नच निर्गुणस्य सत्वमेवास्ति

[ ब्रह्म न निर्गुणम् ]

भाष्यम्

नच निर्गुणस्य सत्वमेवास्ति । गुणभेदादीनामपि सन्त्येव गुणाः । नचानवस्था स्वनिर्वाहकत्वात् ।

अवाच्यममनोगम्यमगुणं चेत्कुतोऽस्ति तत् ।

तस्मादेवं वदन् वस्तुशून्यतामर्थतो वदेत् ॥

गुणाश्च गुणिनः सर्वे स्वेनैव गुणिनो गुणाः ॥ इत्यादि च ॥

भावबोधटिप्पणी

ननु ब्रह्म तावन्निर्गुणं केवलो निर्गुणश्चेति श्रुतेः । नच तत्र शब्दानां वचनवृत्तिः सम्भवति प्रवृत्तिनिमित्ताभावात् । नच सर्वथा शब्दाप्रतिपाद्यं ब्रह्म सत्यज्ञानादिवाक्यानां निर्विषयत्वापातात् समन्वयसूत्रानुपपत्तेश्च । अतः केनापि शब्देन अवाच्यस्यापि लक्षणाङ्गीकार्येत्यत आह- नचेति ॥ स्यादेतदेवं यदि ब्रह्म निर्गुणमेव भवेत् । नच तदस्ति । तथा सति ब्रह्मणः सत्वस्यैवाभावप्रसङ्गात् । नच निर्गुणस्य वस्तुनः सत्वं लोके दृष्टं येन तथा सम्भावयामः । निर्गुणश्चेति श्रुतिः सत्वादिगुणाभावपरा । अन्यथा एको देव इत्यादिनोक्तानामपि गुणत्वाद् व्याघातः । अतो ब्रह्मणः सत्वसिद्ध्यर्थं सगुणत्वमेवाङ्गीकर्तव्यमिति तस्य वाच्यत्वाङ्गीकारे न काप्यनुपपत्तिरिति भावः ननु गुणादिपञ्चकस्य निर्गुणत्वं पदार्थविदो मन्यन्ते तथाच तद्वद् ब्रह्मणोऽपि सत्त्वं किं न स्यादिति चेन्न वैषम्यात् । निर्धर्मकस्य वस्तुनः सत्वमेव नास्तीत्यत्र विवक्षितं नहि गुणादीनां निर्धर्मकत्वं केऽप्यभ्युपयन्ति गुणत्वादीनामेव धर्माणां तत्र स्वीकारात् । किञ्च सत्यत्वमभ्युपगम्यते वैशेषिकादिभिर्गुणादिपञ्चकस्य निर्गुणत्वं तद् वस्तुतो न सम्भवति कुत इत्यत आह- गुणभेदादीनामिति ।। गुणभेदो गुणविशेषः । आदिपदेन कर्मभेदादिग्रहणम् । यद्वा गुणश्च भेदोऽन्योन्याभावश्चेति गुणभेदौ तावादी येषां कर्मादीनां गुणभेदादयः तेषां गुणभेदादीनामिति विग्रहः । अयमाशयः । गुणभेदादीनां निर्गुणत्वं कस्मादङ्गीकर्तव्यम् । न तावत्प्रतीत्यभावात् । चतुर्विंशतिर्गुणाः रूपं रसात्पृथक् कर्म पञ्चविधं सामान्यं त्रिविधं एकः समवायः घटान्योन्याभाव एक इत्यादिप्रतीतेर्दुरपह्नवत्त्वात् । नचेयं भ्रान्तिः बाधकाभावात् । किञ्च यद्यपि गुणे संयोगादिव्यवहारं द्रव्ययोरेव संयोग इति दुर्दर्शनाभ्यासवान् जनो न करोति । तथापि घटपटयोः संयुक्तयोस्तद्गतरूपे अपि संयुक्ते इति लोकः करोत्येव । किञ्च रूपेण युक्तो घट इति सर्वेऽपि व्यवहरन्ति । तथापि संयुक्त इति न व्यवहरन्तीति चेत् ध्वंसप्रध्वंसशब्दयोरिवानयोरर्थभेदास्फुरणात् । द्रव्याणां कर्मसंयोगेत्यादौ जैमिन्यादिभिः परीक्षकैरद्रव्यसम्बन्धेऽपि संयोग- व्यवहाराच्च। ननु गुणादिपञ्चकस्य अद्रव्यत्वात्कथं तत्र गुणादिसद्भाव इति चेत्कथमेतन्निश्चितं भवता । द्रव्यस्यैव गुणवत्त्वमिति प्रतीतेरुभयत्राविशिष्टत्वात् । ननु चतुर्विंशतिर्गुणा इत्यादिव्यवहार एव न प्रतीतिः । सचोपचार एवेति चेन्न । बाधकाभावात् । अन्यथा द्रव्येऽपि तथात्वापत्त्या सङ्ख्यादि- गुणासिद्धिप्रसङ्गः । ननु प्रतीत्यनुरोधेन तावदेकत्र सङ्ख्यादिकमङ्गीकर्तव्यं तत्र द्रव्येष्वेव तदङ्गीकारेण सर्वस्योपपत्तावन्यत्र न तदङ्गीकार आवश्यकः । अतोऽन्यत्र सङ्ख्यादिव्यवहार उपचार एवेति चेन्न । उपचारनिमित्ताभावेन तदयोगे तत्रापि तद्व्यवहारस्य मुख्यत्वावश्यम्भावात् । तथाहि न तावदेकार्थसमवायो निमित्तं, द्रव्ये चतुर्विंशतित्वनियमाबादात् प्रत्येकं रूपादिषु तत्प्रसङ्गाच्च । अपर्यायचतुर्विंशतिशब्दवाच्यत्वमिति चेन्न । शब्देऽपि चतुर्विंशतित्वाभावात् । चतुर्विंशतिपुरुषोच्चारितापर्यायशब्दवाच्यत्वमिति चेत् रूपरसादिशब्दोच्चारयितृ- पुरुषाणां चतुर्विंशतित्वे मानाभावात् । बधिरादीनां रूपादिषु सङ्ख्या- व्यवहाराभावप्रसङ्गाञ्च । ननु रूपं रसात्पृथगिति प्रतीतिराश्रयगतं पृथक्त्वमपेक्ष्यैवेति चेन्न । समानाधिकरणरूपरसयोस्तथा प्रतीतेरनुभवसिद्धत्वात्। सा प्रतीतिः रूपे रसान्योन्याभावमवगाहत इति चेन्न । तथा सति घटः पटात्पृथगिति प्रतीतेरप्यन्योन्याभावविषयकत्वोपपत्तौ पृथक्त्वविलोपापातादिति । ननु तथापि गुणादिपञ्चकस्य गुणवत्त्वमङ्गीकर्तुं शक्यम् । एकत्वमेकं पृथक्त्वं पृथक् भेदो भिन्न इत्यादिप्रतीत्यैकत्वादिष्वप्येकत्वाद्यङ्गीकारापातात् । अन्यथा रूपादिष्वपि तदभावापातात् । तथाच तत्राप्येकत्वादावेकत्वाद्यन्तरमङ्गी- कर्तव्यमित्यनवस्थापातादित्यत आह- नचेति ॥ कुतो नेत्यत आह- स्वनिर्वाहकत्वादिति ॥ स्यादेवमनवस्था यद्येकत्वादौ विद्यमानमेकत्वादिकं ततो भिन्नं स्यात् नचैवं स्वस्यैव स्वैकत्वादिव्यवहारनिर्वाहकत्वाभ्युपगमात् अन्यथा प्रमेयत्वे प्रमेयत्वान्तरस्याप्यङ्गीकारापातेनानवस्थापातादित्यर्थः । उक्तमर्थं प्रमाणेन द्रढयतिअवाच्यमिति । यतो ब्रह्म गुणं ततोऽवाच्य- ममनोगम्यमिति यद्यङ्गीक्रियते तदा वक्तव्यं तदगुणं चेत्कुतोऽस्तीति । अगुणत्वेन तस्य सत्त्वमेव न स्यादिति यावत् । फलितमाह - तस्मादिति || ब्रह्मरूपं च वस्तु अगुणमिति वदन्नित्यर्थः । शून्यतां ब्रह्मण इति शेषः । यद्वा वस्तुशून्यतामित्येकं पदम् । अनवस्थापरिहाराय गुणाः स्वेनैव गुणिन इत्युक्तम् ॥ २१ ॥