स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत ..
[ मोक्षेsपि भगवान् सर्वाश्रयः ]
उपनिषत्
स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न हास्योद्ग्रहणायैव स्याद्यतो यतस्त्वाददीत लवणमेवैवं वा ओ इदं महद्भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य सञ्ज्ञास्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः ॥ १२ ॥
भाष्यम्
एवमेव सैन्धवखिल्यस्य विलीनस्य समस्ताम्भसश्च वरुणोऽपां खातो वा समुद्राख्य आश्रयः। वरुणवदपां खातवद्वाऽनन्तोऽपारो भगवान् जीव एव विज्ञानघनाख्यो भूतसम्बन्धाज्जातः संस्तल्लयमनु भगवन्तमाप्नोति । समुद्रे प्रास्तसैन्धवखिल्यवत्। समुद्रजलस्थानीया मुक्ता: बहव एकस्वभावाः । बहवो हि जलपरमाणवः । सामुद्रजलमेकाश्रयम्।
भावबोधटिप्पणी
ननु एवं वा अरे इदं महद्भूतमनन्तमपारमिति दान्तिकवाक्योक्तस्य दृष्टान्तो नोपलभ्यते । नच स यथा सैन्धवखिल्य इत्युक्तसैन्धवखिल्यस्यैव तत्र दृष्टान्तत्वमिति वाच्यम् । तस्यानन्तापारत्वाद्यभावात् । अनुक्तेश्च । विज्ञानघन एवैतेभ्य इति तदुपमेयस्य वक्ष्यमाणत्वाच्च । नापि उदक इत्युक्तं जलमेव । तस्य वरुणाद्याश्रितत्ववत् परमात्मनोऽपि अन्याश्रितत्त्वप्रसङ्गादित्यतो वरुणा- पांखातयोरेव तत्र दृष्टान्तत्वं वक्तुमुक्तमर्थमतिदिशति - एवमेवेति । अनेन लवणमेवेत्यनन्तरं सैन्धवखिल्यस्य विलीनस्य सर्वासामपां समुद्र एकायनमिति वाक्यमध्याहर्तव्यमित्युक्तं भवति । इदानीमनन्तमपारं इत्युक्तः क इति शङ्कां वारयन् एवं वा इति वाक्यं व्याचष्टे वरुणवदिति । एवमित्यस्याभिप्रायो वरुणवदित्यादि । स यथा सैन्धवखिल्य इत्युक्तसैन्धवखिल्यदृष्टान्तस्य दान्तिकप्रतिपादकतया विज्ञानघन एवैतेभ्य इति वाक्यं व्याचष्टे जीव एवेति ।। तल्लयमनु भूतसम्बन्धलयानन्तरमित्यर्थः ।। भगवन्तमाप्नोतीति ।। अनेन विज्ञानघनो जीव एवैतेभ्यः भूतेभ्यः समुत्थाय तान्येवानुविनश्यति तत इदं महद्भूतमनन्तमपारं भगवन्तं प्राप्नोतीति सम्बन्धः सूचितो भवति ।समुद्रे समुद्रोदके । प्रास्तः सैन्धवखिल्यः यथा समुद्रं प्राप्नोतीत्यर्थः । ननु यदि एवं वा अरे इदं महद्भूतमित्युक्तभगवतो वरुणोऽपां खातो वा दृष्टान्तत्वेनाभिप्रेतस्तर्हि वरुणाश्रितोदकस्थानीयं भगवदाश्रितं किमित्यत आह- समुद्रेति ॥ मुक्ताः पूर्वमुक्ताः । यतो यतस्त्वाददीत लवणमेवेति समुद्र- जलस्यैकस्वभावत्वोक्त्यनुरोधादुक्तम् - एकस्वभावा इति || मुक्तस्यैकत्वेनैक- स्वभावत्वशङ्काभावादेकस्वभावत्वोक्तिर्व्यर्था स्यादित्यत उक्तम् ।। बहव इति || ननु तर्हि बहूनां मुक्तानां एकसमुद्रजलस्थानीयत्वं कथमित्यत आह— बहब इति ॥ ननु बहुत्वे सामुद्रं जलमित्येकवचनप्रयोगः कथमित्यत आह- सामुद्रमिति ॥ सामुद्रं जलमिति व्यवहारः एकाश्रयत्वनिमित्त इत्यर्थः । परमात्मरूपैकाश्रया मुक्ताः कथं समुद्रजलस्थानीया इत्यतो वाऽह - सामुद्रमिति । एको वरुणः अपां खातो वाऽश्रयो यस्य तत्तथोक्तम् ॥