स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्च्छब्दाञ्च्छक्नुयाद् ..
[उदाहरणत्रयनिरूपणपूर्वकं भगवतः सृष्टिकर्तृत्वनिरूपणम् ]
उपनिषत्
स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्च्छब्दाञ्च्छक्नुयाद् ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ७ ॥
स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्च्छब्दाञ्च्छक्नुयाद् ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ८ ॥
स यथा वीणायै वाद्यमानायै न बाह्याञ्च्छब्दाञ्च्छक्नुयाद् ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ ९ ॥
भाष्यम्
दुन्दुभ्याघातादिदृष्टान्तोऽपि तदधीनत्वं तत्कारणत्वं च ज्ञापयति । नहि दुन्दुभ्यादिरेव तच्छब्दः । नच तदुपादानम् । स्थानान्तरे तदुपलम्भात् । नह्युपादानादुपादेयं स्थानान्तरे भवति । शब्दो हि स्थानान्तरे गत्वा प्रतिश्रुतित्वमुपैति । भगवदिच्छाया दृष्टान्तो दुन्दुभ्याघातादिः । नहि दुन्दुभिं पश्यन् पुरुषो दुन्दुभ्याघाते मुरजशब्दोऽयमिति गृह्णाति । एवं भगवन्तं जानन्नान्याधीनं जगदिति गृह्णाति । किन्तु भगवदिच्छाधीन- मित्येव ।
भावबोधटिप्पणी
ननु 'इदं ब्रह्म' इत्यादि 'यदयमात्मा' इत्यन्तं वाक्यं यदि जगतो ब्रह्मानतिरिक्त- त्वोपसंहारपरं न स्यात्तर्हि दुन्दुभ्याघातादिदृष्टान्तकथनमसङ्गतं स्यात् । कथमुप-संहारवाक्योक्तमवगन्तुं शक्यत इत्याशङ्कायां स्फुरणात्मस्वरूपव्यतिरेकेण किञ्चिदपि ग्रहीतं न शक्यत इति तु प्रसिद्धम् । यद्व्यतिरेकेण यस्याग्रहणं तस्य तदात्मकत्वमेवेति व्याप्तौ दृष्टान्तत्रयाभिधानादित्यत आह- दुन्दुभ्याघातादीति । स्यादेतत् यद्यत्रोक्तव्याप्तौ दृष्टान्तकथनं स्यात् । नचैवं किन्नाम प्राधान्यसाधकं जगतो ब्रह्माधीनत्वं ब्रह्मणश्च जगत्कारणत्वं ज्ञापयितुं दृष्टान्तत्रयाभिधानादित्यर्थः । ननूक्तव्याप्तावेव दृष्टान्ताभिधानं किन्न स्यादिति चेन्न । तथात्वे दुन्दुभ्यादिव्यतिरेकेण गृह्यमाणस्य दुन्दुभ्यादिजन्यशब्दस्य दुन्दुभ्यात्मकत्वापत्तेः । नच तदस्तीत्याह- नहीति । ननु दुन्दुभ्यादिजन्यत्वात्तच्छब्दस्य तयोरभेदो भविष्यतीति चेत् दुन्दुभ्यादेः तच्छब्दं प्रति निमित्तकारणत्वं आहोस्विदुपादानकारणत्वम् । नाद्यः । निमित्तकारणस्य कार्येणाभेदाभावात् । द्वितीयं दूषयति- नचेति । कुत इत्यत आह- स्थानान्तर इति ॥ स्थानान्तरे शब्दस्योपलम्भेऽपि दुन्दुभ्याघातादिशब्दोपादानं किन्न स्यादित्यत आह- नहीति ।। मृदादिपरित्यागेन घटादेः स्थानान्तरे अदर्शनादिति भावः । ननु भेर्यादिप्रदेशोत्पन्नः शब्दः स्थानान्तरे उपलभ्यत इत्यसिद्धम् । शब्दश्रवसोः सन्निकर्षाभावात् । सहि न तावच्छ्रोत्रस्य गमनेन सम्भवति । तस्यामूर्तस्य गत्यभावात् । नापि शब्दस्या- गमनेन । सहि न तावच्छङ्खादिकमाश्रयं परित्यज्यागन्तुमलम् । गुणत्वात् । नापि शङ्खाद्यागमनेन श्रोत्रप्रत्यासत्तिः । तदनुपलम्भादित्यत आह- शब्दो हीति ।। स्थानान्तरं स्थानान्तरे गत्वा उत्पद्य श्रुतिं श्रुतिं प्रति प्रतिश्रुति तस्य भावः प्रतिश्रुतित्वं श्रोत्रविषयत्वम् । भेर्यादिप्रदेशोत्पन्नः शब्दः देशान्तरे शब्दान्तरमुत्पादयति स च शब्दान्तरमिति श्रोत्रप्रदेशोत्पन्नः शब्दः श्रोत्रविषयो भवतीति यावत् । यद्वा, दुन्दुभ्यादिप्रदेशोत्पन्न एव शब्दो देशान्तरं कर्णशष्कुल्यवच्छिन्नप्रदेशं गत्वा श्रुतिविषयत्वमुपैति । नच गुणत्वात्तदनुपपत्तिः । गन्धादिवदुपपत्तेरित्यङ्गीकारवादेनेदं व्याख्येयम् । ननु यदि भगवत एव जगत्कारणत्वे अयं दृष्टान्तस्तर्हि यथा दुन्दुभेरिति दुन्दुभेस्तु ग्रहणेनेत्यातावता पूर्तेर्हन्यमानस्याघातस्य वेति किमर्थमुक्तं इत्यत आह- भगवदिच्छाया इति ।।
भगवतो जगत्कारणत्वे दुन्दुभ्यादिदृष्टान्तः । तदिच्छायाः तत्कारणत्वे तदाधाता- दिदृष्टान्त इत्यर्थः । उक्तार्थे कथमयं दृष्टान्त इत्यतो दुन्दुभेर्हन्यमानस्य बाह्यान् शब्दान् शक्नुयात् ग्रहणायेति वाक्यं व्याचष्टे – नहीति || दुन्दुभिं पश्यन्नपि मुरजशब्दोऽयमिति गृह्णात्येव कदाचिदित्यत उक्तम् — दुन्दुभ्याघात इति ।। दृश्यमान इति शेषः । अयं गृह्यमाणः शब्दः । बाह्यानित्यस्यार्थो मुरजशब्द इति । मुरजजन्यः तदधीनश्चेत्यर्थः । किन्तु दुन्दुभ्यादिजन्यः तदधीनश्चेति गृह्णातीति शेषः । एवं दृष्टान्तवाक्यं व्याख्याय दाष्टन्तिकं स्वयमाह्– एवमिति ।। भगवदिच्छां चेति शेषः । अन्याधीनं अन्यजन्यं चेत्यपि ग्राह्यम् । भगवदिच्छाधीनं तज्जन्यं चेत्यपि ग्राह्यम् ॥