जनको वै वैदेहः कूर्चादुपावसर्पन्नुवाच ..
अथ कूर्चब्राह्मणम्
[ याज्ञवल्क्यं प्रति जनकस्य उपसत्तिः ]
उपनिषत्
जनको वै वैदेहः कूर्चादुपावसर्पन्नुवाच नमस्तेऽस्तु याज्ञवल्क्यानु मा शाधीति स होवाच यथा वै सम्राण्महान्तमध्वानमेष्यन् रथं वा नावं वा समाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्माऽस्येवं वृन्दारक आढ्यः सन्नधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति नाहं तद्भगवान् वेद यत्र गमिष्यामीत्यथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति स होवाच ब्रवीतु भगवानिति ॥ १ ॥
भाष्यम्
स्वयोग्यं ज्ञानं श्रोतुं सिंहासनादवरुह्योपसदनं कृत्वोवाच । यत् स्वात्मना प्राप्यं मुक्तौ तदुपास्यैव मुक्तिर्भवतीत्यतः प्राप्यं पृच्छति । ‘वृन्दैः प्राप्यतमत्वात्तु वृन्दारक इति स्मृतः' इति च पाद्मे ।
भावबोधटिप्पणी
ननु पूर्वमुपसत्तिमकृत्वेदानीमुपसत्तिकरणे किं निमित्तमित्यतः तत्र निमित्तप्रदर्शन- पूर्वकं जनको ह वैदेहः कूर्चादुपावसर्पनुवाचेति वाक्यं अर्थाप्रतीतेरपेक्षिताध्याहारेण व्याचष्टे – स्वयोग्यमिति । ज्ञानं ज्ञानसाधनं ज्ञेयं वा । इन्द्रियेषु भगवदु- पास्तिस्तु नासाधारण्येन स्वयोग्या, युगपदुपास्तौ देवानां क्रमेणोपास्तौ मनुष्याणां चाधिकारादिति भावः । कूर्चादित्यस्यार्थः सिंहासनादिति । अवरुह्येति शेषोक्तिः । उपावसर्पन्नित्यस्यार्थः उपसदनं कृत्वेति । ननु स्वयोग्योपदेशं श्रोतुमुपसदनं कृतवन्तं राजानं प्रति याज्ञवल्क्येन त्वदुपास्यं किं जानासीति प्रष्टव्ये इतो विमुच्यमानः क्व गमिष्यसीति मुक्तौ प्राप्यप्रश्नोऽसङ्गत इत्यतस्तदभिप्रायमाह--- यत्स्वात्मनेति ।। पृच्छति इतो विमुच्यमान इत्यादिनेति शेषः । ननु जनकस्य देवत्वाभावात्कथं तस्मिन् वृन्दारकशब्दप्रयोग इत्यत आह- वृन्दैरिति ॥ वृन्दैः भृत्यादिसमूहैः अर्यते प्राप्यत इति वृन्दारक इत्यर्थः ॥ १ ॥