मुक्तानां चायं विशेष:
[ मुक्ततारतम्यविषये प्रमाणानि ]
भाष्यम्
मुक्तानां चायं विशेष: । 'श्रोत्रियस्य चाकामहतस्य' इति विशेषणात् । नहि ब्रह्मादीनामनधिगतः श्रुत्यर्थः केषाञ्चिदस्ति । नच ब्रह्माण एव केचन कामहताः केचनाकामहताः इत्यत्र प्रमाणमस्ति । तस्माच्छ्रोत्रिय इति प्राप्तश्रुतिफलत्वान्मुक्त उच्यते । अकामहतत्वं च मुख्यं मुक्तस्यैव ।
प्राप्तश्रुतिफलत्वात्तु श्रोत्रियाः प्राप्तमोक्षिणः ।
त एव चाऽप्तकामत्वात्तथाकामहताः श्रुताः ॥ इति च भारते ॥
ब्रह्मणोsपि ह्यमुक्तस्य नाकामहतता परा ।
यतस्तस्यापि कामस्य क्षणव्यवहितिर्भवेत् ॥ इति च ॥
कामहतता कामेनोपद्रवः ।
भावबोधटिप्पणी
नन्वस्याः सांसारिकजीवतारतम्यप्रतिपादिकाया मुक्तौ भेदे कथं प्रमाणतयो- दाहरणमित्यत आह- मुक्तानां चेति ॥ न केवलं संसारिणामिति चशब्दः । कुत इत्यत आह- श्रोत्रियस्येति । अत्र केचिद् वदन्ति न श्रोत्रियत्वादि- विशेषणबलादयं विशेषो मुक्तानाम् इति वक्तुं शक्यम् । श्रोत्रियस्येत्यस्य पुरुषान्तरविषयत्वेन मुक्तविषयत्वाभावात् । तथाहि । मनुष्येभ्यो मनुष्यगन्धर्वाणां शतगुणस्तावदानन्दः । यश्चापरः श्रोत्रियो कामहतः मनुष्यगन्धर्वपदे कामरहितश्च तस्यापि मनुष्येभ्यः शतगुणो मनुष्यगन्धर्वसमान एवाऽनन्दो भवतीत्येवं तेषु तेषु पदेषु कामहतस्य तत्तत्समानानन्दत्वमत्रोच्यते । नच वाच्यं विरक्तानां सर्वत्र कामाभावात् कथमियं तारतम्योक्तिरिति । तदतिरिक्तपदेषु कामसद्भावस्य विवक्षितत्वात् । यो यो यावदायासान्मुक्तोऽसावसौ तावदानन्दवानित्यर्थो ह्य प्रतिपाद्यत इति । तदसत् । श्रोत्रियत्वादिगुणविशिष्टास्ते किं ब्रह्मादिविजातीयास्ततस्ततो हीनाः उत ब्रह्मादिसमास्तत्तन्नामान एवेति विकल्पं निधायाद्यपक्षं दूषयति- नहीति ।। हिशब्दो तौ । उपलक्षणं चैतत् । अविद्यमानमकामहतत्वं चेति ग्राह्यम् । केषाञ्चिदधिगत इति शेषः । श्रोत्रियत्वं हि अधिगतश्रुत्यर्थत्वम् । तच्चेदपरस्य विशेषणं तर्हि प्रकृतब्रह्मादीनां तन्नास्तीत्यर्थादुक्तं स्यात्। अन्यथा तद्वयावर्तकत्वासिद्धेः । तच्च बाधितमिति भावः । द्वितीयं दूषयति- नचेति || अकामहताः श्रोत्रिया इत्यपि ग्राह्यम् । पूर्वोक्त एवाभिप्रायः । किमतो यद्येवमित्यत आह- तस्मादिति || अन्ये तु न श्रोत्रियस्य चाकामहतस्येति मुक्तसङ्ग्रहार्थम् । किन्नाम ? प्रकृतब्रह्मादिविषयमेव ।नच तत्रासम्भवः । ‘श्रोत्रियंश्छन्दोऽधीते' इति स्मरणात् श्रोत्रियशब्दस्य च्छन्दोऽधिगतिनिमित्तत्वात् । ब्रह्मादीनां च सर्वज्ञकल्पत्वात् । विषयवैराग्योपेत- त्वेनाकामहताश्च भवन्तीति व्याचक्षते । तन्निरासाय प्राप्तश्रुतिफलत्वादिति मुख्यमिति चोक्तम्। श्रोत्रियाकामहतशब्दावुक्तार्थावेव किं न स्यातामित्यत आह प्राप्तेति ।। तुशब्द एवार्थः । प्राप्तमोक्षिण इति कर्मधारयात् प्रशंसायामिनिः । चशब्द एवार्थः । आप्तकामत्वादेवेति सम्बन्धः । तथाशब्दः समुच्चये । संसारिषु मुख्यमकामहतत्वं नास्तीत्यत्र प्रमाणं पठति - ब्रह्मणोऽपीति ॥ परा मुख्या । अपिशब्देनान्येषां नास्तीति किमु वक्तव्यमित्याह । ननु केयं कामहतता यदभावो मुक्तेष्वेव मुख्यो न ब्रह्मणोऽपीत्यत आह- कामेति ।। उपद्रवो दुःखम् ||