वाचं धेनुमुपासीत तस्याश्चत्वारः स्तनाः..

बृहदारण्यकोपनिषद्भाष्यम्

दशमं ब्राह्मणम्

वाचं धेनुमुपासीत तस्याश्चत्वारः स्तनाः स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारस्तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च हन्तकारं मनुष्याः स्वधाकारं पितरस्तस्याः प्राण ऋषभो मनो वत्सः ॥

॥ इति बृहदारण्यकोपनिषदि सप्तमाध्याये दशमं ब्राह्मणम् ॥

॥ इति बृहद्भाष्ये सप्तमाध्याये दशमं ब्राह्मणम् ॥ ८ ॥

सरस्वती तु गोरूपा तस्या देवादयोऽखिलाः । स्तनानेवोपजीवन्ति तस्या वायुः पतिः प्रभुः ॥ वत्सो मनोऽभिमान्यस्याः सरस्वत्याः सदाशिवः ॥ इति प्रभंजने ।