आत्मैवेदमग्र आसीत् पुरुषविधः ..
[ चतुर्मुखब्रह्मणि अहम् इत्यादिनामनिर्वचनम्, सृष्टिवर्णनं च]
उपनिषत्
अथ प्रजापतिब्राह्मणम्
आत्मैवेदमग्र आसीत् पुरुषविधः सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत् सोऽहमस्मीत्यग्रे व्याहरत् ततोऽहं नामाऽभवत् तस्मादप्येतर्ह्यामंत्रितोऽहमयमित्येवाग्र उक्त्वाऽथान्यन्नाम प्रब्रूते यदस्य भवति स यत्पूर्वोऽस्मात् सर्वस्मात् सर्वान् पाप्मन औषत् तस्मात् पुरुष ओषति ह वै स तं योऽस्मात् पूर्वो बुभूषति य एवं वेद ॥ १ ॥
भाष्यम्
इदमग्रे एतस्याग्रे परमात्मैवाऽसीत् ।
ततः पुरुषविधो ब्रह्माऽऽसीत् ।
पुरुषो विष्णुस्तद्विधत्वात्पुरुषविधः ।
एतस्य जगतो ह्यग्र आसीन्नारायणः परः ।
एक एव श्रिया सार्धं तमात्मा पुरुषेत्यपि ॥
आहुस्तस्मात्पुरुषबिधो ब्रह्मा समभवद् विभोः
ब्रह्मादेश्च श्रियश्चैव नित्यं विष्णुर्गुणात्मकः ॥
यथा तथैव रुद्रादेर्ब्रह्मा यस्माद् गुणाधिकः ।
एतस्मात्पुरुषविधता ब्रह्मणः सम्प्रकीर्तिता ॥
स तु सर्वा दिशो दृष्ट्वा नान्यद् दृष्ट्वा पितामहः ।
भावबोधटिप्पणी
अथ भाष्यार्थः
'स तया वाचा तेनाऽत्मनेदं सर्वमसृजत' इत्युक्तसृष्टिप्रकारं दर्शयति-- आत्मै- वेत्यादिना ।। तद्वाक्यं परैरिदं दृश्यमानं शरीरभेदजातम् अग्रे शरीरान्तरोत्पत्तेः प्राग् आत्मैव प्रजापतिरेवासीदिति व्याख्यातम् । तदसत् । शरीरान्तरोत्पत्तेरि- त्यध्याहारप्रसङ्गात् | शरीरभेदजातस्य तस्य जडस्य प्रजापतिमात्रत्वायोगाच्चेति भावेन तद्वाक्यं व्याचष्टे—- इदमिति । एतस्येति वदता षष्ठ्यर्थे द्वितीयेत्युक्तं भवति । पुरुषविध इत्येदात्मनो विशेषणम् इति परेषां व्याख्यानमप्रामाणिकमिति भावेन तद्व्याचष्टे - तत इति । अनेनाऽसीदित्यस्योत्तरत्रापि सम्बन्धः। तत इत्यध्याहार इत्युक्तं भवति । पुरुषविधः पुरुषाकारशिरःपाण्यादिलक्षण इत्यन्यथाप्रतीतिनिरासायाऽह - पुरुष इति । अप्रामाणिकत्वात्प्रमाणविरुद्धत्वाच्च न परकीयं व्याख्यानं युक्तमिति भावेन ब्राह्मणं प्रमाणेन व्याचष्टे - एतस्येति ॥ आत्मैवेत्येवकाराभिप्रायमाह - एक एवेति । तर्हि श्रिया सार्धमित्युक्तिः कथमित्यत उक्तम्– पर इति ।। सर्वोत्तम इत्यर्थः । ननु श्रुतावात्मेति श्रवणान्नारायण इत्युक्तिः कथमित्यत आह- तमिति ॥ पुरुषेत्यपीति पुरुषविधशब्दगतपुरुषशब्दार्थकथनम् । तस्मात्प्रभोरिति सम्बन्धः । ननु पुरुष- सादृश्यस्य सर्वसाधारण्याद् विशिष्य किमुच्यते पुरुषविधो ब्रह्मेतीत्यत आह- ब्रह्मादेरिति।। एतस्मादेवेति सम्बन्धः । यथा विष्णुश्चेतनवर्गे उत्तमस्तथाऽधिकारिवर्गे ब्रह्मोत्तम इत्यनेन प्रकारेण सर्वोत्तमतैव ब्रह्मणः पुरुषविधतेति भावः । 'सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत्’इत्येतद् व्याचष्टे - स इति ।। दिग्दर्शनस्या- न्यादर्शनपूर्वकालीनत्ववद् अन्यादर्शनस्यापि व्याहरणपूर्वकालीनत्वात् नान्यद् दृष्ट्वेत्युक्तम् ॥