जीवाभेदं तथाऽभेदं जगता ये विदुः प्रभोः
[जीवब्रह्मणोः एैक्यचिन्तनम् अनर्थसाधनम् ]
भाष्यम्
जीवाभेदं तथाऽभेदं जगता ये विदुः प्रभोः ।
तेsपि यान्ति तमो घोरमधरं ब्रह्मतस्कराः ।।
भेदाभेदं विदुर्ये च जीवैस्तु जगताऽपि वा ।
परस्य ब्रह्मणो यान्ति तमस्तेऽप्युत्तरं सदा ||
अभेदज्ञाः प्रकृत्याऽपि भेदाभेदविदस्तथा ।
तेsपि यान्ति तमो घोरमधरं चोत्तरं क्रमात् ॥
तस्मात् सर्वोत्तमं विष्णुं पूर्णसर्वगुणोच्छ्रितम् ।
विजानीयाद् विमुक्त्त्यर्थं सर्वतश्च विलक्षणम् ॥
अन्धन्तमः प्रविशन्ति ये देहं परमात्मनः ।
भिन्नं विजानते विष्णोर्भिन्नाभिन्नविदोऽपि वा ॥
अन्धन्तमः प्रविशन्ति प्रादुर्भावांस्तु येऽपि वा ।
सर्वभूतस्थितान् वाऽपि भिन्नान् जानन्ति येऽखिलान् ॥
भिन्नाभिन्नविदो वाऽपि शिरः पाण्यादिकं तथा ।
भिन्नं मिथो विजानीयुर्भिन्नाभिन्नविदोऽपि वा ॥
तेsपि यान्ति तमो घोरं यतो नैवोत्थितिः क्वचित् ।
प्रादुर्भावतया ये च तदन्यान् जानते विभोः ॥
तेsपि यान्ति तमो घोरं तस्मान्नैवंविदो विदुः ।
मत्स्यकूर्मक्रोडसिंहवटुभार्गवराघवाः ॥
कृष्णबुद्धौ कल्किदत्तहयशीर्षेतरेयकाः ।
पाराशर्यश्च कपिलो वैकुण्ठो वृषभस्तथा ॥
यज्ञो धन्वन्तरिश्चैव स्त्रीरूपस्तापसो मनुः ।
नारायणो हरिः कृष्ण उपेन्द्रः सर्व एव च ॥
एवमाद्या हरे: साक्षात् प्रादुर्भावाः प्रकीर्तिताः ।
भावबोधटिप्पणी
प्रकृतमाह- जीवाभेदमिति ॥ जगता जडजगता । प्रकृत्या लक्ष्म्या । ततः किमित्यत आह- तस्मादिति ॥ चिदानन्दात्मकस्यापि देहस्य तस्माद्भेदादिज्ञानेऽनर्थमाह- अन्धन्तम इति || प्रादुर्भावान् मत्स्यादीन् सर्वभूतस्थितान् अन्तर्यामिरूपविशेषान् भिन्नाभिन्नविदोऽपि चान्धन्तमः प्रविशन्तीति पूर्वेणान्वयः । तदन्यान् पृथ्वादीन् । तर्हि के प्रादुर्भावाः येषां ज्ञानेनान्येषां प्रादुर्भावत्वाभावज्ञानं सुकरमिति जिज्ञासायामाह - मत्स्येति || धन्वन्तरिश्चैवेति एवशब्द उत्तरेणान्वितः । तापसो मनुः तापसाख्यो मनुः । चशब्दोऽपिशब्दार्थः । एवमाद्या एव हरेः साक्षादेव प्रादुर्भावा इति सम्बन्धः ॥