे भ्रान्तिरुपपद्यते । तन्निवृत्त्यर्थं चातत्त्वमसीत्याह ।
यच्चाप्रोति यदादत्ते यच्चात्ति विषयानिह ।
यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यते ॥
इत्यादिना ' आप्त्यादिकम् 'ऐतदात्म्यमिदं सर्वम्' इत्यनेनोच्यते ।
पूर्णत्ववाच्यात्मशब्द आत्मा पूर्णत्वतो हरिः ॥
— इत्यादिना स आत्मेति पूर्णत्वमभिधीयते ।
भावबोधटिप्पणी
ननु यद्यस्य वाक्यस्यातत्वमसीति पदच्छेदेन भेदप्रतिपादकत्वं तर्हीदम् ऐक्यप्रतिषेधपरमित्युक्तं स्यात् । नचैवं युक्तम् । जीवेश्वरैक्यस्याप्राप्तत्वेन प्रतिषेधानुपपत्तेरित्यतः प्राप्तिं दर्शयति - तद्य इति । सम्यगर्थः श्रुतितात्पर्य- विषयीभूतः । तदपरिज्ञानाद् या उत्पन्ना भ्रान्तिः तया प्राप्त इत्यर्थः । श्रुतितात्पर्यापरिज्ञानोत्थभ्रमप्राप्तं श्रुत्यैव निराक्रियत इत्येतत् कुत्र दृष्टमित्यत आह- तद्वैक इति ॥ 'एकमेवाद्वितीयम्' इत्यस्यानन्तरं यस्मादसतः सदजायतेति वाक्यमुदाहर्तव्यम् । एवमनूदितं मतं दूषयति- कुत इति । एवमासीदि कुतस्तु स्यान्न कुतोऽपि । व्याहतत्वात् । कथमसतः सज्जायेत असतः कारणत्वादर्शनादित्यर्थः । ' ब्रह्म वा असत् सद्वाव प्राणः' इत्यादिश्रुत्युक्तो ब्रह्मण: प्रलयाग्रवृत्तित्वं प्राणस्य तज्जातत्वमित्येवंरूपो योऽर्थः तदपरिज्ञानोत्थभ्रमो भ्रमप्राप्तमसतः प्रलयाग्रवर्तित्वं सतः तज्जन्यत्वं चेत्यर्थः । निरन्तरवाक्येनाप्यभेदप्राप्तिं दर्शयति- स इति । स एषोऽणिमैतदात्म्यम्' इत्यत्र प्रकृतो यः स आत्मा जीव इति आत्मशब्दाच्च । भ्रान्तिप्राप्तस्त्वभेद इति पूर्वेण सम्बन्धः । नन्वात्मशब्दस्य परमात्मनि मुख्यत्वात् कथं ततो जीवब्रह्मैक्यभ्रान्तिरित्यत आह्- आत्मशब्दस्येति ।। आत्मशब्दस्य परमात्मनि मुख्यत्वेऽपि तदप्रतीतिदशायां जीवे एतद्वाक्यगतात्मशब्दवाच्यत्वभ्रान्तिरुपपद्यते । जीवस्याप्यमुख्यत आत्मशब्दवाच्यत्वादित्यर्थः । अस्त्वेवं निरन्तरवाक्येनाप्य-भेदप्राप्तिः किं तत इत्यत आह- तन्निवृत्त्यर्थमिति । नन्वैतदात्म्यमिदं सर्वमिति जीवेश्वरैक्यं प्रतीयते एतत्सत् आत्मा यस्य सर्वस्य तदेतदात्म तस्य भाव ऐतदात्म्यम् इति । तत्कथमतत्वमसीति अभेदनिराकरणं युक्तमित्यत आह- यच्चेति ।। यद् यस्मादाप्नोति व्याप्नोति । सर्वमिति शेषः । आदत्ते स्वीयतया सर्वान् सर्वाधिपतिरित्यर्थः । भावः सत्ता सन्ततो नित्यः आङ्पूर्वाभ्यां तनु विस्तारे माङ् माने इति धातुभ्यां डन् । तथाचाङोsर्थ:-- समिति | तनु विस्तार इत्यस्य कालतो विस्तृतिमभिप्रेत्य तत इत्युक्तम् । उत्पादनं च संस्थानमित्युदाहृतवचनानुसारेण मानं सत्तेत्यभिप्रेत्य भाव इत्युक्तम् । इत्यादिनाऽऽत्मशब्दस्य व्याप्त्याद्यभिधायकत्वावगमादिति शेषः । आप्त्यादिकं व्याप्त्यादिकम् । ऐतदात्म्यमित्येतदन्तर्गतात्मशब्देनेत्यर्थः । तथाचैष चासावात्मा चैतदात्मा ‘विचित्रा हि तद्धितगतिः' इति एतदात्मन इदम् इत्यर्थे तद्धितोऽयमिति भावः । स आत्मा जीव इत्यर्थो न चेत्कस्तदर्थ इत्यत आह- पूर्णत्ववाचीति ।। आत्मशब्दः पूर्णत्ववाची हरिश्च पूर्णः अतः पूर्णत्वतो हरिरात्मेति योजना । इत्यादिना आत्मशब्दस्य पूर्णत्वाभि- धायकत्वावगमादिति शेषः ।