अथ हैनं विदग्धः शाकल्यः पप्रच्छ ..

अथ शाकल्यब्राह्मणम् [त्रयस्त्रिंशदेवताः]

उपनिषत्

अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति त्रयस्त्रिंशदित्योमिति होवाच कत्येव देवा याज्ञवल्क्येति षडित्योमिति होवाच कत्येव देवा याज्ञवल्क्येति त्रय इत्योमिति होवाच कत्येव देवा याज्ञवल्क्येति द्वावित्योमिति होवाच कत्येव देवा याज्ञवल्क्येत्यध्यर्ध इत्योमिति होवाच कत्येव देवा याज्ञवल्येत्येक इत्योमिति होवाच कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ॥ १ ॥

स होवाच महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति कतमे ते त्रयस्त्रिंशदित्यष्टौ वसव एकादश रुद्रा द्वादशादित्यास्त एकत्रिंशदिंद्रश्चैव प्रजापतिश्च त्रयस्त्रिंशा इति ॥ २ ॥

भाष्यम्

ये ये वराः सुरास्ते तु परेषां महिमात्मकाः ।

महीत्युक्तं हि माहात्म्यं महिमानो हि तन्मिताः ॥

एवं हि महिमाशब्दस्तद्वशत्वं वदत्ययम् ।

यत्र माहात्म्यवाची स्यान्महत्त्वं महिमा तथा ॥

त्रयस्त्रिंशत्सुराणां हि परिवारास्ततः परे ।

षण्णामेते त्रयाणां ते ते द्वयोः साधिकस्य तौ ॥

एकस्य सोsपि क्रमत: पराधीनस्वरूपिणः ।

पराधीनबलाश्चैव पराधीनप्रवृत्तयः ॥

एक एव स्वतन्त्रोऽसौ भगवान् पुरुषोत्तमः ॥

भावबोधटिप्पणी

ननु महिमान एवैषामेत इत्यत्र एते त्रयस्त्रिंशत्सङ्ख्याका देवा एषां त्रयश्च त्रीशतेत्याद्युक्तानां महिमान एवेत्यन्यथाप्रतीतिनिरासाय एषामेत इत्यनयोः परामृश्यं दर्शयंस्तद्वाक्यं व्याचष्टे - ये य इति । अत्र वीप्साया न केवलं त्रयश्च त्री च शतेत्युक्ताः त्रयस्त्रिंशच्छतसङ्ख्याका देवाः त्रयस्त्रिंशतां देवानां महिमानः, किन्तु ते त्रयश्च त्री च सहस्रेत्युक्ताः त्रयस्त्रिंशत्सहस्रसङ्ख्याका देवाः । एषां त्रयश्च त्री च शतेत्युक्तानां देवानां महिमान इति वाक्य- योजनामभिप्रैति । परेषामुत्तमानाम् । नन्ववराणामुत्तममाहात्म्यरूपत्वाभावात्कथं ते तन्महिमात्मका इत्यतोऽत्र महिमान इत्यस्य विवक्षितमर्थमाह- महीत्युक्तमिति ।। आद्यो हिशब्दः महीत्यस्य माहात्म्यार्थत्वे । द्वितीयस्तु मेत्यस्य मर्यादारूपमानार्थत्वे प्रसिद्धिमाह । तन्मितास्तेन परिमिताः न्यूनाः । एवं महिमशब्दार्थमुक्त्वा एषां महिमान इति षष्ठीलब्धमर्थमाह - एवं हीति ॥ ननु सर्वाप महिमशब्दस्योक्तार्थत्वे 'सत्यः सो अस्य महिमा' 'देव महिम्नः परमन्तमाप' इत्यादावपि महिमशब्दस्योक्तार्थत्वं स्यादित्यत उक्तम् ।। अयमिति || महिमान इति श्रुतिगतः । स्तर्हि तत्र महिमशब्दार्थ इत्यत आह- यत्रेति ॥ यत्र 'सत्यः सो अस्य महिमा' इत्यादौ महिमशब्दः माहात्म्यवाची विवक्षितः स्यात् । तदा तत्र महिमा महिमशब्दार्थः महत्वमित्यर्थः । ननु कत्येव देवा याज्ञवल्क्येति प्रश्नस्य त्रयश्च त्री च शतेत्यादिना परिहारस्योक्तत्वात् कत्येव देवा याज्ञवल्क्येति पुनः प्रश्नतत्परिहाराणामसम्भवः । नच सङ्कोचसङ्ख्याविषयप्रश्ने तत्परिहारोऽयमिति वाच्यम् । व्यर्थत्वादित्यतः पूर्वपूर्वोक्तेषु अधिकाधिकविवक्षया पुनः प्रश्न इति ज्ञापनाय परिहारवाक्यानां तात्पर्यमाहत्रयस्त्रिंशत्सुराणामिति । त्रयश्च त्रीच शतेत्युक्तानां मध्ये ततः त्रयस्त्रिंशद्देवेभ्यः परे देवाः त्रयस्त्रिंशत्सुराणां परिवाराः । षण्णामेते इत्यत्रापि त्रयस्त्रिंशत्सुराणां ततः पर इति पदत्रयमनुवर्तते । त्रयस्त्रिंशत्सुराणां मध्ये ततः षड्भ्यः परे एते सप्तविंशत्सङ्ख्याका देवाः । षण्णां परिवाराः त्रयाणां ते इत्यत्र षण्णां ततः परे इति पदत्रयमनुवर्तते । षण्णां मध्ये ततः त्रिभ्यः परे ते त्रयो देवाः त्रयाणां परिवाराः । ते द्वयोरित्यत्रापि षण्णां ततः पर इत्यनुवर्तते । षण्णां मध्ये ततः द्वाभ्यां परे ते चत्वारो देवाः द्वयोः परिवाराः साधिकस्य तावित्यत्र द्विवचनमविवक्षितम् । द्वयोः ततः पर इति अत्रानुवर्तते । द्वयोर्मध्ये ततः साधिकात् पर एकः साधिकस्य परिवारः । सोऽपि साधिकोऽपि एकस्य परिवार इति योज्यम् | अमात्यादीनां राजादिपरिवारत्ववत् नावरदेवानामुत्तमदेवपरिवारत्वमित्याशयेन प्रागुक्तं तद्वशत्वं विवृणोति - क्रमत इति ।। बलशब्दो ज्ञानाद्युपलक्षकः । एक इत्युक्तविष्णोरपि पराधीनस्वरूपत्वादिकं किं नेत्याह- एक एवेति ॥ २ ॥

Load More